किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)

विकिस्रोतः तः
किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)
भारविः

॥ श्रीः ॥

महाकविश्रीभारविप्रणीतं

किरातार्जुनीयम् ।


महामहोपाध्यायकोलाचलमल्लिनाथसूरिकृतया

घण्टापथाख्यया व्याख्यया सम्मुल्लसितम्।


जयपुरमहाराजाश्रितेन

पण्डितव्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन,

मुम्बापुरवासिना ।

परबोम्पाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा

संशोधितम् ।


तृतीयं संस्करणम्


तच्च

शाके १८१७ वत्सरे

मुम्बय्यां

जावजी दादाजी इत्येतेषां

निर्णयसागराख्यमुद्रणयन्त्रालयाधिपतिना तुकाराम जावजी

इत्यभिधेनाङ्कयित्वा प्राकाश्यं नीतम् ।

मूल्यं रुप्यकद्वयम् ।

उपोद्धातः ।


 किरातार्जुनीयप्रणेतातिप्राचीनो महाकविमूर्धन्यः श्रीभारविः कस्मिन्समये कतमं जनपदं जन्मना भूषितवानिति निश्चेतुमतीव दुःशकम् । किं तु काव्यमालायां मुद्रिते त्रयोदशे प्राचीनलेखे 'किरातार्जुनीयपञ्चदशसर्गादिकोम्कारो दुव्विनीतनामधेयः' इति किरातार्जुनीयस्य, षोडशे प्राचीनलेखे च ‘येनायोजिनवेऽश्मस्थिरमर्थविधौ विवेकिन्प्र जिनवेश्म। स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥' इति भारविकवेर्नाम समुपलभ्यते । तत्र त्रयोदशो लेखोऽष्टानवत्युत्तरषटूछतेषु (६९८) शक वर्षेषु, षोडशो लेखश्च षट्पञ्चाशदधिकपञ्चशतेषु (५५६)शकवर्षेषु लिखितोऽस्ति । एतेन ख्रिस्ताब्दीयसप्तमशतकारम्भेऽपि भारविकविः कालिदासवत्सुप्रसिद्ध उपमा- नभूतश्चासीत् । तादृशी प्रसिद्धिश्च सत्वरमेव न भवतीति ख्रिस्ताब्दीयषष्ठशतकात्प्राचीनो भारविरिति निर्विकल्पम् ।।

 'व्हिएना ओरिएण्टल् जर्नल्' नाम्नस्त्रैमासिकपुस्तकस्य तृतीये भागे द्वितीये खण्डे (१४४ मिते पृष्ठे) शार्मण्यदेशीयो याकोबीपण्डितोऽपि “We therefore cannot place Magha later than about the middle of the sixth century; and Bharavi who is older than Magha by at least a few decades about the beginning of the sixth century' इत्यादि वदन्ख्रिस्ताब्दीयषष्ठशतकमध्यभागात्कथमपि माघकविर्नार्वाचीनः, भारविश्च ततोऽपि प्राचीन इति स्थिरीकरोति ।

 देशश्च भारवेरनिश्चित एव । राजाराम-रामकृष्ण-भागवत-पण्डितस्तु ‘म-हाठ्यांच्या संबंधानें चार उद्गार' एतन्नामके महाराष्ट्रभाषाग्रथिते स्वकीयसंदर्भे (३४ पृष्ठे) "जशा- सह्याद्रीच्या कड्यावर समुद्राच्या लाटा मोघ होतात' असा किराताच्या अठराव्या सर्गात उद्गार काढणारा भारवि निःसंशय दाक्षिणात्य होय; मग तो, महाठा असो किंवा अस्सल द्रविड़ असो,' इत्युद्गिरति । अत्र यदि सह्याद्रिनामग्रहणमात्रेणैव भार- वेर्दाक्षिणात्यत्वमङ्गीक्रियेत, तदा तु दक्षिणदिक्प्रसिद्धानां मलय-सह्य-सुवैलादिपर्वतानां कावेरी-गोदावरी-ताम्रपर्णी-भीमा-वेणादिनदीनां च वर्णयिता हरविजयकारः सुप्रसिद्ध काश्मीरकरत्नाकरमहाकविरपि दाक्षिणात्य एवेत्यपि सुवचम् । एवं विन्ध्याटवीवर्णन तत्परो बाणोऽपि विन्ध्याद्रिवासी कश्चन भिल्लः स्यात् । अन्येऽपि खर्गपातालादिवर्णन- बद्धपरिकरा:, कवयस्तत्तत्प्रदेशवास्तव्या देवा दानवाश्च भवितुमर्हन्तीत्यतिसरला सरणिर्देशनिर्णय समुद्गीणां भागवतमहाशयेन ।

 किरातार्जुनीयमपहायान्यः कोऽपि ग्रन्थो भारविकविग्रणीतो नावलोकितः । किरा- तार्जुनीयस्य तु प्रकाशवर्ष-जोनराज-एकनाथ-धर्मविजय-विनयसुन्दर-नरहरि-मल्लिनाथाथिभिः प्रणीताष्टीकास्तत्तद्देशेषु समुपलभ्यन्ते । तासु मल्लिनाथप्रणीता घण्टापथाख्यैव सर्वगुणपूर्णा सर्वत्र लब्धप्रचारा च । तत्र प्रकाशवर्ष-जोनराजौ, काश्मीरकौ, धर्मविजय-विनयसुन्दरौ जैनौ, एकनाथ-नरहरि-मलिनाथाश्च दाक्षिणात्याः सन्ति । प्रतापरुद्रीयटीकाप्रारम्भे मल्लिनाथस्य कनिष्ठसूनुः कुमारस्वामी भङ्गलाचरणश्लोकद्वया नन्तरमित्थमात्मानं वर्णयति----‘वाणीं काणभुजीमजीगणदवासासीच्च वैयासिक़ीमन्तस्तत्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्ष- पादस्फुरां लोलेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ त्रिस्कन्धशास्त्रजलधिं चुलुकीकुरुते स्म यः । तस्य श्रीमल्लिनाथस्य तनयोऽजनि तादृशः ॥ कोलाचलपेद्दयार्थः प्रमाणपदवाक्यपारदृश्वा यः । व्याख्यातसर्वशास्त्रः प्रबन्धकर्ता च सर्वविद्यासु ॥ तस्यानुजन्मा तदनुग्रहात्तविद्योऽनवद्यो विनयावनम्रः । स्वा[१] मी विपश्चिद्वितनोति टीकां प्रतापरुद्रीयरहस्यभेत्रीम् ॥ यद्यन्निगढमखिलं शक्त्या तत्तत्प्रकाश्यते । ना मूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ इति । स च मल्लिनाथस्तैलङ्गाभिजनः ख्रिस्ताब्दीयचतुर्दशशतक आसीदति बहुसंमतम् । केचित्तु मल्लिनाथः ख्रिस्ताब्दीय सप्तदशशतकोत्तरभागादप्यर्वाचीनः । यतोऽयं शिशुपालवधकिरातार्जुनीयादिटीकासु केशवकोशं प्रमाणत्वेनोपन्यस्यति । केशवश्च स्वकीयकोशं 'तत्रायं सांप्रतं कलिः । तद्गताब्दा: कुतिथिमाः (४७६१)' इति कटपयादिक्रमेणात्मग्रन्थनिर्माणसमये कलिगताब्दान्वदति । अतः षष्ट्यधिकषोडशशत(१६६०)मिते ख्रिस्ताब्दे केशवेन कोशः प्रणीत इति स्फुटमेवेति वहन्ति । एतद्वम्श्या गजेन्द्रगढ़ाख्यनगर्यामद्याप्यधिवसन्तीति केचिद्वदन्ति । काव्यप्रकाशटीकाकारस्य सरस्वतीतीर्थस्य जनको मल्लिनाथस्त्वस्माद्भिन्नः । यतो नारायणो न[२] रहरिश्चेति तत्सूनुद्वयस्य नामधेये। शिशुपालवधोपोद्धाते तु सरस्वती तीर्थजनकः शिशुपालवधादिटीकाकारश्चैक एवेति भ्रमेण लिखितम् ।।

 घण्टापथयुक्तस्यास्य किरातार्जुनीयस्य मुद्रणावसरेऽस्माभिः संकलितानि पुस्तकानि त्वेतानि--

१----जयपुरराजगुरुपर्वणीकरनारायणभट्टानां सटीकं (१७३०) मिते विक्रमाब्दे जोध पुरे यशवन्तसिंहराज्ये सौभाग्यहर्षेण लिखितं प्रायः शुद्धम् । प्रारम्भे पत्रपञ्चकहीनम् । तत्पत्राणि १३९ ।

२-सटीकमेव पुस्तकं जयपुरमहाराजाश्रितपण्डितश्रीसरयूप्रसाहानां नातिशुद्धं प्रारम्भे पञ्चचतुष्टयेनान्तिमपञ्चेण च विकलम् । सार्धशतवर्षप्राचीनमिवोपलक्ष्यमाणम्। तत्पत्राणि २८३ ।

३-टीकामात्रं जयपुरराजगुरुभट्टलक्ष्मीदत्तात्मजभट्टश्रीदत्तानां शुद्धं प्रत्नंतरमतिम्लि ष्टस्वरूपम् । तत्पत्राणि १०३ ।

४-भट्टश्रीदत्तानामेव टीकामात्रं पञ्चदशसर्गस्याष्टत्रिंशन्मितश्लोकपर्यन्तं प्राचीनं सुवाच्यं किं तु नातिशुद्धम् । तत्पत्राणि १५७ ।

५-तेषामेव मूलमात्रं शुद्धं प्राचीनं च। तत्पत्राणि ६७ ।

 एवं पुस्तकपञ्चकमासाद्य टीकापाठान्सम्यग्विविच्यैतन्मुद्रणमकारि । ग्रन्थादौ विषयानुक्रमः, ग्रन्थान्ते च पञ्चदशसर्गस्थगोमूत्रिकादिबन्धश्लोकानां चित्राणि, टीकायां मल्लिनाथेन प्रमाणतयोपन्यस्तानां ग्रन्थग्रन्थकर्तृणां तत्तत्स्थलोल्लेखपूर्वकं नामानि; ग्रन्थस्थनिखिलश्लोकानां मातृकाक्रमेणानुक्रमणी च निवेशिनास्ति । एवं प्रयत्नपूर्वकं मुद्रितोऽयं ग्रन्थो निर्मत्सराणां गुणैकपक्षपातिनां विदुषामानन्दावहो भूयादिति शिवम् ।।


१. कुमारस्वामी । २. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।

किरातार्जुनीयस्य विषयानुक्रमः ।


विषयः ।


१ युधिष्ठिरेण वनेचरस्य समागमः । तत्कृतं दुर्योधनस्य राजनीतिनैपुण्यवर्णनम् । वनेचर- गमनम् । युधिष्ठिरं प्रति द्रौपदीवाक्यम् ।

२ युधिष्ठिरं प्रति भीमसेनवचनम् । भीमसेनं प्रति युधिष्ठिरवाक्यम् । पाण्डवैसमीपे व्यास- मुनेरागमनम्। पाण्डवकृतमुनिसत्कारवर्णनम् ।

३ व्यासमुनिस्वरूपवर्णनम् । मुनिं प्रति युधिष्ठिरवचनम् । युधिष्ठिरं प्रति मुनिवचनम् । अर्जुनं प्रति मुनिकृतो विद्योपदेशः । तपश्चर्यार्थं निदेशश्च । मुनिगमनम् । अर्जुनस्य गमनोपक्रमः । पाण्डवानां भाव्यर्जुनवियोगेन वैमनस्यम् । अर्जुनकृतं द्रौपदीविलोकनम् । अर्जुनं प्रति द्रौपदीवाक्यम् । व्यासाज्ञप्तेन गुह्यकेन सहार्जुनस्येन्द्रकीलं नाम हिमालयपादविशेषं प्रति प्रस्थानम् ।

४ कविकृतं शरद्वर्णनम् । गुह्यककृतं शरद्वर्णनम् । हिमाद्रिविलोकनम् ।

५ हिमाद्रिवर्णनम् । अर्जुनस्य तन्मूले प्राप्तिः । गुह्यकगमनम् ।।

६ इन्द्रकीलेऽर्जुनस्यारोहणादिवर्णनम् । तत्रार्जुनस्य तपश्चर्यारम्भः । तपोवर्णनम् । इन्द्रकील- वनरक्षकैरिन्द्रसमीपे गत्वा कृतमर्जुनस्य तपोऽतिशयवर्णनम् । अर्जुनतपोविघ्नार्थं गन्तव्यमित्यप्सरोगणं प्रति शक्रनिदेशः ।

७ गन्धर्वैः समेतस्याप्सरोगणस्य सविलासगमनादिवर्णनम् । इन्द्रकीलपर्वते प्राप्तानां तेषां रथमजादिसमेतस्य तच्छिबिरस्य संनिवेशादिवर्णनम् ।

८ गन्धर्वाणामप्सरसां च पुष्पावचयक्रीडावर्णनम् । सलिलक्रीडावर्णनम् ।

९ सायंकालवर्णनम् । चन्द्रोदयवर्णनम् । सुरतवर्णनम् । पानगोष्ठीवर्णनम् । पुनरपि संक्षेपेण सुरतवर्णनम् । संक्षेपेण प्रभातवर्णनम् ।

१० अर्जुनप्रलोभनार्थभप्सरसां तत्समीपे गमनवर्णनम् । अर्जुनवर्णनम् । वर्षादिऋतुवर्णनम् । अर्जुनं विलोक्याप्सरसां चेष्टावर्णनम् । आसां प्रयासवैफल्यवर्णनं च ।

११ अर्जुनाश्रमे मुनिरूपधारिण इन्द्रस्यागमनम् । इन्द्रार्जुनयोः संवादः । इन्द्रेण प्रत्यक्षीभूयार्जुनं प्रति शिवाराधनमादिष्टमिति वर्णनम् ।

१२ शिवाराधनार्थमर्जुनकृतस्य तपसो वर्णनम् । अर्जुनतपसां भृशं तप्तानां सिद्धतापसानां शिव

सर्गाङ्कः ।
विषयः ।

समीपे गमनं तत्तपोवृत्तकथनं च । शिवकृतं मुनिसान्त्वनमर्जुनस्वरूपकथनं च । वराहरूपमास्थायार्जुनपराभवार्थमागतस्य मूकदानवस्य वधार्थभर्जुनानुजिघृक्षया च किरात- रूपधारिणस्तद्रूपधारिण्यैव गणसेनया समेतयं भगवतो मृगयाव्याजेनार्जुनाश्रमे गमनवर्णनम् ।

१३ वराहरूपधारिणो मूकदानवस्यार्जुनकृतं विलोकनम् । तद्विलोकनेनार्जुनस्य नानाविधा वितर्काः । वराहं प्रति भगवतोऽर्जुनस्य च बाणमोक्षवर्णनम् । वराहमृत्युवर्णनम् । वराहशरीरतः स्वबाणमाददानमर्जुनं प्रति शिवप्रहितस्य वनेचरस्योत्तेजकं वाक्यम् ।

१४ वनेचरं प्रत्यर्जुनवचनम् । तच्छ्रुत्वागतस्य वनेचरस्य वचनमाकर्ण्य सेनासमेतस्य लीलाकिरातस्य भगवतोऽर्जुनविजयार्थमागमनम् । भगवत्सेनयार्जुनस्य युद्धवर्णनम् ।

१९ चित्रयुद्धवर्णनम् ।

१६ किरातवेषस्य भगवतो नितान्तं युद्धकौशलं विलोक्यार्जुनस्य वितर्कः । भगवता सहार्जुनस्यास्त्रयुद्धवर्णनम् ।

१७ सेनया सहार्जुनयुद्धवर्णनम् । भगवदर्जुनयोर्युद्धवर्णनम् ।

१८ भगवदर्जुनयोर्बहुयुद्धवर्णनम् । अर्जुनस्य सत्त्वातिशयं विलोक्य भगवतः प्रसादः स्वरूप प्रकटीकरणं च । तत्रैवेन्द्रादिदेवागमनम् । अर्जुनकृता भगवत्स्तुतिः । वरयान्वनम् । अर्जुनं प्रति पाशुपतास्त्रसमेतस्थ धनुर्वेदस्य भगवत्कृत उपदेशः । इन्द्रादिदेवानामपि भगवदाज्ञयार्जुनं प्रति वरदानं स्वस्वास्त्रदानं च । कृतकृत्यस्यार्जुनस्य भगवदाज्ञया

युधिष्ठिरसमीप आगमनम् । ग्रन्थसमाप्तिः ।

॥ श्रीः ।।

महाकविश्रीभारविप्रणीतं

किरातार्जुनीयम् ।

मल्लिनाथकृतया घण्टापथव्याख्यया समेतम्।


प्रथमः सर्गः ।

अर्धाङ्गीकृतदांपत्यमपि गाढानुरागि यत् ।
पितृभ्यां जगतस्तस्मै कस्मैचिन्महसे नमः ॥
आलम्बे जगदालम्बं हेरम्बचरणाम्बुजम् ।
शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः॥
तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे ।
यत्प्रकाशात्प्रलीयन्ते मोहान्धतमसञ्छटाः ॥

 वाणीं काणभुजीमजीगणदवाशासीच्च वैयासकी-
मन्तस्तन्त्रमरम्स्त पन्नगगवीगुम्फेषु चाजागरीत् ।
'वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां
लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ।।

मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया ।।
 तत्किरातार्जुनीयाख्य काव्यं व्याख्यातुमिच्छति ॥

नारिकेलफलसंमितं वचो भारवेः सपदि तद्विभज्यते ।
स्वादयन्तु रसगर्भनिर्भर सारमस्य रसिका यथेप्सितम् ॥

नानानिबन्धविषमैकपदैर्नितान्त साशङ्कचङ्क्रमणखिन्नधियामशङ्कम् ।।
कर्तुं प्रवेशमिह भारविकाव्यबन्धे घण्टापथं कमपि नूनमातनिष्ये ॥

इहान्वयमुखेनैव सर्व व्याख्यायते मया।
नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥

 अथ तत्रभवान्भारविनामा कविः ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्याद्यालंकारिकवचन प्रामाण्यात्काव्यस्यानेकश्रेयःसाधनताम्, 'काव्यालापांश्च वर्जयेत्' इति निषेधशास्त्र स्यासत्काव्यविषयतां च पश्यन्किरातार्जुनीयाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्था विघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनत्वात् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याद्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च वनेचरस्य युधिष्ठिरप्राप्तिरूपं वस्तु निर्दिशन्कथामुपक्षिपति-

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥१॥

श्रिय इति ॥ आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम्- 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा।'इति । कुरूणां निवासाः कुरवो जनपदाः।'तस्य निवासः'इत्यण्प्रत्ययः । जनपदे लुप् । तेषामधिपस्य दुर्योधनस्य संबन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । 'कर्तृकर्मणोः कृति' इति कर्भणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्संपद् इति भावः । 'करणाधिकरणयोश्च' इति करणे ल्युट् । 'टिद्ढाणञ्-' इत्यादिना ङीप । प्रजासु जनेषु विषये । 'प्रजा स्यात्संततौ जने'इत्यमरः । वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्ण: प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम्-'स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्॥' एतदष्टविधमैथुनाभावः प्रशस्तिः ।'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः। 'भेदीः किरातशबरपुलिन्द: म्लेच्छजातयः'इत्यमरः । चरेष्टः' इति टप्रत्ययः ।'तत्पुरुषे कृति बहुलम्' इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः । परवृत्तान्तशानवानित्यर्थः । 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः ।अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते ।उभयत्रापि 'पीता गावः','भुक्ता ब्राह्मणाः','विभक्ता भ्रातरः' इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात् ।अतएव भाष्यकार:-'अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः' इति सर्वत्र । अथवोत्तरपद- लोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयट:--'गस्यार्थस्याप्रयोग एव लोपोऽभिमतः'। 'विभक्ता भ्रातरः' इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचरितम् । 'पीतोदका गावः' इत्यंभाप्युदकस्य पीतत्वं गोष्वारोप्यते' इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते। एतेन 'वनाय पीतप्रतिर्बद्धवत्साम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु' पवमादयो व्याख्याताः । अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कतरि क्तः। यथा 'आशितः कर्ता' इत्यादौ । यथाहु:-'धातोरर्थान्तरे वृत्तेर्धात्वर्थ- नोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥' इति । द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात्तद्द्वीतम् । द्वीतमेव द्वैतम् । तच्च तद्वनं च तस्मिन् । . शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । ‘हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक्। ‘गवियुधिभ्यां स्थिरः इति षत्वम् । समाययौ संप्राप्तः। अत्र ‘वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालंकारः। अस्मिन्सर्गे वंशस्थवृत्तम् । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौः' इति ।।

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥२॥

 कृतप्रणामस्येति ॥ कृतप्रणामस्य तत्कालोचितत्वात्कृतनमस्कारस्य सपत्नेन रिपुणा दुर्योधनेन । 'रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः' इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय । क्रियाग्रहणात्सम्प्रदानत्वम् । निवेदयिष्यतो ज्ञापयिष्यतः । 'लृटः सद्धा' इति शतृप्रत्ययः । तस्य वनेचरस्य मनो न विव्यथे। कथमीदृगप्रियं राज्ञे विज्ञापयामीति मनसि न चचालेत्यर्थः । 'व्यथ भयचलन्त्यो:' इति धातोर्लिट् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते- न हीति । हि यस्मात् । हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषा मृषा मिथ्याभूतं प्रियं प्रवक्तुं नेच्छन्ति । अन्यथा कार्यविघातकतया स्वामिद्रोहिणः स्युरिति भावः। 'अमौढ्यममान्द्यममृषाभाषित्वमभ्यूहकत्वं चेति चारगुणाः' इति नीतिवाक्यामृते ॥

 तथापि प्रियार्हे राज्ञि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाम्यनुज्ञया न दुष्यतीत्याशयेनाह-

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भू[३]भृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥३॥

 द्विषामिति ॥ रहस्येकान्ते स वनेचरो द्विषां शत्रूणाम् । कर्मणि षष्ठी। विघाताय। विहन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । ‘भाववचनाश्च' इति तुमर्थे घञ्प्रत्ययः । अत्र तादर्थ्यमपि न दोषः । तथापि प्रयोगवैचित्रीविशेषस्याप्यलंकारत्वादेवं व्याचक्षते । विधातुं व्यापारं कर्तुमिच्छतः। 'समानकर्तृकेषु तुमुन्'। द्विषो विहन्तुमु- द्युक्तज्ञानस्येत्यर्थः । अतएव भूभृतो युधिष्ठिरस्यानुज्ञामधिगम्य । सुष्टु भावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशब्दादव्ययादुद्गात्रादित्वाञ्प्रत्ययः । उदारस्य भाव औदार्यमर्थ- संपत्तिः । तयोर्द्वन्द्व: सौष्ठवौदार्ये । अत्रौदार्यशब्दस्याजाद्यन्दत्वेऽपि 'लक्षणहेत्वोः क्रियायाः' इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकृतैव पूर्वनिपात- स्यानित्यत्वज्ञापनात्रं पूर्वनिपातः । उक्तं च काशिकायाम्--'अयमेव लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्' इति । त एव-विशेषः । तयोर्वा विशेषः । तेन शालते शोभत इति सौष्ठवौदार्यविशेषशालिनी ताम्। ताच्छील्ये णिनिः ।विनिश्चितार्थं विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् । उवाचेत्यर्थः ।।


 प्रथमं तावदप्रियनिवेदकमात्मानं प्रत्यक्षोभं याचते--

क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥४॥

 क्रियास्विति ॥ हे नृप, क्रियासु कृत्यवस्तुषु युक्तैर्नियुक्तैरनुजीविभिर्भृत्यै:। चारादिभिरित्यर्थः । चरन्तीति चराः । पचाद्यच् । तएव चाराः। चरेःपचाद्यजन्तात्प्रज्ञादित्वा- दण्प्रत्ययः। त एव चक्षुर्येषां ते चारचक्षुषः। 'स्वपरमण्डले कार्याकार्यावलोकने चाराश्चक्षूंषि क्षितिपतीनाम्' इति नीतिवाक्यामृते । प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः । सत्यमेव वक्तव्या इत्यर्थः। चारापचारे चक्षुरपचारव- द्राज्ञां पदे पदे निपात इति भावः । अतोऽप्रतार्यत्वाद्धेतोः । असाध्वप्रियं साधु प्रियं वा । मदुक्तमिति शेषः । क्षन्तुं सोढुमर्हसि। कुतः । हितं पश्यं मनोहारि प्रियं च वचो दुर्लभम् । अतो मद्वचोऽपि हितत्वादप्रियमपि क्षन्तव्यमित्यर्थः ॥

 तर्हि तूष्णींभाव व वरमित्याशंक्याह----

स किंसखा साधु नशास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपदः ॥५॥

 स इति ॥ यः सखामात्यादिरधिपं स्वामिनं साधु हितं न शास्ति नोपदिशति । 'ब्रुविशासि-' इत्यादिना शासेर्दुहादिपाठाद्विकर्मकत्वम् । स हितानुपदेष्टा । कुत्सितः सखा किंसखा । दुर्मन्त्रीत्यर्थः ।'किमः क्षेपे' इति समासान्तप्रतिषेधः । तथा यः प्रभुर्निग्रहानुग्रहसमर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशात् । ‘आख्या- तोपयोगे' इत्यपदानत्वात्पञ्चमी । न संशृणुते न ऋणोति । हितमिति शेषः । 'समो गम्यृच्छि-' इत्यादिना संपूर्वाच्छृणोतेरकर्मकादात्मनेपदम् । अकर्मकत्वं वैवक्षिकम् । स हितमश्रोता प्रभुः किंप्रभुः कुत्सितस्वामी । पूर्ववत्समासः । सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना । एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः । ऐकमत्यस्य फलमाह--सदेति ।हि यस्मान्नृपेषु स्वामिषु । अमा सह भवा, अमात्या- स्तेषु च । 'अव्ययात्त्यप्'। अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसंपदः सदा रतिमनुरागं कुर्वते कुर्वन्ति । न जातु जहतीत्यर्थः । अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः । अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दासामर्थ्यसिद्धेरैकमत्य- लक्षणकारणस्य निर्दिष्टस्य सर्वसंपत्सिद्धिरूपकार्येण समर्थनात्कार्येण कारणसमर्थ- नरूपोऽर्थान्तरन्यासोऽलंकारः । तदुक्तम्---‘सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः' इति ॥

 संप्रति स्वाहंकार परिहरति----

निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥६॥

 निसर्गेति ॥ निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । ईषद्दु:--' इत्यादिना खल्प्रत्ययः ।

भूपतीनां चरितं क्व । अबोधविक्लवा अज्ञानोपहृता जन्तवः । मादृशाः पामरजना,इत्यर्थः। क्व । नोभयं संघटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषाँ नयवर्त्म षा- ङ्गुण्यप्रयोगः ‘संधिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षङ्गुणा नीतिवेदिनाम् ॥' इत्यादिरूपो यन्मयावेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ्। अयम् । इदं वेदनमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभाव इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद्धञ्प्रत्ययः । ‘श्रिणी- भुवोऽनुपसर्गे' इत्यनुपसर्गाद्भवतेर्धातोर्धञ्विविधानात् । अतएव काशिकायमू-'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः' इति । दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः ॥

 संप्रति यद्वक्तव्यं तदाह-

विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥७॥

 विशङ्कमान इति ॥ सुखेन युध्यते सुयोधनः । ‘भाषायां शासियुधिदृशिधृषिमृषि- भ्यो युज्वाच्यः'। नृपासनस्थः सिंहासनस्थोऽपि । वनमधिवसतीति वनाधिवासिनो वनस्थात्।राज्यभ्रष्टांदपीत्यर्थः। भवतस्त्वत्तः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन् । दुष्टमुदरमस्येति दुरोदरं द्यूतम् । पृषोदरादित्वात्साधु । ‘दुरोदरो द्युतकारे पणे द्यूते दुरोदरम्' इत्यमरः । तस्य च्छद्मना मिषेण जितां लब्धां दुर्नयार्जितां जगतीं महीम् । जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति वैजयन्ती । नयेन नीत्या 'जेतुं वशीकर्तुं समीहते व्याप्रियते । न तूदास्त इत्यर्थः । बलवत्स्वामिकमविशुद्धागमं च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः । अत्र 'दुरोदरच्छद्मजिताम्' इति विशेषणद्वारेण पदार्थस्य चतुर्थपादार्थं प्रति हेतुत्वेनोपन्यासाद्वितीयकाव्यलिङ्गमलंकारः। तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।

 ‘नयेनं जेतुं जगतीं समीहते' इत्युक्तम् । तत्प्रकारमाह-

तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसंपदा यशः।
समुन्नयन्भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ॥८॥

 तथापीति । तथापि साशङ्कोऽपि । जिह्मो चक्रः । चञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया । गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः । 'हेतौ' इति तृतीया । गुणसंपदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यशस्तनोति । स खलो, गुणलोभनीयां त्वत्संपदमात्मसात्कर्तुं त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीत्यर्थः । नन्वेवं गुणिनः सतोऽपि सज्जनविरोधो महानस्त्यस्य दोष इत्याशङ्कय सोऽपि तत्संसर्गालाभे नीच संगमाद्वरमुत्कर्षावहत्वादित्याह-समिति। तथ्याहे । भूतिं समुन्नयन्नुत्कर्षमापादयन् । 'लट: शतृशानचौ-' इत्यादिना शतृप्रत्ययः । पुनर्लङ्घहणसामर्थ्यात्प्रथमासामानाधि- करण्यम्, । महात्मभिः समम् । सहेत्यर्थः । 'साकं सत्रा समं सह' इत्यमरः । अनार्य- संगमाहुर्जनसंसर्गात् । 'पञ्चमी विभक्ते' इति पञ्चमी । विरोधोऽपि वरं मनाक्प्रियः । ‘देवादृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये' इत्यमरः । अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधस्य ‘भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरा- दानात्समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे--‘समाप्तपुनरादांनात्स- माप्तपुनरात्तकम्” इति। न च वाक्यान्तरमेतत् । येनोक्तदोषपरिहारः स्यात् । अर्थान्तरन्यासोऽलंकारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधवत्त्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गानुप्राणित इति ।।

 ननु ‘कातर्यं केवला नीतिः' इत्याशङ्क्य नीतियुक्तं पौरुषमस्येत्याह--

कृतारिषड्वर्गजयेन मानव्रीमगम्यरूपां पदर्वीं प्रपित्सुना।
विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥९॥

 | कृतेति ॥ षण्णां वर्गः षड्वर्गः । अरीणामन्तःशत्रूणां कामक्रोधादीनां षड्वर्गोऽरि- षड्वर्गः । शिवभागवतवत्समासः । तस्य जयः कृतो येन तेन तथोक्तेन । विनीतेनेत्यर्थः । विनीताधिकारं प्रजापालनमिति भावः । अगम्यरूपां पुरुषमात्रदु:प्राप्याम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः । पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना । प्रपद्यतेः सन्नन्तादुप्रत्ययः । ‘सनि ममा--' इत्यादिनेसादेशः । ‘अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अस्ता तन्द्रिरालस्यं यस्य तेनास्ततन्द्रिणा । अनलसेनेत्यर्थः । तदिः सौत्रो धातुः । तस्मात् ‘वङ्क़्यादयश्च' इत्यौणादिकः किन्प्र- त्ययः । 'कृदिकारादक्तिनो वा ङीप् वक्तव्यः' इति । 'वन्दीघटीतरीतन्द्रीति ङीप- न्तोऽपि' इति क्षीरस्वामी । तथा रामायणे प्रयोगः--‘निस्तन्द्रिरप्रमत्तश्च स्वदोषपर- दोषवित्' इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः । उद्योग इति यावत् । युवादित्वादण्प्रत्ययः ।'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि'इति विश्वः । नक्तं च दिवा च नक्तंदिवम् । अहोरात्रयोरित्यर्थः ।'अचतुर-' इत्यादिनां सप्तम्य- र्थवृत्त्योरव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः । विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥

 संप्रति भृत्याद्यनुरागमाह---

सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः ।
स संततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१०॥

