मनुस्मृतिः/एकादशोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← दशमोध्यायः मनुस्मृतिः
एकादशोध्यायः
मनुः
द्वादशोध्यायः →
मनुस्मृतेः अध्यायाः
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्ठोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः
  9. नवमोध्यायः
  10. दशमोध्यायः
  11. एकादशोध्यायः
  12. द्वादशोध्यायः

सान्तानिकं यक्ष्यमाणं अध्वगं सार्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः । । ११.१ । ।

न वै तान्स्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान् ।
निःस्वेभ्यो देयं एतेभ्यो दानं विद्याविशेषतः । । ११.२ । ।

एतेभ्यो हि द्विजाग्र्येभ्यो देयं अन्नं सदक्षिणम् ।
इतरेभ्यो बहिर्वेदि कृतान्नं देयं उच्यते । । ११.३ । ।

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम् । । ११.४ । ।

कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति ।
रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः । । ११.५ । ।

धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते । । ११.६ । ।

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुं अर्हति । । ११.७[०६ं] । ।

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् । । ११.८[०७ं] । ।

शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः । । ११.९[०८ं] । ।

भृत्यानां उपरोधेन यत्करोत्यौर्ध्वदेहिकम् ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च । । ११.१०[०९ं] । ।

यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः ।
ब्राह्मणस्य विशेषेन धार्मिके सति राजनि । । ११.११[१०ं] । ।

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
कुटुम्बात्तस्य तद्द्रव्यं आहरेद्यज्ञसिद्धये । । ११.१२[११ं] । ।

आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः । । ११.१३[१२ं] । ।

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।
तयोरपि कुटुम्बाभ्यां आहरेदविचारयन् । । ११.१४[१३ं] । ।

आदाननित्याच्चादातुराहरेदप्रयच्छतः ।
तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते । । ११.१५[१४ं] । ।

तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः । । ११.१६[१५ं] । ।

खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते ।
आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति । । ११.१७[१६ं] । ।

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन ।
दस्युनिष्क्रिययोस्तु स्वं अजीवन्हर्तुं अर्हति । । ११.१८[१७ं] । ।

योऽसाधुभ्योऽर्थं आदाय साधुभ्यः संप्रयच्छति ।
स कृत्वा प्लवं आत्मानं संतारयति तावुभौ । । ११.१९[१८ं] । ।

यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः ।
अयज्वनां तु यद्वित्तं आसुरस्वं तदुच्यते । । ११.२०[१९ं] । ।

न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः ।
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा । । ११.२१[२०ं] । ।

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः ।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् । । ११.२२[२१ं] । ।

कल्पयित्वास्य वृत्तिं च रक्षेदेनं समन्ततः ।
राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् । । ११.२३[२२ं] । ।

न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते । । ११.२४[२३ं] । ।

याज्ञार्थं अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः । । ११.२५[२४ं] । ।

देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति । । ११.२६[२५ं] । ।

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
क्ल्प्तानां पशुसोमानां निष्कृत्यर्थं असंभवे । । ११.२७[२६ं] । ।

आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् । । ११.२८[२७ं] । ।

विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः । । ११.२९[२८ं] । ।

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् । । ११.३०[२९ं] । ।

न ब्राह्मणो वेदयेत किं चिद्राजनि धर्मवित् ।
स्ववीर्येणैव ताञ् शिष्यान्मानवानपकारिणः । । ११.३१[३०ं] । ।

स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् ।
तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः । । ११.३२[३१ं] । ।

श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् ।
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः । । ११.३३[३२ं] । ।

क्षत्रियो बाहुवीर्येण तरेदापदं आत्मनः ।
धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः । । ११.३४[३३ं] । ।

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।
तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरं ईरयेत् । । ११.३५[३४ं] । ।

न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ।
होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा । । ११.३६[३५ं] । ।

नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः । । ११.३७[३६ं] । ।

प्राजापत्यं अदत्त्वाश्वं अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति । । ११.३८[३७ं] । ।

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन । । ११.३९[३८ं] । ।

इन्द्रियाणि यशः स्वर्गं आयुः कीर्तिं प्रजाः पशून् ।
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् । । ११.४०[३९ं] । ।

अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् । । ११.४१[४०ं] । ।

ये शूद्रादधिगम्यार्थं अग्निहोत्रं उपासते ।
ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः । । ११.४२[४१ं] । ।

तेषां सततं अज्ञानां वृषलाग्न्युपसेविनाम् ।
पदा मस्तकं आक्रम्य दाता दुर्गाणि संतरेत् । । ११.४३[४२ं] । ।

अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः । । ११.४४[४३ं] । ।

अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् । । ११.४५[४४ं] । ।

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः । । ११.४६[४५ं] । ।

प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः । । ११.४७[४६ं] । ।

इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् । । ११.४८[४७ं] । ।

सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः । । ११.४९[४८ं] । ।

पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
धान्यचौरोऽङ्गहीनत्वं आतिरैक्यं तु मिश्रकः । । ११.५०[४९ं] । ।

अन्नहर्तामयावित्वं मौक्यं वागपहारकः ।
वस्त्रापहारकः श्वैत्र्यं पङ्गुतां अश्वहारकः । । ११.५१[५०ं] । ।

एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः ।
जडमूकान्धबधिरा विकृताकृतयस्तथा । । ११.५२[५१ं] । ।

चरितव्यं अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः । । ११.५३[५२ं] । ।

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह । । ११.५४[५३ं] । ।

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया । । ११.५५[५४ं] । ।

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् । । ११.५६[५५ं] । ।

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् । । ११.५७[५६ं] । ।

रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः । । ११.५८[५७ं] । ।

गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः ।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च । । ११.५९[५८ं] । ।

परिवित्तितानुजेऽनूढे परिवेदनं एव च ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् । । ११.६०[५९ं] । ।

कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
तडागारामदाराणां अपत्यस्य च विक्रयः । । ११.६१[६०ं] । ।

व्रात्यता बान्धवत्यागो भृत्याध्यापनं एव च ।
भृत्या चाध्ययनादानं अपण्यानां च विक्रयः । । ११.६२[६१ं] । ।

सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् ।
हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च । । ११.६३[६२ं] । ।

इन्धनार्थं अशुष्काणां द्रुमाणां अवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा । । ११.६४[६३ं] । ।

अनाहिताग्निता स्तेयं ऋणानां अनपक्रिया ।
असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया । । ११.६५[६४ं] । ।

धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् । । ११.६६[६५ं] । ।

ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् । । ११.६७[६६ं] । ।

खराश्वोष्ट्रमृगेभानां अजाविकवधस्तथा ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च । । ११.६८[६७ं] । ।

निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयं असत्यस्य च भाषणम् । । ११.६९[६८ं] । ।

कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयं अधैर्यं च मलावहम् । । ११.७०[६९ं] । ।

एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ।
यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत । । ११.७१[७०ं] । ।

ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् । । ११.७२[७१ं] । ।

लक्ष्यं शस्त्रभृतां वा स्याद्विदुषां इच्छयात्मनः ।
प्रास्येदात्मानं अग्नौ वा समिद्धे त्रिरवाक्शिराः । । ११.७३[७२ं] । ।

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा । । ११.७४[७३ं] । ।

जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ।
ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः । । ११.७५[७४ं] । ।

सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।
धनं हि जीवनायालं गृहं वा सपरिच्छदम् । । ११.७६[७५ं] । ।

हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम् ।
जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् । । ११.७७[७६ं] । ।

कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः । । ११.७८[७७ं] । ।

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च । । ११.७९[७८ं] । ।

त्रिवारं प्रतिरोद्धा वा सर्वस्वं अवजित्य वा ।
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते । । ११.८०[७९ं] । ।

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति । । ११.८१[८०ं] । ।

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
स्वं एनोऽवभृथस्नातो हयमेधे विमुच्यते । । ११.८२[८१ं] । ।

धर्मस्य ब्राह्मणो मूलं अग्रं राजन्य उच्यते ।
तस्मात्समागमे तेषां एनो विख्याप्य शुध्यति । । ११.८३[८२ं] । ।

ब्रह्मणः संभवेनैव देवानां अपि दैवतम् ।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् । । ११.८४[८३ं] । ।

तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् ।
सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् । । ११.८५[८४ं] । ।

अतोऽन्यतमं आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया । । ११.८६[८५ं] । ।

हत्वा गर्भं अविज्ञातं एतदेव व्रतं चरेत् ।
राजन्यवैश्यौ चेजानावात्रेयीं एव च स्त्रियम् । । ११.८७[८६ं] । ।

उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् । । ११.८८[८७ं] । ।

इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते । । ११.८९[८८ं] । ।

सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः । । ११.९०[८९ं] । ।

गोमूत्रं अग्निवर्णं वा पिबेदुदकं एव वा ।
पयो घृतं वा मरणाद्गोशकृद्रसं एव वा । । ११.९१[९०ं] । ।

कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी । । ११.९२[९१ं] । ।

सुरा वै मलं अन्नानां पाप्मा च मलं उच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् । । ११.९३[९२ं] । ।

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः । । ११.९४[९३ं] । ।

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद्ब्राह्मणेन नात्तव्यं देवानां अश्नता हविः । । ११.९५[९४ं] । ।

अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ।
अकार्यं अन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः । । ११.९६[९५ं] । ।

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति । । ११.९७[९६ं] । ।

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् । । ११.९८[९७ं] । ।

सुवर्णस्तेयकृद्विप्रो राजानं अभिगम्य तु ।
स्वकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति । । ११.९९[९८ं] । ।

गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु । । ११.१००[९९ं] । ।

तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् । । ११.१०१[१००ं] । ।

एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् । । ११.१०२[१०१ं] । ।

गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति । । ११.१०३[१०२ं] । ।

स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशं आतिष्ठेदा निपातादजिह्मगः । । ११.१०४[१०३ं] । ।

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत्कृच्छ्रं अब्दं एकं समाहितः । । ११.१०५[१०४ं] । ।

चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये । । ११.१०६[१०५ं] । ।

एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् ।
उपपातकिनस्त्वेवं एभिर्नानाविधैर्व्रतैः । । ११.१०७[१०६ं] । ।

उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत् ।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः । । ११.१०८[१०७ं] । ।

चतुर्थकालं अश्नीयादक्षारलवणं मितम् ।
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः । । ११.१०९[१०८ं] । ।

दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् । । ११.११०[१०९ं] । ।

तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः । । ११.१११[११०ं] । ।

आतुरां अभिशस्तां वा चौरव्याघ्रादिभिर्भयैः ।
पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत् । । ११.११२[१११ं] । ।

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः । । ११.११३[११२ं] । ।

आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले ।
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् । । ११.११४[११३ं] । ।

अनेन विधिना यस्तु गोघ्नो गां अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति । । ११.११५[११४ं] । ।

वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् । । ११.११६[११५ं] । ।

एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणं अथापि वा । । ११.११७[११६ं] । ।

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि । । ११.११८[११७ं] । ।

हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा ।
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः । । ११.११९[११८ं] । ।

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः । । ११.१२०[११९ं] । ।

मारुतं पुरुहूतं च गुरुं पावकं एव च ।
चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः । । ११.१२१[१२०ं] । ।

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन् । । ११.१२२[१२१ं] । ।

तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति । । ११.१२३[१२२ं] । ।

जातिभ्रंशकरं कर्म कृत्वान्यतमं इच्छया ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यं अनिच्छया । । ११.१२४[१२३ं] । ।

संकरापात्रकृत्यासु मासं शोधनं ऐन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् । । ११.१२५[१२४ं] । ।

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः । । ११.१२६[१२५ं] । ।

अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः । । ११.१२७[१२६ं] । ।

त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।
वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः । । ११.१२८[१२७ं] । ।

एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् । । ११.१२९[१२८ं] । ।

एतदेव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत् ।
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः । । ११.१३०[१२९ं] । ।

मार्जारनकुलौ हत्वा चाषं मण्डूकं एव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् । । ११.१३१[१३०ं] । ।

पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् । । ११.१३२[१३१ं] । ।

अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे सैसकं चैकमाषकम् । । ११.१३३[१३२ं] । ।

