मनुस्मृतिः/षष्ठोध्यायः
← पञ्चमोध्यायः | मनुस्मृतिः षष्ठोध्यायः मनुः |
सप्तमोध्यायः → |
मनुस्मृतेः अध्यायाः |
---|
एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । |
गृहस्थस्तु यथा पश्येद्वलीपलितं आत्मनः । |
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । |
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । |
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । |
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । |
यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः । |
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । |
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । |
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । |
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयं आहृतैः । |
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः । |
स्थलजाउदकशाकानि पुष्पमूलफलानि च । |
वर्जयेन्मधु मांसं च भौमानि कवकानि च । |
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । |
न फालकृष्टं अश्नीयादुत्सृष्टं अपि केन चित् । |
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा । |
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा । |
नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । |
चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । |
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । |
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । |
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः । |
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् । |
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । |
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । |
तापसेष्वेव विप्रेषु यात्रिकं भैक्षं आहरेत् । |
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । |
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । |
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । |
अपराजितां वास्थाय व्रजेद्दिशं अजिह्मगः । |
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । |
वनेषु च विहृत्यैवं तृतीयं भागं आयुषः । |
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । |
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । |
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । |
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । |
प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । |
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । |
यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् । |
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । |
एक एव चरेन्नित्यं सिद्ध्यर्थं असहायवान् । |
अनग्निरनिकेतः स्याद्ग्रामं अन्नार्थं आश्रयेत् । |
कपालं वृक्षमूलानि कुचेलं असहायता । |
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । |
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । |
अतिवादांस्तितिक्षेत नावमन्येत कं चन । |
क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । |
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । |
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । |
न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । |
क्ल्प्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । |
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । |
अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । |
एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे । |
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । |
अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् । |
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । |
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । |
इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च । |
अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः । |
विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः । |
देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम् । |
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । |
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । |
दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः । |
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । |
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । |
अह्ना रात्र्या च याञ् जन्तून्हिनस्त्यज्ञानतो यतिः । |
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । |
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । |
प्राणायमैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । |
उच्चावचेषु भूतेषु दुर्ज्ञेयां अकृतात्मभिः । |
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते । |
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः । |
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । |
जराशोकसमाविष्टं रोगायतनं आतुरम् । |
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । |
प्रियेषु स्वेषु सुकृतं अप्रियेषु च दुष्कृतम् । |
यदा भावेन भवति सर्वभावेषु निःस्पृहः । |
अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ् शनैः शनैः । |
ध्यानिकं सर्वं एवैतद्यदेतदभिशब्दितम् । |
अधियज्ञं ब्रह्म जपेदाधिदैविकं एव च । |
इदं शरणं अज्ञानां इदं एव विजानताम् । |
अनेन क्रमयोगेन परिव्रजति यो द्विजः । |
एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । |
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । |
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । |
सर्वेषां अपि चैतेषां वेदस्मृतिविधानतः । |
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । |
चतुर्भिरपि चैवैतैर्नित्यं आश्रमिभिर्द्विजैः । |
धृतिः क्षमा दमोऽस्तेयं शौचं इन्द्रियनिग्रहः । |
दश लक्षणानि धर्मस्य ये विप्राः समधीयते । |
दशलक्षणकं धर्मं अनुतिष्ठन्समाहितः । |
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । |
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । |
एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । |