प्रबोधसुधाकरः/मायासिद्धिप्रकरणम्
चिन्मत्रः परमात्मा ह्यपश्यदात्मानमात्मतया ।
अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् ॥ ९५॥
द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै ।
तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् ॥ ९६॥
सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त ।
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥ ९७॥
चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् ।
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८॥
सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः ।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९॥
माया तावददृश्या दृश्यं कार्यं कथं जनयेत् ।
तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति ॥ १००॥
स्वप्ने सुरतानुभवाच्छुक्रद्रावोयथा शुभे वसने ।
अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या ॥ १०१॥
स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा ।
शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि सम्भवति ॥ १०२॥
एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम् ।
माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति ॥ १०३॥
रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभवोऽस्याः ।
सौदामिनीव नश्यति मुनिभिः सम्प्रक्ष्यमाणैव ॥ १०४॥
माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता ।
चिदश्चिद्ग्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥ १०५॥
घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति ।
तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥ १०६॥
ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य ।
सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य ॥ १०७॥
दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः ।
न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसङ्घातैः ॥ १०८॥
अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् ।
न परन्तु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९॥