 सखीनिति ॥ गतस्मयो निरहंकारोऽतएव स दुर्योधनः संततमनारतं साधु सम्यक् । अंकपटमित्यर्थः । अनुजौविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव। दर्शयते । लौकस्येति शेषः। ‘हेतुंमति च' इति णिच् ।'णिचश्च'इत्यात्मनेपदम् । शोभनं हृदयं येषां तान्सुहृदो मित्राणि च । 'सुहृद्दुर्हृदौ मित्रामित्रयोः' इति निपातः । बन्धु- भिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारादर्शयते । बन्धूनां समूहो बन्धुता ताम् । 'ग्रामजनबन्धुसहायेभ्यस्तल्'।कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते। बन्धूनधिपतीनिव दर्शयतीत्यर्थः । यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्संभावयतीत्यर्थः । अनुजीव्यादीनाम् 'कर्तुरीप्सिततमं कर्म' इति कर्मत्वम् । पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति --स राजानुजीव्यादीन्सख्यादीनिव दर्शयते । सख्याय इव ते तु तं पश्यन्ति । सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव च्छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः । अर्थात्तस्येप्सितकर्मत्वम् । अणि कर्तरनुजीव्यादेः 'अभिवादिदृशोरात्मनेपदमुपसंख्यानम्' इति पाक्षिकं कर्मत्वम्। एवं चात्राण्यन्तकर्मणो राज्ञोऽण्यन्ते कर्तृत्वेऽपि ‘आरोहयते हस्ती स्वयमेव' इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नार्यं णेरणादिसुत्रस्य विषय इति मत्वा'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे । भाष्ये तु णेरणादिसुत्रविषयत्वमप्यस्योक्तम् । यथाह--- "पश्यन्ति भृत्या राजानम्', ‘दर्शयते भृत्यान् राजा','दर्शयते भृत्यै राजा' अत्रात्मनेपदं सिद्धं भवति” इति। अत्राह कैयट:--‘ननु कर्मान्तरसद्भावादत्रात्मनेपदेनं भाव्यम् । उच्यते--अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय ऊह्यते । अयन्तावस्थायां ये कर्तृकर्मणी तद्वयतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति । यथा--'स्थलमारोह- यति मनुष्यान्' इति । इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवा- त्मनेपदमिति ।।

 न चायं त्रिवर्गात्प्रमाद्यतीत्याह-

असंक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्यत्रिगणः परस्परम् ॥११॥

 असक्तमिति ॥ यथायथं यथास्वं विभज्य। असंकीर्णरूपं विविच्येत्यर्थः ।'यथास्वे यथायथम्' इति निपातनाद्द्विर्भावो नपुंसकत्वं च । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वंत्वम् । पक्षे पातः पक्षपात आसक्तिविशेषः समस्तुल्यो यस्यां तया समपक्ष- पातया। भक्त्त्यानुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः । पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्यास्य दुर्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः । ‘त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकै:' इत्यमरः । गुणानुरागात्तदीयगुणेष्वनुरागात् । गुणवदाश्रयलोभादित्यर्थः । सख्यं मैत्रीम्। 'सख्युर्यः' इति यप्रत्ययः । ईयिवानुपगतवानिवेत्युत्प्रेक्षा । 'उपेयिवान- नाश्चाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । ‘नात्रौपसर्गस्तन्त्रम्'इति काशिकाकार आह स्म। परस्परं न बाधते । समवर्तित्वादस्य धर्मार्थकामाः परस्परानुपमर्दैन वर्धन्त इत्यर्थः । उक्तं च---धर्मार्थकामा: सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः' इति ॥  अथ श्लोकत्रयेणोपायकौशलं दर्शयन्नादौ सामदाने दर्शयति----

निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥१२॥

 'निरत्ययमिति ॥ तस्य दुर्योधनस्य निरत्ययं निर्बाधम् । अमायिकमित्यर्थः।अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम् । ‘साम सान्त्वमुभे समे' इत्यमरः। दानवर्जितं न प्रवर्तते अन्यथा लुब्धाद्यावर्जनस्य शुष्कप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तं च–लुब्धमर्थेन गृह्णीयात्साधुमञ्जलिकर्मणा । मुर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम् ॥' इति। तथा भूरि प्रभूतम् । न तु कदाचित्स्वल्पमित्यर्थः । दानं धनत्यागः । सदित्यादरार्थेऽव्ययम्।'आदरानादयोः सदसती' इति निपातसंज्ञास्मरणात् । तस्य क्रियां सत्क्रियां विरहय्य विहाय । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । न प्रवर्तते । अनादरे दानवैफल्यादिति भावः । न चैवं सर्वत्र, येनाविवेकित्वं कोशहानिश्च स्यादित्याह -प्रेति । विशेषशालिन्यतिशययोगिनी सत्क्रियादरक्रिया गुणानुरोधेन गुणानुरागेण विना न प्रवर्तते । ‘पृथग्विना-' इत्यादिना तृतीया । गुणेष्वेवादरो भूरिदानं चेति नोक्तदोषावकाश इत्यर्थः । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषणतया स्थापनादेकाव- ल्यलंकारः । तदुक्तं काव्यप्रकाशे---स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा ॥' इति ॥

 अथ दण्डप्रकारमाह----

वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव [४] निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥१३॥

 वसूनीति | वशी दुर्योधनो वसूनि धनानि वाञ्छन्न । लोभान्नेत्यर्थः । वसु तोये धने मणौ' इति वैजयन्ती । निहन्तीति शेषः । तथा मन्युना कोपेन न च । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः । ‘धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति स्मरणादित्यर्थः। किंतु निवृत्तकारणो निवृत्तलोभादिनिमित्तः सन्स्वधर्म इत्येव । स्वस्य राज्ञ: सतो ममायं धर्मो ममेदं कर्तव्यमित्यस्मादेव हेतोरित्यर्थः । “अदण्ड्यान्दण्ड्यन् राजा दण्ड्याम्श्चैवाप्य- दण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति सरणादिति भाव: । गुरूपदिष्टेन प्राड़िवाकोपदिष्टेन । 'धर्मशास्त्रं पुरस्कृत्य प्राङ्विवाकमते स्थितः । समा- हितमतिः पश्येद्व्यवहारामनुक्रमात् ॥' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः। रिपौ सुतेऽपि वा । स्तिमिति शेषः । एतेनास्य समदर्शित्वमुक्तम् । धर्मभिप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्रुः शिष्ट एव बन्धुः । न तु संबन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ।।


 संप्रति भेदकौशलं दर्शयति-

वि[५] धाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वंनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति संपदः ॥१४॥

 विधायेति ॥ शङ्का संजातास्य शङ्कितोऽविश्वस्तः सन्परितः सर्वत्र स्वपरमण्डले परेतरानात्मीयान् । अवञ्चकानिति यावत् । यद्वा परानितरयन्ति भेदेनात्मसात्कुर्व- न्तीति परेतरान् । तत्करोतीति ण्यन्तात्कर्मण्यण्प्रत्ययः । रक्षन्तीति रक्षान् रक्षकान् । मन्त्रगुप्तिसमर्थानित्यर्थः । 'नन्दिग्रहि'- इत्यादिना पचाद्यच् । विधाय कृत्वा । नियुज्येत्यर्थः । अशङ्किताकारमुपैति । स्वयमविश्वस्तोऽपि विश्वस्तवदेव व्यवहरन्परमु- खेनैव परान्भिनत्तीत्यर्थः । न च तान् रक्षानुपेक्षते येन तेऽपि विकुर्वीरन्नित्याह- क्रियेति । क्रियापवर्गेषु कर्मसमाप्तिष्वनुजीवितात्कृता भृत्याधीनाः कृताः । अपरावर्तितया दत्ता इत्यर्थः ।'देये त्रा च' इति सातिप्रत्ययः । संपदोऽस्य राज्ञः कृतज्ञतामु- पकारित्वं वदन्ति । प्रीतिदानैरेवास्य कृतज्ञत्वं प्रकाश्यते, न तु वाङ्मात्रेणेत्यर्थः । कृतज्ञे राज़न्यनुजीविनोऽनुरज्यन्तेऽनुरक्ताश्च तं रक्षन्तीति भावः ।।

 अथोपायप्रयोगस्य फलवत्तां दर्शयतिः---

अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसंपदः ॥१५॥

 अनारतमिति ॥ तेन राज्ञा पदेषुपादेयवस्तुषु।'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' - इत्यमरः । सम्यगसंकीर्णमव्यस्तं च विभज्य विचिच्य। विनियोग एव सत्क्रियानुग्रहः । सत्कार इति यावत् । यासां ता लम्भिताः । स्थानेषु सम्यक्प्रयुक्ता इत्यर्थः । उपायाः सामादयः । संघर्षं परस्परस्पर्धामुपेत्येवेत्युत्प्रेक्षा । परिबृंहितायतीः प्रचितोत्तरकालाः । स्थिरा इत्यर्थः । अर्थसंपदोऽनारतमजस्रं फलन्ति । प्रसुवत इत्यर्थः ।।

 अर्थसंपदमेवाह--

अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् ।
नयत्ययुग्मेच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥१६॥

 अनेकेति ॥ अयुग्मच्छदस्य सप्तपर्णपुष्पस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः। 'सप्तम्युपमान-' इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । 'उपमानाच्च' इति । समासान्त इकारः । नृपाणामुपायनान्युपहारभूता ये दन्तिनस्तेषां मदः । ‘उपायन- मुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । राज्ञामपत्यानि पुमांसो राजन्या: क्षत्रियाः । 'राजश्वशुराद्यत्' इति यत्प्रत्ययः । राज्ञोऽपत्ये जातिग्रहणादन्। रथाश्चाश्वाश्च रथा- श्वम्। सेनाङ्गत्वादेकवद्भावः । अनेकेषां राजन्यानां रथाश्वेन संकुलं व्याप्तं तदीयमा-


स्थाननिकेतनाजिरं सभामण्डपाङ्गणं भृशमत्यर्थमार्द्रतां पङ्किलत्वं नयति । एतेन महा-

समृद्धिरस्योक्ता ।अतएवोदात्तालंकारः ।तथा चालंकारसूत्रम्-‘समृद्धिमद्वस्तुवर्णनमुदात्तः' इति ।।

 संप्रति जनपदक्षेमकरत्वमाह---

सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इच सस्यसंपदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्च[६]कासति ॥१७॥

 सुखेनेति ॥ चिराय तस्मिन्दुर्योधने क्षेमं वितन्वति क्षेमंकरे सति । देवः पर्जन्य, एव माता येषां ते देवमातृका वृष्ट्यम्बुजीविनो देशाः । ते न भवन्तीत्यदेवमातृकाः। नदीमातृका इत्यर्थः ।'देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥' इत्यमरः । एतेनास्य कुल्यादिपूर्तप्रवर्तकत्वमुक्तम्। कुरूणां निवासाः कुरवो जनपदविशेषः । कृष्टेन पच्यन्त इति कृष्टपच्या: । ‘राजसूय--' इत्यादिना कर्मकर्तरि क्यप्प्रत्ययान्तो निपातः। तद्विपरीता अकृष्टपच्या इव। कृषिर्येषामस्तीति कृषीवलैः। कर्षकैरित्यर्थः ।‘रजःकृषि--' आदिना वलच्प्रत्ययः ।'वले' इति दीर्घः । सुखेनाक्लेशेन लभ्या लब्धुं शक्याः सस्यसंपदो दधतो धारयन्तः । 'ना- भ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । चकासति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः ।'अद- भ्यस्तात्' इति झेरदादेशः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा। संपन्नजनपदत्वादसं- तापकरत्वाच्च दुःसाध्योऽयमिति भावः ॥

 नन्वेवं जनपदानुवर्तिनः कथमर्थलाभ इत्यत आह----

उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरु[७] पस्नुता वसूपमानस्य वसूनि मेदिनी ॥१८॥

 । उदारेति ॥ उदारकीर्तेर्महायशसः।'उदारो दातृमहतोः इत्यमरः। दयावतः परदुःखप्रहाणेच्छो:। अतएव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात्तथेति क्रियाविशेषणम् । उदयविशेषणं वा। 'वा दान्तशान्त-' इत्यादिना शमिधातोर्ण्यन्तान्निष्ठान्तो निपातः ।, अभिरक्षया सर्वतस्त्राणेनोदयं वृद्धिं दिशतः संपादयतो वसूपमानस्य कुबेरोपमस्य । 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः । अस्य दुर्योधनस्य गुणैर्दयादाक्षिण्याविभिरुपस्नुता द्राविता मेदिनी वसूनि धनानि ।'वसु तोये धने मणौ' इति वैजयन्ती । स्वयं प्रदुग्धे। अक्लेशेन दुह्यत इत्यर्थः । दुहे: कर्मकर्तरि लट् । 'न दुहस्नुनमाम्यक्विणौ' इति यक्प्रतिषेधः । यथा केनचिद्विदग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वदिति भावः । अलंकारस्तु-'विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः' इति सर्वस्वकारः । अत्र प्रतीयमानया गवा सह प्रक्रताङ्क्त्या मेदिन्या भेदेऽभेद- लक्षणातिशयोक्तिवशाद्दोह्यत्वेनोक्तिरिति संक्षेपः ॥


 वीरभटानुकूल्यमाह--

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
नुसंहतास्तस्यं न[८]भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥१९॥

 महौजस इति ॥ महौजसो महाबलाः।अन्यथा दुर्बलानामनुपकारित्वादिति भावः। मानः कुलशीलाद्यभिमान एव धनं येषां ते मानधनाः । अन्यथा कदाचिद्बलदर्पा- द्विकुर्वीरन्निति भावः । धनार्चिता धनैरर्चिताः सत्कृताः । अन्यथा दारिद्र्यादेनं जह्युरिति भावः । संयति सङ्ग्रामे लब्धकीर्तयः । बहुयशस इत्यर्थः । अन्यथा कदाचि न्मुह्येयुरिति भावः। संहता मिथःसंगताः स्वार्थनिष्ठा न भवन्तीति नसंहताः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । भिन्नवृत्तयो मिथो विरोधात्स्वामिकार्याकरा न भवन्तीति नभिन्नवृतयः । पूर्ववत्समासः । अन्यथा स्वामिकार्यविघातकतया स्वामि- द्रोहिणः स्युरित्युभयत्रापि तात्पर्यार्थः । धनुर्भृतो धानुष्काः । आयुधीयमात्रोपलक्षणमेतत्। प्राधान्याद्धनुर्ग्रहणम् । तस्य दुर्योधनस्यासुभिः प्राणैः प्रियाणि समीहितुं कर्तु वाञ्छन्ति । आनृण्यार्थं प्राणान्दातुमिच्छन्ति । अन्यथा दोषस्मरणादिति भावः। अत्र महौजसादिपदार्थानां प्राणदानकर्तव्यतां प्रति विशेषणगत्या हेतुत्वाभिधानात्- काव्यलिङ्गमलम्कारः । लक्षणं तूक्तम् । तथा साभिप्रायविशेषणत्वात्परिकरालंकार इति द्वयोस्तिलतण्डुलवद्विभक्ततया स्फुरणासंसृष्टिः ॥

 संप्रति स्वराष्ट्रवत्परराष्ट्रवृत्तान्तमपि वेत्तीत्याह----

महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः॥२०॥

 महीभृतामिति ॥ अशेषितक्रियः समापितकृत्य:। आफलदयकर्मेत्यर्थः । स दुर्योधनः सञ्चरितैः शुद्धचरितैः। अवञ्चकैरित्यर्थः । चरन्तीति चरास्तैश्चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याह-महोदयैरिति । धातुरिव तस्य दुर्योधन- स्येहितमुद्योगो महोदयैर्महावृद्धिभिः । हितमनुबध्न्त्यनुरुन्धन्तीति हितानुबन्धिभिः। स्वन्तैरित्यर्थः । फलैः कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः ॥

 मित्रबलमाह---

न तेन संज्यं क्वचिदु [९] द्यतं धनुः कृतं न वा कोपविजिह्ममाननम् ।
मुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥

 नेति ॥ तेन राज्ञा क्वचित्कुत्रापि । सह ज्यया मौर्व्या सज्यम्। मौर्वी ज्या शिञ्जिनी


गुणः' इत्यमरः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। धनुर्नोद्यतं नोर्ध्वीकृतम् ।

आननं व कोपविजिह्मं कोपकुटिलं न कृतम्। यस्य कोप एवं नोदेति कुतस्तस्य युद्ध- प्रसक्तिरिति भावः । कथं तर्ह्याज्ञां कारयति राज्ञ इत्यत्राह---गुणैति। गुणेषु दयादाक्षिण्यादिष्वनुरागेण प्रेम्णः । माल्यपक्षे सूत्रानुषङ्गेण । यद्वा सौरभ्यगुणलोभेन। नराधिपैरस्य शासनमाज्ञा । मालैव माल्यं तदिव । 'चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्’ इति क्षीरस्वामी। शिरोभिरुह्यते धार्यते । 'वचिस्वपियजादीनां किति' इति यकि संप्रसारणम् । अत्रोपमा स्फुटैव ।।।

 संप्रत्यस्य धार्मिकत्वमाह---

स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥२२॥

 स इति ॥ इद्धशासनोऽप्रतिहताज्ञः स दुर्योधनो नवयौवनेनोद्धतं प्रगल्भम् । धुरम्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम् । 'भाषायां शासियुधि--' इत्या- दिना खलर्थं युच्प्रत्ययः। यौवराज्ये युवराजकर्मणि । ब्राह्मणादित्वात्ष्यञ् । निधाय । नियुज्येत्यर्थः । पुरोधसा पुरोहितेनानुमतोऽनुज्ञातः। तस्मिन्याजके सतीत्यर्थः । तदुल्लङ्घने दोषस्मरणादिति भावः। 'निष्ठा' इति भूतार्थे क्तः । न तु 'मतिबुद्धि-' इत्यादिना वर्तमानार्थे। अन्यथा 'पुरोधसा' इत्यत्र 'क्तस्य च वर्तमाने' इति षष्ठी स्यात् । अखिन्नो- ऽनलसो मखेषु क्रतुषु हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसमनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थात् 'धिन्विकृण्व्योर च' इत्युप्रत्ययः । अकारश्चान्तादेशः ॥ न चैतावता निरुद्योगैर्भाव्यमित्याशङ्क्याशां दर्शयति--

प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥२३॥

 प्रलीनेति ॥ स दुर्योधनः प्रलीनभूपालम् । निःसपत्नमित्यर्थः। स्थिरायति। चिरस्थायीत्यर्थः। भुवो मण्डलमावारिधिभ्य आवारिधि। आङ्गर्यादाभिविध्योः' इत्यव्ययी- भावः । प्रशासदाज्ञापयन्नपि । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । त्वत्त्वत्त एष्यतीरागमिष्यतीः । धातूनामनेकार्थत्वादुक्तार्थसिद्धिः। अथवाङ्पूर्वः पाठः । 'एत्येधत्यूठ्सु' इति वृद्धिः । ‘लुटः सद्भाः', इति शतृप्रत्ययः। 'उगितश्च' इति ङीप्, 'आच्छीनद्योर्नुम्' इति विकल्पान्नुम्भावः। भियो भयहेतून्। विपद इत्यर्थः। चिन्तयत्यालोचयत्येव। स एवाह-अहो बलवद्धिरोधिता दुन- न्ता दुष्टावसाना। सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम्। *सामान्येन विशेष- -------- ननु गूढाकारेङ्गितस्य तस्य भयं त्वया कथं निरधारीत्यत्राह--

कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥२४॥

 कथेति ॥ कथाप्रसङ्गेन गोष्ठीवचनेन जनैः । अन्यत्र कथाप्रसङ्गेन विषवैद्येन। ‘कथाप्रसङ्गो वार्तायां विषवैद्येऽपि वाच्यवत्' इति विश्वः । एकवचनस्यातन्त्रत्वाज्जनविशेषणम् । उदाहृतादुच्चारितात्तवाभिधानान्नामधेयात्स्मारकाद्धेतोः । 'हेतौ' इति पञ्चमी । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । अन्यत्र तवाभिधानात् । 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इति न्यायात्तश्च वश्च तवौ तार्क्ष्यवासुकी तयोरभिधानं यस्मिन्पदे तस्मात् । यद्वा कथाप्रसङ्ग इनाश्च ते जनाश्चेत्येकं पदम् । अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सन्दुःसहादतिदुःसहान्मन्त्रपदान्मन्त्रशब्दात्स्मारकाद्धेतोः । आखण्डलसूनुरिन्द्रानुजः । उपेन्द्रो विष्णुरिति यावत् । 'सूनुः पुत्रेऽनुजे रवौ' इति विश्वः । तस्य विः पक्षी । गरुड़ इत्यर्थः । तस्य क्रमः पादविक्षेपः । सोऽनुस्मृतो येन स तथोक्तः स्मृतगरुड़महिमा उरग इव । नताननः सन् । व्यथते दुःखायते । ‘पीडा बाधा व्यथा दुःखम्' इत्यमरः । अत्युत्कटभयदोषादिर्विकारा दुर्वारा इति भावः । ‘सर्वतो जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्' इति न्यायादर्जुनोत्कर्षकथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम् ।

 निगमयति--

तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरेः ॥२५॥

 तदिति ॥ तत्तस्मात्वयि जिह्मं कपटं कर्तुमुद्यते । त्वां जिघांसावित्यर्थः । तत्र तस्मिन्दुर्योधने विधेयं कर्तव्यमुतरं प्रतिक्रियाशु विधीयतां क्रियताम् । ननु कर्तव्यमपि त्वयैवोच्यतामिति चेत्तत्राह-- परेति । परप्रणीतानि परोक्तानि वचांसि चिन्वतांगवेषयतां मादृशाम् । वार्ताहारिणामित्यर्थः । गिरः प्रवृत्तिसारा वार्तामात्रसाराः खलु । ’वार्ता प्रवृत्तिर्वृत्तान्तः'इत्यमरः। वार्तामात्रवादिनो वयम्, न तु कर्तव्यार्थोपदेशसमर्थाः। अस्तस्त्वयैव निर्धार्य कार्यमिति भावः । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ॥

इतरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसंनिधौ वचः॥२६॥

 इतीति ॥ वनसंनिवासिनां पत्यौ वनेचराधिप इति गिरमीरयित्वोक्त्वात्तसत्क्रिये गृहीतपारितोषिके गते सति। ‘तुष्टिदानमेव चाराणां हि वेतनम्। ते हि लोभात्स्वामिकार्येष्वतीव त्वरयन्ते' इति नीतिवाक्यामृते । अथ महीभुजा राज्ञा कृष्णासदनं द्रौपदीभवनं


प्रविश्यानुजसंनिधौ तद्वनेचरोक्तं वचो वाक्यमाचचक्ष आख्यातम् । अथवा। कृष्णेति पदच्छेदः । सदनं प्रविश्यानुजसंनिधौ तद्वचः कृष्णाचचक्ष आख्याता । चक्षिङो दुःहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ॥ ।

निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजां गिरः ॥२७॥

 निशम्येति ॥ अथ द्रुपदात्मजा द्रौपदी द्विषतां सिद्धिं वृद्धिरूपां निशम्य ततस्तद- नन्तरम् । ततो द्विषद्भ्य आगतास्ततस्त्याः । 'अव्ययात्त्यप्' इति त्यप् । अपाकृतीर्षि-, कारान्चिनियन्तुं निरोद्भुमक्षमा सती नृपस्य युधिष्ठिरस्य मन्युव्यवसाययोः क्रोधो- द्योगयोर्दीपिनीः संवर्धिनीर्गिरो वाक्यान्युदाजहार। जगादेत्यर्थः ॥

भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥२८॥

 भवादृशेष्विति ॥ भवाद्दशा भवद्विधाः । पण्डिता इत्यर्थः । तेषु विषये। 'त्यदादिषु-'इत्यादिना कञ्।'आ सर्वनाम्नः' इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनो- क्तम् । वदेः क्तः। ‘वचिस्वपि-' इत्यादिना संप्रसारणम् । अनुशासनं नियोगवचनम- धिक्षेपस्तिरस्कार इव भवति । अतो न युक्तं वक्तुमित्यर्थः । तथापि वक्तुमनुचितत्वे- ऽपि निरस्तनारीसमयास्त्याजितशालीनतारूपस्त्रीसमाचाराः । समयाः, शपथाचार- कालसिद्धान्तसंविदः' इत्यमरः । दुराधयः समयोल्लङ्घनहेतुत्वाद्दुष्टा मनोव्यथाः ।। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । मां वक्तुं व्यवसाययन्ति प्रेरयन्ति । न किंचिदयुक्तं दुःखिनामिति भावः ॥

अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥२९॥

 अखण्डमिति ॥ आखण्डलतुल्यधामभिरिन्द्रतुल्यप्रभावैः । स्ववंशजैः भूपतिभिर्भ- रतादिभिश्चिरमखण्डमविच्छिन्नं धृता मही त्वया। मदं च्योततीति भदच्युत्। किप् । तेन मस्राविणा मतङ्गजेन स्रगिवात्मस्तेन स्वकरेण । स्वचापलेनेत्यर्थः । अपवर्जिता परिहृता त्यक्ता । स्वदोषादेवायमनर्थागम इत्यर्थः ॥  स्वदोषादेवायमनर्थागम इत्युक्तम् । स च दोषः कुटिलेष्वकौटिल्यमेवैत्याह-

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि[१०] घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥३०॥

 वजन्तीति ॥ मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति ये मायाविषु माया-


१. निम्नन्ति' इति पाठ: वत्सु विषये । 'अस्मायामेधा-' इत्यादिना विनिप्रत्ययः । मायिनो मायावन्तः । व्रीह्या- दित्वादिनिप्रत्ययः । न भवन्ति । अत्रैवार्थान्तरं न्यस्यति–प्रविश्येति । शठा अपकारिणो धूर्तास्तथाविधानकुटिलानसंवृताङ्गानवर्मितशरीरान्निशिता इषव इव प्रविश्य प्रवेशं कृत्वात्मीया भूत्वा घ्नन्ति हि । 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः ॥

 न च लक्ष्मीचाञ्चल्यादयमनर्थागमः, किंतु स्वोपेक्षादोषमूलत्वादित्याशयेनाह----

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां न[११] राधिपः ।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥३१॥

 गुणेति ॥ अनुरक्तसाधनोऽनुकूलसहायवान् । उक्तं च कामन्दकीये-'उद्योगाद्- निवृत्तस्य सुसहायस्य धीमतः । छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥' इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः ।'अन्यारात्-' इत्यादिना पञ्चमी । क इव नराधिपो गुणैः संध्यादिभिः सौन्दर्यादिभिश्चानुरक्ता- मनुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियामात्मवधूमिव स्वभार्यामिव । 'वधूर्जाया स्नुषा स्त्री च' इत्यमरः । परैः शत्रुभिरन्यैश्चापहारयेत् । स्वयमेवापहारं कारयेदित्यर्थः । कलत्रापहारवल्लक्ष्म्यपहारोऽपि राज्ञा मानहानिकर- त्वादनुपेक्षणीय इति भावः ॥

 अथ दशभिः कोपोद्दीपनं करोति---

भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्मनि ।
कथं व मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥३२॥

 भवन्तमिति ॥ हे नरदेव नरेन्द्र, एतर्हीदानिम्। अस्मिन्नापत्कालेऽपीत्यर्थः । 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथा' इत्यमरः । 'इदमोर्हिल्’-इति र्हिल्प्रत्ययः ।'एते- तौरथोः' इत्येतादेशः। आपदमेवाह-मनस्विगर्हिते शूरजनजुगुप्सिते वर्त्मनि मार्गे विवर्तमानम्। शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः । भवन्तं त्वामुदीरित उद्दीपितो मन्युः क्रोधः। शुष्कं नीरसम्। 'शुषः,कः' इति निष्ठातकारस्य ककारः । शमी चासौ तरुश्चेति विशेषणसमासः । तम् । शमीग्रहणं शीघ्रज्वलनस्वभावात्कृतम् । उच्छिख - उद्गतज्वालः । ‘घृणिज्वाले अपि शिखे' इत्यमरः । वह्निरिव । कथं न ज्वलयतिं । ज्वलयितुमुचितमित्यर्थः । 'मितां ह्रस्वः' इति ह्रस्वः ॥

 नन्वन्तःशत्रुत्वादयं क्रोधस्त्याज्य एवेत्याशंक्याह---

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन ज[१२]नस्य जन्तुना न[१३]जातहार्देन न विद्विषादरः ॥३३॥

 अवन्ध्येति ॥ अवन्ध्यः कोपो यस्य तस्यावन्ध्यकोपस्यात एवापदा विहन्तुः । निग्रहा-


नुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्या वशंगता

भवन्ति ।'वशं गतः' इति यत्प्रत्ययः । अतस्त्वया कोपिना भवितव्यमित्यर्थः।व्यतिरेके त्वनिष्टमाचष्टे--अमर्षशून्येन निःकोपेन जन्तुना । कन्यया शोक इतिवत् ।'हेतौः' इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः । ‘प्रेम ना प्रियता हार्दं प्रेम स्नेह:' इत्यमरः। युवादित्वादण् । 'हृदयस्य हृल्लेखपदण्लासेषुः' इति हृदादेशः । जातहार्देन जातस्नेहेन सता जनस्यादरो न। विद्विषा द्विषता च सतादरो न । अमर्षहीनस्य रागद्वेषाव- किम्चित्करत्वादगण्यावित्यर्थः । अथवा विद्विषा सता दरो भयं न । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । एतस्मिन्नेव प्रयोगे संधिवशाद्विधा पदच्छेदः । पुंवाक्येषु न दोषः ।। अतः स्थाने कोपः कार्यस्त्याज्यस्त्वस्थाने कोप इति भावः ॥

परिभ्रमंल्लोहित[१४]चन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥३४॥

 परिभ्रमन्निति ॥ लोहितचन्दनोचित उचितलोहितचन्दनः । ‘वाहितग्र्यादिषु-' इति साधुः । अभ्यस्तरक्तचन्दन इत्यर्थः । 'अभ्यस्तेत्युचितं न्याय्यम्' इति यादवः । महारथो रथचारी । उभयत्रापि प्रागिति शेषः । अद्य तु रेणुरूषितो धुलिच्छुरितः । पादाभ्यामतति गच्छतीति पदातिः पादचारी । 'अज्यतिभ्यां च' इत्यनुवृत्तौ ‘पादे च' इत्यौणादिक इण्प्रत्ययः । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः।अन्तर्गिरि गिरिष्वन्तः। विभक्त्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' इति विकल्पात्समासा- न्ताभावः । परिभ्रमन्नयं वृकोदरो भीमः । सत्यधनस्येति सोल्लुण्ठनवचनम् । अद्यापि सत्यमेव रक्ष्यते, न तु भ्रातर इति भावः । तवेति शेषः । मानसं नो दुनोति।कच्चिन्न परितापयति । 'कञ्चित्कामप्रवेदने' इत्यमरः । स्वाभिप्रायाविष्करणं कामप्रवेदनम् ॥

विजित्य यः प्राज्यमयच्छदुत्तरान्कुनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन्करोति मन्युं न कथं धनंजयः ॥३५॥

 विजित्येति ॥ वासव इन्द्र उपमा उपमानं यस्य स वासवोपम इन्द्रतुल्यो यो धनंजय: । उत्तरान्कुरून्मेरोरुत्तरान्मानुषान्देशविशेषान्विजित्य प्राज्यं प्रभूतम् ।'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । कुप्यादन्यदकुप्यं हेमरूप्यात्मकम् । 'स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृतकृते । ताभ्यां यदन्यत्तत्कुप्यम्' इत्यमरः । वसु धनमयच्छद्दत्तवान् । पाघ्रा-' इत्यादिना दाणो यच्छादेशः । स धनं जयतीति धनंजयोऽर्जुनः । संज्ञायां भृतृवृजि-'इत्यादिना ख़च्प्रत्ययः। 'अरुर्द्विषत्-' इत्यादिना मुमागमः । अधुना- स्मिन्काले। अधुना' इति निपातनात्साधुः । तव वल्कवासाँस्याहरन्कथं तव मन्युं क्रोधं दुःखं वा न करोति ॥


वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥३६॥

 वनान्तेति ॥ वनान्तो वनभूमिरेव शय्या तथा कठिनीकृताकृती कठिनीकृतदेहौ । 'आकारो देह आकृतिः' इति वैजयन्ती । विष्वक्समन्तात् । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । कचाचितौ कचव्याप्तौ । विशीर्णकेशावित्यर्थः । अतएवागजौ गिरिसंभवौ गजाविव स्थितावेतौ यमौ युग्मजातौ । माद्रीपुत्रावित्यर्थः । 'यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च' इति विश्वः । विलोकयंस्त्वं कथं धृति- संयमौ संतोषनियमौ । ‘धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषुः' इति विश्वः ।बाधितुं नोत्सहसे न प्रवर्तसे। ‘शकधृष-' इत्यादिना तुमुन् । अहो ते महद्वैर्यमिति भावः ॥

 अथ राज्ञो दुर्दशां दर्शयितुमुपोद्घातमाह । प्रकृतार्थं वर्णयितुमर्थान्तरवर्णनमुपोद्धातः-

इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥३७॥

 इमामिति ॥ इमां वर्तमानाम् । तवेमां तावकीं त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्यय:। 'तवकममकावेकवचने' इति तावकादेशः धियं त्वदापद्विषयां चित्तवृत्ति- महं न वेद कीदृशी वा न वेद्मि । परबुद्धेरप्रत्यक्षत्वादिति भावः ।'विदो लटो वा' 'इति लटो णलादेशः । न चात्मदृष्टान्तेनापन्नत्वाद्दुःखित्वमनुमातुं शक्यते । धीरादि- ष्वनैकान्तिकत्वादित्याशयेनाह--चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु । किंतु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतश्चित्तम् । आधयो मनोव्यथाः । 'उपसर्गे घोः किः' इति किप्रत्ययः । प्रसभं प्रसह्य रुजन्ति भजन्ति।'रुजो भङ्गे' इति धातोर्लट्। पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुभ- वितारं त्वां न विकरोतीति महच्चित्रमित्यर्थः । चेत इति 'रुजार्थानां भाववचनाना- मज्वरेः' इति षष्ठी न भवति । तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति ।।

 तदापदमेव श्लोकत्रयेणाह-

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थळीं जहासि निद्रामशिवैः शिवारुतैः ॥३८॥

 पुरेति यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम् । 'महाधनं महामूल्ये' इति विश्वः । शयनं शय्यमधिरूढः सन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणभूतैः पुरा विबोध्यसे । वैतालिकैरिति शेषः । पूर्वं बोधित इत्यर्थः। ‘पुरि लुङ्चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भी बहुकुशाम् । ‘अस्त्री कुशं कुथो दर्भः' इति । अदभ्रं बहुलं बहु' इति चामरः । स्थलीमकृत्रिमर्भूमिम्,जानपद्-' इत्यादिनाकृत्रिमार्थे ङीप् । एतेन दुःसहस्पर्शत्वमुक्तम्। 'अधिशीङ्स्यासां कर्म' इति कर्मत्वम् । अधिशय्य शयित्वा । 'अयङियक्ङिति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टु- वासितैः । ‘शिव हरीतकी क्रोष्टा शमी नद्यमलक्युभे' इति वैजयन्ती । निद्रां जहासि । अद्येति शेषः ॥

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यम् कार्श्यम् यशसा समं वपुः ॥३९॥

 पुरेति ॥ हे नृप, यदेतत्पुरोवर्ति वपुः पुरा द्विजातिशेषेण द्विजभुक्तावशिष्टेनान्ध- सान्नेन । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । रमणीयस्य भावो रामणीयकं मनो- हरत्वमुपनीतं प्रापितम् । नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा सम- परमतिमात्रं कार्श्यं परैति प्राप्नोति। उभयमपि क्षीयत इत्यर्थः। अत्र सहोक्तिरलंकारः। तदुक्तं काव्यप्रकाशेः-‘सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्' इति ॥

अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥४०॥

 अनारतमिति ॥ अनारतमजस्रं मणिपीठशायिनौ मणिमयपादपीठस्थायिनौ यौ चरणौ राजाशिरःस्रजां नमद्भूपालमौलिस्रजां रजः परागोऽरञ्जयत्, तौ ते चरणौ मृगैर्द्विजैश्च तपस्विभिरालूनशिखेषु च्छिन्नाग्रेषु बर्हिषां कुशानाम्।'बर्हिः कुशहुताशयोः' इति विश्व:। वनेषु निषीदतस्तिष्ठतः ॥

ननु सर्वप्राणिसाधारण्यामापदि का परिदेवनेत्यत्राह-

द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥४१॥

 द्विषदिति ॥ यद्यतः कारणादियं दशावस्था।'दशा वर्ताववस्थायाम्' इति विश्वः । द्विषन्तो निमित्तं यस्याः सा । 'द्विषोऽमित्रे' इति शतृप्रत्ययः । अतो मे मनः समूलं साशयमुन्मूलयतीवोत्पाटयतीव । दैविकी त्वापन्न दुःखायेत्याह-परैरिति । परै:, शत्रुभिरपर्यासितापर्यावर्तिता वीर्यसंपद्येषां तेषां मानिनां पराभवो विपदप्युत्सव । एवेति वैधर्म्येणार्थान्तरन्यासः । मानहानिर्दुःसहा, न त्वपिदिति भावः ॥

विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥४२॥

 विहायेति ।। हे नृप, शान्तिं विहाय तत्प्रसिद्धं धाम तेजो विद्विषां वधाय पुनः संधेह्यङ्गीकुरु प्रसीद । प्रार्थनायां लोट्। ननु शमेन कार्यसिद्धौ किं क्रोधेनेत्यत्राह- व्रजन्तीति । निःस्पृहा मुनयः शत्रूनवधूय निर्जित्य शमेन क्रोधवर्जनेन सिद्धिं व्रजन्ति ।

भूभृतस्तु न । कैवल्यकार्यवद्राजकार्यं न शान्तिसाध्यमित्यर्थः ॥ ।

पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥४३॥

 पुर इति । किं च धामवतां तेजस्विनाम् । परनिकारासहिष्णूनामित्यर्थः । पुरः सरन्तीति पुरःसरा अग्रेसराः । ‘पुरोऽग्रतोऽग्रेषु सर्ते:' इति टप्रत्ययः । यशोधना भवादृशाः सुदुःसहमतिदुःसहमीदृशमुक्तप्रकारं निकारं पराभवं प्राप्य रतिं संतोषम- धिकुर्वते स्वीकुर्वते चेत्तर्हि । हन्त इति खेदे । मनस्विताभिमानिता निराश्रया सती हता। तेजस्विजनैकशरणत्वान्मनस्विताया इत्यर्थः । अतः पराक्रमितव्यमिति भावः । यद्यप्यत्र प्रसहनस्यासङतेरधिपूर्वात्करोतेः 'अधेः प्रसहने' इत्यात्मनेपदं न भवति । ‘प्रसहनं परिभवः' इति काशिका । तथाप्यस्याः कर्त्रभिप्रायविवक्षायामेव प्रयोजक- त्वात्कर्त्रभिप्राये ‘स्वरितञित:-'इत्यात्मनेपदं प्रसिद्धम् ॥

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥४४॥

 अथेति ॥ अथ पक्षान्तरे निरस्तविक्रमः सन् । चिराय चिरकालेनापि क्षमां क्षान्ति- मेव । ‘क्षितिक्षान्त्योः क्षमा' इत्यमरः । सुखस्य साधनं पर्येष्यवगच्छसि तर्हि लक्ष्मी- पतिलक्ष्म राजचिह्नं कार्मुकं विहाय । धरतीति धरः। पचाद्यच् । जटानां धरो जटा- धरः सन्निह वने पावकं जुहुधि । पावके होमं कुर्वित्यर्थः । अधिकरणे कर्मत्वोपचारः। विरक्तस्य किं धनुषेत्यर्थः । “हुझल्भ्यो हेर्धिः ॥ ।

 अथ समयोल्लङ्घनाद्विभेषि तदपि न किंचिदित्याह---

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥४५॥

 नेति ॥ परेषु शत्रुषु । निकृतिः परं प्रधानं येषु तेषु । तथोक्तेष्वपकारतत्परेषु सत्सु भूरिधाम्नो महौजसः प्रतीकारक्षमस्य ते तव समयस्त्रयोदशसंवत्सरान्वने वत्स्यामीत्येवंरूपा संवित् । 'समयाः शपथाचारकालसिद्धान्तसम्विदः' इत्यमरः । तस्य परिरक्षणं प्रतीक्षणं न क्षमं न युक्तम् । 'युक्ते क्षमं शक्ते हिते त्रिषु' इत्यमरः ।हि यस्मा- द्विजयार्थिनो विजिगीषधः क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । संधिदूषणानि विदधति केनचिद्व्याजेन दोषमाप्राद्य संधिं दूषयन्ति । विघटयन्तीत्यर्थः । शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानमन्यत्समयरक्षणादिकमशक्तस्येति भावः । अर्थान्तरन्यासोऽलंकारः। पुष्पिताग्रावृत्तम् ॥

 उक्तमर्थमाशीर्वादपूर्वकमुपसंहराति--

विधिसमयनियोगाद्दीप्तिसंहारजिह्मम् शिथिलवसुमगाधे मग्नमापत्पयोधौ

रिपुतिमिरमुदस्यो[१५] दीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥४६॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथमः सर्गः ।

 विधीति ।। विधिर्दैवम् ।'विधिर्विधाने दैवे च' इत्यमरः । समयः कालस्तयोर्नियोगा- न्नियमनाद्धेतोः । तयोर्दुरतिक्रमत्वादिति भावः । अगाधे दुस्तरे। आपत्पयोधिरिवेत्यु- पमितसमासः । दिनकृतमिवेति वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ मग्न्म् । सूर्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः । दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम्। शिथिलवसुं शिथिलधनम्, अन्यत्र शिथिलरश्मिम् । 'वसुर्दैवेऽग्नौ रश्मौ च वसु तोये धने मणौ' इति वैजयन्ती । 'शिथिलबलम्' इति पाठे तूभयत्रापि शिथि- लशक्तिकमित्यर्थः । रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'ईङ् गतौ' इति धातोर्दैवादिकात्कर्तरि शानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतुं भजतु । ‘आशिषि लिङ्लोटौ' इति लोट् । चमत्कारकारितया मङ्गलाचरण- रूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः । यथाह भगवान्भाष्यकार:-'मङ्गला- दीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषका- णि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति । पूर्णोपमेयम् । मालिनीवृत्तम् । सर्गा- न्तत्वद्भुत्तभेदः । यथाह दण्डी-'सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् ॥' इति ॥

 अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति--इतीत्यादि। इति- शब्दः परिसमाप्तौ । भारविकृताविति कविनामकथनम्। महाकाव्य इति महच्छब्देन लक्षणसंपत्तिः सूचिता । किरातार्जुनीय इति काव्यवर्णनीययोः कथनम् । प्रथमः सर्गः । समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् । किरातार्जुनावधिकृत्य कृतो ग्रन्थः किरातार्जुनीयम् । ‘शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाम्च्छप्रत्ययः राधवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः । किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी--'वंशवीर्यप्रतापदि वर्णयित्वा रिपोरपि । तज्ज यान्नायकोत्कर्षकथनं च घिनोति नः ॥' इति । अथायं संग्रहः--‘नेता मध्यमपाण्डवो भगवतो नारायणस्यांशेजस्तस्योत्कर्षकृते त्ववर्ण्यततरां दिव्यः किरातः पुनः । शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यस्त्रलाभः फलम् ॥' इति ।।

 इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय- काव्यव्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्त: ।।


द्वितीयः सर्गः


विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥१॥

 विहितामिति ॥ अथ वृकोदरो भीमः प्रियया द्रौपद्या । प्रियाग्रहणमस्या हितोप- देशतात्पर्यसूचनार्थम् । विहिताम् । अभिहितामित्यर्थः । विपूर्वस्य दधातेः क्रियांसा- मान्यवाचिनो योग्यविशेषपर्यवसानात् । मनःप्रियामभिमतार्थयोगान्मनोहराम् । विशेषणद्वयेनापि गिरो ग्राह्यत्वमुक्तम् । गिरं गरीयसीं सारवत्तरां निश्चित्यं नृपं धर्मराजमुपपत्तिमद्युक्तियुक्तमूर्जिताश्रयमुदारार्थं वचनमूच उक्तवान् । कर्तरि लिट् । ब्रुवो वचिरादेशः । ‘ब्रुविशासि-' इत्यादिना द्विकर्मकत्वम् । ‘अकथितं च' इति नृपस्य कर्मत्वम् ॥

 किं तद्वचनं तदाह--

यद[१६]वोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥२॥

 यदिति ॥ मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण । तत्प्रकृतवचने मयट्' । चक्षुषा ज्ञानचक्षुषा । एतेनाप्तत्वमुक्तम् । परितो वीक्ष्य समन्ततो विविच्य यद्वचनमवोचत । ब्रुवोर्वक्तेर्वा लुङ् । 'वच उम्' इत्युमागमः । वागाधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम् । शेषे षष्ठीयम्, न कुद्योगलक्षणा । अतो 'न लोक-' इत्यादिना षष्ठीप्रतिषेधो नास्ति । तद्वचतं विस्मयं विदधीत । सर्व- स्यापति शेषः । अथवा वागधिपस्यापि विस्मयं विदधीतेति संबन्धः । दुर्वचम् । केनापति शेषः । यतः स्रैणमपि शास्त्रमनुरुणद्धि हितं चानुबध्नाति । अतो विस्मयकरं ग्राह्यं चैतद्वचनमिति तात्पर्यार्थः ।।

 विस्मयकरत्वे हेतुमाह-

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥३॥

 विषमम् इति ॥ विषमोऽपि दुर्बोधोऽपि । अन्यत्र दुःप्रवेशोऽपि । नयो नीतिशा- स्त्रम् । पयसामाशयो ह्रद इत्र । कृततीर्थः कृताभ्यासाद्युपायः सन् । ‘तीर्थं शास्त्रा- ध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः ॥ अन्यत्र कृतजलावतारः सन् । 'तीर्थं योनौ जलावतारे च' इति हलायुधः । विगाह्यते गृह्यते प्रविश्यते च । किंतु तत्र


नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं संधिविग्रहादि

कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धम् । यथा तथा । अन्यत्र गर्तग्राहपाषाणादिरहितम् । यथा तथोपन्यस्यत्युदाहरति । उपन्यासस्तु, वाङ्मुखम्। उपाद्धाते उदाहारः' इत्यमरः । यथा केनचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टार: सन्ति। तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति। वक्ता तु न सुलभः । अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ।।

 अथ ग्राह्यत्वे हेतुमाह---

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥४॥

परिणामेति ॥ परिणामः फलकालः परिपाकावस्था च । तत्र सुखे हिते। ‘शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च'इति सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि भूयिष्ठे श्रेष्ठे च ।क्षतौजसामुभयत्रापि क्षीणशक्तीनां व्यथके युद्धोपोद्बलकत्वाद्भयंकरे । अन्यत्रादौ संशयादिदुःखजनके। अल्पीयस्यल्पाक्षरेऽल्पमात्रे च । उक्तं च-‘स्वल्पा च मात्रा बहुलो गुणश्चः' इति । अस्मिन्वचसि द्रौपदीवाक्ये । अतिवीर्यवत्यस्यन्तसामर्थ्यवति भेषज औषध इव।'भैषजौषधधैषज्यम्' इत्यमरः । बहुरनेको गुणो मानत्राणराज्य- लाभादिरारोग्यबलपोषादिश्च दृश्यते । अतो ग्राह्यमस्या वचनमिति भावः ॥

 सत्यमेवं तथापि मह्यं न रोचते । किं करोमीत्याह----

इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः॥५॥

 इयामिति ॥ रुचिरार्था महितार्थसंपन्नोति रुचिहेतूक्तिः । इयं भारती द्रौपदीवाक्य- मिष्टगुणाय । गुणग्राहिण इत्यर्थः । भवते तुभ्यमपि । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । रोचतां स्वदताम् । विध्यर्थे लोट् । हितवचने बलादपीच्छां कुर्या- दौषधवदिति भावः । तथापि स्रैणे वचसि का श्रद्धा तत्राह--नन्विति । गुणानां गृह्या गुणगृह्याः । गुणपक्षपातिन इत्यर्थः । 'पदास्वैरिबाह्यापक्ष्येषु च' इति ग्रहेः क्यप् । विपश्चितो विद्वांसः ।‘विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । वचने विषये वक्तृविशेषे स्त्री- पुंसादिलक्षणे निःस्पृहा ननु निरास्थाः खलु। 'बालादपि सुभाषितं ग्राह्यम्' इति न्यायादिति भावः ॥

 संप्रति स्वयमुपालभते

चतसृष्वर्पिते विवेकिनी नृप विद्यासु निरूढिमागता ।
कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥६॥

 चतसृष्विति ॥ हे नृप, चतसृष्वपि विद्यास्वान्वीक्षिक्यादिषु ।'आन्वीक्षिकी त्रयी

वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः ॥' इति कामन्दक: निरूढिमागता प्रसिद्धिं गता। अतएव विवेकिनी सदसद्विवेकवती । यथाह मनुः--‘आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥ इति । ते मतिः कथं करिणी पङ्कमिव विपर्ययं वैपरीत्यमविवेक- रूपमेत्यावसीदति नश्यति । तन्न युक्तमिति भावः ॥

 किं नश्छिन्नमिदानीं येनेत्थमुपालभ्येमहीत्यत्राह---

विधुरं किमतःपरं परैरवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि त्वयि संभावितवृत्ति पौरुषम् ॥७॥

 विधुरमिति ॥ त्वयि परैः शत्रुभिरिमामीदृशीमवगीतां गर्हिताम् । 'अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते' इति विश्वः । दशां गमिते प्रापिते सति । सुरैरपि संभावि- तवृत्ति बहुकृतप्रसारम् । अथवा निश्चितसद्भावम् । पौरुषं पुरुषकारः । युवादित्वा- दण्प्रत्ययः । अवसीदति नश्यतीति यत् । अतःपरं अतोऽन्यदधिकं किं विधुरं किं कष्टम् । न किंचिदित्यर्थः । 'विधुरं प्रत्यवाये स्यात्कष्टविश्लेषयोरपि' इति वैजयन्ती । अस्तीति शेषः। 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्यकारः। भवन्तीति लटः पूर्वाचार्याणां संज्ञा । यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता । तदुपरि महत्कष्टं तच्च त्वदुपेक्षयेत्युपालभ्यस इत्यर्थः ॥

 अथापेक्षाकालत्वादियमुपेक्षेत्याशङ्क्य नायमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोक- द्वयेन विविनक्ति----

द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसंपत्प्रवणः परिक्षयः ॥८॥

 द्विषतामिति ॥ भूतिमुदयभिच्छता । शोभना मेधा यस्य तेन सुमेधसा सुधिया । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । गुरुर्महानप्यस्वन्ततरोऽत्यन्तदुरन्तः । क्षयोन्मुखं इत्यर्थः । द्विषतामुदयो वृद्धिः । सुखेन मृष्यत इति सुमर्षणः सुसहः । उपेक्ष्य इत्यर्थः । स्वन्तश्चेद्दुर्मर्षण इति भावः । ‘भाषायां शासि-'इत्यादिना खलर्थे युच्प्रत्ययः । महानपि फलसंपत्प्रवणः फलसंपदुन्मुखः। ‘प्रनिरन्तर---' इत्यादिना णत्वम् । परिक्षयो न सुमर्षणः । नोपेक्ष्य इत्यर्थः । अन्यथा तूपेक्ष्य इति भावः । नह्युदय एव प्रतीकार्यो न च क्षय इत्येवोपेक्ष्यः। किंतु स्वत्तत्वास्वन्तत्वाभ्यामुभा- वपि प्रतीकार्यावुपेक्ष्यौ च भवत इत्यर्थः । ,

 अथोभयोरपि मध्य एकतरस्योदयक्षययोर्गतिमुक्त्वेदानीं युगपत्परिक्षयागमे गतिमाह-

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥९॥

 अचिरेणेति ॥ कृतमनेनेति कृती । कुशल इत्यर्थः। ‘इष्टादिभ्यश्च' इतीनिप्रत्ययः ।

परस्य शत्रोः क्षययुक्तिं क्षययोगमचिरेणाशुभाविनीं भूयसीम् दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रेरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः । प्रतिकुरुत इत्यर्थात्सिद्धमनुसंधेयम् ॥

 तथाप्युपेक्षायामनिष्टमाचष्टे--

अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥१०॥

अनुपालयतामिति ॥ उदेष्यतीं वर्धिष्यमाणाम् । 'आच्छीनद्योर्नुम्' इति विक- ल्पान्नुमभावः । द्विषतां प्रभुशक्तिं कोशदण्डजं तेजः । ‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । अनीहयानुत्साहेनानुपालयतामुपेक्षमाणानां महीभुजां श्रियः संपदो जननिर्वादभयान्निकृष्टपुरुषानुरागोत्थलोकापवादभयादिवेति हेतृत्प्रेक्षा। अचिरादपयान्त्यपसरन्ति । यथा कामन्दकः--'स्त्रीभिः षण्ढ़ इव श्रीभिरलसः परिभूयते' इति । अतः पराक्रमितव्यमित्यर्थः ॥

 ननु परिक्षीणः कथं प्रबलेनाभियुज्यत इयत्राह---

क्षययुक्तमपि स्वभावजं दधतं धाम शिवं स[१७]मृद्धये ।
प्रणमन्त्यन्नपायमु[१८]त्थितं प्रतिपच्चन्द्रामिव प्रजा नृपम् ॥११॥

 क्षयेति ॥ क्षययुक्तमप्ति तथा क्षीणमपि सन्तं स्वभावजं सहजं शिवं सर्वलोकाह्लादकं धाम क्षात्रं तेजः प्रकाशं च दधतं समृद्धये वृद्ध्यर्थमुत्थितमुद्युक्तम्। वर्धिष्णुमित्यर्थः । नृपं प्रजाः । प्रतिपच्चन्द्रं द्वितीयाचन्द्रमिवेत्यर्थः । प्रतिपच्छब्देन द्विती- याग्रहणम् । प्रतिपदि तस्यादृश्यत्वादिति । प्रणमान्ति । प्रह्वीभावेन वर्तन्त इति भावः । चन्द्रं तु नमस्कुर्वन्ति । क्षीणस्याप्युत्साहः कार्यसिद्धेर्निदानमित्यर्थः । ‘जयं हि सत- तोत्साही दुर्बलोऽपि समश्रुते' इति कामन्दकः ॥

 ननु प्रभुशक्तिशून्यस्योत्साहः कुत्रोपयुज्यत इत्यत्राह----

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥१२॥

 प्रभवइति । कर्मणामाराम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकार; कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः-'सहायाः साधनोपाया विभागो दे-


शकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति पञ्चानामङ्गानां विनिर्णयः

पञ्चाङ्गविनिर्णयः । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयो- यस्य येन वा, स तथोक्तः । नयो नीतिः । मन्त्र इति यावत्। कोशोऽर्थराशिः । 'कोशोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौधदिव्ययोः'इत्यमरः । दण्डश्चतुरङ्गसैन्यम् ।'दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे यमे। यात्राज्ञायां सैन्यभेदे' इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् ।‘ऋदोरपू'।स नयो विधेयपदेषु कार्यवस्तुषु ।‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः ।नियतिं दैवमिव । 'नियतिर्नियमे दैवे' इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम् । अतः स एवाश्रयणीयः । यतो नक्तंदिवं मन्त्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किंचित् सिद्ध्यतीति ।।

 ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्यत्राहः--

अभिमानवतो मनस्विनः प्रियमुञ्चैःपदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं म[१९]तमालम्बनमात्मपौरुषम् ॥१३॥

 अभिमानवत इति ॥ अभिमानवतो मानधनस्य प्रियमिष्टमुञ्चैरुन्नतं पदं स्थानं राज्यादिकमारुरुक्षत आरोढुमिच्छतः प्राप्तुकामस्य मनस्विनो धीरस्यात्मपौरुषं स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतीकारसमर्थमालम्बनं सहकारि मतमिष्टम्। यथा कस्यचित्तुङ्गमारोहतः किंचित्पतनप्रतिबन्धकमनुचरहस्तादिकमालम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः सहायैः शूराणामिति भावः ॥

 पौरुषानङ्गीकारे दोषमाह---

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥१४॥

 विपद इति ॥ अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नमायतिरुत्तरकालः । 'उत्तरः काल आयतिः' इत्यमरः।रहयति त्यजति।निरायतेः। आसन्नक्षयस्येत्यर्थः । लघुतागौरवं नियतवश्यंभाविनी । न कश्चिदेनमाद्रियत इत्यर्थः। अगरीयांल्लघीन्नृपश्रियो राजलक्ष्म्या पदमास्पदं न भवति । यद्वा नृपेति पदच्छेदः । तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः । अत्र पूर्वपूर्वस्याविक्रमत्वादेरुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलंकारः ।तथा सूत्रम्-‘पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला' इति ॥


 फलितमाह----

तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥१५॥

 तदिति ॥ ततस्मात् । उपेक्षायां दोषसंभवादित्यर्थः । उन्नतेरभ्युदयस्य प्रतिपक्षम- न्तरायं व्यवसायवन्ध्यतामुद्योगशून्यतामवलम्ब्यालम् । अवलम्बनेनालमित्यर्थः।'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः । तस्य ल्यबादेशः । तथाहि । पराक्रम आश्रयः कारणं यासां तास्तथोक्ताः समृद्धयः संपदो विषादेन सममनुत्साहेन सह न निवसन्ति । पौरुषसाध्याः संपदो नानुत्साहसाध्याः । उभयोः सहावस्थानवि- रोधादित्यर्थः । वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः ।।

ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह-

अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृ[२०] त्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसंपदः ॥१६॥

 अथेति ॥ अथावधिः कालः प्रतीक्ष्यते चेत् ।'अवधिस्त्ववधाने स्यात्सन्नि काले विलेऽपि च' इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसंपदो राज्यसंपदः। नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाण्या- स्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥

 अथवा तदा दैववशात्स्वयमेव संपदो दास्यति चेत्तथापि तत्कथं रोचयेमहीत्याह---

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषेर्भुजैः ॥१७॥

 द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लुट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृत पौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्मद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्य- दानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजितन्यम्' इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते 'कृतमिति निवारणनिषेधयोः' इति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रिया- पेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-‘न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि' इति ॥


 ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः-'साम्ना दानेन भेदेन समस्तैर-

थवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति।तत्किमाग्रहेणेत्याशङ्क्याह---

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन्खलु तेजसा ज[२१]गन्न महानिच्छति भूतिमन्यतः ॥१८॥

 मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखै:। मदवर्षिभिरित्यर्थः ।स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति।तथाहि। तेजसा प्रभावेण। 'तेज़ो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जराल्लघयंल्लघूकु- र्वन्महांस्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्त- वृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसम- र्थनरूपोऽर्थान्तरन्यासः ।।

 ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशंक्याह-

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥१९॥

 अभिमानेति । अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य। अतएवगत्वरैर्गमनशीलैर- स्थिरैः। 'गत्वरंश्च' इति क्वरबन्तो निपातः । असुभिः प्राणैः करणैः। 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् । 'ग्लाजिस्थश्च ग्स्नु' इति ग्स्नुप्रत्ययः । यशश्चिची- षतश्चेतुं संग्रहीतुमिच्छतः । चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः सा- चिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वञ्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एवं मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाघ्यमित्यर्थः । अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्यलंकारः । तदुक्तं काव्यप्रकाशे--- ‘परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ।

 नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशंक्याह।

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥२०॥

 ज्वलितमिति ॥ जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वा- दिति भाग: । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि--' इत्यादिन्सूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति


फलितमाह---

तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥१५॥

तदिति ॥ तत्तस्मात् । उपेक्षायां दोषसंभवादित्यर्थः । उन्नतेरभ्युदयस्य प्रतिपक्षमन्तरायं व्यवसायवन्ध्यतामुद्योगशून्यतामवलम्च्यालम् । अवलम्बनेनालमित्यर्थः ।'अलंखल्वो: प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः। तस्य ल्यवादेशः । तथाहि । पराक्रम आश्नयः कारणं यासां तास्तथोक्ताः समृद्धयः संपदो विषादेन सममनुत्साहन सह न निवसन्ति । पौरुषसाध्याः संपदो नानुत्साहसाध्याः। उभयोः सहावस्थानवि- रोधादित्यर्थः । वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः ॥

ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह-

अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृ[२२] त्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसंपदः ॥१६॥

अथेति ॥ अथावधिः कालः प्रतीक्ष्यते चेत् ।'अवधिस्त्वषधाने स्यात्सीन्नि काले विलेऽपि च' इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसंपदो राज्यसंपदः । नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाण्या- स्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥

अथवा तदा दैववशात्स्वयमेव संपदो दास्यति चेत्तथापि तत्कथं रोचयेमहीत्याह-

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥१७॥

द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृत- पौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्सद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्य- दानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजितव्यम्' इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते 'कृतमिति निवारणनिषेधयोः'इति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि' इति ॥


ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः- 'साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ।।' इति।तत्किमाग्रहेणेत्याशङ्क्याह-

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन्खल्लु तेजसा ज[२३]गन्न महानिच्छति भूतिमन्यतः ॥१८॥

मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखैः । मदवर्षिभिरित्यर्थः । स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति । तथाहि । तेजसा प्रभावेण। 'तेजो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जगल्लघयँल्लघूकुर्वन्महां- स्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसमर्थन- रूपोऽर्थान्तरन्यासः॥

ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशङ्क्याह-

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥१९॥

अभिमानेति ॥ अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य । अतएवगत्वरैर्गमनशीलैरस्थिरैः। 'गत्वरश्च' इति क्वरवन्तो निपातः । असुभिः प्राणैः करणैः । 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् ।'ग्लाजिस्थश्च ग्स्नु:' इति ग्स्नुप्रत्ययः । यशश्चिचीपतश्चेतुं संग्रहीतुमिच्छतः। चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः साचिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वच्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एव मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाध्यमित्यर्थः। अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्त्यलंकारः । तदुक्तं काव्यप्रकाशे- 'परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ॥

नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशङ्कयाह-

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥२०॥

ज्वलितमिति । जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वादिति भावः । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि-' इत्यादिसूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति


भावः । अतो हेतोर्मानिनोऽभिभूतिभयात्प्राणलाभेन तेजस्त्यागे परिभवो भविष्यतीति

भयादसूनेव सुखमक्लिष्टमुज्झन्ति त्यजन्ति । धाम तेजस्तु नोज्झन्ति। मानहानिकराज्जी- वनात्स्वतेजसा मरणमेव वरमित्यर्थः । पूर्वतरश्लोकवदर्थान्तरन्यासः ।

 अथवा किमत्र प्रयोजनचिन्तया। किंतु तेजस्विनामयं स्वभाव एव याज्जिगीषुत्वमि त्याशयेनाह--

किम[२४] पेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥२१॥

किमिति ॥ मृगाधिपः सिंहः किं फलं प्रयोजनमपेक्ष्य ध्वनतो गर्जतः । धरन्तीति धराः । पचाद्यच् । पयसां धरास्तान्पयोधरान्मेघान्प्रार्थयतेऽभियाति।‘याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । यद्वावरुणद्धीत्यर्थः । प्रा अर्थयते। ‘प्रा स्याद्याच्ञावरोधयोः' इत्यभिधानात्प्रा अवरोधेन।प्रा इति तृतीयान्तम्।आकारान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्यालोपः। तथाहि । महीयसो महत्तरस्य सा प्रकृतिः खलु यया प्रकृत्यान्यसमुन्नतिं परवृद्धिं न सहते। महतः परभञ्जन- मेव पुरुषार्थ इत्यर्थः । पूर्ववदलंकारः ॥

 निगमयति----उक्तार्थोपसंहरणं निगम उच्यते ।।

कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवमे[२५] तदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥२२॥

कुरु तदिति ॥ हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतीः।'यत्तद्यतस्ततो हेतौ' इत्यमरः । प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एवं मतिं कुरु । विक्रममेवाङ्गीकुरु, न तूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह-- ध्रुवमिति । विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनाव्यवसायेन हृताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः । इत्येतद्ध्रुवं निश्चितमवेहि विद्धि । 'ध्रुवं नित्ये निश्चिते च' इति शाश्वतः ।। न च नः पराजयशङ्का कार्येत्याह----