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् । । ११.१३४[१३३ं] । ।

हत्वा हंसं बलाकां च बकं बर्हिणं एव च ।
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् । । ११.१३५[१३४ं] । ।

वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् ।
अजमेषावनड्वाहं खरं हत्वैकहायनम् । । ११.१३६[१३५ं] । ।

क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् ।
अक्रव्यादान्वत्सतरीं उष्ट्रं हत्वा तु कृष्णलम् । । ११.१३७[१३६ं] । ।

जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ।
चतुर्णां अपि वर्णानां नारीर्हत्वानवस्थिताः । । ११.१३८[१३७ं] । ।

दानेन वधनिर्णेकं सर्पादीनां अशक्नुवन् ।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये । । ११.१३९[१३८ं] । ।

अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् । । ११.१४०[१३९ं] । ।

किं चिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति । । ११.१४१[१४०ं] । ।

फलदानां तु वृक्षाणां छेदने जप्यं ऋक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् । । ११.१४२[१४१ं] । ।

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् । । ११.१४३[१४२ं] । ।

कृष्टजानां ओषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेद्गां दिनं एकं पयोव्रतः । । ११.१४४[१४३ं] । ।

एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे । । ११.१४५[१४४ं] । ।

अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
मतिपूर्वं अनिर्देश्यं प्राणान्तिकं इति स्थितिः । । ११.१४६[१४५ं] । ।

अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ।
पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः । । ११.१४७[१४६ं] । ।

स्पृष्ट्व दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च ।
शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम् । । ११.१४८[१४७ं] । ।

ब्राह्मणस्तु सुरापस्य गन्धं आघ्राय सोमपः ।
प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति । । ११.१४९[१४८ं] । ।

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टं एव च ।
पुनः संस्कारं अर्हन्ति त्रयो वर्णा द्विजातयः । । ११.१५०[१४९ं] । ।

वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि । । ११.१५१[१५०ं] । ।

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टं एव च ।
जग्ध्वा मांसं अभक्ष्यं च सप्तरात्रं यवान्पिबेत् । । ११.१५२[१५१ं] । ।

शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः ।
तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः । । ११.१५३[१५२ं] । ।

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । । ११.१५४[१५३ं] । ।

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।
अज्ञातं चैव सूनास्थं एतदेव व्रतं चरेत् । । ११.१५५[१५४ं] । ।

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् । । ११.१५६[१५५ं] । ।

मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः ।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् । । ११.१५७[१५६ं] । ।

ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथं चन ।
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् । । ११.१५८[१५७ं] । ।

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम् । । ११.१५९[१५८ं] । ।

अभोज्यं अन्नं नात्तव्यं आत्मनः शुद्धिं इच्छता ।
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः । । ११.१६०[१५९ं] । ।

एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः । । ११.१६१[१६०ं] । ।

धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति । । ११.१६२[१६१ं] । ।

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् । । ११.१६३[१६२ं] । ।

द्रव्याणां अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये । । ११.१६४[१६३ं] । ।

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् । । ११.१६५[१६४ं] । ।

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् । । ११.१६६[१६५ं] । ।

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयःकांस्योपलानां च द्वादशाहं कणान्नता । । ११.१६७[१६६ं] । ।

कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः । । ११.१६८[१६७ं] । ।

एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् । । ११.१६९[१६८ं] । ।

गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च । । ११.१७०[१६९ं] । ।

पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।
मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् । । ११.१७१[१७०ं] । ।

एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ।
ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः । । ११.१७२[१७१ं] । ।

अमानुषीषू पुरुष उदक्यायां अयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् । । ११.१७३[१७२ं] । ।

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
गोयानेऽप्सु दिवा चैव सवासाः स्नानं आचरेत् । । ११.१७४[१७३ं] । ।

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति । । ११.१७५[१७४ं] । ।

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् । । ११.१७६[१७५ं] । ।

सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् । । ११.१७७[१७६ं] । ।

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति । । ११.१७८[१७७ं] । ।

एषा पापकृतां उक्ता चतुर्णां अपि निष्कृतिः ।
पतितैः संप्रयुक्तानां इमाः शृणुत निष्कृतीः । । ११.१७९[१७८ं] । ।

