मनुस्मृतिः/प्रथमोध्यायः
← अनुक्रमणिका | मनुस्मृतिः प्रथमोध्यायः मनुः |
द्वितीयोध्यायः → |
मनुस्मृतेः अध्यायाः |
---|
मनुं एकाग्रं आसीनं अभिगम्य महर्षयः । |
भगवन्सर्ववर्णानां यथावदनुपूर्वशः । |
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । |
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । |
आसीदिदं तमोभूतं अप्रज्ञातं अलक्षणम् । |
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । |
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । |
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । |
तदण्डं अभवद्धैमं सहस्रांशुसमप्रभम् । |
आपो नरा इति प्रोक्ता आपो वै नरसूनवः । |
यत्तत्कारणं अव्यक्तं नित्यं सदसदात्मकम् । |
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । |
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । |
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । |
महान्तं एव चात्मानं सर्वाणि त्रिगुणानि च । |
तेषां त्ववयवान्सूक्ष्मान्षण्णां अप्यमितौजसाम् । |
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । |
तदाविशन्ति भूतानि महान्ति सह कर्मभिः । |
तेषां इदं तु सप्तानां पुरुषाणां महौजसाम् । |
आद्याद्यस्य गुणं त्वेषां अवाप्नोति परः परः । |
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । |
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । |
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । |
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । |
तपो वाचं रतिं चैव कामं च क्रोधं एव च । |
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । |
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । |
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः । |
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । |
यथा र्तुलिङ्गान्यृतवः स्वयं एव र्तुपर्यये । |
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । |
द्विधा कृत्वात्मनो देहं अर्धेन पुरुषोऽभवत् । |
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । |
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । |
मरीचिं अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । |
एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । |
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । |
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । |
किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् । |
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । |
एवं एतैरिदं सर्वं मन्नियोगान्महात्मभिः । |
येषां तु यादृषं कर्म भूतानां इह कीर्तितम् । |
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । |
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । |
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । |
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । |
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । |
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । |
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । |
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । |
एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । |
यदा स देवो जागर्ति तदेवं चेष्टते जगत् । |
तस्मिन्स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । |
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि । |
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः । |
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । |
एवं स जाग्रत्स्वप्नाभ्यां इदं सर्वं चराचरम् । |
इदं शास्त्रं तु कृत्वासौ मां एव स्वयं आदितः । |
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः । |
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । |
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । |
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । |
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः । |
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला । |
अहोरात्रे विभजते सूर्यो मानुषदैविके । |
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । |
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । |
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । |
चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम् । |
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । |
यदेतत्परिसंख्यातं आदावेव चतुर्युगम् । |
दैविकानां युगानां तु सहस्रं परिसंख्यया । |
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यं अहर्विदुः । |
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । |
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । |
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । |
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । |
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । |
यद्प्राग्द्वादशसाहस्रं उदितं दैविकं युगम् । |
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । |
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । |
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः । |
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । |
वेदोक्तं आयुर्मर्त्यानां आशिषश्चैव कर्मणाम् । |
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । |
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते । |
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । |
अध्यापनं अध्ययनं यजनं याजनं तथा । |
प्रजानां रक्षणं दानं इज्याध्ययनं एव च । |
पशूनां रक्षणं दानं इज्याध्ययनं एव च । |
एकं एव तु शूद्रस्य प्रभुः कर्म समादिशत् । |
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । |
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् । |
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् । |
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । |
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । |
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । |
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । |
ब्राह्मणो जायमानो हि पृथिव्यां अधिजायते । |
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् । |
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । |
तस्य कर्मविवेकार्थं शेषाणां अनुपूर्वशः । |
विदुषा ब्राह्मणेनेदं अध्येतव्यं प्रयत्नतः । |
इदं शास्त्रं अधीयानो ब्राह्मणः शंसितव्रतः । |
पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान् । |
इदं स्वस्त्ययनं श्रेष्ठं इदं बुद्धिविवर्धनम् । |
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । |
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । |
आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते । |
एवं आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । |
जगतश्च समुत्पत्तिं संस्कारविधिं एव च । |
दाराधिगमनं चैव विवाहानां च लक्षणम् । |
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । |
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासं एव च । |
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि । |
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । |
संसारगमनं चैव त्रिविधं कर्मसंभवम् । |
देशधर्माञ् जातिधर्मान्कुलधर्मांश्च शाश्वतान् । |
यथेदं उक्तवाञ् शास्त्रं पुरा पृष्टो मनुर्मया । |