द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायन्तः ।
प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ॥२३॥

 द्विरदानिति ॥ दिग्वैिभावितान्दिक्षु प्रसिद्धांस्तानायत आगच्छतः ।आङ्पूर्वादि- ण्धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोयनिधी- निव, रण आयतो दिग्विभाविंताञ्छतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजान्द्विषतां मध्ये कः प्रसहेत सोढुं शक्नुयादित्यर्थः। 'शकि लिङ् च' इति शक्थार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥


 आशीर्वादव्याजेन फलितमाह---

ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।
विदधातुं शमं शिवेतरा रिपुनारीनयनाम्बुसंततिः ॥२४॥

 ज्वलत इति ॥ तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः। शिवेतराशिवामङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसंततिर्वै- रिवनिताश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसंभवादवश्यं तद्वधस्त्वदा कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलंकारः । तदुक्तम्-'विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्तिः स्यात्कवेः प्रोढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जात- वेदसो भेदेऽप्यभेदाध्यवसायाद्भेदेऽभेदरूपा । ततः एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च यथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ।।

इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ॥२५॥

 इतीति । इत्युक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरी- तमानसं कोपाक्रान्तचित्तम् । इदं विशेषणद्वयं द्विरदेऽपि योज्यम् । मरुतः सुतं भीमं महीपतिर्युधिष्ठिरो दुष्टं द्विरदमिव । एतेन भीमस्य शौर्यमेव, न बुद्धिरस्तीति गम्यते। उपसान्त्वयितुमनुनेतुमुपचक्रमे प्रवृतः । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । राज्ञा तावदुपकारविशेषापेक्षया कथंचिदवशो जनः शनैः शनैर्द्विरदवद्वशीकरणीयः, न तु त्याज्य इति भावः ॥

 प्रथमं तावत्स्तुत्यादिभिः प्रसादयति--

अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥२६॥

 अपवर्जितेति ॥ विप्लवः प्रमाणबाधः। अन्यत्र बाह्यमलसंक्रमः । सोऽपवर्जितो यस्य तस्मिन्नपवर्जितविप्लवे। शुचौ। सौशब्द्यं लोहशुद्धिश्च शुचित्वम् । तद्वतीत्यर्थः । अतएव हृदयग्राहिणि मनोरमै मङ्गलास्पदे । एकत्र हितार्थप्रतिपादकत्वादन्यत्र मङ्गलवस्तुत्वाच्च श्रेयस्करे। 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्यं प्रातः पश्येत्सदा बुधः॥' इति पुराणवचनात् । तव गिरां विस्तरे वाक्प्रपञ्चे । 'प्रथप्ने वावशब्दे' इति घञ्प्रतिषेधात् 'ऋदोरप्' इत्यप् । अतएव 'विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः' इत्यमरः । मतिस्त्वद्बुद्धिरादर्शे दर्पण इव।'दर्पणे मुकुरादर्शौ' इत्यमरः । विमला विशदाभिदृश्यते । वाग्वैशद्यादेव मतिवैशद्यमनुमीयते । तत्पूर्वकत्वात्तस्येत्यर्थः॥  अथ युग्मेनाह----

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥२७॥

स्फुटतेति । उपपत्तिरिति च ॥ पदैः सुप्तिङन्तशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता। अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम्। स्वीकृतमेवेत्यर्थः । वैशद्यप्रसक्ता- र्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः। गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता । तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दृशदाडिमादिशब्दवदेकवाक्यता न स्यात् । यथाहु:---‘अर्थैकत्वादेकं वाक्यं सापेक्षा चेद्विभागे स्यात्' इति । नन्वर्थगौरवमित्यत्र कथं पष्ठीसमासः। 'पूरणगुण-' इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दागुणे गुणिनि च वर्तन्ते । यथा पटस्य शौक्ल्य्म् शुक्ल: पट इति च तेषामेवात्र निषेधात् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्येवमादयः। तेषामनिषेधात् । तथा 'तत्स्थैश्च गुणैः षष्ठी समस्यते' इति वचनाद्वहुलमभियुक्तप्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनादसमासः । अत एवाह वामनः--'पत्रपीतिमादिषु गुणवचनसमासो बालिश्यात्' इति ।।

उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥२८॥

 उपपत्तिरिति ॥ किंच बलाद्बलमाश्रित्य । कर्मणि ल्यब्लोपे पश्चमी वक्तव्या। उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः । उचितं चैतन्महावीरस्येति भावः । तथानुमानेन युक्त्यागमः शास्त्रं च न क्षतो न हतः। किंत्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गप्रसङ्गादिति भावः । ईदृगित्थं क्षात्रयुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षात्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः।'अभिप्रायश्छन्द आशयः' इत्यमरः । कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति । वक्ता तु दूरापास्त एवेति भावः । केचिदेतच्छ्लोकत्रयं निन्दा- परत्वेनापि योजयन्ति । तदसत् । हितोपदेशमात्रतत्परस्यतिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वानर्थमूलभूतनिन्दातात्पर्यकल्पनानौचित्यादिति ॥

 यदि साधूक्तं तर्हि तथैव क्रियतामित्याशंक्याह----

अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
[२६]वसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः ॥२९॥

 अवितृप्ततयेति ॥ तथापि त्वया सम्यङ्निर्णीतेऽपि मे हृदयमवितृप्ततयासंतुष्टतया ।


अद्यापि संशयगतत्वेनेत्यर्थः । निर्णयमेव धावत्यनुसरति । अपेक्षत इति यावत् ।

अद्यापि निर्णयस्यानुदयादिति भावः । निर्णयानुदये हेतुमाह---अवेति । विधेयेषु संधिविग्रहादिकर्तव्यार्थेषु या विशेषसंपदोऽवान्तरभेदभूमानस्ताः सुखमक्लेशेनावसाययितुम् । पुरुषान्प्रत्यानुकूल्येन स्वस्वरूपं स्वयमेव शीघ्रं प्रत्याययितुमित्यर्थः। स्यतेर्ण्यन्तादणि कर्मकर्तृकात्तुमुन् । णेरनादिसुत्रस्यायं विषयः । क्षमन्त इति क्षमाः । पचाद्यच् । शक्ता न भवन्ति ।'क्षमं शक्ते हिते त्रिषु' इत्यमरः । विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्याद्बाहुल्याच्च दुर्ज्ञेयत्वादद्यापि निर्णयाकाङ्क्षेति तात्पर्यार्थः।अत्र निर्णयधावनं प्रत्युत्तरवाक्यार्थस्य हेतुत्वाभिधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।

 वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशंक्याह----

सहसा विधीत न क्रियामविवेकः परमापदां पदम् ।
वृ[२७]णते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥३०॥

 सहसेति ॥ क्रियत इति क्रियां कार्यं सहसा। अविमृष्येत्यर्थः ‘सहसेत्याकस्मि- काविमर्षयोः' इति गणव्याख्याने स्वरादिपाठादव्ययम्। न विदधीत न कुर्वीत । कुतः । अविवेकोऽविमृष्यकारित्वं परमत्यन्तमापदां पदं स्थानम् । कारणमित्यर्थः । व्यतिरके- णोक्तमर्थमन्वयेनाह--वृणत इति । गुणलुब्धा गुणगृध्नव इति स्वयंवरहेतूक्तिः। संपदः श्रियः । विमृष्य करोतीति विसृष्यकारी। 'उपपदमतिङ्' इति समासः । तं स्वयमेव वृणते भजन्ते हि । 'वृङ् संभक्तौ इति धातुः । तस्माद्विमृष्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधाननिषेधलब्धविमृष्यकारित्वरूपकारणस्यापद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितयार्धेन च स एव साधर्म्येणेति ज्ञेयम् ।

 ननु साहसिकस्यापि फलासिद्धिर्दृश्थत एव । तत्किं विवेकेनेत्यत्राह--

अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥३१॥

 अभीति ॥ यः पुमान् । विधीयन्त इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमित- समासः । शरदं लोक इवेति वाक्यगतोपमानुसारात्। तानि विधिबीजानि। विवेको वारीव तेन विवेकवारिणा । पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संरक्षन्नमिवर्षति सिञ्चति । स पुमान् ।फलं साधननिष्पाद्योऽर्थः, सस्यं च ।'सस्ये हेतुकृते फलम्' इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । ‘लोकस्तु भुवने जने' इत्यमरः । शरदमिव सदा नित्यमधितिष्ठति । सदा क्रियाफलं प्राप्नोत्येव । न कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिर्विवेकिनस्तु नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छ्लेषमूलाति- शयोक्तिस्तदनुगृहीता चोपमेत्यनुसंधेयम् ॥


 नियता विवेकिनः फलसिद्धिरित्युक्तम् । संप्रति तामेव रुच्यर्थं स्तौति----

शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥३२॥

 शुचीति ॥ शुचि संप्रदायशुद्धं श्रुतं शास्त्रश्रवणं कर्तुं वपुर्भूषयति । अन्यथाविद्वा- न्पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रशमः क्रोधोपशान्तिरलंक्रिया भूषणं भवति । अन्यथा श्रुतवैफल्यादिति भावः । पराक्रमः सत्यवसरे शौर्यं प्रशमस्याभरणं भवति । अन्यथा सर्वैः परिभूयत इति भावः । स पराक्रमः । नयापादिता नीतिसंपादिता । विवेकपूर्विकेति यावत् । सा चासौ सिद्धिश्च सैव भूषणं यस्य स तथोक्तः । अन्यथा साहसिकस्य सिद्धिः काकतालीयत्वेन पक्षे पराक्रमवैयर्थ्यं स्यादिति भावः । 'वपुषो भूष्य- तैवात्र सिद्धेर्भूषणतैव तु । उभयं मध्यमानां तु तेषां पूर्वोत्तरेच्छया ।।' इति विवेकः । एवंविशिष्टसिद्धेरनन्यभूषिताया एव भूषणत्वोक्त्या सर्वोत्तरतया स्तुतिर्गम्यते । अत्रो- त्तरोत्तरस्य पूर्वपूर्वविशेषणत्वादेकावल्यलंकारः । तदुक्तम्--‘यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव । भजति परं परमेषालंकृतिरेकावली कथिता ॥' इति ॥

 विमृष्य कुर्यादिति स्थितम् । तत्र विमर्षोपायः क इत्युक्ते शास्त्रमेवेत्याह---

मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥३३॥

 भतीति ॥ मतिभेदः कार्यविप्रतिपत्तिः । मतभेदस्तम इवेत्युपमितसमासः । दीप इवेत्युपमानुसारात् । तेन तिरोहित आच्छन्नेऽतएव गहने दुरवगाहे कृत्यविधौ कार्यानुष्ठाने विवेकिनां सुकृतः सदभ्यस्तोऽतएव परिशुद्धो निश्चितोऽन्यत्र सुविहितः प्रवातादिदोष- रहितश्च आगमः शास्त्रम्। 'आगमः शास्त्र आयाते' इति विश्वः । दीप इवार्थदर्शनं कार्यज्ञानं वस्तुप्रतिभासनं च कुरुते ॥

 एवं विमृष्य कुर्वतो दैवादनर्थागमोऽपि न कश्चिदपराध इत्याह---

स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः।
विधिहेतुर[२८]हेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥३४॥

 स्पृहणीयेति ॥ स्पृहणीयगुणैर्लोकश्लाघ्यगुणैर्महात्मभिः सज्जनैश्चरितेऽनुष्ठिते वर्त्म- न्याचारे मनो यच्छतां निदधताम् । सन्मार्गेण व्यवहरतामित्यर्थः। विधिहेतुर्दैवनिमित्तकः । 'विधिर्विधाने दैवे च' इत्यमरः । अतएवागसामपराधानामहेतुर्विनिपातो दैविकानर्थोऽपि। 'विनिपातोऽपाते स्याद्दैवादिव्यसनेऽपि च' इति विश्वः । समुन्नतेरति वृद्धेः समस्तुल्य: । दैविकेषु पुरुषस्यानुपालभ्यत्वादिति भावः । यथाह कामन्दकः-- 'यत्तुसम्यगुपक्रान्त' कार्यमेति विपर्ययम् । पुरुषस्त्वनुपालभ्योदैवान्तरितपौरुषः॥'इति।।


 संप्रति यद्धिष्मृयं तदाह-

शिवमौपयिकं गरीयसीं फलनिष्पत्तिम[२९]दूषितायतीम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥३५॥

 शिवमिति ॥ जिगीषवो विजयेच्छवो नृपा विजितक्रोधरया जितक्रोधवेगाः सन्तो गरीयसीं प्रभूतामदूषितायतीमक्षतोत्तरकालाम् । स्वन्तामित्यर्थः । फलनिष्पत्तिं फलसिद्धिं विगणय्य । फलवत्त्वं निश्चित्येत्यर्थः । पौरुषं पुरुषकारं शिवमनुकूलमौ- पयिकमुपायम् । विनयादित्वात्स्वार्थे ठक् । उपायाद्ध्रस्वत्वं च । नयन्ति प्रापयन्ति । पौरुषमुपायेन योजयन्तीत्यर्थः । नानिश्चितफलं कर्म कुर्वत इति भावः । यथाह कामन्दकः--'निष्फलं क्लेशबहुलं संदिग्धफलमेव च । न कर्म कुर्यान्मतिमान्सदा वैरानु- घन्धि च ॥' इति।नयतिः प्रापनार्थे द्विकर्मकः। अत्र पौरुषस्य कर्तृस्थकर्मत्वेऽप्युपायस्या- तथात्वात्क्रोधं विनयत इत्यादिवत् 'कर्तृस्थेचाशरीरे कर्मणि' इत्यात्मनेपदं न भवति ॥

 यदुक्तं विजितक्रोधरया इति तदावश्यकमित्याह-

अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥३६॥

 अपनेयमिति ॥ उदेतुमभ्युदेतुमिच्छता राज्ञा पुरः प्रथमं रोषमयं रोषादागतम् । 'मयट् च' इति मयट् । तिमिरमज्ञानं धिया विवेकबुद्ध्या करणेनापनेयमपनोद्यम्। तथाहि । अंशुमतापि कर्त्रा प्रभया तेजसा करणेन निशाकृतं तमो ध्वान्तमविभिद्य नोदीयते । किंतु विभिद्यैवेत्यर्थः । सूर्यस्याप्येवं किमुतान्येषामित्यपिशब्दार्थः । इणो भावे लट् ॥

 ननु दुर्बलस्यैवमस्तु । बलीयसस्तु क्रोधादेव कार्यसिद्धिरित्यत आह-

बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसंपदः ॥३७॥

 बलवानिति ॥ बलवाञ्छूरोऽपि यः।कोपज्जन्म यस्य तस्य कोपजन्मनः ।'अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । तमसो मोहस्य । कृद्योगात्कर्तरि षष्ठी,अभिभवमाक्रान्तिं न रुणद्धि न निवारयति । स नृपः । क्षयस्य पक्षः क्षयपक्षः कृष्णपक्ष ऐन्दवीरिन्दुसंबन्धिनीः कला इव । ‘कला तु षोडशो भागः' इत्यमरः । सकलाः समग्रा: शक्तिसंपदः प्रभुमन्त्रोत्साहशक्तीस्तिस्रोऽपि हन्ति नाशयति । अन्धस्य जङ्घाबलमिव क्रोधान्धस्य लोकोत्तरमपि सामर्थ्यं व्यर्थमेवेत्यर्थः । अत्र कालस्य सर्व- कारणत्वात्क्षयपक्षस्य कलाक्षयकारित्वमस्त्येव । तमसस्तु तत्कालविजृम्भणात्तथा व्यपदेशः ॥


 विमृष्य कुर्वतः क्रियाप्रकारमाह-

समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।
अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥३८॥

समेति ॥ यः । समा नातिमुदुर्नातितिग्मा वृत्तिर्यस्य स समंवृत्तिः सन्समये सत्यवसरे मार्दवं मृदुवृत्तित्वमुपैति तिग्मतां तीक्ष्णवृत्तित्वं च तनोति । स मेदिनीपतिर्विवस्वानिव ओजसा तेजसा लोकमधितिष्ठत्याक्रामति । सूर्योऽपि ऋतुभेदेने समवृत्तिरित्यादि योज्यम् ॥

 उक्तान्यथाकरणेऽनिष्टमाह---

क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥३९॥

 क्वेति ॥ श्रियां सम्पदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्व । इन्द्रियाणि चाजिन इवेति समासः । दुष्टानाममार्गधाविनामिन्द्रियवाजिनां वश्यो वशंगतस्तस्य भावस्तत्ता क्व । नोभयमेकत्र तिष्ठतीत्यर्थः । कुतः । हि यस्माच्छरदभ्रवच्चलाश्चञ्चलाः । किंच बहुच्छला बहुव्याजाः । बहुरन्ध्रा इति यावत् । 'छलं तु स्खलिते व्याजे' इति विश्वः । श्रियः संपदः । चलेन्द्रियैरजितेन्द्रियैरसुरक्षा रक्षितुमशक्या; । कथंचित्प्राप्ता अपि श्रियो नाविनीतेषु तिष्ठन्तीत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकार: ॥

 क्रोधस्य दुष्ठतामुक्त्वा तस्य त्यागमुपदिशति-----

किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥४०॥

 किमिति ॥ उपात्तरंहसः प्राप्तत्वरस्य मनसः । समयोऽस्य प्राप्तः सामयिकः। 'समयस्तदस्य प्राप्तम्' इति ठञ् । स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्यगुणेन । 'मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषुः' इति रसिकाः । अधरीकृतस्तिरस्कृतः । प्रागिति शेषः । अपां पतिः समुद्रः किं किमर्थमुच्चकैरधिकः क्रियते । न पराजितं पुनरुच्चकैः कुर्यादिति भावः । अत्र वितन्वतेति भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चै: करणे हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥ ' '

श्रुतमप्यधिगम्य ये रिपून्विनयन्ते न शरीरजन्मृनः ।
जनयन्त्यचिराय संपदामयशस्ते खलु चापलाश्रयम् ॥४१।।

 श्रुतमिति ॥ किंच । ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून्का- मक्रोधादीन्न विनयन्ते न नियच्छन्ति । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । ते खल्चचिराय संपदां चापलाश्रयमस्थैर्यनिबन्धनमयशो दुष्कीर्तिं जनयन्ति । आश्रय- दोषादस्थैर्थं सम्पदां न स्वदोषादित्यर्थः । अजितारिषङ्वर्गस्य कुतः संपद इति भावः ॥

 तथा क्रोधात्कार्यहानिरित्याशयेनाह---

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गता[३०]पनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥४२॥

 अतिपातितेति ॥ अतिपातितान्यतिक्रान्तानि कालः समयोऽनुरूपः साधनानि सहयादीनि यया सा तथोक्ता । तापयतीति तापनी । कर्तरि ल्युट् । टित्वान्ङीप् । स्वस्य यच्छरीरमिन्द्रियवर्गश्च तयोस्तापन्यक्षमा क्रोधो भवन्तं जनवत्पृथग्जनमिव। 'तेन तुल्यं-' इति वतिप्रत्ययः । तेनेवार्थों लक्ष्यते । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययम् । नयसिद्धेर्नयसाध्यफलादपनेतुं पृथक्कर्तुं नार्हति। असमयक्रोधस्यात्मसं- तापातिरिक्तं फलं नास्तीत्यर्थः ॥

 दुष्टः क्रोध इत्युक्तम् । अथ क्षमाया गुणानाह-

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥४३॥

 उपकारकमिति ॥ आयतेरुत्तरकालस्य भृशमत्यन्तमुपकारकम्।स्थिरफलहेतुरित्यर्थ:। भूरिणः प्रभूतस्य कर्मफलस्य । प्रसूयतेऽनेनेति प्रसवः कारणम् । अपायि न भवतीत्यनपयि स्वयमविनश्यदेव द्विषां निबर्हणं विनाशकमेवंगुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति । 'क्षान्तिः क्षमा तितिक्षा च' इत्यमरः । 'तिज निशाने' इति धातोः 'गुप्तिज्किद्भ्य: सन्' इति क्षमार्थे सन्प्रत्ययः । तितिक्षासममित्यनुक्तोपमेया समास आर्थी लुप्तोपमा, भृशायत्यनपायिशब्दैः साधनान्तरवैलक्षण्याद्व्यतिरेकश्च व्यज्यते । भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये च व्यतिरेकः ।।

 ननु तितिक्षया कालक्षेपे दुर्योधनः सर्वान् राज्ञो वशीकुर्यादित्यत्राह--

प्रणतिप्रवणान्विहाय नः सहजस्नेह[३१]निबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥४४॥

 प्रणतीति। सहजस्नेहेनाकृत्रिमप्रेम्णा निबद्धचेतसोऽस्मासु गाढं लग्नचित्ताः। सुयोधने तु न तथेति भावः । किं च मानभृतामहंकारिणां प्रथमेऽग्रेसरा:। सुयोधनस्तु ततोऽपीति भावः । वृष्णयो यादवा: प्रणतिप्रवणान्प्रणामपरान् । सुयोधनस्तु न तथेति भावः । नोऽस्मान्विहाय सुयोधनं सदा न प्रणमन्ति न नमन्ति नानुसरन्ति। किंतु कार्यकाले त्यक्ष्यन्त्येवेत्यर्थः। सति यादवविग्रहे न किंचिदस्माकमसाध्यं भवेदिति भावः । अनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥


सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥४५॥

 सुहृद इति ॥ किं चैषां वृष्णीनां ये सहजाः सहजाताः । मातृपितृपक्ष इत्यर्थ 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । सुहृदो मित्राणि तथेतरे कृत्रिमसुहृदश्च मतं वृष्णि- पक्षं न विलङ्घयन्ति नातिक्रामन्ति । ते द्वयेऽपि नृपाः । दुर्योधनोपजीविनोऽपीति भावः । आत्मसिद्ध्यं आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्योधनं विनयादानुकूल्यादिव यापयन्ति कालं गमयन्ति।कार्यकाले तु वृष्णिपक्षप्रवेशिन एवेत्यर्थः।यातेर्ण्यन्ताल्लट्। 'अर्तिह्रि-' इत्यादिना पुगागमः ॥

 किंच नायमभियोगकाल इत्याशयेनाह -

अभियोग इमान्महीभुजो भवता तस्य कृतः कृ[३२]तावधेः ।
प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ॥४६॥

 अभियोग इति ॥ कृतावधेः परिभाषितकालस्य । ‘अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः। तस्य सुयोधनस्य।कर्मणि षष्ठी।भवता कृतः।अवधित इति शेषः । अभियोगः । आर्द्राभिभव इति यावत् ।'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे' इति विश्वः । इमान्पूर्वोक्तान्महीभुजो राज्ञो हरिदश्व उष्णरश्मिः कमला- करानिव समुत्पतन्नुद्यन्नेव प्रविघाटयिता भेत्स्यति । धाटयतेर्भौवादिकालुट् । चौरादि- कस्य तु 'मितां ह्रस्वः' इति ह्रस्वत्वं स्यात् ।।

 अथ न ये वृष्णिपक्षास्तान्प्रत्याह-

उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥४७॥

 उपजापेति ॥ मदोद्धतः स दुर्योधनो नृपतीनन्यान्नृपान्विलङ्घ्यन्मदादमानयन् ।। सहन्त इति सहाः। पचाद्यच् । उपजापस्य सहान्भेदयोग्यान्। 'समौ भेदोपजापौ' इत्यमरः । विधाता विधास्यति । दधातेर्लुट् । अवमानितो जनः सुभेद्य इति भावः । न च ते सहिष्णव इत्याह-जनः प्राकृतोऽप्यधःक्रियामपमानं न सहते । लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः । ‘गोत्रोक्षोष्ट्र-' इत्यादिना वुञ्प्रत्ययः । किमु । न सहृत इति किं वक्तव्यमित्यर्थः । तथा सति कृत्स्नमेव राजमण्डलमस्मा- नेवावलम्बिष्यते इति भावः ॥


 ननु सखीनिवेत्यादिवनेचरोक्त्या तस्य मदसंभावनापि कथमित्यत्राह----

असमापितकृत्यसंपदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशा[३३]लिनां मदमुत्तम्भयितुं विभूतयः ॥ ४८॥

 असमापितेति ॥ असमापितकृत्यसंपदामकृतकृत्यानामतोऽभिमानशालिनामहंका- रिणां विभूतयः संपद एव तावता स्वल्पेन विनयेन । कार्यवशादारोपितेनेति शेषः । हतवेगं प्रतिबद्धवेगं नतु स्वरूपतो हतं मदमुत्तम्भयितुं वर्धयितुं प्रभवन्ति । सर्वथा दुर्जनसंपदो विकारयन्तीति भावः ॥

 अथ मदस्यानर्थहेतुतां युग्मेनाह---

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥ ४९ ॥

 मदेति। अपरागेति च ॥ मदमानाभ्यां दर्पहंकाराभ्यां समुद्धतं नृपं मूढता कार्याप- रिज्ञानं नियमेनावश्यं न वियुङ्क्ते न विमुञ्चति । अतिमूढो नयान्नीतिमार्गादुदस्यत उत्क्षिप्यते । कर्मकर्तरि लट्। नयहीनाज्जनोऽपरज्यतेऽपरक्तो भवति । ‘स्वरितञित:- इत्यादिनात्मनेपदम् ॥

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः ।
सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥५०॥

 अपरागोऽप्रीतिः । द्वेष इति यावत् । समीरण इव । तेनेरितश्चोदितः। अतएव, क्रमेण शीर्णा शीर्णीभूताकुला चला च मूलसंततिः प्रकृत्यादिस्वजनवर्गः शिफासंघातश्च यस्य स तथोक्तः । ‘मुलं वशीकृते स्वीये शिफातारान्तिकादिषुः' इति वैजयन्ती। रिपुर्महानपि तरुवद्वृक्ष इव सहिष्णुना क्षमावतोन्मूलयितुमुद्धर्तुं सुकरः सुसाध्यः । सुकरोन्मूलन इत्यर्थः । अत्र मदादेः पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्करणमाला, तरुवदित्युपमा चेति द्वयोः संसृष्टिः ॥

 नन्वन्तर्भेदमात्रेण कथं सुसाध्यस्तत्राह---

अणुरप्युपहन्ति विग्रहः प्र[३४]शुमन्तःप्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशखान्तनिघर्षजोऽनलः ॥५१॥

 अणुरिति ॥ अणुरल्पोऽप्यन्तःप्रकृतिप्रकोपजोऽन्तरङ्गामात्याद्यपरागसमुत्थः । 'प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्त्वमात्यादिकेष्वपि॥' इति वैजयन्ती । विग्रहो वैरं प्रभुमुपहन्ति नाशयति । अत्र दृष्टान्तमाह-तरुशखान्तानां विधर्षों घर्षणं तज्जोऽनलोऽग्निः । भूधरं गिरिमखिलं साकल्येन हिनस्ति हि । दहती- त्यर्थः । अत्रोपसानोपमेयसमानधर्माणां प्रतिबिम्बतया निर्देशेन दृष्टान्तालंकारः ॥


 तथापि कथं वर्धमानं शत्रुमुपेक्षेतेत्याशङ्क्य दुर्विनीतत्वादित्याह---

मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसंपदः ॥५२॥

 मतिमानिति ॥ मतिमान्प्राज्ञ:। विनयं प्रमथ्नातीति विनयप्रमाथिनो दुर्विनीतस्य द्विषः समुन्नतिं वृद्धिं समुपेक्षेत । उपेक्षायाः फलमाह---तादृगविनीतोऽन्तरे क्वचिद्रन्ध्रे सुजयः सुखेन जेतुं शक्यः खलु । हि यस्मादविनीतसंपदो विपदन्ता विपन्मर्यादकाः । अनर्थोदर्का इत्यर्थः ॥

 कथं दुर्विनीतस्य शत्रोः सुजयत्वमित्याशङ्क्य भेदजर्जरितत्वादित्याह-

लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् ।
अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ॥५३॥

 लघ्विति ॥ लघुवृत्तितया स्वस्य दुर्वृत्तरूपतया बहिर्मित्रादिजनपदेष्वन्तरमात्यादिषु च भिदां भेदं गतम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः । नृपस्य मण्डलं राष्ट्रमनन्तरः संनिहितो जिगीषुरापगारयो नदीवेगः शिथिलमन्तर्भेदजर्जरं कूलमिवाभिभूयाक्रम्य हरति ।।

अनुशासतमित्य[३५]नाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥५४॥

 अन्विति ॥ इतीत्थमाकुलमरिनिकारस्मरणात्क्षुभितमर्जुनाग्रजं भीमसेनं नयवर्त्म- नीतिमार्गमनाकुलमसङ्कीर्णं यथा तथानुशासतमुपदिशन्तम् । 'जक्षित्यादयः षट्' इत्य- भ्यस्ताच्छतुर्नुमभावः । तं युधिष्ठिरं पराशरात्मजो वेदव्यासः । स्वयमभिवाञ्छितोऽर्थ इव । साक्षान्मनोरथ इवेत्युत्प्रेक्षा । अभीयाय प्राप्तः ।।

 अथ युग्मेनाह----

मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं नि[३६]रीक्षितैः ।
परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥५५॥

 मधुरैरिति ॥ मधुरैः शान्तैर्निरीक्षितैरवलोकनैः । नपुंसके भावे क्तः । न विद्यते वशमायत्तत्वं येषां तान्यवशानि प्रतिकूलानि । 'वशमायत्ततायां च' इति विश्वः । तिर्यञ्चि मृगपक्ष्यादीनि शमं शान्तिं लम्भयन्प्रापयन् । 'लभेश्च' इति नुमागमः। 'गत्यर्थ-' इत्यादिना द्विकर्मकत्वम्। परितः पटूज्ज्वलमेनसाम् ।दह्यतेऽनेनेति वहनं निवर्तकं तथापि विलोकनक्षमं दर्शनीयम् । वह्लयादिविलक्षणमिति भावः । धाम तेजो बिभ्रत् ॥


सहसोपगतः सविस्मयं तपसां सूतिरसूतिरा[३७]पदाम् ।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥५६॥

 सहसेति ॥ पुनः सहसोपगतोऽकस्मादागतस्तपसां सूतिः प्रभव आपदामसूतिरप्रभवः । निवर्तक इति यावत् । स मुनिर्व्यासो वपुष्मान्देहधारी पुण्यसंचयः पुण्यराशिरिवेत्युत्प्रेक्षा । जगतीभुजा राज्ञा सविस्मयं ददृशे दृष्टः ।।

अथोच्चकैरासनतः परार्ध्यादुद्यन्स[३८]धुतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव ति[३९]ग्मरश्मिः ॥५७॥

 अथेति ॥ अथ दर्शनानन्तरम् । उच्चकैरुन्नतात्परार्ध्याच्छ्रेष्ठात् । ‘अर्धाद्यत्' । परा- वराधमोत्तमपूर्वाच्च' इति यत्प्रत्ययः । आसनतः सिंहासनादुद्यन्नुत्तिष्ठन्नत एव धूतानि कम्पितान्यरुणानि वल्कलाग्राणि यस्य स तथोक्तः। स नृपः कीर्णं विस्तृतमाकपिश- मंशुजालं यस्य स तथोक्तः । सुमेरोः शृङ्गादुद्यंस्तिग्मरश्मिरिव । रराज ॥

 

अवहितहृदयो विधाय सो[४०]ऽर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ॥५८॥

 अवहितेति ॥ स नरेन्द्रोऽवहितहृदयोऽप्रमत्तचित्तः सन् । ऋषिप्रवरे मुनिश्रेष्ठे । ऋषिवदृष्यर्हाम् । अर्हार्थं वतिप्रत्ययः । गुरूपदिष्टाम् । शास्त्रीयामित्यर्थः । अर्हां पूजाम्। 'गुरोश्च हलः' इत्यकार प्रत्ययः । विधाय पश्चादनन्तरं तदनुमतं तेनानुज्ञातमासनम् । प्रशमः शान्तिः श्रुतं शास्त्रश्रवणमिव । अलंचकार । उक्तं च--'प्रशमस्तस्य भवत्यलं क्रिया' इति । मुन्याज्ञयोपविष्टवानित्यर्थः ॥

व्यक्तोदितस्मितमयूखवि[४१]भासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।
तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य श[४२]शाङ्कमूर्तेः ॥५९॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः ।

