प्रबोधसुधाकरः/आनुग्रहिकप्रकरणम्
विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता ।
तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥ २२७॥
अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि ।
कण्ठाश्लेषविशेषादवधीद्बाल्येऽसुरं कृष्णः ॥ २२८॥
यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ ।
रिङ्गन्नङ्गणभूमौ स्वमालयं प्रापयन्नृहरिः ॥ २२९॥
नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी ।
काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम् ॥ २३०॥
गोगोपीगोपानां निकरमहि पीडयन्तमतिवेगात् ।
अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान् ॥ २३१॥
पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः ।
दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिन्धुः ॥ २३२॥
पातु गोकुलमाकुलमशनितटिद्वर्षणैः कृष्णः ।
असहायएकहस्ते गोवर्धनमुद्दधारोच्चैः ॥ २३३॥
वासोलोभाकलितं धावद्रजकं शिलातलैर्हत्वा ।
विस्मृत्य तदपराधं विकुण्ठवासोऽर्पितस्तस्मै ॥ २३४॥
त्रेधा वक्रशरीरामतिलम्बोष्ठीं स्खलद्वपुर्वचनात् ।
स्रक्चन्दनपरितोषात्कुब्जामृज्वाननामकरोत् ॥ २३५॥
निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः ।
तुङ्गोन्मत्तमतङ्गः पतङ्गवद्दीपकस्याग्रे ॥ २३६॥
युद्धमिषात्सह रङ्गे श्रीरङ्गेनाङ्गसङ्गमं प्राप्य ।
मुस्श्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपदि ॥ २३७॥
देहकृतादपराधाद्वैकुण्ठोत्कण्ठितान्तरात्मानम् ।
यदुवरकुलावतंसः कंसं विध्वंसयामास ॥ २३८॥
हरिसन्दर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै ।
भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् ॥ २३९॥
मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः ।
नीतास्ते निजरूपं तत्र च मोक्षस्य का वार्ता ॥ २४०॥
ये यदुनन्दननिहतास्ते तु न भूयः पुनर्भवं प्रापुः ।
तस्मादवताराणामन्तर्यामी प्रवर्तकः कृष्णः ॥ २४१॥
ब्रह्माण्डानि बहूनि पङ्कजभवान्प्रत्यण्डमत्यद्भुतान्
गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः ।
शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात्
कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥ २४२॥
कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः
सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ।
प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि
निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥ २४३॥
मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां
मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि ।
कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं
तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शान्तिम् ॥ २४४॥
उदासीनः स्तब्धः सततमगुणः सङ्गरहितो
भवांस्तातः कातः परमिह भवेज्जीवनगतिः ।
अकस्मादस्माकं यदि न कुरुते स्नेहमथ तत्
वसस्व स्वीयान्तर्विमलजठरेऽस्मिन्पुनरपि ॥ २४५॥
लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां
सङ्कोचः पङ्कजानां किमिह समुदिते मण्डले चण्डरश्मेः ।
भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं
तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते ॥ २४६॥
नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता-
मौत्कण्ठ्यप्रबलप्रभञ्जनभरैराकर्षितो वर्षति ।
विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं
चेतश्चातक चेन्न वाञ्छतिमृषाक्रान्तोऽसि सुप्तोऽसि किम् ॥ २४७॥
चेतश्चञ्चलतां विहाय पुरतः सन्धाय कोटिद्वयं
तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।
विश्रान्तिर्हितमप्यहो क्व नु त्वयोर्मध्ये तदालोच्यतां
युक्त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम् ॥ २४८॥
पुत्रान्पौत्रमथस्त्रियोऽन्ययुवतीर्वित्तन्यथोऽन्यद्धनं
भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया ।
नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ
सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥ २४९॥
काम्योपासनयार्थयन्त्यनुदिनं किञ्चित्फलं सेप्सितं
किञ्चित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः ।
अस्माकं यदुनन्दनाङ्घ्रियुगलध्यानावधानार्थिनां
किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥ २५०॥
आश्रितमात्रं पुरुषं
स्वाभिमुखं कर्षति श्रीशः ।
लोहमपि चुम्बकाश्मा
संमुखमात्रं जडं यद्वत् ॥ २५१॥
अयमुत्तमोऽयमधमो
जात्या रूपेण सम्पदा वयसा ।
श्लाघ्योऽश्लाघ्यो वेत्थं
न वेत्ति भगवाननुग्रहावसरे ॥ २५२॥
अन्तःस्थभावभोक्ता
ततोऽन्तरात्मा महामेघः ।
खदिरश्चम्पक इव वा
प्रवर्षणं किं विचारयति ॥ २५३॥
यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ।
भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥ २५४॥
सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् ।
केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥ २५५॥
यद्यपि गगनं शून्यं तथापि जलदामृतांश्रूपेण ।
चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥ २५६॥
तद्वद्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः ।
कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥ २५७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
प्रबोधसुधाकरः समाप्तः ॥