सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः
Jump to navigation Jump to search

(१)
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥१११६ ॥ ऋ. ९.९७.७
प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः ।
आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकं ॥ १११७ ॥
स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ १११८ ॥

टिप्पणी

अथ सप्तमस्याह्नः - प्रका(साम १११६)-प्रस्वा(साम १११९)-नवर्चम् । असृग्रं(साम ११२८) नवर्चम् । आतेदक्ष(साम ११३७) इति बहिष्पवमानम् ।। - आर्षेयकल्पः उपोद्घातः पृ ७५

एता भवन्ति - प्र काव्यम् उशनेव ब्रुवाण इति प्रवतीः प्रायणे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। देवो देवानां जनिमा विवक्तीति सोमो वै देवो देवानां जनिमा। सोमम् एव तत् प्रजनयन्ति। महिव्रतश् शुचिबन्धुः पावक इत्य् अन्नं वै देवाश् शुचिव्रतम् इत्य् आचक्षते। अन्नम् उ देवानां सोमः। तम् एवैतत् प्रजनयन्ति। पदा वराहो अभ्य् एति रेभन्न् इति वराहो वै भूत्वा प्रजापतिष् षष्ठाद् अह्नस् सप्तमम् अहर् अभ्य् अत्यक्रामत्। अतिक्रान्तिर् एवैषा। प्र हंसासस् तृपला वग्नुम् अच्छेति ब्राह्मणा ह वै हंसासस् तृपलाः। अमाद् अस्तं वृषगणा अयासुर् इति षडहो वा अमाच् छन्दोमा अस्तम्। छन्दांसि वृषगणाः। छन्दांस्य् एवैतच् छन्दोमान् अभ्य् अतिनयन्त्य् उत्तरस्य त्र्यहस्य संपारणाय। अङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् इति बृहद्रथन्तरे एवैतत् प्रातस्सवने युज्येते। ते युक्ते माध्यन्दिने सवने ऽभ्यारोहन्ति। स योजत उरुगायस्य जूति वृथा क्रीळन्तं मिमते न गाव इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परीणसं कृणुते तिग्मशृंग इति । परीणसम् इत्य् आह - अन्नं वै परीणसम् - अन्नाद्यस्यैवावरुद्ध्यै। दिवा हरिर् ददृशे नक्तम् ऋज्र इत्य् अतिरात्रो रूपेण क्रियते॥ - जैब्रा ३.१७४

रम्भोपरि टिप्पणी


प्र स्वानासो रथा इवार्वन्तो न अवस्यवः ।
सोमासो राये अक्रमुः ॥ १११९ ॥ ऋ. ९.१०.१
हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
भरासः कारिणामिव ॥ ११२० ॥
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
यज्ञो न सप्त धातृभिः ॥ ११२१ ॥

टिप्पणी

ता एता भवन्ति त्रिष्टुभो गायत्रवर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। तद् आहुर् यद् गायत्रं सप्तमम् अहस्, त्रैष्टुभम् अष्टमं, जागतं नवमम्, अथ कस्माद् एतद् गायत्रं सत् त्रिष्टुब्भिः प्रतिपद्यन्त इति। स ब्रूयात् - सर्वे ह्य् एवैतच् छन्दोमास् त्रिष्टुप्प्रतिपदो भवन्तीति। प्र स्वानासो रथा इवेति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपाञ् जनयन्त्य् - उत श्वेता कृष्णं जनयन्त्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्। अर्वन्तो न श्रवस्यवः। सोमासो राये अक्रमुः॥ इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। हिन्वानासो रथा इवेति यद् वै रथवत् प्रायणीयरूपम् उ एव तत्। दधन्विरे गभस्त्त्योः। भरासः कारिणाम् इव॥ राजानो न प्रशस्तिभिस् सोमासो गोभिर् अञ्जते। इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। यज्ञो न सप्त धातृभिर् इति सप्तमस्याह्नो रूपम् उपगच्छन्ति॥ - जैब्रा ३.१७५