 व्यक्तेति ।। व्यक्तोदितैः स्फुटोद्गतैः स्मितमयूखैर्विभासितावोष्ठौ यस्य स तथोक्तः । विकीर्णधाम्नो विस्तीर्णतेजसो मुनेरभिमुखं तिष्ठन्स नृपः । इद्धं दीप्तमंशुजालं तन्वन्तं गुरुं गष्पितिम् । 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः । 'अभितःपरितः' इत्यादिना द्वितीया । अभितोऽभिमुखम् । तिष्ठत इति शेषः । सकलस्य संपूर्णस्य शशाङ्का मूर्ति-


र्यस्य तस्येन्दोर्लक्ष्मीमुवाह वहति स्म । अत्रोपमेयस्य राज्ञ उपमानेन्दुधर्मेण लक्ष्म्याः साक्षात्संबन्धासंभवात्तत्सदृशीं लक्ष्मीमिवेति प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंब- न्धात्पदार्थवृत्तिर्निदर्शनालंकारः। तदुक्तम्- 'प्रतिविम्बस्याकरणं संभवता यत्र वस्तुयोगेन । तत्साम्यमसंभवता निदर्शना सा द्विधाभिमता ॥ इति ॥ इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां द्वितीयः सर्गः समाप्तः ।


तृतीयः सर्गः।


अथ त्रिभिर्मुनिं विशिषंश्चतुर्भिः कलापकमाह । तदुक्तम्-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥ 'इति--

ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः।
बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् ॥१॥

तत इति । तत उपवेशानन्तरं धर्मात्मजो युधिष्ठिरः शरच्चन्द्रकराभिरामैः आह्लाद- कैरित्यर्थः । उत्सर्पिभिरूर्ध्वं प्रसारिभिरंशुजालैः प्रांशुमुन्नतमिव स्थितमित्युत्प्रेक्षा। पुनरानीलरुचं कृष्णवर्णं पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीप्। जटा बिभ्राणं धारयन्तमतएव तडित्वन्तं विद्युद्युक्तमम्बुवाहमिव स्थितमित्युत्प्रेक्षा ॥

प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥२॥

प्रसादेति ॥ पुनः समग्रां संपूर्णी प्रसादः सौम्यता तस्य लक्ष्मीं संपदं दधतम् । अतएव जनमतिगच्छतीति जनातिगेन लोकातिशायिना । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । वपुःप्रकर्षेणाकारसंपदासंस्तुतानामपरिचितानामपि । व्यासोऽयमित्यजानता- मपीत्यर्थः । 'संस्तवः स्यात्परिचयः' इत्यमरः । चेतःसु चित्तेष्वार्द्रं, स्नेहार्द्रं, भावमभिप्रायं प्रसह्य बलात्समासजन्तम् । लगयन्तमिति यावत् । 'देशसञ्जस्वञ्जां शपि' इत्युपधाया लोपः । प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः॥

अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् ।
माधुर्यविस्रम्भविशेषभाजा कतोपसंभाषमिवेक्षितेन ॥३॥

अनुद्धतेति ॥ पुनरतुद्धताकारतया शान्ताकारत्वेन लिङ्गेनान्तःकरणस्य वृत्तिं विविक्तां पूताम् । शान्तामिति यावत् । 'विविक्तौ पूतविजनौ' इत्यमरः । तन्वन्तं प्रक- टयन्तम् । आकृतिरेवास्य चित्तशुद्धिं कथयतीत्यर्थः । पुनर्माधुर्यं निसर्गसौम्यता विस्त्र म्भो विश्वासः । 'समौ विस्रम्भविश्वासौ' इत्यमरः । तयोर्विशेषमतिशयं भजतीति तथोक्तेनेक्षितेन दर्शनेनैव कृतोपसंभाषा संभाषणं येन तमिवेत्युत्प्रेक्षा । दृष्टिविशेषे- णैवोपसंभाषमाणमिव स्थितमित्यर्थः । काशिकायां तु 'उपसंभाषणमुपसान्त्वनम्' इति भासनादिसूत्रेण ॥

धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ ४ ।

धर्मेति ॥ पुनर्धर्मं निबध्नन्तीति धर्मनिबन्धिनीनामग्निहोत्रादिधर्मप्रतिपादिकाम् । एनःप्रणुदामधच्छिदाम् । क्विप् । श्रुतीनां वेदानाम् । 'श्रुतिः स्त्री वेद आम्नांसां इत्यमरः । प्रसूतिं प्रभवं सुखेनोपविष्टं मुनिं तदभ्यागमने तस्य मुनेरागमने हेतुम् । आप्सुर्जिज्ञासुः । आप्नोतेः सन्नन्तादुप्रत्ययः । 'आप्ज्ञप्वृधामीत्'इतीकारः।अत्र लों वृऽभ्यासस्य' इत्यभ्यासलोपः। आबभाष उवाच ।

अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री।
तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥५॥

अनाप्तेति ॥ अनाप्तपुण्योपचयैरकृतपुण्यसंग्रहैर्दुरापा दुर्लभा। फलस्य सवित्री स्करी निर्धूतरजा हतरजोगुणा । अन्यत्र निरस्तधूलिः। 'रजो रजोगुणेधूलौ परारवयोरपि' इति शाश्वतः। एषा भवद्दर्शनसंपत्संपत्तिः । लाभ इति यावत् । संपदभ्यः क्विपो भावार्थत्वात् । वीतबलाहकाया गतमेघाया दिव आकाशस्य संबन्धि वृष्टेस्तुल्येत्युपमालंकारः । अनभ्रवृष्टिवदतर्कितोपपन्नं भवद्दर्शनं सर्वथा कस्यचित्यसो निदानमित्यर्थः । वारि वहतीति बलाहकः । पृषोदरादित्वात्साधुः ॥

अद्य क्रियाः कामदुधाः क्रतूनां सत्याशिषः संप्रति भूमिदेव
आसंसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥६।।

अद्येति ॥ अद्य क्रतूनां क्रिया अनुष्ठानानि । कामान्दुहन्तीति कामदुधाः । फलो इत्यर्थः । 'दुहः कब्धश्चः' इति कप्प्रत्ययो धादेशश्च । संप्रत्यद्य भूमिदेवा ब्राह्मण एवे- 'द्विजात्यग्रजन्मभूदेवबाडवाः । 'विप्रश्च ब्राह्मणः' इत्यमरः । सत्याशिषो जाताः अतीता ह्मणाशिपोऽद्य फलिता इत्यर्थः । यद्यतः कारणात्वय्यागते सति । त्वदागमनेनः। उ- मित्तेनेत्यर्थः । अस्मीत्यहमर्थेऽव्ययम् । 'अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि' इति वान् । व्याख्याने । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नषया- दूये' इति प्रयोगाच्च । आसंसृतेरा संसारात् । यावत्संसारमित्यर्थः । 'अभिविधुच्चये' ङ्विकिल्पादसमासः । जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः । सकलससंगहे- फलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः ॥

श्रियं विकर्षत्यपहन्त्यघानि श्रेयः प[४३] रिस्रौति तनोति कीर्तिम् ।
संदर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते ॥ ७ ॥

श्रियमिति ॥ आत्मयोनेर्ब्रह्मण इव लोकगुरोस्तवामोघमविफलं संदर्शनं श्रियं नित्याकर्षति । अघानि दुःखान्यपहन्ति।'अंहोदुःखव्यसनेष्वघम्'इत्यमरः। श्रेयषार्थं परिस्रौति स्त्रवति । कीर्तिं च तनोति।किं बहुना किं न धत्ते किं न करोति। सर्वं करोतीत्यर्थः॥

श्च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिमेति चक्षुः।
समुज्झितज्ञातिवियोगखेदं त्वत्सन्निधावुच्छ्वसतीव चेतः॥८॥

श्च्योतदिति ॥ हे भगवन् , श्च्योतन्मयूखे सुधास्त्राविकरे हिमधुताविन्दावपि विषये निर्वृतम् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । मे चक्षुस्त्वत्सन्निधौ निर्वृतिमेति। तथा चेतश्च समुज्झितज्ञातिवियोगखेदं त्यक्तबन्धुविरहदुःखं समुच्छ्वसतीतुपरोधेन प्राणितीवेत्युत्प्रेक्षा । पूर्वार्धे तु निर्वृतिकारणे सत्यपीन्दावनिर्वृतिकथना- पोक्तिः । तदुक्तम्-'तत्सामग्र्यामनिर्वृत्तिर्विशेषोक्तिर्निगद्यते' इति ॥

निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति॥९॥

निरास्पदमिति ॥ प्रश्नकुतूहलित्वं निरास्पदम् । त्वदागमनप्रयोजनप्रश्नो निरास्पदर्थ:। 'आस्पदं प्रतिष्ठायाम्' इति निपातः। प्रश्नानवकाशे हेतुमाह-निःस्पृहाणाम् । एतादृशामित्यर्थः । अस्मास्वधीनमायत्तं किमु । न किंचिदस्मत्तो लभ्यमित्यर्थः । परत्वविवक्षायां सप्तमी । तथापि कल्याणकरीम् । अस्मद्धितैकहेतुमित्यर्थः । नि:- वृत्तेः पारार्थ्यादिति भावः । 'कृञो हेतु-' इति टप्रत्यये ङीप् । अतस्ते गिरं स्रोतुमिच्छा माम् । मुखं वागस्यास्तीति मुखरो निरन्तरभाषी । 'रप्रकरणे खमुख- भ्य उपसंख्यानम्' इति रः । 'दुर्मुखे मुखराबद्धमुखौ' इत्यमरः । ततश्चिवप्रत्यय:। मुखरीकरोति । व्याहरयतीत्यर्थः । निःस्पृहस्यापि ते वाक्यमस्मद्धितकरत्वा- तव्यमिति भावः ॥

इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ १०॥

इतीति ॥ इतीत्थमुक्तिविशेषरम्यमुक्तिवैचित्र्यचारु यथा तथोक्तवान् । उदारचेता मना नरेन्द्रो द्वैपायनेन व्यासेन । द्वीपमयनं स्थानं जन्मभूमिर्यस्य स द्वीपायनः। द्वैपायनस्तेन । 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । नापत्यार्थे । 'नडादिभ्यः


फक्' । तेष्वेव पाठाद्बाधितार्थत्वाच्च । जयोपपत्तौ मनः समाधाय । जयसिद्धिमपे- क्ष्येत्यर्थः । इति वक्ष्यमाणप्रकारामुदारामर्थवतीं गिरमभिदध उक्तः । दुहादित्वाद- प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥' इति वचनात् ॥

आदौ तावत्तस्य माध्यस्थ्यभङ्गदोषं युग्मेन परिहरति-

चिचीषतां जन्मवतामलध्वीं यशोवतंसामुभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम्॥११॥

चिचीषतामिति ॥ अलध्वीं गुर्वीम् । 'वोतो गुणवचनात्' इति ङीप् । यशोवतंसां कीर्तिभूषणाम् । उभयत्रेह चामुत्र च भूतिं श्रेयश्चिचीषतां चेतुं संग्रहीतुमिच्छताम् । चिनोतेः सन्नन्ताच्छतृप्रत्ययः । जन्मवतां शरीरिणां बन्धुषु विषये तुल्यरूपैकविधा वृत्तिर्व्यवहारोऽभ्यर्हितोचिता तपोधनानां त्वस्मत्सदृशां विशेषेण नियमेनाभ्यर्हिता ॥

तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥१२॥

तथापीति ॥ तथापि तुल्यवृत्तौ चित्तेऽपि । हे नृप, तावकीनैस्त्वदीयैः। 'युष्मद- स्मदोरन्यतरस्यां खञ्च' इति खञ्प्रत्ययः । 'तवकममकावेकवचने' इति तवकादेशः। गुणोधैः प्रह्वीकृतमावर्जितं मे हृदयं निघ्नं त्वदायत्तम् । 'अधीनो निघ्न आयत्तः' इत्य- मरः । ननु निःस्पृहस्य कोऽयं पक्षपात इत्यत्राह-वीतेति । वीतस्पृहाणां विरक्तानां मुक्तिभाजाम् । मुमुक्षूणामपीत्यर्थः । भवन्तीति भव्याः साधवः । 'भव्यगेय--' इत्यादिना कर्तरि निपातः । तेषु पक्षपाताः स्नेहा भवन्ति । न तु साध्वनुग्रहो महतां माध्यस्थ्यभञ्जक इति भावः॥ अथ नृपस्य गुणवत्तं प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टामुद्घाटयति-

सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान्वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥१३॥

सुता इति ॥ यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्रा न किमु । अपि तु सुता एवे- त्यर्थः । गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं नातीता नातिक्रान्ता वा । अतीता एवेत्यर्थः । कर्तरि क्तः। असुतत्वममगुणत्वं च त्यागे हेतुः। युष्मासु तन्नास्तीत्यर्थः। उपालम्भे कारणमाह-य इति। यो धृतराष्ट्रो वो युष्मान्वृथा निष्कारणमेव त्यक्तवान् । यदि वयं सुता गुणाधिकाश्च तर्हि कथमत्याक्षीत्तत्राह-वलादिति । स विषयामिलाषो भोगतृष्णा बलाद्वा बलादिव । 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति विश्वः । मोहमविवेकं विधत्ते । विषयाभिलाषातिरिक्तो न कश्चिद्युष्मत्त्यागहे तुरस्तीत्यर्थः । अत्र कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ . अथ राज्ञ उत्सहवर्धनाय शत्रोर्हानिं सूचयति-

जहातु नेनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाःप्रमाथिनीनां विपदां पदानि ॥१४॥

जहात्विति ॥ एनं धृतराष्ट्रमर्थसिद्धिः कथं न जहातु । जहात्वेवेत्यर्थः । 'प्रैषाति- सर्गप्राप्तकालेषु कृत्याश्च' इति प्राप्तकाले लोट् । तस्य हानिकालः प्राप्त इत्यर्थः । कुतः। बो धृतराष्ट्रः संशय्य संदिह्य कर्णादिषु तिष्ठते । कर्णादीन्दुर्मन्त्रिणः संदिग्धाथै निर्णे- तृत्वेनावलम्बत इत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इति स्थेयाख्यायामात्मनेपदम् । तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णेता । तथाहि । असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः। किं च प्रमाथिनीनामुन्मूलनशीलानां विपदां पदानि स्थानानि । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । न केवलं जयघातिनः किं- त्वनर्थकारिणश्चेत्यर्थः । धृतराष्ट्रोऽपि दुर्जनविधेयत्वाद्द्विनङ्क्ष्यतीति भावः ॥

एवं शत्रोरनर्थं सूचयित्वा राज्ञोऽर्थसिद्धिं सूचयति-

पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्यमाविष्कृतं प्रेम परं गुणेषु ॥१५॥

पथ इति ॥ रिपूणां समितौ सभायाम्। 'सभासमितिसंसदः' इत्यमरः । पथश्च्युतायां मार्गाद्भ्रष्टायाम् । दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसमङ्गीकृतवत्यामित्यर्थः। चिराय धर्म्यां धर्मादनपेताम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । धुरं भारं दधानेन । कृच्छ्रेष्वपि धर्मादचलतेत्यर्थः । त्वया विपत्स्वपि । अविपत्त्यविनाश्यत एव रम्यं गुणेषु शान्त्यादिषु विषये परमुत्कृष्टं प्रेमाविष्कृतं प्रकटीकृतम् । दुःसहमपि सोढवता त्वया साधु कृतमिति भावः ।।

विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन ।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते॥१६॥

  विधायेति ॥ किं च शम एवैका मुख्या वृत्तिर्यस्य तस्यापरॊपतापिनो भवतश्छलेन कपटेन । आत्मने हित आत्मनीनः । स न भवतीत्यनात्मनीनः । स्वस्यैवानर्थहेतुरित्यर्थः । तम्। 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । विध्वंसमपकारं विधाय कृत्वा । प्रकाशितः प्रख्यापितस्वन्मतिशीलयोस्तव प्रज्ञासद्वृत्तयोः सारः प्रकर्षो यैस्ते तथोक्ताः। ते तव विद्विषः कृतोपकारा इवोपकृतवन्त इव । अपकारोऽप्युपकारायैव संवृत्तः ।यदेषां दौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्तमासीदित्यर्थः । विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव एव प्रचुरीभवन्तीति भावः ।। अथ प्रयोजनान्तरमाह-

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः।
अतःप्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्री:॥१७॥

लभ्येति ॥ तव । त्वयेत्यर्थः। 'कृत्यानां कर्तरि वा' इति षष्ठी। धरित्री विक्रमेण लभ्या प्राप्तव्या। न च सुलभ्या तं विनेत्योह-विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेया- दीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्थतरः। अधिकतर इति यावत् । ज्येष्ठस्य । 'ज्यादा- दीयसः इति स्यादेशः। अतः प्रकर्षायाधिक्याय विधिरुपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षायत्तेत्यर्थः । 'तन्त्रं प्रधाने सि- द्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः॥

अथ "त्रि:-' इत्यादिना श्लोकचतुष्टयेन विपक्षज्यायस्त्वं वर्णयति-

त्रिसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥१८॥

त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तवारांस्त्रिःसप्तकृत्वः। एकविंशविकृत्व इत्यर्थः। त्रिःसप्त- शब्दयोः सुप्सुपेतिसमासः। 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसु- च्प्रत्ययः। जगतीपतीनां महीपतीनां हन्ता नाशको गुरुरस्त्रवेदोपदेष्टा सः। प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षत्वम् । तदुक्तं काव्यप्रकाशे-'प्रक्रान्तप्रसिद्धानुभूता- र्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्य:। 'गर्गादिभ्यो यञ्' इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बि- कास्वयंवर इत्यर्थः । तदा अङ्गप्राप्तिसमये गुणानां शौर्यादीनां प्रकर्षमतिशयमाधारव- शमाश्रयाधीनं विवेद जज्ञे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाधान- दर्शनादिति भावः । 'स्म पादपूरणे भूतेऽर्थे च' इति विश्वः ॥

यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः॥१९॥

यस्मिन्निति ॥ यस्मिन्भीष्मे विषये । अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम् ।'नञ: शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः । तेन कृत- व्यलीको जनितवैलक्ष्यः। 'दुःखे वैलक्ष्ये व्यलीकम्' इति यादवः । अन्तकोऽपि यमो- ऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादन्तकोऽपि पराजित इवास्ते, किमुतान्य इति भाषः । स भीष्मो रणे धनुर्धुन्वन्कम्पयन्कस्य मनो भयैकप्रवणं भय एकप्रवणमे- कोन्मुखम् । शिवभागवतवत्समासः। न कुर्यात् । सर्वस्यापि मनसि भयं कुर्यादेवे- त्यर्थः॥

सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः।
[४४]रिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम्॥२०॥

सृजन्तमिति ॥ आजौ रण इषुसंहतीर्बाणसङ्घान्सृजन्तं वर्षन्तं कोपज्वलितमत एव परिस्फुरन्त्यो लोलाश्च शिखाग्राण्येव जिह्वा यस्य तं तथोक्तं जगल्लोकं जिघत्सन्तमत्तु- मिच्छन्तम् । अदेः सन्नन्ताच्छतृप्रत्ययः। 'लुङ्सनोर्घस्लृ' इति घस्लादेशः। अन्तवह्निं कालाग्निमिव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत सोढुं शक्नुयात् । न को- ऽपीत्यर्थः । 'शकि लिङ् च' इति शक्यर्थे लिङ् ॥

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्र्यम् ।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥२१॥

निरीक्ष्येति ॥ संरम्भेण कोपेण निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तत्म्। आटोपेनैव परधैर्यापहारिणमित्यर्थः । आराधितजामदग्र्यं शुश्रूषितभार्गवम् । जामदग्र्यादधिगतास्वरहस्यमित्यर्थः। राधेयं राधासुतंकर्णम् । 'स्त्रीभ्यो ढक्' । निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु । 'संस्तवः स्यात्परिचयः' इत्यमरः । भयेषु प्रसभं पक्ष पातः परिचयो जायेत । मृत्युरप्यस्माद्विभीयात्किमुतान्य इति भावः। संभावनायां लिङ्। अत्र जनिक्रियापेक्षया समानकर्तृकत्त्वाभावेऽपि पक्षपातक्रियापेक्षया तत्संभवा- न्निरीक्ष्येति ल्यब्निर्देशः। 'समर्थनीयः प्रधानोपसर्जनभावस्त्वप्रयोजकः' इति व्यक्ति- विवेककारः । अत्र भयसंबन्धरहितस्य मृत्योर्भयसंबन्धाभिधानादसंबन्धे संबन्धरूपा- तिशयोक्तिरलंकारः॥

अथानन्तरं करणीयमागमनप्रयोजनं च युग्मेनाह---

यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ २२ ॥

ययेति ॥ यया विद्यया करणेन सुदुश्चरामतिदुष्करां तपस्यां तपश्चर्याम् । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'अ प्रत्ययात्' इति स्त्रियामप्रत्ययः। आचरता । पशुपतिं प्रति तपः कुर्वतेत्यर्थः । अतएव समासादितं प्राप्तं साधनं पाशुपता- स्त्ररूपं येन तेन । कपिर्हनुमान्केतनं चिह्नं यस्य तेन । अर्जुनेनेत्यर्थः । दुरापमन्यस्य दुर्लभं वीर्यं तेजः समवाप्य । एते पूर्वोक्ता भीष्मादय उन्मूलितार उन्मूलयिष्यन्ते । उन्मूलयतेर्ण्यन्तात्कर्मणि लुट् । अत्र चिण्वदिडागमेऽपि तस्य 'असिद्धवदत्राभात्' इत्यसिद्धत्वात् 'णेरनिटि' इति णिलोपः । तन्निमित्तस्यैव अर्निटि' इति निषेधात् । उक्तं च-'चिण्वद्वृद्धिर्युक्च हन्तेश्च धत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ॥' इति ।।


महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप देवतानाम् ।
दातुंप्रदानोचित भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम्॥२३॥

महत्त्वेति ॥ हे नृप, महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नां महानुभावानां देवता- नामिन्द्रादीनाम्। आराध्यतेऽनयेत्याराधनी ताम् । प्रसादयित्रीमित्यर्थः । करणे ल्युट् । ङीप् । भूरिधाम्नीं महाप्रभावाम् । 'धाम देशे गृहे रश्मौ स्थाने जन्मप्रभावयोः' इति विश्वः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङीप् । विद्यामिन्द्रमन्त्र- रूपां सिद्धिं साक्षात्कार्यसिद्धिमिवेति विद्याया अमोघत्वोक्तिः। हे प्रदानोचित दान- पात्रभूत । फलभोक्तृत्वादस्य पात्रत्वोक्तिः। दातुमुपागतोऽस्मि ।।

इत्युक्तवन्तं ब्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥२४॥

इतीति ॥ इत्युक्तवन्तं प्रसेदिवांसं प्रसन्नम् । 'भाषायां सदवसश्रुवः' इति क्वसुः। तं मुनि जिष्णुर्जयनशीलोऽर्जुनः । 'ग्लाजिस्थश्च-' इति ग्स्नुप्रत्ययः । ब्रज साधयानु- तिष्ठेत्येवंरूपम् । अजातशत्रोधर्मराजस्य । स्वयमविद्वेषणशीलत्वादियं संज्ञा । वाक्यं प्रमाणयन् । तदादिष्टः सन्नित्यर्थः । अन्ते वसंश्छात्र इव । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । विनयेनानौद्धत्येनोपाससाद समीपं प्राप ॥

निर्याय विद्याथ दिनादिरम्याद्बिम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥२५॥

निर्यायेति ॥ अथ वह्निकणावदाता स्फुलिङ्गवदुज्ज्वला । देवतासान्निध्यादिति भावः । विद्येन्द्रमन्त्ररूपा । दिनादिरम्यादर्कस्य प्रभातभास्करस्य बिम्बादिव महर्षे- र्व्यासस्य मुखान्निर्याय निर्गत्य । समासेऽनञ्पूर्वे क्त्वो ल्यप् । दीप्तिरर्कदीधितिः । स्फुरद्विकसत्पद्ममिव । पार्थाननमर्जुनस्य मुखमभिपेदे प्रविष्टा ॥

योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥२६॥

योगं चेति ॥ योग्यतमायार्हतमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यान- विधिं च । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । तपःप्रभावात्सद्यो वित- तार ददौ । चिरकालग्राह्यमपीति भावः । येन योगेन तत्त्वेषु प्रकृतिमहदादिषु । तथा च । मूलप्रकृतिर्महानहंकारो मनश्च पञ्च तन्मात्राणि पञ्च बुद्धीन्द्रियाणि पश्च कर्मेन्द्रि- याणि पञ्च महाभूतानीति चतुर्विंशति तत्त्वानि । तत्रावभासे साक्षात्कारे कृते सत्य- स्यार्जुनस्य चक्षुरक्षि चिराय समुन्मिमीलेवोन्मिषितमिवेत्युत्प्रेक्षा। तदा तस्य कोऽपि महानखिलाज्ञानभञ्जनस्तत्त्वावभासश्चिरादन्धस्य दृष्टिलाभ इवाभवदिति भावः ॥

आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम् ।
नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥२७॥

आकारमिति ॥ आशंसित आख्यातो भूरिलाभोऽनेकश्रेयःप्राप्तिर्येन तं तथोक्तम् । महाभाग्यसूचकमित्यर्थः । अन्तःकरणशब्देन तद्वृत्तिरुत्साहो लक्ष्यते। तदनुरूपं तदनुकू- लम् । उत्साहानुगुणव्यापारक्षममित्यर्थः । आकारं मूर्तिं दधानं तमर्जुनं मुनिर्विज- योदये विजयफलके तप:समाधौ तपोनियमे । 'समाधिनियमे ध्याने नीवाके च स- मर्थने' इति विश्वः । नियोजयिष्यन् । नियोजयितुमिच्छन्नित्यर्थः । 'लट् शेषे च' इति लट् । 'लृटः सद्वा' इति सत्प्रत्ययः । इति वक्ष्यमाणमुवाच ॥

अनेन योगेन वि[४५]वृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥२८॥

अनेनेति ॥ अनेन स्वोपदिष्टेन योगेन विवृद्धतेजा निजां पदवी परस्मा अयच्छन् । परस्य प्रवेशमयच्छन्नित्यर्थः । उपात्तशस्त्रो निगृहीतायुधः सन् । जपोपवासाभिषवैः स्वाध्यायानशनस्नानैर्मुनीनामाचारं समाचरानुतिष्ठ ॥ क्षेत्रविशेषे तपःसिद्धिरित्याशयेन तं निदर्शयन्नाह-

करिष्यसे यत्र सु[४६]दुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि।
शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥२९॥

करिष्यस इति ॥ यत्र शिलोच्चये गोत्रभिद् इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे । चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिमिन्द्रकीलरूपम् । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । त्वामेष गुह्यको यक्षः। अनन्तरमे- चास्य पुर:प्रादुर्भावादेम इति निर्देशः । क्षणानेष्यति प्रापयिष्यति ॥

इति ब्रुवाणेन म[४७]हेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य सा[४८]क्षात्प्रदेशमादेशमिवाधितष्ठौ ॥३०॥

इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता । 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः । तेन महर्षिणा व्यासेन तिरोबभूवे- ऽन्तर्दधे । भावे लिट् । राजराजो यक्षराजः । 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियश क्रयोः' इति विश्वः । तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिध प्रदेशमर्जु- नाधिष्ठितस्थानमधितष्ठौ । प्राप्त इत्यर्थः । स्थादिष्वभ्यासेन चाभ्यासस्य' इति षत्वम् ।।

कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ।
इयाय सख्याविव संप्रसादं विश्वासयत्याशु सतां हि योगः॥३१॥


कृतेति ॥ स पुण्यजनो यक्षः कृतानतिः कृतप्रणामः सन्व्याहृतसान्त्ववादे उक्तप्रियवचने । 'व्याहार उक्तिर्लपितम्' इत्यमरः । जिष्णावर्जुने जातस्पृहो जातानुरागः सन् । संख्यौ सुहृदीव । 'अथ मित्रं सखा सुहृत्' इत्यमरः । संप्रसादं विश्रम्भमियाय प्राप । तथाहि । सतां साधूनां योगः संगतिराशु विश्वासयति विश्वासं जनयति हि । सामा- न्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥

अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान्प्रपेदे ॥३२॥

अथेति ॥ अथोष्णभासा सूर्येणोदयाय पुनरुद्गमाय विहीयमानांस्त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः। बृहद्द्युतीन्।सौवर्णत्वाद्दीप्यमानानित्यर्थः । इति तमसः संको- चकारणोक्तिः। सुमेरुकुञ्जानिव। अत्र सुमेरुग्रहणं कुञ्जानां सौवर्णत्वद्योतनार्थम् । तेना- र्जुनेनोदयाय श्रेयसे विहीयमानान्बृहद्द्युतीननेकबुद्धिप्रकाशान् । पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसंधेयम् । पाण्डुसुतान् । चतुर इति शेषः । दुःखेन कृच्छ्रेण कृत उपपादित आत्मलाभ उत्पत्तिर्यस्य तत्तथोक्तम् । तेषां विवेकित्वात्कथंचिल्लब्धोदयमित्यर्थः । तमः शोकोऽन्धकारश्च । 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे' इत्युभयत्रापि विश्वः । शनैर्मन्दं प्रपेदे । तेषां विवेकित्वाद्भीतभीतमिवेति भावः । अत्र तमःशब्दस्य श्लिष्टत्वाच्छ्लेषानुप्राणितेयमुपमा ॥

असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः समेने॥३३॥

असंशयेति ॥ असंशयमसंदिग्धं यथा तथालोचितं विवेचितं यत्कार्यं तेन नुन्नो निरस्त इति लघुत्वहेतूक्तिः । 'नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्' इति निष्ठानत्वम् । कार्यगौरवमालोच्य निरस्त इत्यर्थः । तथापि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोभागी क्रियमाणः । तुल्येन प्रेम्णा तुल्यदुःखत्वं भवतीति भावः । स पूर्वोक्तो दुःखमेवातिभारोऽपि । अतिभारभूतमपि दुःखमित्यर्थ:। तन्मनोभिस्तेषां चतुर्णां पार्थानां मनोभिस्तुल्याद्विभागादिव । पूर्वोक्तात्प्रेमकृता- त्समविभागादिवेत्यर्थः । वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणं तस्य हेतु- त्वोत्प्रेक्षार्थमनुवादाददोषः । लघुर्मेने मतः। यथैकोऽनेकधा विभज्य बहुभिरुह्यमानो महानपि भारो लघुर्मन्यते तद्वदित्यर्थः ॥

अथैवं प्रेम्णाकृष्यमाणमपि शोकं विवेको निर्जिगायेत्याह-

धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनःस तेषु न स्थानमवाप शोकः ॥३४॥

धैर्येणेति ॥ धैर्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य । प्रवर्त- कस्येति शेषः । विश्वास्यतया । श्रद्धेयवचनत्वेनेत्यर्थः । अरातिप्रभवादरातिहेतुकात्ती- व्राहुःसहान्मन्योः क्रोधाद्धेतोस्तथार्जुनप्रभावपरिज्ञानाच्चेति । हेत्वन्तरं विशेषणमुखेनाह- मघोनः सुतेऽर्जुने वीर्यं च । 'न लोक--' इत्यादिना षष्ठीप्रतिषेधः। विद्वत्सु ज्ञातवत्स्विति यावत् । 'विदेः शतुर्वसुः' इति वैकल्पिको वस्त्रादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं नावाप न प्राप ॥

तान्भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य ।
एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्र[४९]पेदे ॥३५॥

तानिति ॥ तत्पार्थीस्त्यक्तवच्छर्म सुखम् । 'शर्मशातसुखानि च' इत्यमरः । तद्विरु- द्धमशर्म दुःखम् । 'नञ्' इति नञ्समासः। भूरिधाम्नोऽतितेजस्विन इति हानिहेतु- त्वोक्तिः । चतुरस्तान्पार्थानपि वासरस्य भूरिधाम्नश्चतुरो यामान्प्रहरानिव । दूरं विहाय त्यक्त्वैकौघभूतमेकराशिभूतं सत्। 'श्रेण्यादयः कृतादिभिः' इत्यर्थे कर्मधारयः। 'श्रेण्यादिराकृतिगणः' इति शाकटायणः । कृष्णां विभावरीं कृष्णपक्षरात्रिं ध्वान्तमिव । कृष्णां द्रौपदीं प्रपेदे प्राप ॥

तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरु:[५०]
अगृढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥३६॥

तुषारेति ॥ सा द्रौपदी विलोकनेऽर्जुनावलोकनेऽगूढभावागूढाभिप्रायापि । स्फुटाभिलाषिणीति यावत् । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती। मङ्गलभङ्गर्भीरुर्मङ्गलहानेर्भीता सती । पर्यश्रुणी परिगताश्रुके । बाष्पावृते इत्यर्थः । अतएव तुषारलेखाकुलितोत्पलाभे हिमबिन्दुसहितेन्दीवरसंनिभे इत्युपमालंकारः । लोचने मीलयितुं न विषेहे न शशाक । अश्रुणोर्दृष्ट्यावरकत्वेऽपि तन्निपातस्थामङ्ग- लत्वात्तन्निर्वर्तकं निमीलनं सा न चकारेत्यर्थः ॥

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामंजग्राह पाथेयमिवेन्द्रसूनुः ॥३७॥

अकृत्रिमेति ॥ इन्द्रसूनुरर्जुनः । क्रियया निवृत्तः कृत्रिमः । 'ड्वितः क्विः' इति क्वित्रः। त्रेर्मन्नित्यम्' इति मम्प्रत्ययः। तद्विरुद्धम् । प्रेमैव रसः। अकृत्रिमेण प्रेमर- सेनाभिरामम् । अन्यत्र प्रेमरसेन मधुरादिना चाभिरामम् । रामया रमण्यार्पितम् । दृष्टिं विलोभयतीति दृष्टिविलोभि । दृष्टिप्रियमित्यर्थः । दृष्टं दर्शनम् । 'नपुंसके भावे क्तः । मनःप्रसादः । प्रसन्नं मन इत्यर्थः । सोऽञ्जलिरिवेत्युपमितसमासः ।


तेन मनःप्रसादाञ्जलिना । पथि साधु पाथेयं शम्बलमिव । 'पथ्यतिथिवसतिस्वप- तेर्ढञ्' । निकाममतिशयेन जग्राह । रामार्पितं पाथेयं पथि क्षेमाय भवतीत्यागमः ॥

धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥३८॥

धैर्यति ॥ वन्यद्विपेन । वन्यग्रहणमुच्छृङ्खलत्वद्योतनार्थम् । निदाघसिन्धुर्ग्रीष्मनदीव निदाधग्रहणं दौर्बल्यद्योतनार्थम् । धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा हृतप्रसादा हृत- नैर्मल्यां। क्षोभं गमितेत्यर्थः । राजपुत्री क्षत्रियसुता द्रौपदी । अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः । निरुद्धबाष्पोदयं संरुद्धरोदनं सन्नकण्ठं हीनस्वरम् ।अथ तयोरुभयोः कृतबहुव्रीह्योः क्रियाविशेषणयोर्विशेषणसमासः। कृच्छ्रात्कथंचिदिति वक्ष्यमाणमुवाच ॥

मग्नां द्विषच्छद्मनि पङ्कभूते संभावनां भूतिमिवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभू: ॥३९॥

मग्नामिति ॥ पङ्कभूते पङ्कोपमिते । 'भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमा- नयोः' इति विश्वः । द्विषच्छद्मनि शत्रुकपटे मग्नाम् । दुरुद्धरामित्यर्थः । संभावनां योग्यताम् । गौरवमिति यावत् । भूतिं संपदमिव । 'भूतिर्मस्मनि संपदि' इत्यमरः । उद्धरिष्यन् । उद्धारकस्त्वमिति शेषः । आधिद्विषां दुःखच्छिदां तपसामा प्रसिद्धेः सम्यक्सिद्धिपर्यन्तमस्मद्विना । अस्माभिर्विनेत्यर्थः । 'पृथग्विना--' इत्यादिना विक- ल्पात्पञ्चमी । भृशं मोन्मनीभूः । अस्मद्विरहाद्दुर्मना मा भूरित्यर्थः । दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः।'माङि-' इत्याशीरर्थे लुङ्।'न माङयोगे' इत्यडागम- प्रतिषेधः । अनुन्मना उन्मनाः संपद्यमान उन्मनी । अभूततद्भावे च्वि: । 'अरुर्मनश्च- क्षुश्चेतोरहोरजसां लोपश्च' इति सकारलोपः । 'अस्य च्चौ' इतीकारः ॥

अथानौत्सुक्यदार्ढ्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह-

यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥४०॥

यश इति ॥ यशोऽधिगन्तुम् । कीर्ति लब्धुमित्यर्थः । सुखस्य लिप्सया लब्धुमि- च्छया वा । मनुष्यसंख्यां मनुष्यगणनामतिवर्तितुमतिक्रमितुं वा । अमानुषं कर्म कर्तुं वेत्यर्थः । अभियोगभाजामभिनिवेशवतां निरुत्सुकानामनुत्सुकानाम् । अदुर्मनाय- मानानामित्यर्थः । सिद्धिः पूर्वोक्तं यशः सुखाद्यर्थसिद्धिश्च । समुत्सुकेवानुरक्तकान्ते- स्वाङ्कमुत्सङ्गमन्तिकं चोपैति। तस्मादसद्विरहदुःखमातपःसिद्धेः सोढव्यमिति भावः ॥ अथास्य मन्यूद्दीपनद्वारा तपःप्रवृत्तिं प्रथयितुमरिनिकारं तावच्चतुर्भिरुद्घाटयति--

लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन्वसु जैत्रमोजः।
तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणमिवाभिमानम्॥४१॥

लोकमिति ॥ विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजाते: संबन्धि । जयनशीलं जेतृ तदेव जैत्रम् । जेतृशब्दातृन्नन्तात् 'प्रज्ञादिभ्यश्च' इति स्वा- र्थेऽण्प्रत्ययः । ओजो बलं दीप्तिर्वा । 'ओजो बले च दीप्तौ च' इति विश्वः। तदेव वसु धनमिति रूपकालंकारः । मुष्णन्नपहरन् । अरिनिकृतस्य कुतः क्षात्रं तेज इति भावः। किंच विजयैकवृत्तेर्विजयैकजीवितायाः । 'क्षत्रियस्य विजितव्यम्' इति स्मरणादिति भावः । 'वृत्तिर्वर्तनजीवने' इत्यमरः। तेजस्वितायाः। तेजस्विनामित्यर्थः। तेज:प्राधान्य- द्योतनार्थं भावप्रधानो निर्देशः । प्रियं प्राणमिव । प्राणसममित्यर्थः । अभिमानमहंकारं निघ्नन्खण्डयन् । तेजस्विनां प्राणहानिप्राया मानहानिरिति भावः ॥

'अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि' न त्याज्यामित्याह-

व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः।
वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥४२॥

व्रीडेति ॥ पुनश्च । आप्तजनेनोपनीतः साधितः । प्रापित इत्यर्थः । तथापि संशय्य संदिह्य । असंभावितबुद्ध्येति भावः । व्रीडानतैः।जुगुप्सितवृत्तान्तश्रवणादिति भावः। नृपैर्देशान्तरस्थैः कृच्छ्रेण प्रपन्नः । आप्तोक्तत्वात्कथंचिद्विश्वस्त इत्यर्थः । यः शृण्वता- मपि दुःसहः किमुतानुभवतामिति भावः । इत्येषा पूर्वेषां व्याख्या । अन्यथा च व्याख्यायते-आप्तजनोपनीतो ज्ञातिकृतः संशय्य कथमिदमन्याय्यमुपेक्ष्यामिति विचार्य व्रीडानतैः । जुगुप्सितकर्मदर्शनादिति भावः । नृपैस्तत्रत्यैः कृच्छ्रेण प्रपन्नोऽङ्गीकृतः । गोत्रकलहेषु मध्यस्थैरुदासितव्यमिति बुद्ध्योपेक्षित इत्यर्थः । पक्षद्वयेऽपि प्रपन्न इत्यत्राप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलंकारः। पृथिव्यां वितानभूतमुल्लोचोपमितम् । यद्वा वितानभूतं वितानसमम् । उल्लोचतुल्य- मिति यावत् । “युक्ते क्ष्मादावृते भूते प्राण्यतीते समे त्रिषु' इत्यमरः। 'अस्त्री वितानमु- ल्लोचः' इत्यमरः । दिग्विकीर्णं दिगन्तलग्नम् । वितानमपि दिगन्तलग्नमिति भावः । विततं प्रथितं यशः समूहन्निव संकोचयन्निवेत्युत्प्रेक्षा । अरातिपरिभूतस्य कुतः कीर्तिरिति भावः ।

वीर्यावदानेषु कृ[५१]तावमर्षस्तन्वन्नभूतामिव संप्रतीतिम् ।
कुर्वन्प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः॥४३॥

वीर्येति ॥ पुनश्च । वीर्याण्येवावदानानि तेषु कृतावमर्षः कृतास्कन्दनः । पुराकृत-


पराक्रमजातान्यपि प्रमृजन्नित्यर्थः। 'अवदानं कर्म वृत्तम्' इत्यमरः । अतएव संप्रतीतिं ख्यातिम् । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । अभूतामविद्यमा- नामिवेत्युत्प्रेक्षा । सतोऽप्यसत्त्वमुत्प्रेक्ष्यते। तन्वन्कुर्वन् । पुनश्चाह्रोऽवशेषो दिनान्तोऽर्क- त्विषामिवायतीनामुत्तरकालानां प्रयामक्षयं दैर्घ्यनाशं कुर्वन्निति श्रौती पूर्णेयमुपमा। अरिनिराकृतस्य कुतश्चिरावस्थानमिति भावः ॥

प्रसह्य योऽस्मासु परैः प्रयुक्तः स्म[५२]र्तुं न शक्यः किमुताधिकर्तुम् ।
नवीकरीष्यत्युपशुष्यदार्द्र: स त्वद्विना मे हृदयं निकारः॥४४॥

प्रसह्येति ॥ पुनश्च । परैः शत्रुभिरस्मासु प्रसह्य प्रयुक्त आचरितो यो निकारः परि- भवः केशाकर्षणरूपः स्मर्तुं न शक्यः । अधिकर्तुमनुभवितुं किमुत। यस्य स्मरणमपि दुःसहमनुभवस्तु दुःसह इति किमु वक्तव्यमित्यर्थः । स निकारस्त्वद्विना त्वया विना। 'पृथग्विना-' इत्यादिना पञ्चमी । आर्द्रः सन्कुतश्चिदभिभूतात्पुराणप्रहार इव । त्वद्विरहदुःखात्पुनर्नवीकरिष्यति । नवीभविष्यतीत्यर्थः । उपशुष्यत् । त्वया विना शुष्कमिति भावः । दुःखस्तम्भनं शोषपदार्थों मे हृदयं नवीकरिष्यत्यार्द्रीकरिष्यति । व्रणमिवेति भावः । दुःखितस्य पुनर्दुःखोपचयः प्रशान्तप्रायमपि दुःखहेतुं पुनरुद्धाटय- तीत्यर्थः । अत्र शोषादिविशेषणसाम्याद्व्रणाद्यप्रस्तुतार्थप्रतीतेः समासोक्तिरलंकारः ॥

पुनः प्रकारान्तरेण मन्युमुद्दीपयति प्राप्तः' इत्यादिभिस्त्रिभिः । तत्र वक्ष्यमाणप्रत्य- भिज्ञानहेतुभिर्धनंजयं विशिनष्टि----

प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्र[५३]तापान्तरितोरुतेजाः शरद्धनाकीर्ण इवादिरह्न:॥४५॥

अभिमानस्य व्यसनाद्भ्रम्शात् । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । दन्तव्यसनाद्दन्तभङ्गाद्दन्तीवासह्यं विकारं वैरूप्यं प्राप्तः । अतो न प्रत्यभिज्ञायत इति भावः । एवमुत्तरत्राप्यनुसंधेयम् । पुनश्च । द्विषत्प्रतापेन शत्रुतेजसान्तरितं तिरस्कृतमुरु तेजः प्रतापो यस्य स तथोक्तः । अतएव शरद्धनाकीर्णः शरन्मेघच्छन्नोऽह्न आदिः प्रत्यूष इव स्थितः । तद्वदेवाप्रत्यभिज्ञायमान इत्यर्थः । मध्याह्नस्तु मेधावरणेऽपि कथंचित्प्रत्यभिज्ञायत एवेत्याशयेनोक्तमादिरिति ॥

सव्रीडमन्दैरिव निष्क्रियत्वान्नात्यर्थमस्त्रैरवभासमानः ।
यशःक्ष[५४]यक्षीणजलार्णवाभस्त्वमन्यमाकारमिवाभिपन्नः ॥४६॥

सव्रीडेति ॥ पुनश्च । निष्क्रियत्वादर्थक्रियाशून्यत्वात्सवीडमन्दैरिव सव्रीडैरतएव मन्दैरपटुभिरिव स्थितैरित्युत्प्रेक्षा । 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । अस्त्रैरत्यर्थं नायभासमानो न प्रकाशमानः । पूर्वं तु नैवमिति भावः। किंतु यशःक्षयाद्धेतोः क्षीण-


जलो योऽर्णवस्तदाभस्तत्सदृशस्त्वमन्यमाकारमभिपन्नः प्राप्त इव स्थित इवेत्युत्प्रेक्षा। तस्य क्षीणजलार्णवाभ इत्युपमासंसृष्टिः ।।

दुःशासनामर्षरजोविकीर्णैरेभिर्विनाथैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनंजयस्त्वम् ॥४७॥

दुःशासनेति ॥ पुनश्च । दुःशासनस्य कर्तुरामर्ष आमर्षणमाकर्षणं स एव रजो धूलिः। मालिन्यहेतुत्वादिति भावः। तेन विकीर्णैर्विक्षिप्तैरतएव विनाथैरिव स्थितवतां युष्माकमसत्त्वप्रायत्वादनाथैरिव ।स्थितैरित्युत्प्रेक्षा । अन्यथा कथमियं दुर्दशेति भावः। किंतु भाग्यनाथैर्दैवमात्रशरणैः । अन्यथा स्वरूपमपि लुप्येतेति भावः । एभिः परिदृश्यमानैः। असंयमितैरिति भावः । केशैः शिरोरुहैः कुत्सितोऽर्थो वस्तु कदर्थः।'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । कदर्थीकृतौ गार्ह्यार्थीकृतौ वीर्यसारौ शौर्यबले यस्य स तथोक्तः । इत्थं पूर्वविलक्षणस्त्वं स एव धनंजयोऽसि कश्चित् । 'कच्चित्कामप्रवेदने' इत्यमरः । स एव चेत्त्वं नैवमस्मानुपक्षस इति भावः ॥ अथाप्युपेक्षणे दोषमाह-

स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीं य[५५]द्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥४८॥

स इति ॥ क्षतात्रयत इति क्षत्रं क्षत्रियकुलम्। 'सुपि' इति योगविभागात्कप्रत्ययः पृषोदरादित्वात्पूर्वपदस्यान्त्यलोपः। अथवा क्षदिति क्विबन्तोपपदात्कंप्रत्ययः । क्षत्रे जातः क्षत्रियः । 'क्षत्राद्धः' इति घप्रत्ययः । कर्मणे प्रभवतीति कार्मुकम् । 'कर्मण उकञ्' इत्युकञ्प्रत्ययः । एवं स्थिते वाक्यार्थः कथ्यते । यः सतां साधूनाम् । सहत इति सहः । पचाद्यच् । यस्त्राणस्य सहस्त्राणसहो रक्षणक्षमः स एव क्षत्रियशब्दवाच्यः । तथा यस्य कार्मुकस्य कर्मसु रणक्रियासु शक्तिः । अस्तीति शेषः । तदेव कार्मु- कशब्दवाच्यम् । अत्रैवैतौ शब्दौ मुख्यौ । नान्यत्रेत्यर्थः । एवं स्थिते द्वयीं द्विविधामुक्तिम् । द्वाविमौ क्षत्रियकार्मुकशब्दावित्यर्थः । अफले । पूर्वोक्तावयवार्थशून्ये अर्थजाते। स्वाभिधेयसामान्यजातिमात्र इत्यर्थः ।'जातं जात्योधजन्मसुः इति विश्वः । वहन्वर्तयन् । संस्कारहतामव्युत्पत्तिदूषितामिव करोतीत्युत्प्रेक्षा । तस्मात्त्वमस्मद्रक्षणेनोक्तदोषादात्मानं मोचयस्वेत्यर्थः ॥

अथ त्वद्गुणा अपि नोज्जीवयेयुरित्याह-

वीतौजसः संनिधिमात्रशेषा भवत्कृतां भूतिम[५६]पेक्षमाणाः ।
[५७]मानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥४९॥


वीतेति ॥ हे पार्थ, वीतौजसो निष्प्रभाः संनिधिमात्रशेषाः सत्तामात्रावशिष्टा भव- त्कृतां भवता करिष्यमाणाम् । 'आशंसायां भूतवच्च' इति भूतवत्प्रत्ययः। भूतिमभ्युद- यमपेक्षमाणास्त्वदीया गुणाः समानदुःखाः समदुःखभाज इव नोऽस्माकं सरूपतां वीतौजस्त्वादिसाधर्म्यं भजन्त इत्युपमा । सा च समानदुःखा इवेत्युत्प्रेक्षया वीतौज- स्त्वादिसंभावितयानुप्राणितेत्यनुसंधेयम् ॥

तथापि ममैव कोऽयं भार इत्यत आह-

आक्षिप्यमाणं रिपुभिः प्र[५८]मादान्नागैरिवालूनसटं मृगेन्द्रम् ।
त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव ति[५९]ग्मरश्मिम्॥५०॥

आक्षिप्येति ॥ प्रमादात्प्रज्ञाहीनत्वात् । नतु दौर्बल्यादिति भावः । रिपुभिराक्षिप्य- माणमधिक्षिप्यमाणमतएव प्रमादात् । नागैर्गजैः। 'ग्रहेभाहिगजा नागाः' इति वैजयन्ती । आलूनसटमाक्षिप्तकेसरम् । 'सटा जटाकेसरयोः' इत्यमरः।मृगेन्द्रं सिंहमिवस्थितम् । स्वामियं धूः कार्यभारः। तिग्मरश्मिं सूर्यं दीप्त्या दिनश्रीरिव योग्यतया निर्वाहकतयाधिरूढारूढवती । कर्तरि क्तः । त्वदधीनेत्यर्थः ॥

पूर्वं निर्व्यवसायस्य 'स क्षत्रियः' इत्यादिना दोष उक्तः। संप्रति व्यवसायिनो गुणमाह-

करोति योऽशे[६०]षजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या॥५१॥

करोतीति ॥ यः पुमानशेषजनादितरजनादतिरिक्तामधिकाम् । सर्वातिशायिनीमि- त्यर्थः । संभावनां योग्यतां क्रियाभिश्चरितैरर्थवतीं सफलां करोति । तं पुमांसं संसत्सु सभासु । 'सभासमितिसंसदः' इत्यमरः । पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति । पूर्यतेऽनयेति पूरणी संख्या द्वित्वादिसंख्या न समुपैति न गच्छति । अद्वितीयो भवतीत्यर्थः । तस्मादसाधारणलाभाय त्वयापि महानुत्साह आस्थेय इति भावः ॥

अथ द्वाभ्यां सुलभविपक्षस्य प्रोषितस्यार्जुनस्य कर्तव्यमुपदिशति--

प्रियेषु यैः पार्थ विनो[६१]पपत्तेर्विचिन्त्यमानैः क्लममेति चेतः।
तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम्॥५२॥

प्रियेष्विति ॥ हे पार्थ, प्रियेष्वस्मासु विषय उपपत्तेः कारणाद्विनैव विचिन्त्यमानै- रकस्मादेवाशङ्क्यमानैर्यैरधैश्चेतः क्लमं खेदमेति । जयाय प्रयातस्य तव संबन्धिनां तेषामघानां व्यसनानाम्। 'दुःखैनोव्यसनेष्वघम्' इत्यमरः। मधवेन्द्रः । योऽस्माभिरुपा-


स्यत इति भावः । विघातं निवारणं क्रियात्करोतु । आशिषि लिङ् । तस्मादस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया । अन्यथा तदसंभवादिति भावः ।।

भागाश्चिरायैकचरः प्रमादं वसन्नसंबाधशिवेऽपि देशे।
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥५३॥

  भागा इति ॥ असंबाधोऽसंकटः। विजन इत्यर्थः। 'संकटं ना तु संबाधः' इत्यमरः । शिवो निर्बाधः । द्वयोरन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः । अस्मिन्नसंबाधशिवेऽपि देशे चिराय चिरमेकश्चासौ चरश्चेत्येकचर एकाकी वसन्प्रमादं दौर्बल्यं मा गा: । 'इणो गा लुङि' इति गादेशः। नतु निःस्पृहस्य ममाकिंचित्करः प्रमाद इति वाच्यमित्याशङ्क्याह-मात्सर्येति । मत्सर एव मात्सर्यं द्वेषो रागः स्नेहस्ताभ्यामुपहत्तात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषयेस्खलन्ति विकुर्वते हि । अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेनार्थप्राप्तिरूपकार्यस्य व्यतिरेककारणसमर्थनाद्वैधर्म्येण कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥

निगमयति-----

तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्वास्मि कृतार्थमेव स्त[६२]नोपपीडं परिरब्धुकामा॥५४॥

  तदिति ॥ तत्तस्मात्कारणात् । आशु शीघ्रं महर्षेर्वचनं कुर्वन् । तपस्यन्नित्यर्थः। नोऽस्माकं मनोरथान्सफलीकुरुष्व । अरिनिर्यातनेनास्मान्प्रतिष्ठापयेत्यर्थः । प्रार्थनायां लोट्। किंच कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम् । 'त्वामौ द्वितीयायाः' इति त्वादेशः । स्तनयोरुपपीड्य स्तनोपपीडम् । 'सप्तम्यां चोपपीडरुधकर्षः' इति णमुल् । परिरब्धुं कामो यस्याः सा परिरब्धुकामास्मि । आलिङ्गितुमिच्छामीत्यर्थः। 'तुंकाममनसोरपि' इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदालिङ्गनमपि न प्रीतिदमिति भावः ॥

उदीरितां तामिति याज्ञसेन्या नवीकृतोद्भाहितविप्रकासम् ।
आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिष तिग्मरश्मिः ॥५५॥

 उदीरितामिति । सोऽर्जुन इतीत्थं यज्ञसेनस्यापत्येन स्त्रिया याज्ञसेन्यां द्रौपद्योदी- रितामुक्ताम् । नवीकृतः पुनरुद्धाटनेन तथा प्रत्यायितोऽतएवोद्ग्राहितो मनसि निधापितश्च विप्रकारः परिभवो यया सा तां वाचमासाद्य । आकर्ण्येत्यर्थः । उदीचीं काष्ठां दिशम् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तिग्मरश्मिरिव । भृशं दिदीपे जज्वाल । चुक्रोधेत्यर्थः ।।


अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंह[६३]तिः ।
बभार रम्योऽपि वपुःसभीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥५६॥

  अथेति ॥ अथ विद्विषः शत्रून्पुरोऽभिपश्यन्निव स्थितस्तथा पुरोधसा धौम्येनारोपिता समन्त्रमाहिता हेतिसंहतिरायुधकलापो यस्य स तथोक्तः । 'हेतिर्ज्वालाङ्कुरायुधे' इति वैजयन्ती । सोऽर्जुनो रम्यः सौम्यः सन्नपि। अभिचारः परहिंसा प्रयोजनं यस्याः साभिचारिकी। 'प्रयोजनम्' इति ठञ् । तां क्रियां गतः । अभिचारकर्मणि नियुक्त इत्यर्थः । मन्त्र इव । रम्यः प्रकृत्या रमणीयः । भीषयत इति भीषणम् । नन्द्यादित्वाल्लघुप्रत्ययः । वपुर्बभार। प्रशान्तो मन्त्रः प्रयोगभेदादिव ।सोऽप्यवस्थाभेदाद्भीषणो बभूवेत्यर्थः ॥ उक्तमायुधारोपणं विवृण्वन्प्रस्थानमाह त्रिभिः---

अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम्।
अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ५७ ॥

  अविलङ्घ्येति ॥ परैः शत्रुभिरविलङ्घ्यमनतिक्रमणीयं विकर्षणं यस्य तत् । अमो- घाकर्षणमित्यर्थः । किंच प्रथितो ज्यारवो गुणध्वनिः कर्म बाणमोक्षणादिकं च यस्यः तत्कार्मुकं चोद्धहन्नित्यन्वयः । तथारीणां दृष्टिगोचरं दृष्टिपथमगतौ । आहवेष्वनिव- र्तित्वादस्येति भावः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः । डप्रत्यये संख्याया- स्तत्पुरुषस्योपसंख्यानात्समासान्तः । तेन शितेन तीक्ष्णेन युङ्क्त इति शितनिस्त्रिंशयुजौ । 'सत्सूद्धिय-'इत्यादिना क्विप्। महेषुधी महानिषङ्गौ । इषवो धीयन्तेऽनयोरिति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः । तूण्यां खड्गे तु निस्त्रिंशचन्द्राहासासिरिष्टय:॥' इत्यमरः ॥

यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः।
कवचं च सरत्नमुद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ५८ ॥

 यशसेति ॥ किंच । गोत्रभिद इन्द्रस्यायुधक्षतीर्वज्रप्रहाररन्ध्राणि । खाण्डवदाहसं- भवादिति भावः । महसा स्वकान्त्या यशसेव मूर्तया कीर्त्येव मुहुस्तिरोदधदाच्छादयन्। सरत्नं रत्नसहितमतएव ज्वलितज्योतिर्दीप्ततारकम् । 'ज्योतिस्ताराग्निभाज्वाला दृक्पुत्रार्थधरात्मसु' इति वैजयन्ती । दिवोऽन्तरं नमोमध्यमिवावस्थितम् । 'अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनि । क्लीबे मध्ये प्रकाशे च' इति वैजयन्ती । कवचं चोद्वहन् ॥

अलकाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म संप्रयान् ।
हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ५९॥


  अलकेति ॥ सोऽर्जुनोऽलकाधिपभृत्येन यक्षेण दर्शितमतः शिवं निर्बाधमुर्वीधरवर्त्म हिमवन्मार्गं प्रति संप्रयान्प्रगच्छन् । क्षणमुद्बाष्पदृशां वियोगदुःखात्साश्रुनेत्राणां तपो- भृतां द्वैतवननिवासिनां तपस्विनां हृदयानि समाविवेश । खेदयामासेत्यर्थः ॥

अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ ६०॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये तृतीयः सर्गः।

  अनुजगुरिति ॥ अथाशा दिशः । दिवि भवं दिव्यम् । 'दिवादिभ्यो यत्' । दुन्दुभिध्वानमनुजगुरनदध्वनुः । गायतेर्लिट् । व्योम्नि सुरकुसुमनिपातैर्लक्ष्मीर्वितेने । पुष्प- वृष्टिश्चाजनिष्टेत्यर्थः । किंच । अनिभृताश्चञ्चला वेलायां कूले या वीचयस्ता एव बाहवो यस्य स तथोक्तः। 'वेला कूलविकारयोः' इति शाश्वतः। पयोधिः स्फुरन्ती- मुल्लसन्तीं हर्षात्स्पन्दमानां च भुवं प्रियमिष्टं भारावतारणरूपं कथयिष्यन्निव । कथयितुमिवेत्यर्थः । 'लट् शेषे च' इति चकारात्क्रियार्थायां क्रियायां लृट् । आलिलिङ्ग। सर्वं चेदं शिवं दैवकार्यप्रवृत्तत्वादस्येति भावः । अत्र विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वात्समासोक्तिरलंकारः । तत्र चाप्रस्तुतयोर्भूमिसमुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां भेदेऽभेदलक्षणातिशयोक्तिवशादालिङ्गनोक्तिरिति रहस्यम् । एवमतिशयोत्यनुप्राणिता समासोक्तिः । प्रियकथनात्स्नेहमुज्जीवयति तदङ्गभावं भजत इत्युभयोरङ्गाङ्गिभावेन संकर इति विवेचनीयम् ॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां तृतीयः सर्गः समाप्तः ।


चतुर्थः सर्गः।


ततः स कूजत्कलहंसमे[६४]खलां सपाकसस्याहितपाण्डुतागुणाम् ।
उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥ १॥

  तत इति ॥ ततः प्रस्थानानन्तरं जनप्रियः सोऽर्जुनः । कलहंसा मेखला इवेत्युपमितसमासः । अन्यत्र कलहंसा इव मेखलेति विशेषणसमासः ।कूजन्ती कलहंसमेखला यस्यास्ताम् । सह पाकेन वर्तन्त इति सपाकानि सस्यानि तैः सस्यैराहितः संपादितः पाण्डुतैव गुणो यस्यास्तां भुवमासादितयौवनां प्राप्तयौवनां प्रियामिव । उपजनं


जनसमीपे । अन्यत्र सखीसमक्षम् । समीपार्थेऽव्ययीभावः । उपाससादोपगतवान् । उपमालंकारः।

विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥२॥

  विनम्रेति ॥ सोऽर्जुनो विनम्रशालिप्रसवौघशालिनीरवनतशालिफलस्तोमशोभिनी- रपेतपङ्का निष्पङ्काः ससरोरुहाण्यम्भांसि यासु तास्तथोक्ताः । उपायनीभूता अर्जुनं प्रत्युपहारीभूताः शरद्गुणश्रियः पूर्वोक्ताः शरद्धर्मसंपदो यासु ताः । उपसीम ग्रामसीमासु । विभक्त्यथैऽव्ययीभावः । समासान्तविधेरनित्यत्वात् 'अनश्च' इति समासान्तो न भवति । केचित्तु-'अप्यन्येषां कठिनवपुषां दुर्गमे ग्रामसीम्नि' इत्यादौ नपुँसकप्रयोगदर्शनात् 'नपुंसकादन्यतरस्याम्' इति विकल्पात्साधुः" इत्याहुः । स्थलीरकृत्रिमा भुवः ।'जानपद-' इत्यादिना अकृत्रिमार्थे ङीप् । पश्यन्ननन्द जहर्ष । अत्र शरद्गुणेषु तादात्म्येनारोप्यमाणत्योपायनस्य प्रकृते नन्दनक्रियोपयोगित्वात्परिणामालंकारः॥

निरीक्ष्यमाणा इव विस्मयाकुलैः प[६५]योभिरुन्मीलितपद्मलोचनै: ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्वु: शफरीविवृत्तयः॥३॥

  निरीक्ष्यमाणा इति ॥ विस्मयाकुलैराश्चर्यरसाविष्टैरतएवोन्मीलितानि पद्मान्येव लोचनानि येषां तैः पयोभिरम्भोभिर्निरीक्ष्यमाणा इव स्थिताः । हृतः प्रियादृष्टिविलासानां विभ्रमः शोभा याभिस्तास्तथोक्ता इति मनोहरणे हेतूक्तिः । 'विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । शफरीविवृत्तयो मत्सीस्फुरितान्यस्यार्जुनस्य मनो जह्वु: ॥

तुतोष पश्यन्कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम्।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ॥४॥

  तुतोषेति ॥ सोऽर्जुनः सवारिजे साम्बुजे वारिणि कलमस्य शालिविशेषत्य । 'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः रमणीयस्य भावो रामणीयकम् । 'योपधाद्गुरूपोत्तमाद्बुञ्' । तत्पश्यन्नधिकं तुतोष । अनुरूपसंगमादिति भावः । तथाहि । सुदुर्लभेऽनुरूपसंगमे योग्यसमागमे लब्धे । सतीति शेषः । प्रकर्षलक्ष्मीं योग्यसमा- गमननिमित्तामुत्कर्षसंपदममिनन्दितुं स्तोतुं को नार्हति । सर्वोऽप्यभिनन्दत्येवेत्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।।

नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसं[६६]ततिः ।
अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ॥ ५ ॥


