मनुस्मृतिः/सप्तमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← षष्ठोध्यायः मनुस्मृतिः
सप्तमोध्यायः
मनुः
अष्टमोध्यायः →
मनुस्मृतेः अध्यायाः
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्ठोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः
  9. नवमोध्यायः
  10. दशमोध्यायः
  11. एकादशोध्यायः
  12. द्वादशोध्यायः

राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
संभवश्च यथा तस्य सिद्धिश्च परमा यथा । । ७.१ । ।

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् । । ७.२ । ।

अराजके हि लोकेऽस्मिन्सर्वतो विद्रुतो भयात् ।
रक्षार्थं अस्य सर्वस्य राजानं असृजत्प्रभुः । । ७.३ । ।

इन्द्रानिलयमार्काणां अग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः । । ७.४ । ।

यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा । । ७.५ । ।

तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् । । ७.६ । ।

सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः । । ७.७ । ।

बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति । । ७.८ । ।

एकं एव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् । । ७.९ । ।

कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः । । ७.१० । ।

यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः । । ७.११ । ।

तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् ।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः । । ७.१२ । ।

तस्माद्धर्मं यं इष्टेषु स व्यवस्येन्नराधिपः ।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् । । ७.१३ । ।

तस्यार्थे सर्वभूतानां गोप्तारं धर्मं आत्मजम् ।
ब्रह्मतेजोमयं दण्डं असृजत्पूर्वं ईश्वरः । । ७.१४ । ।

तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च । । ७.१५ । ।

तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु । । ७.१६ । ।

स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णां आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः । । ७.१७ । ।

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः । । ७.१८ । ।

समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः । । ७.१९ । ।

यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः । । ७.२० । ।

अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा ।
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् । । ७.२१ । ।

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते । । ७.२२ । ।

देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः । । ७.२३ । ।

दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् । । ७.२४ । ।

यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति । । ७.२५ । ।

तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् । । ७.२६ । ।

तं राजा प्रणयन्सम्यक्त्रिवर्गेणाभिवर्धते ।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते । । ७.२७ । ।

दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपं एव सबान्धवम् । । ७.२८ । ।

ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् । । ७.२९ । ।

सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च । । ७.३० । ।

शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता । । ७.३१ । ।

स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । । ७.३२ । ।

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि । । ७.३३ । ।

अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि । । ७.३४ । ।

स्वे स्वे धर्मे निविष्टानां सर्वेषां अनुपूर्वशः ।
वर्णानां आश्रमाणां च राजा सृष्टोऽभिरक्षिता । । ७.३५ । ।

तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः । । ७.३६ । ।

ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः ।
त्रैविद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने । । ७.३७ । ।

वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते । । ७.३८ । ।

तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् । । ७.३९ । ।

बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे । । ७.४० । ।

वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।
सुदाः पैजवनश्चैव सुमुखो निमिरेव च । । ७.४१ । ।

पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च ।
कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः । । ७.४२ । ।

त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः । । ७.४३ । ।

इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः । । ७.४४ । ।

दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् । । ७.४५ । ।

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु । । ७.४६ । ।

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः । । ७.४७ । ।

पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः । । ७.४८ । ।

द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ । । ७.४९ । ।

पानं अक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे । । ७.५० । ।

दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात्कष्टं एतत्त्रिकं सदा । । ७.५१ । ।

सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनं आत्मवान् । । ७.५२ । ।

व्यसनस्य च मृत्योश्च व्यसनं कष्टं उच्यते ।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः । । ७.५३ । ।

मौलाञ् शास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्भवान् ।
सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् । । ७.५४ । ।

अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
विशेषतोऽसहायेन किं तु राज्यं महोदयम् । । ७.५५ । ।

तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च । । ७.५६ । ।

तेषां स्वं स्वं अभिप्रायं उपलभ्य पृथक्पृथक् ।
समस्तानां च कार्येषु विदध्याद्धितं आत्मनः । । ७.५७ । ।

सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् । । ७.५८ । ।

नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् । । ७.५९ । ।

अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् ।
सम्यगर्थसमाहर्तॄनमात्यान्सुपरीक्षितान् । । ७.६० । ।

निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।
तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् । । ७.६१ । ।

तेषां अर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् ।
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने । । ७.६२ । ।

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् । । ७.६३ । ।

अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् ।
वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते । । ७.६४ । ।

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ । । ७.६५ । ।

दूत एव हि संधत्ते भिनत्त्येव च संहतान् ।
दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः । । ७.६६ । ।

स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः ।
आकारं इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् । । ७.६७ । ।

बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नं आतिष्ठेद्यथात्मानं न पीडयेत् । । ७.६८ । ।

जाङ्गलं सस्यसंपन्नं आर्यप्रायं अनाविलम् ।
रम्यं आनतसामन्तं स्वाजीव्यं देशं आवसेत् । । ७.६९ । ।

धन्वदुर्गं महीदुर्गं अब्दुर्गं वार्क्षं एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् । । ७.७० । ।

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते । । ७.७१ । ।

त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः ।
त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः । । ७.७२ । ।

यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् । । ७.७३ । ।

एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते । । ७.७४ । ।

तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च । । ७.७५ । ।

तस्य मध्ये सुपर्याप्तं कारयेद्गृहं आत्मनः ।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् । । ७.७६ । ।

तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम् ।
कुले महति संभूतां हृद्यां रूपगुणान्वीताम् । । ७.७७ । ।

पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः ।
तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च । । ७.७८ । ।

यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च । । ७.७९ । ।

सांवत्सरिकं आप्तैश्च राष्ट्रादाहारयेद्बलिम् ।
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु । । ७.८० । ।

अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः ।
तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् । । ७.८१ । ।

आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।
नृपाणां अक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते । । ७.८२ । ।

न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः । । ७.८३ । ।

न स्कन्दते न व्यथते न विनश्यति कर्हि चित् ।
वरिष्ठं अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् । । ७.८४ । ।

समं अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रं अनन्तं वेदपारगे । । ७.८५ । ।

पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य फलं अश्नुते । । ७.८६ । ।

देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् । । ७.८७ं । ।

समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः ।
न निवर्तेत संग्रामात्क्षात्रं धर्मं अनुस्मरन् । । ७.८७[८८ं] । ।

संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् । । ७.८८[८९ं] । ।

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः । । ७.८९[९०ं] । ।

न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः । । ७.९०[९१ं] । ।

न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् । । ७.९१[९२ं] । ।

न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् । । ७.९२[९३ं] । ।

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्मं अनुस्मरन् । । ७.९३[९४ं] । ।

यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते । । ७.९४[९५ं] । ।

यच्चास्य सुकृतं किं चिदमुत्रार्थं उपार्जितम् ।
भर्ता तत्सर्वं आदत्ते परावृत्तहतस्य तु । । ७.९५[९६ं] । ।

रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् । । ७.९६[९७ं] । ।

राज्ञश्च दद्युरुद्धारं इत्येषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यं अपृथग्जितम् । । ७.९७[९८ं] । ।

एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् । । ७.९८[९९ं] । ।

अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् । । ७.९९[१००ं] । ।

एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य नित्यं अनुष्ठानं सम्यक्कुर्यादतन्द्रितः । । ७.१००[१०१ं] । ।

अलब्धं इच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् । । ७.१०१[१०२ं] । ।

नित्यं उद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः । । ७.१०२[१०३ं] । ।

नित्यं उद्यतदण्डस्य कृत्स्नं उद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् । । ७.१०३[१०४ं] । ।

अमाययैव वर्तेत न कथं चन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः । । ७.१०४[१०५ं] । ।

नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरं आत्मनः । । ७.१०५[१०६ं] । ।

बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमे ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् । । ७.१०६[१०७ं] । ।

एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः । । ७.१०७[१०८ं] । ।

यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
दण्डेनैव प्रसह्यैताञ् शनकैर्वशं आनयेत् । । ७.१०८[१०९ं] । ।

सामादीनां उपायानां चतुर्णां अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये । । ७.१०९[११०ं] । ।

यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः । । ७.११०[१११ं] । ।

मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः । । ७.१११[११२ं] । ।

शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञां अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् । । ७.११२[११३ं] । ।

राष्ट्रस्य संग्रहे नित्यं विधानं इदं आचरेत् ।
सुसंगृहीतराष्ट्रे हि पार्थिवः सुखं एधते । । ७.११३[११४ं] । ।

द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्मं अधिष्ठितम् ।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् । । ७.११४[११५ं] । ।

ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा ।
विंशतीशं शतेशं च सहस्रपतिं एव च । । ७.११५[११६ं] । ।

ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम् ।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने । । ७.११६[११७ं] । ।

विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् । । ७.११७[११८ं] । ।

यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् । । ७.११८[११९ं] । ।

दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् । । ७.११९[१२०ं] । ।

तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः । । ७.१२०[१२१ं] । ।

नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणां इव ग्रहम् । । ७.१२१[१२२ं] । ।

स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् ।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः । । ७.१२२[१२३ं] । ।

राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः । । ७.१२३[१२४ं] । ।

ये कार्यिकेभ्योऽर्थं एव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वं आदाय राजा कुर्यात्प्रवासनम् । । ७.१२४[१२५ं] । ।

राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः । । ७.१२५[१२६ं] । ।

पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः । । ७.१२६[१२७ं] । ।

क्रयविक्रयं अध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् । । ७.१२७[१२८ं] । ।

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् । । ७.१२८[१२९ं] । ।

यथाल्पाल्पं अदन्त्याद्यं वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः । । ७.१२९[१३०ं] । ।

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानां अष्टमो भागः षष्ठो द्वादश एव वा । । ७.१३०[१३१ं] । ।

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च । । ७.१३१[१३२ं] । ।

पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च । । ७.१३२[१३३ं] । ।

म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।
न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन् । । ७.१३३[१३४ं] । ।

यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रं अचिरेनैव सीदति । । ७.१३४[१३५ं] । ।

श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रं इवाउरसम् । । ७.१३५[१३६ं] । ।

संरक्ष्यमाणो राज्ञा यं] कुरुते धर्मं अन्वहम् ।
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रं एव च । । ७.१३६[१३७ं] । ।

यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् । । ७.१३७[१३८ं] । ।

कारुकाञ् शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः ।
एकैकं कारयेत्कर्म मासि मासि महीपतिः । । ७.१३८[१३९ं] । ।

नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन्ह्यात्मनो मूलं आट्मानं तांश्च पीदयेत् । । ७.१३९[१४०ं] । ।

तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः । । ७.१४०[१४१ं] । ।

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम् । । ७.१४१[१४२ं] । ।

एवं सर्वं विधायेदं इतिकर्तव्यं आत्मनः ।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः । । ७.१४२[१४३ं] । ।

विक्रोशन्त्यो यस्य राष्ट्राद्ह्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति । । ७.१४३[१४४ं] । ।

क्षत्रियस्य परो धर्मः प्राजानां एव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते । । ७.१४४[१४५ं] । ।

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम् । । ७.१४५[१४६ं] । ।

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः । । ७.१४६[१४७ं] । ।

गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः । । ७.१४७[१४८ं] । ।

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः । । ७.१४८[१४९ं] । ।

जडमूकान्धबधिरांस्तैर्यग्योनान्वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् । । ७.१४९[१५०ं] । ।

भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् । । ७.१५०[१५१ं] । ।

मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान्सार्धं तैरेक एव वा । । ७.१५१[१५२ं] । ।

परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणम् । । ७.१५२[१५३ं] । ।

दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् । । ७.१५३[१५४ं] । ।

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च । । ७.१५४[१५५ं] । ।

मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः । । ७.१५५[१५६ं] । ।

एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः । । ७.१५६[१५७ं] । ।

अमात्यराष्ट्रदुर्गार्थ दण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः । । ७.१५७[१५८ं] । ।

अनन्तरं अरिं विद्यादरिसेविनं एव च ।
अरेरनन्तरं मित्रं उदासीनं तयोः परम् । । ७.१५८[१५९ं] । ।

तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च । । ७.१५९[१६०ं] । ।

संधिं च विग्रहं चैव यानं आसनं एव च ।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा । । ७.१६०[१६१ं] । ।

आसनं चैव यानं च संधिं विग्रहं एव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयं एव च । । ७.१६१[१६२ं] । ।

संधिं तु द्विविधं विद्याद्राजा विग्रहं एव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः । । ७.१६२[१६३ं] । ।

समानयानकर्मा च विपरीतस्तथैव च ।
तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः । । ७.१६३[१६४ं] । ।

स्वयंकृतश्च कार्यार्थं अकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः । । ७.१६४[१६५ं] । ।

एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानं उच्यते । । ७.१६५[१६६ं] । ।

क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतं आसनम् । । ७.१६६[१६७ं] । ।

बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः । । ७.१६७[१६८ं] । ।

अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः । । ७.१६८[१६९ं] । ।

यदावगच्छेदायत्यां आधिक्यं ध्रुवं आत्मनः ।
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् । । ७.१६९[१७०ं] । ।

यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् । । ७.१७०[१७१ं] । ।

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति । । ७.१७१[१७२ं] । ।

यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् । । ७.१७२[१७३ं] । ।

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यं आत्मनः । । ७.१७३[१७४ं] । ।

यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् । । ७.१७४[१७५ं] । ।

निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा । । ७.१७५[१७६ं] । ।

यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् ।
सुयुद्धं एव तत्रापि निर्विशङ्कः समाचरेत् । । ७.१७६[१७७ं] । ।

सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः । । ७.१७७[१७८ं] । ।

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः । । ७.१७८[१७९ं] । ।

आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते । । ७.१७९[१८०ं] । ।

यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्यादेष सामासिको नयः । । ७.१८०[१८१ं] । ।

तदा तु यानं आतिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः । । ७.१८१[१८२ं] । ।

मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् । । ७.१८२[१८३ं] । ।

अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः । । ७.१८३[१८४ं] । ।

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च । । ७.१८४[१८५ं] । ।

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
सांपरायिककल्पेन यायादरिपुरं प्रति । । ७.१८५[१८६ं] । ।

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः । । ७.१८६[१८७ं] । ।

दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा । । ७.१८७[१८८ं] । ।

यतश्च भयं आशङ्केत्ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् । । ७.१८८[१८९ं] । ।

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश्च भयं आशङ्केत्प्राचीं तां कल्पयेद्दिशम् । । ७.१८९[१९०ं] । ।

गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः ।
स्थाने युद्धे च कुशलानभीरूनविकारिणः । । ७.१९०[१९१ं] । ।

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।
सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् । । ७.१९१[१९२ं] । ।

स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले । । ७.१९२[१९३ं] । ।

कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ् शूरसेनजान् ।
दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् । । ७.१९३[१९४ं] । ।

प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् ।
चेष्टाश्चैव विजानीयादरीन्योधयतां अपि । । ७.१९४[१९५ं] । ।

उपरुध्यारिं आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् । । ७.१९५[१९६ं] । ।

भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा । । ७.१९६[१९७ं] । ।

उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः । । ७.१९७[१९८ं] । ।

साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन । । ७.१९८[१९९ं] । ।

अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् । । ७.१९९[२००ं] । ।

त्रयाणां अप्युपायानां पूर्वोक्तानां असंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून्यथा । । ७.२००[२०१ं] । ।

जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् ।
प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च । । ७.२०१[२०२ं] । ।

सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् । । ७.२०२[२०३ं] । ।

प्रमाणानि च कुर्वीत तेषां धर्मान्यथोदितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह । । ७.२०३[२०४ं] । ।

आदानं अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानां अर्थानां काले युक्तं प्रशस्यते । । ७.२०४[२०५ं] । ।

सर्वं कर्मेदं आयत्तं विधाने दैवमानुषे ।
तयोर्दैवं अचिन्त्यं तु मानुषे विद्यते क्रिया । । ७.२०५[२०६ं] । ।

दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते ।
परिक्लेशेन महता तदर्थस्य समाधकम् । । ७.२०७ं । ।

संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति । । ७.२०८ं । ।

चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः । । ७.२०९ं । ।

सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् । । ७.२०६[२१०ं] । ।

पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्रादथाप्यमित्राद्वा यात्राफलं अवाप्नुयात् । । ७.२०७[२११ं] । ।

हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशं अप्यायतिक्षमम् । । ७.२०८[२१२ं] । ।

धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिं एव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते । । ७.२०९[२१३ं] । ।

प्राज्ञं कुलीनं शूरं च दक्षं दातारं एव च ।
कृतज्ञं धृतिमन्तं च कष्टं आहुररिं बुधाः । । ७.२१०[२१४ं] । ।

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततं उदासीनगुणोदयः । । ७.२११[२१५ं] । ।

क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीं अपि ।
परित्यजेन्नृपो भूमिं आत्मार्थं अविचारयन् । । ७.२१२[२१६ं] । ।

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि । । ७.२१३[२१७ं] । ।

सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः । । ७.२१४[२१८ं] । ।

उपेतारं उपेयं च सर्वोपायांश्च कृत्स्नशः ।
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये । । ७.२१५[२१९ं] । ।

एवं सर्वं इदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुं अन्तःपुरं विशेत् । । ७.२१६[२२०ं] । ।

तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
सुपरीक्षितं अन्नाद्यं अद्यान्मन्त्रैर्विषापहैः । । ७.२१७[२२१ं] । ।

विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा । । ७.२१८[२२२ं] । ।

परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः । । ७.२१९[२२३ं] । ।

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च । । ७.२२०[२२४ं] । ।

भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् । । ७.२२१[२२५ं] । ।

अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च । । ७.२२२[२२६ं] । ।

संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् । । ७.२२३[२२७ं] । ।

गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः । । ७.२२४[२२८ं] । ।

तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः ।
संविशेत्तं यथाकालं उत्तिष्ठेच्च गतक्लमः । । ७.२५५[२२९ं] । ।

एतद्विधानं आतिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वं एतत्तु भृत्येषु विनियोजयेत् । । ७.२२६[२३०ं] । ।