मनुस्मृतिः/दशमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमोध्यायः मनुस्मृतिः
दशमोध्यायः
मनुः
एकादशोध्यायः →
मनुस्मृतेः अध्यायाः
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्ठोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः
  9. नवमोध्यायः
  10. दशमोध्यायः
  11. एकादशोध्यायः
  12. द्वादशोध्यायः

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः । । १०.१ । ।

सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि ।
प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् । । १०.२ । ।

वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।
संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः । । १०.३ । ।

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः । । १०.४ । ।

सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते । । १०.५ । ।

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् । । १०.६ । ।

अनन्तरासु जातानां विधिरेष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् । । १०.७ । ।

ब्राह्मणाद्वैश्यकन्यायां अम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते । । १०.८ । ।

क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते । । १०.९ । ।

विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः । । १०.१० । ।

क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ । । १०.११ । ।

शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः । । १०.१२ । ।

एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि । । १०.१३ । ।

पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते । । १०.१४ । ।

ब्राह्मणादुग्रकन्यायां आवृतो नाम जायते ।
आभीरोऽम्बष्ठकन्यायां आयोगव्यां तु धिग्वणः । । १०.१५ । ।

आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः । । १०.१६ । ।

वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु ।
प्रतीपं एते जायन्ते परेऽप्यपसदास्त्रयः । । १०.१७ । ।

जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।
शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः । । १०.१८ । ।

क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्वम्बष्ठ्यां उत्पन्नो वेण उच्यते । । १०.१९ । ।

द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।
तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् । । १०.२० । ।

व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पधः शैख एव च । । १०.२१ । ।

झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खसो द्रविड एव च । । १०.२२ । ।

वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च ।
कारुषश्च विजन्मा च मैत्रः सात्वत एव च । । १०.२३ । ।

व्यभिचारेण वर्णानां अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः । । १०.२४ । ।

संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः । । १०.२५ । ।

सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।
मागधः तथायोगव एव च क्षत्रजातिश्च । । १०.२६ । ।

एते षट्सदृशान्वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु । । १०.२७ । ।

यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते ।
आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् । । १०.२८ । ।

ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् । । १०.२९ । ।

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते । । १०.३० । ।

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः ।
हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु । । १०.३१ । ।

प्रसाधनोपचारज्ञं अदासं दासजीवनम् ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे । । १०.३२ । ।

मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये । । १०.३३ । ।

निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
कैवर्तं इति यं प्राहुरार्यावर्तनिवासिनः । । १०.३४ । ।

मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च ।
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः । । १०.३५ । ।

कारावरो निषादात्तु चर्मकारः प्रसूयते ।
वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ । । १०.३६ । ।

चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्यां एव जायते । । १०.३७ । ।

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुक्कस्यां जायते पापः सदा सज्जनगर्हितः । । १०.३८ । ।

निषादस्त्री तु चण्डालात्पुत्रं अन्त्यावसायिनम् ।
श्मशानगोचरं सूते बाह्यानां अपि गर्हितम् । । १०.३९ । ।

संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । । १०.४० । ।

स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः । । १०.४१ । ।

तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः । । १०.४२ । ।

शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च । । १०.४३ । ।

पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।
पारदापह्लवाश्चीनाः किराता दरदाः खशाः । । १०.४४ । ।

मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः । । १०.४५ । ।

ये द्विजानां अपसदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर्वर्तयेयुर्द्विजानां एव कर्मभिः । । १०.४६ । ।

सूतानां अश्वसारथ्यं अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः । । १०.४७ । ।

मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनां आरण्यपशुहिंसनम् । । १०.४८ । ।

क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् ।
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् । । १०.४९ । ।

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः । । १०.५० । ।

चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः ।
अपपात्राश्च कर्तव्या धनं एषां श्वगर्दभम् । । १०.५१ । ।

वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसं अलङ्कारः परिव्रज्या च नित्यशः । । १०.५२ । ।

न तैः समयं अन्विच्छेत्पुरुषो धर्मं आचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह । । १०.५३ । ।

अन्नं एषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च । । १०.५४ । ।

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः । । १०.५५ । ।

वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च । । १०.५६ । ।

वर्णापेतं अविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपं इवानार्यं कर्मभिः स्वैर्विभावयेत् । । १०.५७ । ।

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् । । १०.५८ । ।

पित्र्यं वा भजते शीलं मातुर्वोभयं एव वा ।
न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति । । १०.५९ । ।

कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः ।
संश्रयत्येव तच्छीलं नरोऽल्पं अपि वा बहु । । १०.६० । ।

यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः ।
राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रं एव विनश्यति । । १०.६१ । ।

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् । । १०.६२ । ।

अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः । । १०.६३ । ।

शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ।
अश्रेयान्श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् । । १०.६४ । ।

शूद्रो ब्राह्मणतां एति ब्राह्मणश्चैति शूद्रताम् ।
क्षत्रियाज्जातं एवं तु विद्याद्वैश्यात्तथैव च । । १०.६५ । ।

अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया ।
ब्राह्मण्यां अप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् । । १०.६६ । ।

जातो नार्यां अनार्यायां आर्यादार्यो भवेद्गुणैः ।
जातोऽप्यनार्यादार्यायां अनार्य इति निश्चयः । । १०.६७ । ।

तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ।
वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः । । १०.६८ । ।

सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्याज्जात आर्यायां सर्वं संस्कारं अर्हति । । १०.६९ । ।

बीजं एके प्रशंसन्ति क्षेत्रं अन्ये मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः । । १०.७० । ।

अक्षेत्रे बीजं उत्सृष्टं अन्तरैव विनश्यति ।
अबीजकं अपि क्षेत्रं केवलं स्थण्डिलं भवेत् । । १०.७१ । ।

यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते । । १०.७२ । ।

अनार्यं आर्यकर्माणं आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद्धाता न समौ नासमाविति । । १०.७३ । ।

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः ।
ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् । । १०.७४ । ।

अध्यापनं अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः । । १०.७५ । ।

षण्णां तु कर्मणां अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः । । १०.७६ । ।

त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः । । १०.७७ । ।

वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः ।
न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः । । १०.७८ । ।

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः ।
आजीवनार्थं धर्मस्तु दानं अध्ययनं यजिः । । १०.७९ । ।

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु । । १०.८० । ।

अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । । १०.८१ । ।

उभाभ्यां अप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षं आस्थाय जीवेद्वैश्यस्य जीविकाम् । । १०.८२ । ।

वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् । । १०.८३ । ।

कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।
भूमिं भूमिशयांश्चैव हन्ति काष्ठं अयोमुखम् । । १०.८४ । ।

इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् ।
विट्पण्यं उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् । । १०.८५ । ।

सर्वान्रसानपोहेत कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः । । १०.८६ । ।

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः । । १०.८७ । ।

अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् । । १०.८८ । ।

आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा । । १०.८९ । ।

कामं उत्पाद्य कृष्यां तु स्वयं एव कृषीवलः ।
विक्रीणीत तिलाञ् शूद्रान्धर्मार्थं अचिरस्थितान् । । १०.९० । ।

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति । । १०.९१ । ।

सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् । । १०.९२ । ।

इतरेषां तु पण्यानां विक्रयादिह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति । । १०.९३ । ।

रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः । । १०.९४ । ।

जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।
न त्वेव ज्यायंसीं वृत्तिं अभिमन्येत कर्हि चित् । । १०.९५ । ।

यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रं एव प्रवासयेत् । । १०.९६ । ।

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन्हि सद्यः पतति जातितः । । १०.९७ । ।

वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् । । १०.९८ । ।

अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः । । १०.९९ । ।

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च । । १०.१०० । ।

वैश्यवृत्तिं अनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् । । १०.१०१ । ।

सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः ।
पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते । । १०.१०२ । ।

नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते । । १०.१०३ । ।

जीवितात्ययं आपन्नो योऽन्नं अत्ति ततस्ततः ।
आकाशं इव पङ्केन न स पापेन लिप्यते । । १०.१०४ । ।

अजीगर्तः सुतं हन्तुं उपासर्पद्बुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारं आचरन् । । १०.१०५ । ।

श्वमांसं इच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् । । १०.१०६ । ।

भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः । । १०.१०७ । ।

क्षुधार्तश्चात्तुं अभ्यागाद्विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्तादादाय धर्माधर्मविचक्षणः । । १०.१०८ । ।

प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः । । १०.१०९ । ।

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः । । १०.११० । ।

जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च । । १०.१११ । ।

शिलोञ्छं अप्याददीत विप्रोऽजीवन्यतस्ततः ।
प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते । । १०.११२ । ।

सीदद्भिः कुप्यं इच्छद्भिर्धने वा पृथिवीपतिः ।
याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागं अर्हति । । १०.११३ । ।

अकृतं च कृतात्क्षेत्राद्गौरजाविकं एव च ।
हिरण्यं धान्यं अन्नं च पूर्वं पूर्वं अदोषवत् । । १०.११४ । ।

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च । । १०.११५ । ।

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः । । १०.११६ । ।

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम् । । १०.११७ । ।

चतुर्थं आददानोऽपि क्षत्रियो भागं आपदि ।
प्रजा रक्षन्परं शक्त्या किल्बिषात्प्रतिमुच्यते । । १०.११८ । ।

स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः ।
शस्त्रेण वैश्यान्रक्षित्वा धर्म्यं आहारयेद्बलिम् । । १०.११९ । ।

धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा । । १०.१२० । ।

शूद्रस्तु वृत्तिं आकाङ्क्षन्क्षत्रं आराधयेद्यदि ।
धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् । । १०.१२१ । ।

स्वर्गार्थं उभयार्थं वा विप्रानाराधयेत्तु सः ।
जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता । । १०.१२२ । ।

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् । । १०.१२३ । ।

प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् । । १०.१२४ । ।

उच्छिष्टं अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः । । १०.१२५ । ।

न शूद्रे पातकं किं चिन्न च संस्कारं अर्हति ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् । । १०.१२६ । ।

धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तं अनुष्ठिताः ।
मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च । । १०.१२७ । ।

यथा यथा हि सद्वृत्तं आतिष्ठत्यनसूयकः ।
तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः । । १०.१२८ । ।

शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।
शूद्रो हि धनं आसाद्य ब्राह्मणानेव बाधते । । १०.१२९ । ।

एते चतुर्णां वर्णानां आपद्धर्माः प्रकीर्तिताः ।
यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् । । १०.१३० । ।

एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । । १०.१३१ । ।