परि स्वानास इन्दवो मदाय बर्हणा गिरा ।
मधो अर्षन्ति धारया ॥ ११२२ ॥ ऋ. ९.१०.४
आपानासो विवस्वतो जिन्वन्त उषसो भगं ।
सूरा अण्वं वि तन्वते ॥ ११२३ ॥
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
वृष्णो हरस आयवः ॥ ११२४ ॥

समीचीनास आशत होतारः सप्तजानयः ।
पदमेकस्य पिप्रतः ॥ ११२५ ॥ ऋ. ९.१०.७
नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे ।
कवेरपत्यमा दुहे ॥ ११२६ ॥
अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितं ।
सूरः पस्यति चक्षसा ॥ ११२७ ॥


(२)
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
विदाना अस्य योजना ॥ ११२८ ॥ ऋ. ९.७.१
प्र धारा मधो अग्रियो महीरपो वि गाहते ।
हविर्हविःषु वन्द्यः ॥ ११२९ ॥
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने ।
सद्माभि सत्यो अध्वरः ॥ ११३० ॥

परि यत्काव्या कविर्नृम्णा पुनानो अर्षति ।
स्वर्वाजी सिषासति ॥ ११३१ ॥
पवमानो अभि स्पृधो विशो राजेव सीदति ।
यदीमृण्वन्ति वेधसः ॥ ११३२ ॥
अव्या वारे परि प्रियो हरिर्वनेषु सीदति ।
रेभो वनुष्यते मति । ११३३ ॥

स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
रणा यो अस्य धर्मणा ॥ ११३४ ॥
आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः ।
विदाना अस्य शक्मभिः ॥ ११३५ ॥
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
श्रवो वसूनि सञ्जितं ॥ ११३६ ॥

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
पान्तमा पुरुस्पृहं ॥ ११३७ ॥ ऋ. ९.६५.२८
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणं ।
पान्तमा पुरुस्पृहं ॥ ११३८ ॥
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
पान्तमा पुरुस्पृहं ॥ ११३९ ॥

टिप्पणी

नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अथो तेनैव त्रिवृत स्तोमान् न यन्ति। यद् धि किं च प्रायणं त्रिवृत्। प्रायणम् उ एवोत्तरं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैः समृध्यमाना यन्ति। आ ते दक्षं मयोभुवम् इति पर्यासो भवति, प्रजानां धृत्यै पशूनाम् उपस्थित्यै। तद् आहुर् - यत् समं कस् तृणस्याग्रं सर्पति, क्व स ततो भवतीति। उत् पक्षिणः पतन्तीत्य् आहुः। कथम् अपक्षा भिन्दत इति। पक्षिणीर् इव वा एता यास् समानप्रायणास् समानोदयनाः। एताभिर् वा एतद् अहः पक्षि क्रियत, एताभिर् उत्पतत्य्, एताभिस् त्रयस्त्रिंशं स्तोमं प्रत्युद्यच्छति। पक्षी पाप्मानं तरति, पक्षी श्रियम् अश्नुते य एवं वेद। प्रेति पवमानस्य प्रथमेत्य् उत्तमैवम् इव ह्य् एतद् अहः। तस्माद् वयस् सम्यक् पक्षाभ्याम् एवैते। चतुर्विंश स्तोमो भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एवैतत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतत् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति॥ - जैब्रा ३.१७६


(३)
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।
कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ ११४० ॥ ऋ. ६.७.१
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥ ११४१ ॥
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ११४२ ॥

टिप्पणी

मूर्द्धानम्(साम ११४०) प्रवोमित्राय(साम ११४३) इन्द्रा याहि चित्रभानो(साम ११४६)-तमीडि(साम ११४९)त्याज्यानि ।। - आर्षेयकल्पः उपोद्घातः पृ. ७५

