मनुस्मृतिः/अष्टमोध्यायः
← सप्तमोध्यायः | मनुस्मृतिः अष्टमोध्यायः मनुः |
नवमोध्यायः → |
मनुस्मृतेः अध्यायाः |
---|
व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । |
तत्रासीनः स्थितो वापि पाणिं उद्यम्य दक्षिणम् । |
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । |
तेषां आद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः । |
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । |
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । |
स्त्रीपुंधर्मो विभागश्च द्यूतं आह्वय एव च । |
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । |
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । |
सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । |
यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः । |
धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । |
सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । |
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । |
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । |
वृषो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम् । |
एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः । |
पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति । |
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । |
जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः । |
यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । |
यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तं अद्विजम् । |
धर्मासनं अधिष्ठाय संवीताङ्गः समाहितः । |
अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । |
बाह्यैर्विभावयेल्लिङ्गैर्भावं अन्तर्गतं नृणाम् । |
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । |
बालदायादिकं रिक्थं तावद्राजानुपालयेत् । |
वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । |
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । |
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । |
ममेदं इति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । |
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । |
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । |
प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् । |
ममायं इति यो ब्रूयान्निधिं सत्येन मानवः । |
अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशं अष्टमम् । |
विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । |
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । |
निधीनां तु पुराणानां धातूनां एव च क्षितौ । |
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । |
जातिजानपदान्धर्मान्श्रेणीधर्मांश्च धर्मवित् । |
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । |
नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः । |
यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । |
सत्यं अर्थं च संपश्येदात्मानं अथ साक्षिणः । |
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । |
अधमर्णार्थसिद्ध्यर्थं उत्तमर्णेन चोदितः । |
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । |
धर्मेण व्यवहारेण छलेनाचरितेन च । |
यः स्वयं साधयेदर्थं उत्तमर्णोऽधमर्णिकात् । |
अर्थेऽपव्ययमानं तु करणेन विभावितम् । |
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । |
अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः । |
अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । |
असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । |
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । |
साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । |
अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः । |
यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् । |
पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । |
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । |
गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः । |
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । |
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । |
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । |
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । |
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । |
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । |
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । |
स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा । |
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । |
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । |
बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । |
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । |
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि । |
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन । |
एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः । |
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । |
सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ । |
यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । |
सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोति पुष्कलान् । |
साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् । |
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । |
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः । |
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । |
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । |
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । |
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । |
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । |
जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम् । |
एकोऽहं अस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । |
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । |
नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः । |
अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । |
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । |
यस्य विद्वान्हि वदतः क्षेत्रज्ञो नाभिशङ्कते । |
यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् । |
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । |
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । |
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । |
एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । |
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । |
तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः । |
शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः । |
वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । |
कूष्माण्डैर्वापि जुहुयाद्घृतं अग्नौ यथाविधि । |
त्रिपक्षादब्रुवन्साक्ष्यं ऋणादिषु नरोऽगदः । |
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । |
असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः । |
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः । |
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः । |
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । |
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । |
अग्निं वाहारयेदेनं अप्सु चैनं निमज्जयेत् । |
यं इद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । |
वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । |
यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । |
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च । |
एषां अन्यतमे स्थाने यः साक्ष्यं अनृतं वदेत् । |
लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् । |
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । |
एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः । |
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । |
दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् । |
उपस्थं उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । |
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । |
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । |
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । |
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । |
वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । |
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । |
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । |
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । |
सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम् । |
पलं सुवर्णाश्चत्वारः पलानि धरणं दश । |
