मनुस्मृतिः/चतुर्थोध्यायः
← तृतीयोध्यायः | मनुस्मृतिः चतुर्थोध्यायः मनुः |
पञ्चमोध्यायः → |
मनुस्मृतेः अध्यायाः |
---|
चतुर्थं आयुषो भागं उषित्वाद्यं गुरौ द्विजाः । |
अद्रोहेणैव भूतानां अल्पद्रोहेण वा पुनः । |
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । |
ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । |
ऋतं उञ्छशिलं ज्ञेयं अमृतं स्यादयाचितम् । |
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । |
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । |
चतुर्णां अपि चैतेषां द्विजानां गृहमेधिनाम् । |
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । |
वर्तयंश्च शिलोञ्छाभ्यां अग्निहोत्रपरायणः । |
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । |
संतोषं परं आस्थाय सुखार्थी संयतो भवेत् । |
अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । |
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । |
नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा । |
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । |
सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः । |
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । |
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । |
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । |
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । |
एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः । |
वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा । |
ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा । |
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । |
सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजोऽध्वरैः । |
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान्द्विजः । |
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः । |
आसनाशनशय्याभिरद्भिर्मूलफलेन वा । |
पाषाण्डिनो विकर्मस्थान्बैडालव्रतिकाञ् शठान् । |
वेदविद्याव्रतस्नाताञ् श्रोत्रियान्गृहमेधिनः । |
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना । |
राजतो धनं अन्विच्छेत्संसीदन्स्नातकः क्षुधा । |
न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन । |
क्ल्प्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः । |
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । |
नेक्षेतोद्यन्तं आदित्यं नास्तं यान्तं कदा चन । |
न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति । |
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । |
नोपगच्छेत्प्रमत्तोऽपि स्त्रियं आर्तवदर्शने । |
रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः । |
तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । |
नाश्नीयाद्भार्यया सार्धं नैनां ईक्षेत चाश्नतीम् । |
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तां अनावृताम् । |
नान्नं अद्यादेकवासा न नग्नः स्नानं आचरेत् । |
न फालकृष्टे न जले न चित्यां न च पर्वते । |
न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः । |
वाय्वग्निविप्रं आदित्यं अपः पश्यंस्तथैव गाः । |
तिरस्कृत्योच्चरेत्काष्ठ लोष्ठपत्रतृणादिना । |
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः । |
छायायां अन्धकारे वा रात्रावहनि वा द्विजः । |
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । |
नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । |
अधस्तान्नोपदध्याच्च न चैनं अभिलङ्घयेत् । |
नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् । |
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । |
नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् । |
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । |
न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् । |
नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् । |
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । |
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यं आचरेत् । |
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । |
न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्] । |
न पादौ धावयेत्कांस्ये कदा चिदपि भाजने । |
उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् । |
नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः । |
विनीतैस्तु व्रजेन्नित्यं आशुगैर्लक्षणान्वितैः । |
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् । |
न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणम् । |
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । |
न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् । |
अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् । |
नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् । |
सर्वं च तिलसंबद्धं नाद्यादस्तं इते रवौ । |
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । |
अचक्षुर्विषयं दुर्गं $ न प्रपद्येत कर्हि चित् । |
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । |
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः । |
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । |
यो ह्यस्य धर्मं आचष्टे यश्चैवादिशति व्रतम् । |
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । |
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् । |
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । |
दशसूनासमं चक्रं दशचक्रसमो ध्वजः । |
दश सूणासहस्राणि यो वाहयति सौनिकः । |
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । |
तामिस्रं अन्धतामिस्रं महारौरवरौरवौ । |
संजीवनं महावीचिं तपनं संप्रतापनम् । |
लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् । |
एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । |
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । |
उत्थायावश्यकं कृत्वा कृतशौचः समाहितः । |
ऋषयो दीर्घसंध्यत्वाद्दीर्घं आयुरवाप्नुयुः । |
श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि । |
पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः । |
यथाशास्त्रं तु कृत्वैवं उत्सर्गं छन्दसां बहिः । |
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । |
नाविस्पष्टं अधीयीत न शूद्रजनसन्निधौ । |
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । |
इमान्नित्यं अनध्यायानधीयानो विवर्जयेत् । |
कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने । |
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । |
एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु । |
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । |
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने । |
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च । |
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । |
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । |
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । |
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । |
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । |
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः । |
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । |
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । |
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा । |
प्राणि वा यदि वाप्राणि यत्किं चिच्छ्राद्धिकं भवेत् । |
चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते । |
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । |
नाधीयीताश्वं आरूढो न वृक्षं न च हस्तिनम् । |
न विवादे न कलहे न सेनायां न संगरे । |
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । |
सामध्वनावृग्यजुषी नाधीयीत कदा चन । |
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । |
एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षं अन्वहम् । |
पशुमण्डूकमार्जार श्वसर्पनकुलाखुभिः । |
द्वावेव वर्जयेन्नित्यं अनध्यायौ प्रयत्नतः । |
