सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/औक्ष्णोरन्ध्रम्

विकिस्रोतः तः
औक्ष्णोरन्ध्रम्
औक्ष्णोरन्ध्रम्.

मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ।। १०७९ ।। ऋ. ९.१०७.२१
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने ।
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ।। १०८० ।।


२. औक्ष्णोरन्ध्रम् । उक्ष्णोरन्ध्रं काव्यः। बृहती। पवमानस्सोमः।
मृज्यमानाः ॥ सुहस्तियाऽ३ । सामूऽ३द्राइवा । चमिन्वसाऽ३इ । रायीऽ३म्पाइशा। गम्बहुलाऽ३म् । पूरूऽस्पॄऽ२३४हाम् ॥ पवमा । ना। औऽ३ हो ॥ भियोऽ२३४वा । षाऽ५सोऽ६"हाइ ॥श्रीः।। पवमाना ॥ भियर्षसाऽ३इ । पावाऽ३माना । भियर्षसाऽ३इ । पूनाऽ३नोवा । रेपवमाऽ३ । नोआऽ२व्याऽ२३४याइ ॥ वृषोअ। चा। औऽ३हो ॥ क्रदोऽ२३४वा । वाऽ५नोऽ६"हाइ ॥ श्रीः ॥ वृषोअचाइ ॥ क्रदद्वनाऽ३इ । वार्षोऽ३आचाइ ।क्रदद्वनाऽ३इ । दाइवाऽ३नाꣳसो । मपवमाऽ३ । ननाऽ२इष्काऽ२३४र्त्ताम् ॥ गोभिर। जा। औऽ३हो ॥ नओऽ२३४वा । षाऽ५सोऽ६"हाइ ॥
दी. ८. उत् . ३. मा. २४. डी. ॥१०२।।

[सम्पाद्यताम्]

टिप्पणी

औक्ष्णोरन्ध्राणि (ग्रामगेयः)

मृज्यमानस् सुहस्त्या समुद्रे वाचम् इन्वसि। रयिम् इति (साम १०७९) रु इति रेवतीनां रूपम्। पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्य् अर्षसि॥ पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद् वने। इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसीति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। - जै.ब्रा. ३.१४९

अथौक्ष्णोरन्ध्रम्। उक्ष्णो वै रन्ध्रः काव्यो ऽकामयताद्भिः प्रतीपं स्वर्गं लोकम् आरोहेयम् अप्सु मे वर्त्मानि पश्येयं नियानम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽद्भिः प्रतीपं स्वर्गं लोकम् आरोहद्, अप्सु स्ववर्त्मान्य् अपश्यन् नियानम्। स ह वाव रौमण्वतः। स एवोशना काव्यः। स ह स यमुनयैव प्रतीपं स्वर्गं लोकम् आरोहत् । तद् एतत् स्वर्ग्यं साम। अद्भिः प्रतीपं स्वर्गं लोकम् आरोहति य एवं वेद। यद् उक्ष्णो रन्ध्रः काव्यो ऽपश्यत् तस्माद् औक्ष्णोरन्ध्रम् इत्य् आख्यायते। - जैब्रा ३.१५०

दशरात्रस्य षष्ठमहः -- मृज्यमानः सुहस्त्येत्यौक्ष्णोरन्ध्रे स्वारैडं वाजजिच्च वरुणसाम चाङ्गिरसां गोष्ठं च । - आर्षेयकल्पः उपोद्घातः पृ. ७५