त्रयो वैश्वानरा अतिरात्रा द्वादशाहे कार्या इत्य् आहुः। प्राणः प्रथमो वैश्वानरो, ऽपानो द्वितीयो, व्यानस् तृतीयः। वाग् वा एषा प्रतता यद् द्वादशाहः। तां त्वयि विच्छिन्द्युः। तां हार्यलः काहोळिर् उपेयाय - त्रयनीका विजित्येति। तम् उ ह ब्राह्मण उवाचानुष्ठ्या प्राणान् उपागात्। वि वाचम् अछैत्सीद् इति। तस्य ह तत् कुलं व्य् एव चिच्छिदे। ज्योक् तु हैव जिजीव। तद् उ ह पश्चेवानुसंताययांचक्रे। मूर्धानं दिवो अरतिं पृथिव्या इत्य् एवंरूपेण वैश्वानरः कार्यः। तन् न वाचं विछिनत्ति, नाग्निं वैश्वानरम् अन्तरेतीति। प्र वश् शुक्राय भानवे भरध्वम् इति प्रवती कार्या। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। भूयांसि रूपाण्य् अपराध्यन्त। इतराण्य् एव भूयांसि रूपाणि। यन् मूर्धानं दिवो अरतिं पृथिव्या इत्य् आह द्यावापृथिवीयो वातिरात्रो ऽतिरात्र एवैतेन रूपेण क्रियते। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति। कविं सम्राजम् अतिथिं जनानाम् इति माध्यन्दिनं सवनम्। आसन्ना पात्रं जनयन्त् देवा इति षष्ठस्याह्नस् तृतीयसवनम् प्रत्युपगच्छन्ति॥ - जैब्रा ३.१७७

तद् धि जघन्यं यज्ञे देवा अपश्यन्। अतीता इवैतर्हि भवन्ति। तद् एवैतत् प्रत्युपगच्छन्ति सन्तत्यै। ते देवा अब्रुवन् यद् इमाव् असत्रम् अतिरात्राव्, अथ केनेमाव् अग्नेर् वैश्वानरस्य तन्वं व्येष्याम इति। ते ऽब्रुवन् या एव न इमा अन्त्या अयातयाम्न्यः परमा गुह्यास् तन्वस् ताभिर् व्ययामेति। मूर्धानं दिवो अरतिं पृथिव्या इति द्यावापृथिव्योर् अन्त्यायातयाम्नी परमा गुह्या तनूः। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। कविं सम्राजम् अतिथिं जनानाम् इतीन्द्रस्य सम्राड्वतीष्व अन्त्यायातयाम्नी परमा गुह्या तनूः। आसन्ना पात्रं जनयन्त देवा इति विश्वेषां देवानाम् अन्त्यायातयाम्नी परमा गुह्या तनूः॥जैब्रा ३.१७८

स यथा प्रीहितावीजं परिचते वासस् ता वासो निधनानिमं परिधत्त एवम् एव तत् देवा अन्त्याभिर् अयातयाम्नीभिस् तनूभिर् अग्नेर् वैश्वानरस्य तन्वं व्यायन्। तथो एवैतर्हि वियन्ति। सर्वाणि वा अग्निष्टोमे संस्थिते। षड् उक्थान्य् उत्क्रामन्ति। तान्य् एतस्मिन् षडहे संस्थित उत्क्रामन्ति। तान्य् एतस्मिन्न् एवाग्नेय आज्ये पुनर् युज्यन्ते। मूर्धाने दिवो अरतिं पृथिव्या इति द्यावापृथिवीयम् एवैतेन यु्ज्यते। कविं सम्राजम् अतिथिं जनानाम् इति मरुत्वतीय - निष्केवल्ये एवैतेन युज्येते। आसन्ना पात्रं जनयन्त देवा इत्य् आज्यप्रउगे एवैतेन यु्ज्येते। एवम् एतान्य् उक्थानि पुनर् युज्यन्ते। अर्वाङ् ह्य् एष त्रियहस् तायते। तस्मान् मूर्धानं दिवो अरतिं पृथिव्या इति भवति। असौ वै दिवो मूर्धेयम् अरतिः पृथिव्यै॥जैब्रा ३.१७९