ते षोडश स्याद्धरणं पुराणश्चैव राजतः । |
धरणानि दश ज्ञेयः शतमानस्तु राजतः । |
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । |
ऋणे देये प्रतिज्ञाते पञ्चकं शतं अर्हति । |
वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । |
द्विकं शतं वा गृह्णीयात्सतां धर्मं अनुस्मरन् । |
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । |
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिं आप्नुयात् । |
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिं उत्सृजेत् । |
आधिश्चोपनिधिश्चोभौ न कालात्ययं अर्हतः । |
संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । |
यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी । |
अजडश्चेदपोगण्डो विषये चास्य भुज्यते । |
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । |
यः स्वामिनाननुज्ञातं आधिं भूङ्क्तेऽविचक्षणः । |
कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । |
कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । |
नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । |
ऋणं दातुं अशक्तो यः कर्तुं इच्छेत्पुनः क्रियाम् । |
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । |
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । |
समुद्रयानकुशला देशकालार्थदर्शिनः । |
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । |
प्रातिभाव्यं वृथादानं आक्षिकं सौरिकां च यत् । |
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः । |
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । |
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः । |
मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । |
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । |
योगाधमनविक्रीतं योगदानप्रतिग्रहम् । |
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः । |
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यं आचरेत् । |
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । |
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । |
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । |
अनादेयस्य चादानादादेयस्य च वर्जनात् । |
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । |
तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । |
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । |
कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । |
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे । |
कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः । |
अनेन विधिना राजा मिथो विवदतां नृणाम् । |
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । |
यो यथा निक्षिपेद्धस्ते यं अर्थं यस्य मानवः । |
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । |
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । |
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । |
तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । |
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । |
स्वयं एव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे । |
अच्छलेनैव चान्विच्छेत्तं अर्थं प्रीतिपूर्वकम् । |
निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने । |
चौरैर्हृतं जलेनोढं अग्निना दग्धं एव वा । |
निक्षेपस्यापहर्तारं अनिक्षेप्तारं एव च । |
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । |
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् । |
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । |
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । |
मिथो दायः कृतो येन गृहीतो मिथ एव वा । |
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । |
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः । |
अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् । |
अस्वामिना कृतो यस्तु दायो विक्रय एव वा । |
संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । |
विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ । |
अथ मूलं अनाहार्यं प्रकाशक्रयशोधितः । |
नान्यदन्येन संसृष्ट रूपं विक्रयं अर्हति । |
अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते । |
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना । |
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । |
दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । |
यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । |
रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम् । |
सर्वेषां अर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे । |
संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । |
धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम् । |
यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः । |
दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया । |
भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् । |
आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितं आदितः । |
यथोक्तं आर्तः सुस्थो वा यस्तत्कर्म न कारयेत् । |
एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । |
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । |
निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । |
एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः । |
क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् । |
परेण तु दशाहस्य न दद्यान्नापि दापयेत् । |
यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति । |
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः । |
पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । |
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । |
यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् । |
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । |
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । |
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । |
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । |
विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति । |
कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् । |
अजाविके तु संरुद्धे वृकैः पाले त्वनायति । |
तासां चेदवरुद्धानां चरन्तीनां मिथो वने । |
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः । |
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । |
वृतिं तत्र प्रकुर्वीत यां उष्ट्रो न विलोकयेत् । |
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः । |
क्षेत्रेष्वन्येषु तु पशुः सपादं पणं अर्हति । |
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा । |
क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् । |
एतद्विधानं आतिष्ठेद्धार्मिकः पृथिवीपतिः । |
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । |
सींआवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । |
गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च । |
तडागान्युदपानानि वाप्यः प्रस्रवणानि च । । ८.२४८अ[ं२५०] । । |
उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । |
अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः । |
यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । |
एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः । |
यदि संशय एव स्याल्लिङ्गानां अपि दर्शने । |
ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । |
ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । |
शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । |
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । |
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । |
सामन्तानां अभावे तु मौलानां सीम्नि साक्षिणाम् । |
व्याधाञ् शाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । |
ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । |
क्षेत्रकूपतडागानां आरामस्य गृहस्य च । |
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम् । |
गृहं तडागं आरामं क्षेत्रं वा भीषया हरन् । |
सीमायां अविषह्यायां स्वयं राजैव धर्मवित् । |
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । |
शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति । |
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । |
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । |
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । |
नामजातिग्रहं त्वेषां अभिद्रोहेण कुर्वतः । |
धर्मोपदेशं दर्पेण विप्राणां अस्य कुर्वतः । |
श्रुतं देशं च जातिं च कर्म शरीरं एव च । |
काणं वाप्यथ वा खञ्जं अन्यं वापि तथाविधम् । |
मातरं पितरं जायां भ्रातरं तनयं गुरुम् । |
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । |
विट्शूद्रयोरेवं एव स्वजातिं प्रति तत्त्वतः । |