अमावास्यां अष्टमीं च पौर्णमासीं चतुर्दशीम् । |
न स्नानं आचरेद्भुक्त्वा नातुरो न महानिशि । |
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । |
मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । |
उद्वर्तनं अपस्नानं विण्मूत्रे रक्तं एव च । |
वैरिणं नोपसेवेत सहायं चैव वैरिणः । |
न हीदृशं अनायुष्यं लोके किं चन विद्यते । |
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । |
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् । |
नात्मानं अवमन्येत पुर्वाभिरसमृद्धिभिः । |
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यं अप्रियम् । |
भद्रं भद्रं इति ब्रूयाद्भद्रं इत्येव वा वदेत् । |
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । |
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोऽधिकान् । |
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् । |
स्पृष्ट्वैतानशुचिर्नित्यं अद्भिः प्राणानुपस्पृशेत् । |
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः । |
मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । |
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । |
वेदं एवाभ्यसेन्नित्यं यथाकालं अतन्द्रितः । |
वेदाभ्यासेन सततं शौचेन तपसैव च । |
पौर्विकीं संस्मरन्जातिं ब्रह्मैवाभ्यस्यते पुनः । |
सावित्राञ् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । |
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । |
मैत्रं प्रसाधनं स्नानं दन्तधावनं अञ्जनम् । |
दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् । |
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् । |
श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु । |
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः । |
दुराचारो हि पुरुषो लोके भवति निन्दितः । |
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । |
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् । |
सर्वं परवशं दुःखं सर्वं आत्मवशं सुखम् । |
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः । |
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । |
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । |
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् । |
ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया । |
ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् । |
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । |
शोणितं यावतः पांसून्संगृह्णाति महीतलात् । |
न कदा चिद्द्विजे तस्माद्विद्वानवगुरेदपि । |
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । |
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् । |
नाधर्मश्चरितो लोके सद्यः फलति गौरिव । |
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु । |
अधर्मेणैधते तावत्ततो भद्राणि पश्यति । |
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा । |
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । |
न पाणिपादचपलो न नेत्रचपलोऽनृजुः । |
येनास्य पितरो याता येन याताः पितामहाः । |
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः । |
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया । |
एतैर्विवादान्संत्यज्य सर्वपापैः प्रमुच्यते । |
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । |
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । |
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः । |
छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । |
प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् । |
न द्रव्याणां अविज्ञाय विधिं धर्म्यं प्रतिग्रहे । |
हिरण्यं भूमिं अश्वं गां अन्नं वासस्तिलान्घृतम् । |
हिरण्यं आयुरन्नं च भूर्गौश्चाप्योषतस्तनुम् । |
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । |
तस्मादविद्वान्बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् । |
न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । |
त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम् । |
यथा प्लवेनाउपलेन निमज्जत्युदके तरन् । |
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । |
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः । |
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । |
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । |
प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । |
अलिङ्गी लिङ्गिवेषेण यो वृत्तिं उपजीवति । |
परकीयनिपानेषु न स्नायाद्धि कदा चन । |
यानशय्यासनान्यस्य कूपोद्यानगृहाणि च । |
नदीषु देवखातेषु तडागेषु सरःसु च । |
यमान्सेवेत सततं न नित्यं नियमान्बुधः । |
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । |
अश्लीकं एतत्साधूनां यत्र जुह्वत्यमी हविः । |
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन । |
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । |
गवा चान्नं उपघ्रातं घुष्टान्नं च विशेषतः । |
स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च । |
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । |
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । |
अनर्चितं वृथामांसं अवीरायाश्च योषितः । |
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । |
कर्मारस्य निषादस्य रङ्गावतारकस्य च । |
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । |
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । |
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । |
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । |
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नं इन्द्रियम् । |
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । |
भुक्त्वातोऽन्यतं अस्यान्नं अमत्या क्षपणं त्र्यहम् । |
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । |
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । |
तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् । |
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । |
दानधर्मं निषेवेत नित्यं ऐष्टिकपौर्तिकम् । |
यत्किं चिदपि दातव्यं याचितेनानसूयया । |
वारिदस्तृप्तिं आप्नोति सुखं अक्षय्यं अन्नदः । |
भूमिदो भूमिं आप्नोति दीर्घं आयुर्हिरण्यदः । |
वासोदश्चन्द्रसालोक्यं अश्विसालोक्यं अश्वदः । |
यानशय्याप्रदो भार्यां ऐश्वर्यं अभयप्रदः । |
सर्वेषां एव दानानां ब्रह्मदानं विशिष्यते । |
येन येन तु भावेन यद्यद्दानं प्रयच्छति । |
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितं एव वा । |
न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । |
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । |
धर्मं शनैः संचिनुयाद्वल्मीकं इव पुत्तिकाः । |
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । |
एकः प्रजायते जन्तुरेक एव प्रलीयते । |
मृतं शरीरं उत्सृज्य काष्ठलोष्टसमं क्षितौ । |
तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः । |
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । |
उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह । |
उत्तमानुत्तमानेव गच्छन्हीनांस्तु वर्जयन् । |
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् । |
एधोदकं मूलफलं अन्नं अभ्युद्यतं च यत् । |
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । |
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च । |
शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । |
गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् । |
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । |
आर्धिकः कुलमित्रं च गोपालो दासनापितौ । |
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । |
योऽन्यथा सन्तं आत्मानं अन्यथा सत्सु भाषते । |
वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः । |
महर्षिपितृदेवानां गत्वानृण्यं यथाविधि । |
एकाकी चिन्तयेन्नित्यं विविक्ते हितं आत्मनः । |
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । |
अनेन विप्रो वृत्तेन वर्तयन्वेदशास्त्रवित् । |