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् । । ११.१८०[१७९ं] । ।

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये । । ११.१८१[१८०ं] । ।

पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।
निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ । । ११.१८२[१८१ं] । ।

दासी घटं अपां पूर्णं पर्यस्येत्प्रेतवत्पदा ।
अहोरात्रं उपासीरन्नशौचं बान्धवैः सह । । ११.१८३[१८२ं] । ।

निवर्तेरंश्च तस्मात्तु संभाषणसहासने ।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी । । ११.१८४[१८३ं] । ।

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम् ।
ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः । । ११.१८५[१८४ं] । ।

प्रायश्चित्ते तु चरिते पूर्णकुम्भं अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये । । ११.१८६[१८५ं] । ।

स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् । । ११.१८७[१८६ं] । ।

एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके । । ११.१८८[१८७ं] । ।

एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् ।
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् । । ११.१८९[१८८ं] । ।

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् । । ११.१९०[१८९ं] । ।

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् । । ११.१९१[१९०ं] । ।

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास्तेषां अप्येतदादिशेत् । । ११.१९२[१९१ं] । ।

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च । । ११.१९३[१९२ं] । ।

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् । । ११.१९४[१९३ं] । ।

उपवासकृशं तं तु गोव्रजात्पुनरागतम् ।
प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् । । ११.१९५[१९४ं] । ।

सत्यं उक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् । । ११.१९६[१९५ं] । ।

व्रात्यानां याजनं कृत्वा परेषां अन्त्यकर्म च ।
अभिचारं अहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति । । ११.१९७[१९६ं] । ।

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस्तत्पापं अपसेधति । । ११.१९८[१९७ं] । ।

श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति । । ११.१९९[१९८ं] । ।

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश्च सकला नित्यं अपाङ्क्त्यानां विशोधनम् । । ११.२००[१९९ं] । ।

उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति । । ११.२०१[२००ं] । ।

विनाद्भिरप्सु वाप्यार्तः शारीरं संनिषेव्य च ।
सचैलो बहिराप्लुत्य गां आलभ्य विशुध्यति । । ११.२०२[२०१ं] । ।

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तं अभोजनम् । । ११.२०३[२०२ं] । ।

हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः ।
स्नात्वानश्नन्नहः शेषं अभिवाद्य प्रसादयेत् । । ११.२०४[२०३ं] । ।

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् । । ११.२०५[२०४ं] । ।

अवगूर्य त्वब्दशतं सहस्रं अभिहत्य च ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते । । ११.२०६[२०५ं] । ।

शोणितं यावतः पांसून्संगृह्णाति महीतले ।
तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् । । ११.२०७[२०६ं] । ।

अवगूर्य चरेत्कृच्छ्रं अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् । । ११.२०८[२०७ं] । ।

अनुक्तनिष्कृतीनां तु पापानां अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् । । ११.२०९[२०८ं] । ।

यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।
तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् । । ११.२१०[२०९ं] । ।

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं अद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः । । ११.२११[२१०ं] । ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् । । ११.२१२[२११ं] । ।

एकैकं ग्रासं अश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यं अतिकृच्छ्रं चरन्द्विजः । । ११.२१३[२१२ं] । ।

तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः । । ११.२१४[२१३ं] । ।

यतात्मनोऽप्रमत्तस्य द्वादशाहं अभोजनम् ।
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः । । ११.२१५[२१४ं] । ।

एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस्त्रिषवणं एतच्चाण्द्रायणं स्मृतम् । । ११.२१६[२१५ं] । ।

एतं एव विधिं कृत्स्नं आचरेद्यवमध्यमे ।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् । । ११.२१७[२१६ं] । ।

अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् । । ११.२१८[२१७ं] । ।

चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः ।
चतुरोऽस्तं इते सूर्ये शिशुचान्द्रायणं स्मृतम् । । ११.२१९[२१८ं] । ।

यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः ।
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् । । ११.२२०[२१९ं] । ।

एतद्रुद्रास्तथादित्या वसवश्चाचरन्व्रतम् ।
सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः । । ११.२२१[२२०ं] । ।