(४)
प्र वो मित्राय गायत वरुणाय विपा गिरा ।
महिक्षत्रावृतं बृहत् ॥११४३ ॥ ऋ. ५.६८.१
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।
देवा देवेषु प्रशस्ता ॥ ११४४ ॥
ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य ।
महि वां क्षत्रं देवेषु ॥ ११४५ ॥

टिप्पणी

प्र वो मित्राय गायतेति मैत्रावरुणं भवति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् चेत्य् उभयोर् एवैतद् बृहद्रथन्तरयो रूपम् उपगच्छन्ति। उभे ऽप्य् अत्र बृहद्रथन्तरे क्रियेते। - जैब्रा ३.१८०


(५)
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
अण्वीभिस्तना पूतासः ॥ ११४६ ॥ ऋ. १.३.४
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥ ११४७ ॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश्चनः ॥ ११४८ ॥

टिप्पणी

इन्द्रा याहि चित्रभानो, इन्द्रा याहि धियेषित, इन्द्रा याहि तूतुजान इत्य् आ याह्य् आ याहीति भवति। आ याह्य् आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तद् यत् तृतीयस्याह्न् ऐन्द्राग्नम्। तद् ऐन्द्राग्नं समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। असमैनि हैके कुर्वन्ति। तस्मात् समैन्य् एव कार्याणि। चतुर्विंश स्तोमो भवति - चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतद् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति॥ - जैब्रा ३.१८०

(६)
तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
कृष्णा कृणोति जिह्वया ॥ ११४९ ॥ ऋ. ६.६०.१०
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
द्युम्नाय सुतरा अपः ॥ ११५० ॥
ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।
एन्द्रमग्निं च वोढवे ॥ ११५१ ॥

(७)
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ ११५२ ॥ ऋ. ९.८६.१६
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ।
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥ ११५३ ॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं ॥ ११५४ ॥

(८)
न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।
इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ ११५५ ॥
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥ ११५६ ॥


(९)
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥ ११५७ ॥
समी वत्सं न मातृभिः सृजता गयसाधनं ।
देवाव्या३ं मदमभि द्विशवसं ॥ ११५८ ॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शन्तमं ॥ ११५९ ॥
शौक्तम्


(१०)
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं ॥ ११६० ॥
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥ ११६१ ॥
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥ ११६२ ॥
सौहविषम्

(११)
ये सोमासः परावति ये अर्वावति सुन्विरे ।
ये वादः शर्यणावति ॥ ११६३ ॥
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां ।
ये वा जनेषु पञ्चसु ॥ ११६४ ॥
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यं ।
स्वाना देवास इन्दवः ॥ ११६५ ॥

(१२)
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वां कामये गिरा ॥ ११६६ ॥
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥ ११६७ ॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसं ॥ ११६८ ॥
वात्सम्

(१३)
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनासहं ॥ ११६९ ॥
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अथा ते सुम्नमीमहे ॥ ११७० ॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत ।
स नो रास्व सुवीर्यं ॥ ११७१ ॥
सौश्रवसम्

(१४)
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ ११७२ ॥
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
विद्याम तस्य ते वयमकूपारस्य दावनः ॥ ११७३ ॥
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥ ११७४ ॥
वीङ्कम्


[सम्पाद्यताम्]

टिप्पणी

११५२ प्रो अयासीद् इति

प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति॥जै.ब्रा. जैमिनीयं ब्राह्मणम्/काण्डम् ३/१८१-१९०।३.१८८

सप्तम अह -- "प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्"इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः– तां.ब्रा.पञ्चविंशब्राह्मणम्/अध्यायः १४।१४.३.४