सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/पञ्चनिधनं वैरूपम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वैरूपम्.
वैरूपम्.

( १।३ ।। पञ्चनिधनं वैरूपम् ।।)


य꣡द्द्या꣯वइ꣢न्द्रते꣯शत꣡म् । ए꣯ । श꣢तं꣡भू꣯मी꣯रु꣢त꣡ । स्योवा ।। ओ꣯वाऽ᳒२᳒ । ह꣡ꣳऽ᳒२᳒ । ह꣡ऽ᳒ꣳ२ । ह꣡ꣳऽ᳒२᳒ । ओ꣡꣯वा꣭ऽ३ हा꣢उवा । न꣡त्वा꣯व꣢ज्रिन्त्सह꣡स्र꣢ꣳसू꣡꣯र्या꣢꣯अ꣡नु꣢ । ओ꣡꣯वाऽ᳒२᳒ । ह꣡ꣳऽ᳒२᳒ । (त्रिः) । ओ꣡꣯वा꣭ऽ३ । हा꣢उवा । न꣡जा꣯तमष्ट꣢रो꣯दसी꣢꣯ ।। ओ꣡꣯वाऽ᳒२᳒ । ह꣡ꣳऽ२᳒ । ( त्रिः) । ओ꣡वा꣭ऽ३ । हा꣢उवा । दि꣡शंविशꣳहस् ।। ओ꣡꣯वाऽ᳒२᳒ । ह꣡ꣳऽ᳒२᳒। (त्रिः) । ओ꣡꣯वा꣭ऽ३ । हा꣢उवा । अ꣡श्वा꣯शिशुम꣢ती꣯ । ओ꣡꣯वाऽ᳒२᳒ । ह꣡ꣳऽ᳒२᳒ । (त्रिः) । ओ꣡꣯वा꣭ऽ३ ।। हा꣢उ(३)वाऽ३᳐ । इ꣡ट्स्थिइडाऽ२३꣡४꣡५꣡ ।।

( दी० २३ । प० ३९ । मा० १० )३ ( ढौ । ३)

११
यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः |
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी || ८६२ || ऋ. ८.७०.५
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा |
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः || ८६३ ||


(आरण्यकगानम्)
( १।३ ।। पञ्चनिधनं वैरूपम् ।।)
यद्द्यावइन्द्रतेशतम् । ए । शतंभूमीरुत । स्योवा ।। ओवाऽ२ । हꣳऽ२ । हऽꣳ२ । हꣳऽ२ । ओवाऽ३ हाउवा । नत्वावज्रिन्त्सहस्रꣳसूर्याअनु । ओवाऽ२ । हꣳऽ२ । (त्रिः) । ओवाऽ३ । हाउवा । नजातमष्टरोदसी ।। ओवाऽ२ । हꣳऽ२ । ( त्रिः) । ओवाऽ३ । हाउवा । दिशंविशꣳहस् ।। ओवाऽ२ । हꣳऽ२। (त्रिः) । ओवाऽ३ । हाउवा । अश्वाशिशुमती । ओवाऽ२ । हꣳऽ२ । (त्रिः) । ओवाऽ३ ।। हाउ(३)वाऽ३ । इट्स्थिइडाऽ२३४५ ।। ( दी० २३ । प० ३९ । मा० १० )३ ( ढौ । ३)

(ऊह्यगानम्)

 ७. पञ्चनिधनं वैरूपम् ।। विरूपः । बृहती । इन्द्रः ।।
यद्द्यावइन्द्रतेशतम् । ए । शतंभूमीरुत । स्योवा ।। दिशंविशꣲ-हस् । नत्वावज्रिन्त्सहस्रꣲसूर्याअनु । अश्वाशिशुमती । नजातमष्टरोदसी । इट् ।। श्रीः ।। नजातमष्टरोदसी । ए । नजातमष्ट । रोदसोवा ।। दिशंविशꣲहस् । आपप्राथमहिनावृष्ण्यावृषन् । अश्वाशिशुमती । विश्वाशविष्ठशवसा । इट् ।। श्रीः ।। विश्वाशविष्ठशवसा । ए । विश्वाशविष्ठ । शवसोवा ।। दिशंविशꣲहस् । अस्माꣲअवमघवन्गोमतिव्रजे । अश्वाशिशुमती । वज्रिञ्चित्राभिरूतिभिः ।। इट्स्थिइडाऽ२३४५ ।

दी. ३८. उत् ४ . मा. १२ ढा. ।।७।।


[सम्पाद्यताम्]

टिप्पणी

यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः। न त्वा वज्रिन् सहस्रं सूर्या अनु इति -- यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। न जातम् अष्ट रोदसी इति - इमे ह वाव रोदसी। एते एवैतद् अभिवदति। आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसेति -- विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अस्मे अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिर् इति -- गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। तासु वैरूपम्। संवत्सरो वै विरूपो, विरूपा ऋतवो, विरूपा अर्धमासाः। तद् यत् पञ्चनिधनं पञ्च ह्य् ऋतवो, यद् द्वादशनिधनं द्वादश हि मासा, यद् दिग्वद् आक्रमणवत् तेन, यद् विश्ववद् वैश्वदेवं ह्य् एतद् अहः। प्रजननं वा एतद् वैरूपम्। तद् यत् तृतीये ऽहन् क्रियते चतुर्थस्याह्नः प्रजात्यै। यद् देवा अभवंस् तद् असुरा अभवन्।...... जैब्रा. ३.४८

यद्द्याव इन्द्र ते शतमिति शतवत्यो भवन्ति शतवद्वै पशूनां रूपं सहस्रवत् पशूनामेवैताभी रूपमवरून्धे ........ पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्यावरुद्ध्यै दिशां वा एतत् साम यद्वैरूपं दिशो ह्येवैतेनाभिवदति अथ यत् पञ्चनिधनं तेनर्तूनां पञ्च ह्यृतवः ऋतुभिश्च वा इमे लोका दिग्भिश्चावृतास्तेष्वेवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तमुद्गाता प्रतितिष्ठति य एवं विद्वान् वैरूपेणोद्गायति दिग्वद्भवति भ्रातृव्यस्यापनुत्यै दिशं विशमिति निधनमुपयन्ति दिशां धृत्यै हसित्युपरिष्टाद्दिशां निधनमुपयन्ति तेन बार्हतम् - तांब्रा. १२.४

अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ छांउ २.१५.१


वैरूपाणि (आरण्यकम्)

महावैष्टम्भम् (ऊहगानम्)

वैरूपम्(प्रमन्दिने)

वैरूपोपरि वैदिकसंदर्भाः

अजानाख्या देवतास्तु तत्तद्देवकुले भवाः । अजानदेवतास्ता हि तेभ्योग्र्याः कर्मदेवताः ॥ ३,९.२ ॥ विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा । धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥ ३,९.३ ॥ विद्याधरश्चोग्रसेनो विश्वावसुपरावसू । चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ गरुडपु. ३,९.४

अज उपरि संदर्भाः