महाव्याहृतिभिर्होमः कर्तव्यः स्वयं अन्वहम् ।
अहिंसा सत्यं अक्रोधं आर्जवं च समाचरेत् । । ११.२२२[२२१ं] । ।

त्रिरह्नस्त्रिर्निशायां च सवासा जलं आविशेत् ।
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् । । ११.२२३[२२२ं] । ।

स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ।
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः । । ११.२२४[२२३ं] । ।

सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थं आदृतः । । ११.२२५[२२४ं] । ।

एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।
अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् । । ११.२२६[२२५ं] । ।

ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन्मुच्यते पापात्तथा दानेन चापदि । । ११.२२७[२२६ं] । ।

यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते । । ११.२२८[२२७ं] । ।

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।
तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते । । ११.२२९[२२८ं] । ।

कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।
नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः । । ११.२३०[२२९ं] । ।

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् । । ११.२३१[२३०ं] । ।

अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।
तस्माद्विमुक्तिं अन्विच्छन्द्वितीयं न समाचरेत् । । ११.२३२[२३१ं] । ।

यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ।
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् । । ११.२३३[२३२ं] । ।

तपोमूलं इदं सर्वं दैवमानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः । । ११.२३४[२३३ं] । ।

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् । । ११.२३५[२३४ं] । ।

ऋषयः संयतात्मानः फलमूलानिलाशनाः ।
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् । । ११.२३६[२३५ं] । ।

औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् । । ११.२३७[२३६ं] । ।

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ।
सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् । । ११.२३८[२३७ं] । ।

महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः । । ११.२३९[२३८ं] । ।

कीताश्चाहिपतंगाश्च पशवश्च वयांसि च ।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् । । ११.२४०[२३९ं] । ।

यत्किं चिदेनः कुर्वन्ति मनोवाङ्गूर्तिभिर्जनाः ।
तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः । । ११.२४१[२४०ं] । ।

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।
इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च । । ११.२४२[२४१ं] । ।

प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः ।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे । । ११.२४३[२४२ं] । ।

इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते ।
सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यं उत्तमम् । । ११.२४४[२४३ं] । ।

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयन्त्याशु पापानि महापातकजान्यपि । । ११.२४५[२४४ं] । ।

यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् । । ११.२४६[२४५ं] । ।

इत्येतदेनसां उक्तं प्रायश्चित्तं यथाविधि ।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत । । ११.२४७[२४६ं] । ।

सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । । ११.२४८[२४७ं] । ।

कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम् ।
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति । । ११.२४९[२४८ं] । ।

सकृज्जप्त्वास्यवामीयं शिवसंकल्पं एव च ।
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः । । ११.२५०[२४९ं] । ।

हविष्पान्तीयं अभ्यस्य न तमं ह इतीति च ।
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः । । ११.२५१[२५०ं] । ।

एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।
अवेत्यृचं जपेदब्दं यत्किं चेदं इतीति वा । । ११.२५२[२५१ं] । ।

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् । । ११.२५३[२५२ं] । ।

सोमारौद्रं तु बह्वेनाः मासं अभ्यस्य शुध्यति ।
स्रवन्त्यां आचरन्स्नानं अर्यम्णां इति च तृचम् । । ११.२५४[२५३ं] । ।

अब्दार्धं इन्द्रं इत्येतदेनस्वी सप्तकं जपेत् ।
अप्रशस्तं तु कृत्वाप्सु मासं आसीत भैक्षभुक् । । ११.२५५[२५४ं] । ।

मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।
सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् । । ११.२५६[२५५ं] । ।

महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः ।
अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति । । ११.२५७[२५६ं] । ।

अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः । । ११.२५८[२५७ं] । ।

त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः ।
मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्षणम् । । ११.२५९[२५८ं] । ।

यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् । । ११.२६०[२५९ं] । ।

हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ।
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किं चन । । ११.२६१[२६०ं] । ।

ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते । । ११.२६२[२६१ं] । ।

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति । । ११.२६३[२६२ं] । ।

ऋचो यजूंषि चान्यानि सामानि विविधानि च ।
एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् । । ११.२६४[२६३ं] । ।

आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ।
स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् । । ११.२६५[२६४ं] । ।