सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः २/औशनम्(साकमु)

विकिस्रोतः तः
औशनम्

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ १४१८ ॥ ऋ. ९.९३.१
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ १४१९ ॥
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ १४२० ॥

४. औशनम् ॥ उशनाः। त्रिष्टुप् । पवमानस्सोमः ॥

साकाम् ॥ उक्षोमर्जयन्ता । स्वसाऽ३राः । दशधीरा । स्याऽ३धीत । योधनुत्रीः । हरि999पर्यद्रवज्जास्सू । रियाऽ२३स्या ॥ द्रोणन्नना ॥ क्षेऽ३अति । योऽ३४३ । नाऽ३वाऽ५”जाऽ६५६इ ॥ श्रीः ॥ साम्मा ॥ तृभिर्नशिशुर्वा । वशाऽ३नाः। वृषादधा। न्वेऽ३पुरु। वारोअद्भाइः । मर्योनयोषामभिनाइः। कृताऽ२३म्यान् ॥ संगच्छताइ ॥ कलशे । ऊऽ३४३ । स्रीऽ३याऽ५ भाऽ६५६इः ॥ श्रीः ॥ ऊता ॥ प्रपिप्यऊधरा । घ्नियाऽ३याः । इन्दुर्धारा । भीऽ३स्सच । तेसुमेधाः। मूर्धानङ्गावᳲपयसा । चमूऽ२३षू ॥ अभिश्रीणा ॥ तीऽ३वसु । भाऽ३४३इः । नाऽ३नाऽ५इ”क्ताऽ६५६इः॥

दी. १७. उ. ७. मा. २३. छि. ॥७०३॥

[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४