  नुनोदेति । आविष्कृता प्रकटीकृता फेनसंततिर्हिण्डीरसमूहो यस्य तत्तथोक्तम्। 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः । अवाप्तः किंजल्कविभेदः केसरापगमो येन तत्त- थोक्तम् । कुतः ! उच्चकैरुञ्चकं यथा तथा विवृत्तेन लुठितेन पाठीनेन मत्स्यविशेषेण । पराहतं ताडितम् ।'सहस्त्रदंष्ट्रः पाठीनः' इत्यमरः ।पयः कर्तृ तस्यार्जुनस्य स्थलपद्मिनी- गतम् । तद्गोचरमित्यर्थः । वितर्कं संशयं नुनोद चिच्छेदं । पाठीनपराहत्या किञ्ज- ल्कापायेन जलदर्शनात्स्थलपद्मिनीशङ्का निवृत्तेत्यर्थः। अत्र निश्चयोत्तरसंदेहालंकारः।

कृतोर्मिरे[६७]खं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां त[६८]रङ्गितक्षौमविपाण्डुं सैकतम्॥६॥

  कृतेति ॥ सोऽर्जुनः शिथिलत्वमायता गच्छता। दिने दिने क्षीयमाणेनेत्यर्थः । अत एव शनैः शनैः शान्तरयेण । अन्यथोर्मिरेखानुदयादिति भावः । वारिणा। कृता ऊर्मयः पर्वाण्येव रेखा राजयो यस्य तत्तथोक्तम् । तरङ्गा अस्य संजातास्तरङ्गितं भङ्गिमत् । 'तदस्य संजातं-' इतीतच् । यत्क्षौमं दुकूलं तद्वद्विपाण्डु शुभ्रमित्युपमालंकारः। समु- द्रयोषितां नदीनाम् । सिकतास्यास्तीति सैकतं पुलिनम् । 'सिकताशर्कराभ्यां च' इत्यण्प्रत्ययः । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । निरीक्ष्य रेमे तुतोष ॥

  ततस्त्रिभिः शालिगोप्त्रीं वर्णयति-~-

मनोरमं प्रापितमन्तरं भ्रुवोरलंकृतं केसररेणुनाणुना।
अलक्तताम्राधरपल्लवश्रियां समानयन्तीमिव बन्धुजीवकम् ॥७॥

  मनोरममिति ॥ अणुना सूक्ष्मेण केसरेषु किञ्जल्केषु । 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । यो रेणुः परागस्तेनालंकृतमत एव मनो रमयतीति मनोरमम् । 'कर्मण्यण्' इत्यण् । भ्रुवोरन्तरं प्रापितं भ्रूमध्ये निवेशितं बन्धुजीवकं बन्धूकपुष्पम् । 'बन्धूको' बन्धुजीवकः' इत्यमरः । अलक्तताम्रस्य लाक्षारागरक्तस्याधरपल्लवस्य श्रिया शोभया समानयन्तीं समीकुर्वतीमिव । साम्यपरीक्षां कुर्वतीमिवेत्यर्थः । उत्प्रेक्षालंकारः ॥

नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥८॥

  नवेति ॥ महान्निवेशः स्थानं ययोस्तौ महानिवेशौ । पीवरावित्यर्थः । पयोधरौ परितः । स्तनयोः समन्तादित्यर्थः । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । मुहुराहितं नवातपालोहितं बालातपताम्रमरविन्दजं रंजः परागं सर्पता प्रसरता परिश्रमाम्मःपुलकेन स्वेदोद्भेदेन चकासयन्तीं शोभयन्तीम् । चकास्तेर्ण्य- न्ताच्छतरि ङीप् । अलंकरणं कुर्वतीम् । तत्रापि विकृततेति भावः ॥


कपोलसंश्लेषि विलोचनत्विषा विभूषन्यतीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां नि[६९]रीक्ष्य मेने शरदः कृतार्थता ॥९॥

  कपोलेति ॥ पुनः कपोलसंश्लेषि यदवतंसकोत्पलं कर्णोत्पलं तद्विलोचनत्विषा विः भूषयन्तीम् । आभरणस्याप्याभरणमिति भावः । कलमम् । गोपायतीति गोपिकां शालिगोप्त्रीम् । ण्वुल्प्रत्ययः । निरीक्ष्य पाण्डोः सुतेनार्जुनेन शरदः। कृतार्थाया भावकृतार्थता साफल्यम् । शरदः स्वगुणसंपत्सिद्धिनियोगलाभादिति भावः ।'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' । मेनेऽमानि । मन्यतेः कर्मणि लिट् ॥

उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् ।
तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्र[७०]स्नुतपीवरौधसः ॥१०॥

  उपारता इति ॥ पश्चिमा चासौ रात्रिश्चेति विशेषणसमासः । अपररात्र इत्यर्थः। 'पूर्वा दिक्पश्चिमं नभ:' इत्यादिवदेकदेशिशब्दस्यैकदेशशब्दसामानाधिकरण्यादेकदेशे पर्यवसानम्, न तु पश्चिमं रात्रेरित्येकदेशिसमासः। तद्विधायके पूर्वापरादिसूत्रे पश्चिम- शब्दाग्रहणादतएव 'अहःसर्वैकदेश-'इत्यादिना न समासान्तोऽपि तस्यापि पूर्वापरा- दिसूत्रोक्तसमासविषयत्वादिति । प्रकाशवर्षस्तु-एकदेशिसमासमेवाश्रित्य समासान्तमाह, तन्मृग्यम् । गावश्चरन्त्यत्रेति गोचरो गवां जग्धिस्थानं वनम् । पश्चिमरात्रौ यो गोचरस्तस्मादुपारताः संनिवृत्ता जवेन गां भुवं पतितुं धावितुमपारयन्तोऽशक्नुवन्तः प्रस्नुतपीवरौधसो वत्सस्मरणात्स्रवत्पीनापीनाः । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । 'ऊधसोऽनङ्' इति स्त्रीग्रहणं कर्तव्यमिति नियमान्नानङादेशः । उत्सुका वत्सेषूत्कण्ठिता गवां गणास्तमर्जुनमवेक्षणोत्सुकं दर्शनलालसं चक्रुः। 'स्वर्गेषुपशुवाग्वज्रादिङ्गेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्युभयत्राप्यमरः । अत्र स्वभावोक्तिरलंकार:- 'स्वभावोक्तिरलंकारो यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥

परीत[७१]र्मुक्षावजये जयश्रिया नदन्तमुच्चैःक्षतसिन्धुरोधसम् ।
ददर्श षुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ११ ॥

  परीतमिति ॥ सोऽर्जुनः उक्षावजय उक्षान्तरभङ्गे सति जयश्रिया परीतं वेष्टितमुच्चैर्नदन्तं क्षस्तसिन्धुरोधसं रुग्णसरित्तटं शरदि भवां शारदीं पुष्टिमवयवोमचयं दधतं गवामधिपं महोक्षं सविग्रहं मूर्तिमन्तम् । 'कायो देहः क्लीबपुंसौ शरीरं वर्ष्म विग्रहः' इत्यमरः । दर्पमिवेत्युत्प्रेक्षा। ददर्श ॥

विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ १२ ॥


  विमुच्यमानैरिति ॥ हिमानीविशदैर्हिमसंघातशुभ्रै:।'हिमानी हिमसंहतिः' इत्यमरः । ‘इन्द्रवरुण- इत्यादिना ङीप् तत्संनियोगादानुगागमश्च । गवां कदम्बकैः कर्तभिः । 'कदम्बकं समूहे श्रीफले पुष्पविशेषके' इत्यमरः । मन्थरं मन्दं विमुच्यमानैरपि । किमुताविमुच्यमानैरिति भावः । धरन्नदीनां संबन्धिभिः । शरद्ग्रहणं प्रावृण्निवृत्त्यर्थं तत्र पुलिनादर्शनादिति भावः । पुलिनैः कर्तृभिः गलद्दुकूलैर्जघनैरिव तस्यार्जुनस्य कुतूहलं कौतुकमादध अहितम् ॥

गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः
ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥१३॥

 गतानिति ॥ पाण्डवोऽर्जुनः पशूनां गवाम्। सह जन्म येषां ते सहजन्मानः सोदरास्त एव बन्धवस्तेषां भावस्तत्ता तां गतान् । पशुषु सोदराभिमानवत इत्यर्थः । गृहाश्रयं गृहविषयं प्रेम वनेषु बिभ्रतः । वनेषु गृहाभिमानिन इत्यर्थः । आर्जवे विधेयत्वे । गोभिः पशुभिः कृतानुकाराननुकृतानिव स्थितानित्युत्प्रेक्षा। ततो विधेया- नित्यर्थः । गाः पान्तीति गोप गोपालकाः । 'अतोऽनुपसर्गे कः' इति कप्रत्ययः । तानुपधेनु धेनुसमीपे । समीपार्थेऽव्ययीभावः । ददर्श । अत्रोत्प्रेक्षानुप्राणिती स्वभावोक्तिरलंकारः ॥  अथ चतुर्भिर्वल्लवीर्नर्तकीसाम्येन वर्णयति---

परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदृन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥१४॥

 परिभ्रमदिति ॥ मूर्धजाः षट्पदा इवैत्युपमितसमासः । सरोजचारुभिरित्युपमानु- सारात् । परिभ्रमद्भिश्चलद्भिर्मूर्धजैः पट्पदैराकुलानि तैः । दन्ताः केसरा इवेति पूर्ववत्समासः । स्मितोदयेनादर्शिता ईषत्प्रकाशिता दन्तकेसरा येषां तैस्तथोक्तै: । चलत्कुण्डलरश्मिरञ्जितैश्चञ्चलकनककर्णवेष्टनप्रभानुलिप्तैरतएव नवातपामृष्टं बालातपस्पृष्टं यत्सरोजं तद्वच्चारुभिर्मुखैरुपलक्षिताः ।।

नि[७२]बद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥१५॥

 निबद्धेति ॥ निबद्धेनानुरुद्धेन नि:श्वासेन विकम्पिता अधरा यासां तास्तथोक्ताः। अतएव प्रस्फुरितैकपल्लवाः । प्रचलितैकपल्लवा इत्यर्थः ।'क्वाचिसंख्याशब्दस्य वृत्ति- विषये वीप्सार्थत्वं सप्तपर्णादिवत्' इति कैयटः । लता इव स्थिताः । दैवादेकपल्लव- स्फुरणस्यापि लोके संभवादुपमैवैयं नोत्प्रेक्षा । किंच । व्यपोढानि विपरीतानि पार्श्वानि येषु तैः पाणिविहारहारिभिः पाणिविक्षेपमनोहरैः । 'अङ्गहारोऽङ्गविक्षेपः' इत्य-


मरः। विकर्षणैर्मन्धगुणाकर्षणैरपवर्तितत्रिका संचलितनितम्बाः । यद्यपि 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः, तथाप्यत्र नितम्बो लक्ष्यते तन्नैकट्यादिति भावः ॥

व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः।
मुहुः प्रणुन्नेषु मां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥१६॥

  व्रजेति ॥ व्रजाजिरेषु गोष्ठप्राङ्गणेषु । अधिकरणे सप्तमी । 'व्रजो गोष्ठाध्ववृन्देषु' इति विश्वः । अम्बुदनादशङ्किनीर्गर्जितभ्रमवतीरिति भ्रान्तिमदलंकारः। शिखण्डिनां योषितो मयूरीः । योषिद्ग्रहणं मौग्ध्यातिशयार्थम् । उन्मदयत्सून्मदाः कुर्वत्सु । 'तत्करोति' इति ण्यन्ताच्छतृप्रत्ययः । मथां मन्थनदण्डानाम् । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । विवर्तनैः परिभ्रमणैर्मुहुः प्रणुन्नेषु कम्पितेष्विति स्वभावोक्तिः । कुम्भेषु कलशेषु मृदङ्गवन्मन्थरं मन्दं नदत्सु स्वनत्सु सत्स्विति वाद्यसा म्योक्तिः । भावलक्षणे सप्तमीयम् ॥

स मन्थरावल्गितपीवरस्तनीः परिश्रमक्ला [७३]न्तविलोचनोत्पलाः।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥ १७ ॥

  स इति ॥ मन्थरं मन्दमावल्गिताश्चञ्चला: पीवराः स्तना यासां तास्तथोक्ताः। 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति ङीप् । परिश्रमेण क्लान्तानि ग्लानानि विलोचनो- त्पलानि यासां तास्तथोक्ता बल्लवीर्गोपीः । 'गोपे गोपालगोसंख्यगोधुगाभीरबल्लवा:' इत्यमरः । अभिप्रनृत्ता नृत्यन्तीः। 'गत्यर्थाकर्मक-' इत्यादिना कतरि क्तः। 'मति- बुद्धिपूजार्थेभ्यश्चः' इति चकाराद्वर्तमानार्थत्वम् । वारयोषितो वेश्या इव ।'वारस्त्री गणिका वेश्या' इत्यमरः । सोऽर्जुनो निरीक्षितुम् । ईक्षतेस्तुमुन् । नोपरंराम न विरमति स्म । 'उपाच्च' । 'विभाषाकर्मकात्' इति परस्पैपदम् । अत्र चतुःश्लोक्यामुपमास्वभावोक्योः संसृष्टिः ॥

पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसंपदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसंपातपृ[७४]थक्कृतान्पथः ॥ १८॥

  पपातेति ॥ सोऽर्जुनः पूर्वां प्रावृषेण्यां विजिह्मनां वक्रतां जहतस्त्यजतः। शरदि निष्पङ्कत्वेन समरेखयैव सुगमत्वादिति भावः । जहातेः शतृप्रत्ययः । वृषोपभुक्तान्ति- कसस्यसंपदो वृषभचर्वितप्रान्तसस्यसमृद्धीन् । 'सुकृते वृषभे वृषः' इत्यमरः । सीमन्ता इव सीमन्ताश्चकाङ्गपद्धतयः सीमन्तवन्तः कृताः सीमन्तिताः । मत्वन्तात् 'तत्करोति-'इति णिचि क्तः। णाविष्ठवद्भावान्मतुपो लुक् । रथाङ्गैश्चक्रै: सीमन्तिताः सान्द्राः कर्दमा घनीभूताः पङ्का येषु तान्प्रसक्तसंपातेन संततसंचारेण पृथक्कृतान्पथो मार्गान्पपात जगामेति स्वभावोक्तिः ॥


जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः।
भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥१९॥

  जनैरिति ॥ सोऽर्जुन उपग्रामं ग्रामेषु । विभत्त्यर्थेऽव्ययीभावः । अनिन्द्यकर्मभिर- निषिद्धवृत्तिभिः । वृत्तिश्चैकत्र कृप्यादिरन्यत्र शिलोञ्छादिः । विविक्तान्येकाग्राणि भावोऽभिप्राय इङ्गितं चेष्टा भूषणमलंकारश्च येषां तैस्तथोक्तैर्जनैर्वृताः । अधिष्ठिता इत्यर्थः । अतएवाश्रमेषु मुनिस्थानेषु ये मण्डपास्तदुपमाः । 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः । सपुष्पहासाः पुष्पविकाससहिताः । तेन सह-' इत्यादिना बहुव्रीहिः । निवेशवीरुधो गृहगुल्मिनीः । 'बीरुधो वल्लिगुल्मिन्यौ' इति वैजयन्ती । भृशं सादरं ददर्श । उपमालंकारः ॥

ततः स संप्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥२०॥

  तत इति ॥ ततः स पूर्वोक्तो यक्षः शरद्गुणश्रियं संप्रेक्ष्य । दर्शनीयां वर्णनीयां च विचार्येत्यर्थः । शरद्गुणालोकने लोलचक्षुषं सतृष्णदृष्टिम् । 'लोलश्चलसतृष्णयोः' इत्यमरः । तमर्जुनमचोदितोऽप्यपृष्टोऽपि गां वाचमुवाच । तथाहि । इङ्गितज्ञो भावज्ञ: । 'इङ्गितं हृद्गतो भावः' इति विश्वः । अवसर उक्तियोग्ये काले नावसीदति न वाचं यच्छति । 'नापृष्टः कस्यचिद्ब्रूयात्' इति निषेधस्त्वनाकाङ्क्षितोक्तिविषय इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥

इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रिया ।
जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥ २१ ॥

  इयमिति ॥ हे पार्थ, शिवायाः कल्याणकारिण्या नियतेः।'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि:' इत्यमर:। शुभावहदैवस्यायति: फलदानकाल: सैव जगत: क्रिया कृष्यादिकर्माणि फलैर्लाभैः । 'लाभनिष्पत्तियोगेषु बीजभावे धने फलम्' इति वैजयन्ती । कृतार्थयन्ती सफलयन्ती प्रसन्नाम्बुर्निर्मलोदकानम्बुवारिदा निर्जलमेघा । अनेन विशेषणद्वयेन द्यावापृथिव्योरानुकूल्यं सूचयति । इयं शरते जयश्रियं पृथूक- रोतु । आशीरर्थे लोट् ॥

उपैति सस्यं प[७५]रिणामरभ्यता नदीरनौद्धत्यमपङ्कता महीम् ।
नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनाममश्रियः॥२२॥

  उपैतीति ॥ सस्यं व्रीह्यादिकं परिणामेन परिपाकेन या रम्यता सोपैति । नदीरनौद्धत्यं गम्यरूपत्वमुपैति । महीमपङ्कता निष्पकत्वमुपैति । तथाहि । संप्रति


नवैर्गुणैः पूर्वोक्तैः शरद्धर्मै: संस्तवेन परिचयेन स्थिरं दृढमपि धनागमश्रियः प्रावृड्लक्ष्म्या: संबन्धि । तद्विषयमित्यर्थः। प्रेम तिरोहितम् । निरर्थकं कृतमित्यर्थः । गुणतन्त्राः प्रेमाणो न परिचयतन्त्रा इति भावः । वास्तवालंकारः॥

पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः।
तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥२३॥

  पतन्तीति ॥ अस्सिन्नभसि विशदाः पतत्रिणो बलाका न पतन्ति न प्रसरन्ति । धृते- न्द्रचापाः पयोदपङ्क्तयश्च न पतन्ति । तथापि श्रीकारणाभावेऽपि नभः परां श्रियं शोभां पुष्णाति । तथाहि । रम्यं स्वभावसुन्दरं वस्त्वाहार्यमारोप्यमाणं गुणं नापेक्षते । तत्र स्वभावस्यैव समर्थत्वादिति भावः । अर्थान्तरन्यासः॥

विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः ।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥२४॥

  विपाण्डुभिरिति ॥ कदम्बानिलशब्देन वर्षर्तुरुपलक्ष्यते । स एव भर्ता तस्यात्यये विरहे म्लानतया निर्जलतया दुर्बलतया च विपाण्डुभिश्च्युतानि रहितान्यचिराभागुणा विद्युल्लता एव हेमदामानि सुवर्णसूत्राभरणानि येभ्यस्तैः पयोधरैरम्भोदैः । अन्यत्र स्तनैः। उपलक्षितानाम् । 'स्तनाम्भोदौ पयोधरौ' इति वैजयन्ती । दिश एव वध्वस्तासामियं कृशता न राजत इति न । किंतु राजत एव वियुक्तत्वात् । 'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा' इति स्मरणादिति भावः। सामान्यतः प्रसक्तमराजनं कार्श्यास्यै- केन नञा संभाव्यं द्वितीयेन निषेधति।यथाह वामनः---'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति । अत्र रूपकालंकारः स्फुट एव ।

विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिःश्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः॥२५॥

  विहायेति ॥ भदात्ययान्मदक्षयादरक्तकण्ठस्याश्राव्यस्वरस्य । कण्ठशब्देनात्र तद्गतः स्वरो लक्ष्यते । शिखण्डिनो मयूरस्य संबन्धिन्युदित उच्चैस्तरे रुते कूजिते वाञ्छां विहाय । श्रुतिः श्रोत्रम् । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । उन्मदहंसनिःस्वनं मत्तमरालकूजितं श्रयति भजते । नन्वकाण्डे परिचिंतपरिहारेणापरिचिते कथं प्रीत्युदय इत्याशङ्क्यार्थान्तरं न्यस्यति-गुणा इति । प्रीणातीति प्रियः। 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । प्रियत्वे प्रीतिकरत्वे गुणा अधिकृता नियुक्ताः। संस्तवः परिचयो नाधिकृतो न समर्थः । प्रेमाधाने गुणवत्त्वं प्रयोजकं न परिचय इत्यर्थः॥

अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासिवप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥२६॥

  अमी इति ॥ अमी पृथून्स्त्रम्बान्गुच्छान्विभ्रतीति पृथुस्तम्बभृतः। 'स्तम्बो गुच्छस्तृ णादिनः' इत्यमरः। फलस्य प्रसवस्य विपाकेन परिणामेन पिशङ्गतां गताः शालयो व्रीहिविशेषाः । वप्राम्भसि केदारोदके । 'पुनपुंसकयोर्वप्रः केदारः क्षेत्रम्' इत्यमरः । विकसतीति विकासि विकसितं गन्धेन सूचितं ज्ञापितमसितोत्पलं निघ्रातुमाघ्रातुमिव नमन्ति । 'निध्यातुमिव' इति पाठे द्रष्टुमित्यर्थः । निर्वर्णयितुं वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अत्र फलभारान्नमनस्य निघ्राणफलकत्वमुत्प्रेक्ष्यत इति फलोत्प्रेक्षा॥   अथ चतुर्भिः कलापकमाह---

मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया ।
पयःस्फुरंच्छालिशिखापिशङ्गितंद्रुतं धनुष्खण्डमिवाहिविद्विषः ॥२७॥

  मृणालिनीनामिति ॥ मृणालिनीनां पद्मिनीनां त्विषा हरिवर्णेनानुरक्षितम् । तद्वर्णतामापादितमित्यर्थः । तथाम्भोजपलाशशोभया पद्मदलकान्त्या । आरुण्येनेत्यर्थः । विभिन्नं मिश्रितम् । तथा स्फुरच्छालिशिखापिशङ्गितं स्फुरद्भिः कलमात्रैः पिङ्गलीकृतमित्थं नानावर्णत्वाद्द्रुतं विलायितमहिविद्विषो वृत्रशत्रोरिन्द्रस्य । 'सर्पे वृत्रासुरेऽप्यहिः' इति वैजयन्ती। धनुष्खण्डमिव स्थितम् । 'नित्यं समासेऽनुत्तरपदस्थस्य' इति विसर्जनीयस्य षत्वम् । पयो वप्राम्भोऽपदिश्य व्याजीकृत्य धावतामित्यागामिना संबन्धः। अत्र धनुष्खण्डस्य द्रुतस्य लोकेऽप्रसिद्धत्वादुत्प्रेक्षेयं नोपमा ॥

विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः॥२८॥

  विपाण्ड्विति ॥ विपाण्डु शुभ्रमनिलोद्धतमनिलोत्क्षिप्तम् । सप्त सप्त पलाशानि पत्राणि पर्वसु येषां ते वृक्षाः सप्तपलाशाः । क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तम् । तेषां पुष्पाणि सप्तपलाशानि। 'द्विहीनं प्रसवे सर्वम्' इत्यमरः। 'फले लुक्' इत्यणो लुक् । तेषु जातं सप्तपलाशजं रजः परागं संव्यानमुत्तरीयमिव । 'संव्यानमुत्तरीयं च' इत्यमरः । निरुन्धतीर्निवारयन्तीः।प्रावृतवतीरिति यावत् । अनाविलान्यकलुषाण्युन्मीलितानि च बाणानि नीलसैरेयकाणि चक्षूम्षीव यासां तास्तथोक्ताः। 'नीलस्वर्थगलो दासी बाण ओदनपाक्यपि' इति धन्वन्तरिः । पुष्पाणि हासा इव तैः सह वर्तन्त इति सपुष्पहासाः । वनराजयो योषित इव वनराजयोषितः । ता अपदिश्येत्यन्वयः। अत्र संव्यानमिवेत्युपमैवान्यत्रोपमितसमासे लिङ्गम् ।यथा काचित्- केनचित्कामुकेनाक्षिप्तं स्तनांशुकं निरुन्धे तद्वदिति भावः ॥

अदीपितं वैद्युतजातवेदसां सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः॥२९॥

  अदीपितमिति ॥ वैद्युतजातवेदसा वैद्युताग्निनादीपितमप्रकाशितम् । विद्युत्प्रकाशस्य दृष्टिविघातकत्वात्तद्राहित्यं गुण इति भावः। सिताम्बुदानां छेदैः खण्डैस्तिरोहिता तपम् । न दृष्टिबाधो नाप्यातपबाध इति भावः । सान्तरवारिशीकरैर्विरलाम्बुकणैस्त- तान्तरं व्याप्तमध्यं सरोजवायुभिः शिवं रम्यं नभोवर्त्म चापदिश्येति । स्वभावोक्तिरलंकारः॥

सितच्छदानामपदिश्य धावतां रु[७६]तैरमीषां ग्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः॥३०॥

  सितेति ॥ अपदिश्य धावतामिति पूर्वश्लोकत्रयोक्तं पयःप्रभृतिकमुद्दिश्य धावताममीषां सितच्छदानां पतत्रिणां हंसानाम् । 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः'इत्यमरः । रुतैः शब्दैर्ग्रथिता दृब्धाः । 'ग्रथितं गुम्फितं दृब्धम्' इत्यमरः। वारिदरोधनिर्गता मेघोपरोधनिर्मुक्ता अतएवामलाः प्रसन्ना दिशः परस्परालापं प्रकुर्वत इव । दिष्टया मेघोपरोघनिर्मुक्ताश्चिरादुच्छसिता इति हंसकूजितव्याजेन परस्परमालपन्तीवेत्युत्प्रेक्षा ॥

विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥३१॥

  विहारेति ॥ विहारभूमेः । अपररात्रगोचरादित्यर्थः आगच्छन्त्य इति शेषः । अभिघोषमुत्सुका व्रजं प्रत्युत्कण्ठिताः । वत्सप्रेम्णेति भावः । 'घोष आभीरपल्ली स्यात्' इत्यमरः । च्युता त्रुटिता यूथानां कुलानां पङ्क्तिः श्रेणीबन्धो यासां तास्तथोक्ताः । 'सजातीयैः कुलं यूथम्' इत्यमरः । अमूर्धेनवोऽसक्तमप्रतिबन्धं पयः क्षीरं क्षरन्ति स्रवन्ति । वत्सस्मरणात्प्रस्रवन्तीत्यर्थः । क्षरतेः शतृप्रत्ययः । ऊधांसि शरीरजेभ्योऽपत्येभ्य उपायनानीवातितोषकारीणीवेत्युत्प्रेक्षा । नयन्ति प्रापयन्ति । यथा लोके कुतश्चित्प्रवासादेत्य मातरः किंचित्खाद्यमानयन्ति तद्वदिति भावः ॥

जगत्प्रसूतिर्जगदेकपा[७७]वनी व्रजोपकण्ठं तनयैरुपेयुम्षी।
द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः॥३२॥

  जगदिति ॥ जगत्प्रसूतिर्जगत्कारणम् ।आज्यादिहविर्द्वारेणेति भावः । जगतामेकपावनी मुख्यशोधनी व्रजोपकण्ठं गोष्ठान्तिकम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति द्वितीया । 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा:' इत्यमरः । तनयैर्वत्सैरुपेयुषी संगता ।'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । 'उगितश्च' इति ङीप् । असौ गवां समितिः संहतिः। मन्त्रैर्ऋग्यजुषादिभिः । 'मन्त्रो ऋगादिगुह्योक्ति-' इति वैजयन्ती । संहिता योजिताहुतिरिव । समग्रां द्युतिमुपैति । आहुतिरपि जगत्प्रसूतिर्जगदेकपावनी च । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते दृष्टिर्वृष्टेरन्नं ततः प्रजाः॥' इति स्मरणादिति भावः ॥


कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥३३॥

  कृतेति ॥ जितबर्हिणध्वनौ । केकानुकारिणीत्यर्थः। एतेन षड्जस्वरप्रायं गायन्तीति गम्यते । यथाह मातङ्ग:--'षड्जं मयूरो वदति' इति । गाः पान्तीति गोपास्तेषां भार्या गोप्यः । 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । 'पुंयोगादाख्यायाम्' इति ङीप् । ता एव जनः। सुरक्तो मधुरकण्ठो यो गोपीजनो वल्लवीजनस्तस्य गीतनिःस्वने गाने कृतावधा- नमेकाग्रचित्तमिदं पुरोवर्ति मृगीकदम्बकं कर्तृ भूयसीमतिमहद्वीं जिघत्सामत्तुमिच्छाम् । अदेः सन्नन्तादुप्रत्ययः । 'लुङ्सनोर्धस्लृ' इति घस्लादेशः । अपहाय हित्वा सस्यं नाभ्येति नोपैति । गीतासक्त्त्या क्षुधामपि न गणयतीत्यर्थः ॥

असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम्॥३४॥

  असाविति ॥ शिरसाग्रेण मूर्ध्ना च नमन्प्रणमन्नप्यनास्थापरयानादरपरया सरोरुहि- ण्यावधीरितोऽवज्ञातः । अम्भसा । सहचरभूतेनेति भावः । शुष्यन्नसौ कलमः शालिविशेषः । मनोभुवा तप्त इव कामार्त इव । अभिपाण्डुतामुपैति । अत्रानास्थापरयेति प्रकृतसरोरुहिणीविशेषणसामर्थ्यांदप्रस्तुतनायिकाप्रतीतेः समासोक्तिः। उत्तिष्ठमानायाः सरोरुहिण्याः प्रतीयमानया नायिकया शुद्धभेदेऽप्यभेदलक्षणातिशयोक्तिमहिम्ना- वधीरणक्रियासंबन्धान्निर्वहन्ती मनोभुवा तप्त इवेत्युत्प्रेक्षानिर्वाहिकेत्यतिशयोक्त्यनुप्रा- णितसमासोक्त्युपमयोरङ्गाङ्गिभावेन संकरः ॥

अमी समुद्भूतसरोजरेणुना हृताहृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः॥३५॥

  अमी इति ॥ समुद्धूतसरोजरेणुनेति सौरभ्योक्तिः । हृतासारकणेनोपात्ताम्बुकणेनेति शैत्योक्तिः। 'धारासंपात आसारः' इत्यमरः । वायुना हृता आकृष्टा अमी शिलीमुखा भृङ्गाः । आपदामुपागमे राजादिभयागमे दुश्चरिता दुष्टकर्माणश्चौरादय'इच । गम्यत इति गतिं गन्तव्यदेशम् । 'देशोपायगमे गतिः' इति वैजयन्ती । निश्चेतुं नालं न समर्थाः । एकत्र वायोः सार्वत्रिकत्वेनोपादानादनिश्चयादन्यत्र भयान्धत्वादिति भावः।।

मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती।
शुकावलिर्व्यक्तशिरीषकोमला धनुश्रियं गोत्रभिदोऽनुगच्छति ॥३६॥

  मुखैरिति ॥ विद्रुमभङ्गलोहितैर्मुखैः पिशङ्गीः पिशङ्गवर्णाः कलमस्य शिखाः शाल्यग्राणि बिभ्रती व्यक्तशिरीषकोमला विकसितशिरीषसवर्णासौ शुकावलीर्गोत्रभिद इन्द्रस्य धनुषः श्रियमनुगच्छत्यनुकरोति।नानावर्णत्वादिन्द्रधनुरिवाभातीत्युपमालंकारः॥

इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥३७॥

  इतीति॥ अथ तत्र तस्मिन्पूर्वोक्ते यक्ष इतीत्थं कथयति सति नातिदूरादनतिदूरात् । ईषद्दूर इत्यर्थः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । पिहितोष्णरश्मिबिम्बस्तिरो- हितार्कमण्डल इत्यौन्नत्योक्तिः । नगाधिराजो हिमाद्रिर्विगलितो जलभारो येषां ते तथोक्ताः । अतएव शुक्लभासः । द्वयोरन्यतरस्य विशेष्यत्वविवक्षया विशेषणसमासः । तेषां विगलितजलभारशुक्लभासां शुभ्राणामम्बुमुचां निचय इव मेघवृन्दमिव ददृशे दृष्टः ॥

तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासाद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः ॥ ३८ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्थः सर्गः ।