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । |
येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठं अन्त्यजः । |
पाणिं उद्यम्य दण्डं वा पाणिच्छेदनं अर्हति । |
सहासनं अभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । |
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । |
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । |
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । |
वनस्पतीनां सर्वेषां उपभोगो यथा यथा । |
मनुष्याणां पशूनां च दुःखाय प्रहृते सति । |
अङ्गावपीडनायां च व्रणशोनितयोस्तथा । |
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । |
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु । |
यानस्य चैव यातुश्च यानस्वामिन एव च । |
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । |
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । |
यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु । |
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डं अर्हति । |
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । |
मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । |
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । |
गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः । |
भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः । |
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन । |
एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । |
परमं यत्नं आतिष्ठेत्स्तेनानां निग्रहे नृपः । |
अभयस्य हि यो दाता स पूज्यः सततं नृपः । |
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । |
यदधीते यद्यजते यद्ददाति यदर्चति । |
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् । |
योऽरक्षन्बलिं आदत्ते करं शुल्कं च पार्थिवः । |
अरक्षितारं राजानं बलिषड्भागहारिणम् । |
अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् । |
अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः । |
निग्रहेण हि पापानां साधूनां संग्रहेण च । |
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । |
यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते । |
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । |
स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् । |
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । |
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी । |
राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । |
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । |
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । |
तथा धरिममेयानां शतादभ्यधिके वधः । |
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनं इष्यते । |
पुरुषाणां कुलीनानां नारीणां च विशेषतः । |
महापशूनां हरणे शस्त्राणां औषधस्य च । |
गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने । |
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । |
वेणुवैदलभाण्डानां लवणानां तथैव च । |
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । |
अन्येषां चैवमादीनां मद्यानां ओदनस्य च । |
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । |
परिपूतेषु धान्येषु शाकमूलफलेषु च । |
स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । |
यस्त्वेतान्युपक्ल्प्तानि द्रव्याणि स्तेनयेन्नरः । |
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । |
पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । |
कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । |
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । |
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । |
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । |
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । |
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । |
असंदितानां संदाता संदितानां च मोक्षकः । |
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । |
ऐन्द्रं स्थानं अभिप्रेप्सुर्यशश्चाक्षयं अव्ययम् । |
वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः । |
साहसे वर्तमानं तु यो मर्षयति पार्थिवः । |
न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । |
शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । |
आत्मनश्च परित्राणे दक्षिणानां च संगरे । |
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । |
नाततायिवधे दोषो हन्तुर्भवति कश्चन । |
परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः । |
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः । |
परस्य पत्न्या पुरुषः संभाषां योजयन्रहः । |
यस्त्वनाक्षारितः पूर्वं अभिभाषते कारणात् । |
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । |
उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । |
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया । |
अब्राह्मणः संग्रहणे प्राणान्तं दण्डं अर्हति । |
भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । |
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । |
नैष चारणदारेषु विधिर्नात्मोपजीविषु । |
किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् । |
योऽकामां दूषयेत्कन्यां स सद्यो वधं अर्हति । |
कन्यां भजन्तीं उत्कृष्टं न किं चिदपि दापयेत् । |
उत्तमां सेवमानस्तु जघन्यो वधं अर्हति । |
अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । |
सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदं आप्नुयात् । |
कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः । |
या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यं अर्हति । |
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता । |
पुमांसं दाहयेत्पापं शयने तप्त आयसे । |
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । |
शूद्रो गुप्तं अगुप्तं वा द्वैजातं वर्णं आवसन् । |
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः । |
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । |
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । |
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । |
मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । |
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । |
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । |
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । |
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । |
क्षत्रियायां अगुप्तायां वैश्ये पञ्चशतं दमः । |
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । |
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । |
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । |
ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि । |
न माता न पिता न स्त्री न पुत्रस्त्यागं अर्हति । |
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । |
यथार्हं एतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । |
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । |
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । |
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । |
श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम् । |
शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । |
तन्तुवायो दशपलं दद्यादेकपलाधिकम् । |
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । |
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । |
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । |
आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । |
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते । |
तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । |
पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । |
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । |
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । |
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । |
यन्नावि किं चिद्दाशानां विशीर्येतापराधतः । |
एष नौयायिनां उक्तो व्यवहारस्य निर्णयः । |
वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिं एव च । |
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । |
दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान्द्विजान् । |
शूद्रं तु कारयेद्दास्यं क्रीतं अक्रीतं एव वा । |
न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । |
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । |
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । |
विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानं आचरेत् । |
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । |
अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च । |
एवं सर्वानिमान्राजा व्यवहारान्समापयन् । |