  तमिति ॥ जिष्णुरर्जुनोऽतनुभिर्महतीभिर्वनराजिभिः श्यामिता: श्यामला उपत्यकान्ता आसन्नभूमिप्रदेशा यस्य तं तथोक्तम् । 'उपत्यकाद्रेरासन्ना भूमिर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्प्रत्ययः। उपरि हिमानीभिर्हिम- संघातैर्गौरं शुभं नगं हिमाद्रिमासाद्य । व्यपगतो निवृत्तो मदरागो यस्य तस्य । असितं नीलमधरं यास उत्तरीयं विभ्रतो धृतवतः। सीरं हलं पाणौ यस्य तस्य सीरपाणेर्हलायुधस्य। 'हलायुधः। नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हृली । संकर्षणः सीरपाणी:'इत्यमरः। 'सप्तमीविशेषणे-' इति ज्ञापकाद्यधिकरणपदो बहुव्रीहिः ।'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ स्तः' इति सप्तम्याः परनिपातः । लक्ष्मीं शोभामनुसस्मार स्मृतवान् । अत्र सदृशदर्शनेन सदृशान्तरस्य स्मरणात्स्मरणालंकारः। 'सदृशं सदृशानुभवाद्यत्र स्मर्येत तत्स्मरणम्' इति विद्याधरः ।।   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्थः सर्गः समाप्तः ।


पञ्चमः सर्गः।


  अथ हिप्रवद्वर्णनमारभते । तत्र पञ्चदशभिः कुलकमाह-

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया।
अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः॥१॥

  अथेति ॥ अथानन्तरं सोऽर्जुनो मेरुमहीभृतो हेमाद्रेर्जयाय नु जयार्थं वा । नुशब्दो ऽत्र वितर्के । 'नु पृच्छायां वितर्के च' इत्यमरः । रभसो वेगः। 'रभसो वेगहर्षयोः इति वैजयन्तीविश्वप्रकाशौ । तद्वत्या रभसया । अतीवोत्कण्ठतयेति यावत् । अर्शआ- दित्वादच्प्रत्ययः । दिगन्तानां दिदृक्षया नु द्रष्टुमिच्छया वा । नभोऽन्तरिक्षं विलङ्घयि- तुंन्वतिक्रमितुं वा । समुदितम् । समुत्पतितमिव स्थितमित्यर्थः । कुतः। उच्छ्रितमुन्नतं हिमस्याचलं हिमाचलमभिययौ । अत्र निर्धारितानेकफल औनत्यगुणनिमित्तोदितादि- क्रियोत्प्रेक्षा। सा च व्यञ्जकाप्रयोगात्प्रतीयमानेति संक्षेपः। द्रुतविलम्बितं वृत्तम्- 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥

तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ २ ॥

तपनेति ॥पुनः। एकत एकस्मिन्भागे। सार्वविभक्तिकस्तसिः। तपनमण्डलेन दीपितं प्रकाशितम् । अन्यतोऽन्यस्मिन्भागे सततेनानिषिद्धेन नैशेन निशिभवेन तमसा वृतम् । एकत्राह्लारात्र्या चान्यत्र संगतमित्यर्थः । अतएव पुरोऽग्रे हसितेनाट्टहासेन भिन्नत- मिस्रचयं निरस्ततमस्तोमं तथा गजचर्मणानुगतं पश्चाद्व्याप्तम् । 'पश्चात्सादृश्ययोरनु' इत्यमरः । शिवमिव स्थितम् । तपनतेजःप्रसारोऽप्यस्य कण इव कुत्रचित्परिसमाप्यत इति महत्त्वातिशयोक्तिः ॥

क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः।
प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शंभुना ॥३॥

क्षितीति ॥ परस्परेऽन्योन्ये । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः' इति वक्तव्यात्पर- शब्दस्य द्विर्भावः। 'समासवच्च बहुलं यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य' इति वक्तव्यात्प्रथमैकवचनम् । सुट् । कस्कादित्वाद्विसर्जनीयस्य सत्वं बहुवचनं चान्योन्यशब्दवत् । यथा माघे-'अन्योन्येषां पुष्करैरामृशन्तः' इति । अदृष्टाः परस्परे यैस्तेऽदृष्टपरस्परास्तैस्तथोक्तैः । क्षितौ नभसि सुरलोके च निवसन्तीति तैस्तथोक्तैः । भूर्भुवःस्वर्लोकवासिभिरित्यर्थः । कृतनिकेतं कृतास्पदम् । अतएव शंभुना विभुतां स्वसामर्थ्यं प्रथयितुमभिनिर्मितं जगतां प्रतिनिधिं प्रतिकृतिमिव स्थितमित्युत्प्रेक्षा। 'प्रतिकृतिचर्या पुंसि प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः । त्रैलोक्यश्लाघ्योपमम- परिच्छेद्यं चेति भावः ॥

भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना ।
समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ४॥

भुजगेति ॥ पुनश्च । भुजगराजसितेन शेषाहिधवलेन नभःश्रितां गगनस्पृशा कनकस्य राजिभी रेखाभिर्विराजिताः सानवो यस्य तेन तथोक्तेन । अतएव तडित्वतीं शर- दम्बुदसंहतिं शरन्मेघचयं लघयता लघूकुर्चता । तत्तुल्येनेत्यर्थः । अतएवोपमालंकारः। निचयेन शिखरसमूहेन समुदितं समुन्नतम् । निचयेनेति । यद्यपि निचयशब्दः शिखर स्यावाचकस्तथापि पर्वतवर्णनप्रकरणोक्तत्वात्पाषाणनिचयः शृङ्गवाची भवितुमर्हति । यथा--'कूटोऽस्त्री शिखरं शृङ्गम्' इति कूदशब्दः समूहापरपर्यायः । अत एव लक्षणा- श्रयणीया । अतएवावाच्यवचनं न दोषः ।।

मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः।
दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पव[७८]ना भुवः॥५॥

  मणीति ॥ पुनः। मणिमयूखचया अंशुकानीव पटकादीनीव तैर्भासुराः । सुरवधूभिः परिभुक्ता लता गृहा इव यासु तास्तथोक्ताः । उच्चानि शिलान्तराणि गोपुराणीव शिलान्तराणि शिलामध्यानि पुरद्वाराणि यासु ताः । उदितान्यूर्जितानि पुष्पाणां वनानि यासु ताः । अतएव पुर इव नगराणीव स्थिताः। भुवो दधतम् ॥

अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ६ ॥

  अविरतेति ॥ पुनश्च । अविरतमविच्छिन्नमुज्झितवारयः । अवृष्टिमन्त इत्यर्थः । अतएव विपाण्डवश्च तैरविरतोज्झितवारिविपाण्डुभिः । अत एव हिमवत्पक्षत्वं संभवतीति भावः। अचिरद्युतितेजसा विरहितैर्विद्युत्तेजोरहितै: । आरतनिःस्वनैः प्रशान्तगर्जितैश्च । अन्यथा पक्षत्वहानिः स्यादिति भावः । पृथुनितम्बविलम्बिभिर्महाकटकसङ्गिभिः । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । अम्बुदैरुदितपक्षं संजातपक्षमिव स्थितम् । प्राक्छिन्नपक्षस्यापि हिमाद्रेर्धवलाम्बुदसंबन्धात्पुनःपक्षोत्थानमुत्प्रेक्ष्यते ।

दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः॥७॥

  दधतमिति ॥ पुनश्च । आकरः खनिरेषामस्तीति योनित्वेमेत्याकरिभिराकरजैः। 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । करिभिर्गजैः कर्तृभिः क्षतै रुग्णैः समवतारेषु तीर्थेषु समैरविषमैरसमैसरदृशैः। अनुपमैरित्यर्थः । तटैरुपलक्षितास्तथा महिताम्भसः श्लाघ्योदका अतएव विविधेभ्यः कामेभ्योऽवगाहनाद्युपभोगेभ्यो हिता अनुकूलाः । 'चतुर्थी तदर्थ--' इत्यादिना समासः। स्फुटानि विकसितानि सरोजवनानि यासु ताः । जवना वेगवतीः । “जुचङ्क्रम्य-'इत्यादिना युचू । नदीर्दधतम् । यमकंवृत्त्यनुप्रासभेद- त्वात्स्वयमेवालंकारः । अर्थालंकारस्त्वभ्युच्चयः। तस्यातिदुष्करत्वाद्रसपोषोऽपि नाद्रियते । तदुक्तम्-'प्रायशो यमके चित्रे रसवृद्धिर्न मृग्यते' ॥

नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।
विहि[७९]तसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥ ८ ॥

  नवेति ॥ पुनश्च। नवानि विनिद्राणि विकसितानि च यानि जपाकुसुमानि ताम्रपु-


ष्पिकाकुसुमानि तेषां त्विष इव त्विषो येषां ते तेषाम् । 'ओड्रपुष्पं जपापुष्पं रूपिका ताम्रपुष्पिका' इति वाग्भटः । द्युतिमतां महाश्मनां मणीनाम् । पद्मरागाणामित्यर्थः । विशेषणसामर्थ्यात् । निकरेण समूहेन हेतुना क्वचिन्निचिताः संघटिताः काञ्चनभित्तयो येषु तेषु सानुषु विहिताः सांध्याः संध्यायां भवा मयूखा यस्सिम्स्तमिव स्थितम् । काञ्चनभित्तिषु पद्मरागप्रभाप्रसरादुदितसंध्याराग इव भातीत्युत्प्रेक्षा ॥

पृथुकदम्बकदम्बकराजितं ग्रथितमालतमालवनाकुलम् ।
लघुतुषारतुषारजल[८०]श्च्युतं धृतसदानसदाननदन्तिनम् ॥ ९॥

  पृथ्विति ॥ पुनश्च । पृथुभिः कदम्बतां कदम्बकैर्नीपकुसुमसमूहै राजितम् । 'कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके' इत्युभयत्रापि विश्वः । प्रथितमालैर्बद्धपङ्क्तिभि- स्तमालवनैस्तापिञ्छवनैराकुलमाकीर्णम्। 'कालस्कन्धस्तमालः स्यात्तापिञ्छोऽपि' इत्यमरः । लघुतुषारमल्पशीकरं यत्तुषारजलं हिमोदकं श्च्योतति वर्षति तं तथोक्तम् । 'तुषारौ हिमसीकरौ' इति शाश्वतः । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । सदानाः समदाः सदाननाः शोभनाननाश्च ये दन्तिनस्ते धृता येन तं तथोक्तम् ॥

रहितरत्नचयान्न शिलोच्चयानपलताभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ॥ १० ॥

  रहितेति । पुनश्च । रहितरत्नचयान् रहितः परित्यक्तो रत्नचयो यैस्तान् रत्नराशिरहिताञ्छिलोच्चयाञ्छिखराणि न दधतम् । अपलताभवना लतागृहरहितां दरीभुवो गुहाप्रदेशान्न दधतम् । 'दरी तु कंदरो वा स्त्रीदेवखातविले गुहा' इत्यमरः । विगतानि पुलिनान्यम्बुरुहाणि च यासां ताः। सरितो वध्व इव ताः सरिद्वधूर्न दधतम् । अत्र सरितां वध्वौपम्यात्पुलिनानामम्बुरुहाणां च वदनजघनौपम्यं गम्यते । अकुसुमान्महीरुहोवृक्षान्न दधतम् । किंतु रत्नादिसंपन्नानेव शिलोच्चयादीन्दधतमित्यर्थः । महाविभाषया नात्र नञ्समासः॥

व्यथितसिन्धुमनीर[८१]शनैः शनैरमरलोकवधूजघनैर्धनैः ।
फणभृतांमभितो विततं ततं दयितरम्यलताबंकुलैः कुलैः॥११॥

  व्यथितेति ॥ पुनश्च । अनीरशनैरनिर्मेखलैः।सरशनैरित्यर्थः। घनैर्निबिडैरमरलोकव- धूजघनैः शनैर्मन्दंमन्दं व्यथितसिन्धुं क्षोभितनदीकम् । अयमपरः स्वर्ग इति भावः। ये रम्या लताश्च बकुलाः केसराश्च ते दयिताः प्रिया येषां तैस्तथोक्तैः ।'विशारदो मद्यगन्धो बकुलः स च केसरः' इति वैद्यके । फणभृतां सर्पाणां कुलैरभितस्ततं व्याप्तं तथा विततं विस्तृतम् ॥


ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
[८२]विचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥१२॥

 ससुरेति ॥ अनेका विचित्रा मणिप्रभा येषां तैस्तथोक्तैः । हिमेन पाण्डुभिः शिखरैः कृत्वा ससुरचापं सेन्द्रचापम् । अपपया निर्जलोऽतएव विशदश्च तमपपयोविशदम् । अविचलं दैवान्निश्चलम् । अतः शिखरशङ्कास्याभूदित्यर्थः । किंतु ध्वनितेन गजितेन सूचितं ज्ञापितमम्बुमुचां चयमविरतमुपबिभ्रतम् । अत्र किल कल्पितसादृश्याच्छिखर- मेघसंदेहो मेघनिश्चयान्तः संदेहालंकारः ॥

विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम्॥१३॥

 विकचेति ॥ पुनश्च । विकचवारिरुहम्। नित्यविकसितारविन्दमित्यर्थः । वृत्तिसामर्थ्यात्। कलहंसगणैः सह वर्तत इति सकलहंसगणम् । 'कादम्ब: कलहंसः स्यात्' इत्यमरः । यद्वा । सकलाः सर्वे हंसगणा यस्मिम्स्तत्तथोक्तम् । शुचि नित्यनिर्मलं मानसं मानसाख्यं सरो दधतम् । किंच। कृतेर्ष्यया । कुतश्चिन्निमित्तात्कुपितयेत्यर्थः । अगात्मजया पार्वत्या सकलहं सविवादम्। सगणं सप्रमथम्। 'गणाः प्रथमसंख्यौघाः' इति वैजयन्ती । शुचिमानसमविद्याविनिर्मुक्तचित्तं शिवं च दधतम् । एतेन सकलशैलवै- लक्षण्यमस्योक्तम् ॥

ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना।
मुहुरनुस्मरयंन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ १४ ॥

 ग्रहेति ।। दिवमभितो दिवोऽभिमुखम्। 'अभितःपरितः-' इत्यादिना द्वितीया । ग्रहाश्चन्द्रादयो विमानानि देवयानानि च । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । तेषां गणाञ्ज्वलयता प्रदीपयता । 'मितां ह्रस्वः' इति ह्रस्वः । ओषधिजेन तृणविशेषजन्येन कृशानुना वह्निना कृत्वानुक्षपंप्रतिक्षपम् । वीप्सायामव्ययीभावः । उमापतिसेविनः प्रमथादीन् । 'गतिबुद्धि-' इत्यादिना द्विकर्मत्वम्। त्रयाणां पुराणां समाहारस्त्रिपुरम् । 'तद्धितार्थ-'इत्यादिना समासः ।'पात्रादिभ्यः प्रतिषेधो वक्तव्यः'इति स्त्रीलिङ्गप्रतिषेधः। तस्य दाहं त्रिपुरदाहं मुहुरनुस्मरयन्तम् । नंनु 'अधीगर्थ–' इत्यादिना दाहमित्यत्र षष्ठी किं न स्यात् । तस्याः शेषार्थे विधानाच्छेषत्वस्याविवक्षितत्वात्। अत्र 'कविसंमतसादृश्यात्स्मृतिः' इति स्मरणालंकारः ॥

विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।।
दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ १५ ॥

 विततेति ॥ विततशीकरराशिभिर्विस्तृतशीकरपुञ्जैरुच्छूितैरुत्पतितैः । कुतः । उप-


लरोधेन विवर्तिभिरम्बुभिर्हेतुभिर्धृतसितव्यजनामिव गृहीतामलचामरामिव स्थिता- मित्युत्प्रेक्षा । उन्नतसानुषु समुद्धतां वहन्तीं जाह्नवीं गङ्गां दधतम् ॥

अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः।
स जगदे वचनं प्रियमादरान्मुखरतावसरे हि विराजते ॥ १६ ॥

  अनुचरेणेति ॥ अथोऽनन्तरम् । 'मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । धनाधिपतेरनुचरेण यक्षेण नगविलोकनेन विस्मितमानसः सोऽर्जुनः । आदरात्प्रियं वचनं जगदे गदितः । गदतेर्गत्यर्थस्य दुहादित्वात्प्रधाने कर्मणि लिट्। अपृष्टपरिभाषण- दोषं परिहरति-मुखरतेति । मुखरता वाचालत्वम् । अपृष्टपरिभाषित्वमिति यावत् । अवसरे श्रोतुराकाङ्क्षासमये विराजते हि । आकाङ्क्षितमपृष्टोऽपि ब्रूयादिति भावः ।।

अलमेष विलोकितः प्रजानां सहसा सं[८३]हतिमंहसां विहन्तुम् ।
धनवर्त्म सहस्रधेव कुर्वन्हिमगौरैरचलाधिपः शिरोभिः ॥ १७ ॥

  अलमिति ॥ हिमेन गौरैः शुभैः शिरोभिः शिखरैर्घनवर्त्म खं सहस्रधा कुर्वन्विपाट- यन्निवेत्युत्प्रेक्षा । एषोऽचलाधिपो हिमवान्विलोकितो दृष्टमात्र एव प्रजानामंहसां संहतिं पापसंघातं सहसा विहन्तुमलं समर्थः । 'पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । औपच्छन्दसिकं वृत्तम्-- पर्यन्तेर्यौ तथैव शेषं चौपच्छन्दसिकं सुधीभिरुक्तम्' इति स्मरणात् ॥

इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् ।
अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥१८॥

  इहेति ॥ इहास्मिन्पर्वते । सुतरं न भवतीत्यसुतरम् । दुस्तरमित्यर्थः । तरतेः खल्प- त्ययः । अन्तरं मध्यभागम् । पुरुषे त्वन्तरं तत्त्वम् । दुरधिगमैर्दुरारोहैरन्यत्र दुर्ग्रहैराग- मैर्वृक्षैरन्यत्र पुराणादिभिः। 'पुराणेऽप्यागमो वृक्ष' इति रुद्रट:। किंचिदेव सततं वर्णयन्ति । न तु कदाचित्प्रत्यक्षेणापि निःशेषं शातुमशक्यत्वादिति भावः । किंत्वतिविपिनमतिगहनं दिग्व्यापिनमुभयत्रापि समम् । अमुं गिरिं परं पुरुषं परमात्मानमिव परं केवलम् । 'परमव्ययमिच्छन्ति केवले' इति विश्वः। पद्मयोनिर्ब्रह्मैव वेद । नान्य इत्यर्थः । 'विदो लटो वा' इति णलादेशः। अत्रोपमायमकयोः संसृष्टिः। क्षमावृत्तम्---- 'तुरगरसयतिर्नौ भरौ गः क्षमा' ॥

रुचिरपल्लवपुष्पलतागृ[८४]हैरुपलसज्जलजैर्जलराशिभिः।
नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥ १९ ॥

  रुचिरपल्लवेति ॥ अयं गिरिः । रुचिराणि पल्लवानि पुष्पाणि च येषां ते तथाभूता


लतागृहा येषु तैस्तथोक्तैरुपलसज्जलजैः शोभितकमलैर्जलराशिभिः सरोभिः करणैः उपकान्तं कान्तसमीपे धृतिमतीर्धैर्यवतीरपि समीपस्थानपि प्रियान्न गणयन्तीः। मानि- नीरित्यर्थः। स्त्रियः संततमुत्सुकतां नयति । तासां मानग्रंथिं शिथिलयतीत्यर्थः । अथवा । उपकान्तं धृतिमतीस्तुष्टिमतीरपि सुरततृप्ता अपि पुनरप्युत्सुकतां नयतीत्यर्थः। उभयत्राप्युद्दीपकत्वातिशयोक्तिः । वृत्तमुक्तम् ॥

सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती॥२०॥

  सुलभैरिति । नयवता नीतिमतायवता भाग्यवता च सदा सुलभैः । नान्यैरित्यर्थः। 'अयः शुभावहो विधिः' इत्यमरः । निधीनां महापद्मादीनाम् । 'अस्त्री पद्मो महापद्मः शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥' इत्यमरः । गुह्यकानां चाधिपं कुबेरं रमयन्तीति तथोक्तैः । 'कर्मण्यण्' । परमैरुत्कृष्टैर्धनैः करणैः अमुना क्षितिभृता हिमाद्रिणातिभृता पूर्णा सती जगती मही जगती स्वर्गपाताललोकौ समतीत्यातिक्रम्य भाति । अमानुषैरपि दुर्लभाः संपदोऽत्र संभवन्तीति भावः । अत्र धनातिभृतेति पदार्थस्य विशेषणगत्या जगदतिक्रमणहेतुत्वोक्त्या काव्यलिङ्गम् । तस्य यमकेन संसृष्टिः। प्रमिताक्षरावृत्तम्-'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥

अखिलमिदममुष्य गौरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥२१॥

  अखिलमिति ॥ अमुष्य गौरीगुरोर्हिमवत इदमखिलम् । त्रयाणां भुवनानां समाहार- स्त्रिभुवनमपि । 'तद्धितार्थ-'इत्यादिना समासः । पात्रादित्वात्स्त्रीत्वप्रतिषेधः । तुलां साम्यं नैतीति मन्ये । यद्यतो जनैरविदितविभवोऽज्ञातमहिमा भवानीपतिः शिवः सदैनं गिरिमधिवसति । अस्मिन्वसतीत्यर्थः । 'उपान्वध्याङ्वसः' इति कर्मत्वम् । अतोऽयं धर्मक्षेत्रमिति भावः। प्रभावृत्तम्-'स्वरशरविरतिनौ सरौप्रभा' इति लक्षणात्।

बीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् ।
आगमादिव तमोपहादितः संभवन्ति मतयो भवच्छिदः ॥ २२ ॥

  वीतेति ॥ वीते निवृत्ते जन्मजरसौ यस्य तद्वीतजन्मजरसम् । 'जराया जरसन्यतर- स्याम्' इति जरसादेशः । अत्र तदन्तविधेरिष्टत्वात्परत्वेन स्यादेशबाधकत्वाच्च। तथाहि- 'टाङसिङसामिनात्स्या इति स्यादेशबाधनात्। परत्वाज्जरसादेशं बभाषे भाष्यकृत्स्वयम्॥ सूत्रकारमते यत्तु ज्ञापकात्परबाधनम् । भवेत्तदपिटाङस्योर्न पुनर्ङसि संभवि॥ मतद्वयेऽपि तत्तुल्यं ङसि यत्पूर्वबाधनम्।परत्वाज्जरसादेशस्तत्स्यात्स्यादेशबाधनात् ॥ ज्ञापकं यच्च टाङस्योर्यावादेशाविनादिति । ईकारदीर्घयोस्तत्र वैयर्थ्यं तत्तु तौ विना ॥ एत्वे सवर्णे दीर्धे च रूपसिद्धिर्भवेद्यतः । व्यर्थसूत्राक्षरत्यागाद्भङ्क्त्वैतज्ज्ञापकं फणी ॥ स्वातत्र्याज्जरसादेशं जगौ पूर्वस्य बाधनात् । समर्थनप्रपञ्चस्तु भाष्यकैयटयोः स्फुटः ॥' एवं च यदत्र जरस इति केषांचित्पाठान्तरकल्पनं तदज्ञानविजृम्भितमेव । ब्रह्मणः परमात्मनः संबन्धि परमुत्कृष्टं शुचि निष्कलङ्कम् । पद्यत इति पदं स्थानं तादात्म्यलक्षणम्। मुक्तिमित्यर्थः। उपैतुं प्राप्तुमिच्छतां मुमुक्षूणामागमाच्छास्त्रादिव । तमोऽपहन्तीति तमोपहादविद्यानिवर्तकात् । 'अपे क्लेशतमसोः' इति डप्रत्ययः। इतोऽस्माद्गिरेः । भवं छिन्दन्तीति भवच्छिदः संसारनिवर्तकाः। 'सत्सूद्विष-' इत्यादिना क्विप् । मतयस्तत्त्व- ज्ञानानि संभवन्त्युत्पद्यन्ते । क्षेत्रविशेषस्यापि ज्ञानोपायत्वादित्याशयः । न केवलमियं भोगभूमिः किंतु मुक्तिक्षेत्रमपीति तात्पर्यार्थः । रथोद्धतावृत्तम् । तल्लक्षणम्- 'रान्नराविह रथोद्धता लगौ' इति ॥

दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।
पीडामाजः कुसुमचिताःसाशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥२३॥

  दिव्येति ॥ अस्मिन्गिरौ ।चरणलाक्षारागैः सह वर्तन्ते तास्तथोक्ताः । धेनुकपुरुषा- यितादिबन्धेषु स्त्रियाः पादतलस्याधः स्पर्शात्तद्रागाङ्किता इत्यर्थः । निपतिता व्यानतकरणे स्त्रीणामधोमुखत्वाद्भ्रष्टाः पुष्पापीडाः कुसुमशेखरा यासु तास्तथोक्ताः । 'शिखा स्वापीडशेखरौ' इत्यमरः । पीडाभाजो विमर्दभाजः । भङ्गिमत्य इत्यर्थः । भ्रमरप्रेङ्खो- लितादौ सवतः कटीपरिभ्रमणसंभवादिति भावः । कुसुमौश्चिताः कुसुमव्याप्ताः । इभ- मार्जारादिकरणेषु स्तनभुजाद्ययवानां शय्यातलस्थायित्वान्मार्दवाय कुसुमाचिता इत्यर्थः । दिव्यस्त्रीणां संबन्धिन्यः। शेरत आस्विति शय्यास्तल्पानि । 'संज्ञायां समजनिषद--' इत्यादिना क्यप् । रागायाते रागोद्रेके सति यः साशंसः सतृष्णः सुरतविशेषस्तम्। जातावेकवचनम् । सुरतविशेषानित्यर्थः । शंसन्ति सूचयन्ति । विवृण्वन्तीत्यर्थः । अत्र लाक्षारागादिपदार्थानां सुरतविशेषशंसनं प्रति विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलंकारो यमकेन संसृज्यते । जलधरमालावृत्तम्---'म्भौ स्मौ चेत्स्याज्जल- धरमाला ख्याता' इति लक्षणात् । धेनुकादिबन्धलक्षणं तु रतिरहस्ये-~~-'न्यस्तहस्तयु- गला निजे पदे योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदु- न्नते प्रिय ॥ स्वेच्छया भ्रमति वल्लभेऽपि या योषिदाचरति वल्लभायितम् । व्यानतं रत- मिदं यदि प्रिया स्यादधोमुखचतुष्पदाकृतिः ॥ तत्कटिं समधिरुह्य वल्लभः स्याध्दृषादि- पशुसंस्थितिस्थितः।चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका भ्रामरं न जघने समुद्गते ॥ सर्वतः कटिपरिभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमूलितम् । भूगतस्तनयुगास्यमस्तकामुन्नतस्फिज- मधोमुखीं स्त्रियम् । कामति स्वकरकृष्टमेहने वल्लभे करिरतं तदुच्यते ॥ 'प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नतायाः स्त्रियाः कट्यां मार्जारकरणं विदुः॥' इति ग्रन्थान्तरे । 'कान्तोत्पीडा म्भौ स्मौ' इति वृत्तम् ॥

गुणसंपदा समधिगम्य परं महिमानमत्र महिते ज[८५]गताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः॥२४॥


  गुणेति ।। जगतां महिते जगद्भिः पूजिते पूज्यमाने। 'मतिबुद्धि-'इत्यादिना वर्तमाने क्तः। 'क्तस्य च वर्तमाने' इति षष्ठी । अत्र हिमवत्यौषधयस्तृणज्योतींषि नयशालिन्य- धिपतौ नीतिसंपन्ने राज्ञि श्रियः संपद इव गुणसंपदा क्षेत्रगुणसंपत्त्या । अन्यत्र संध्या- दिगुणसंपदा । परं महिमानम् । उभयत्रापि प्रकाशसामर्थ्यम् । समधिगम्य ज्वलितुं प्रकाशितुं न विरमन्ति । अविरतं ज्वलन्तीत्यर्थः । अन्यत्र रात्रादावेवेति भावः ॥

कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्व वरणावरणाः करिणां मुदे सनलदानलदाः॥२५॥

  कुररीति ॥ इहाद्रौ कुररीगण उत्क्रोशसङ्घः । 'उत्क्रोशकुररौ समौ' इत्यमरः । कृत- रवः कृतारवः। तरवः कुसुमैरानताः । कमलं जलं सकमलं सपद्मम्।'कमलं जलपद्मयोः इति विश्वः । यद्वा कं जलमलमत्यन्तं सपद्मं वर्तते । 'कं जले शिरसि च' इत्य- मरः । किंच । वरणा द्रुमा आवरणं यासां ता वरणावरणाः । 'वरणो वरुणः सेतुस्ति- क्तशाकः कुमारकः' इत्यमरः । सनलदाः सोशीराः । 'मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यम्' इत्यमरः । अनलं संतापं घन्ति खण्डयन्ति शमयन्तीत्यनलदाः । सनल- दाश्च ता अनलदाः सिन्धवो नद्यः करिणां मुदे । भवन्तीति शेषः । न कुत्राप्युक्तवैपरी- त्यमिति भावः॥

सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः ।
एतस्मिन्मदयति कोकिलानकालेलीनालिः सुरकरिणां कपोलकाषः ॥ २६ ॥

  सादृश्यमिति ॥ एतस्मिन्पर्वतेऽपनिद्रचूतगन्धैः सादृश्यं गतं फुल्लाम्रपुष्पगन्धसदृशं मदजलसेकजमामोदं परिमलं दधानो बिभ्राणः । अतएव लीनालिः संसक्तभृङग: सुरक- रिणाम् । कष्यतेऽनेनेति काष: । कपोलानां काषः कषणस्थानं द्रुमस्कन्धादि । अ- काले वसन्तातिरिक्त कालेऽपि कोकिलान्मदयति । 'मितां ह्रस्वः' इति हस्वः । अत्र वसन्तरूपकारणाभावेऽपि मदाख्यकार्योत्पत्तिकथनाद्विभावनालंकारः । तदुक्तम्- 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । सा च चूतगन्धैः सादृश्यमित्युप- मया वामोदं दधान इति पदार्थहेतुककाव्यलिङ्गेन चाङ्गाङ्गिभावेन संकीर्यते । किंच को- किलानां मदगन्धे चूतगन्धभ्रान्त्या भ्रान्तिमदलंकारो व्यज्यते । प्रहर्षिणीवृत्तम्-'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥

सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥२७॥

  सनाकेति ॥ पुनश्च । सनाकवनितं साप्सरस्कं नितम्बै: कटकै रुचिरं सुनिनदैः सु घोषैर्नदैः प्रवाहैर्वृतममुम् । अमुष्मिन्गिरावित्यर्थः । 'उपान्वध्याङ्वसः' इति कर्मत्वम् । अवतोऽधोलोकरक्षकस्य फणवतो नागराजस्य मतेष्टा । 'मतिबुद्धि-'इत्यादिना वर्तमाने क्तः । तद्योगात्षष्ठी । रसेन स्वादेन परोत्कृष्टा परास्तवसुधा त्यक्तभूलोका सुधामृतं चिरमधिवसति। अतोऽन्यत्र भूमण्डले कुत्रापि सुधा नास्तीत्यर्थः । मेरुप्रतिभटोऽयं गिरिरिति भावः । अत्र प्रस्तुतविशेषणसामर्थ्यादप्रस्तुतमेरुप्रतीतेः समासोक्तिरलंकारः । स च यमकेन संसृज्यते । जलोद्धतगतिवृत्तम्-'रसैर्जसजसा जलोद्धतगतिः' इति लक्षणात् ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या न[८६]वानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनु[८७]दश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥२८॥

  श्रीमदिति ॥ अस्मिन्नद्रौ श्रीमत्समृद्धिमल्लता एव भवनम् । ओषधयस्तृणज्योतीष्येव प्रदीपाः । नवानि हरिचन्दनपल्लवानि सुरतरुकिसलयान्येव शय्याः । 'हरि- चन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः।रतिश्रमनुदः सुरतश्रमहारिणः सरोजवाताश्च । सुरसुन्दरीभ्यः । क्रियाग्रहणाच्चतुर्थी । दिवो दिवम् । 'अधीगर्थ-'इत्यादिना कर्मणि षष्ठी । स्मर्तुं न दिशन्ति । विस्मारयन्तीत्यर्थः । स्वर्गादप्यतिरिच्यतेऽसाविति भावः । अत्र पूर्वार्धे रूपकत्रयं स्फुटमेव ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्यायादोविलङ्घनविलोलविलोचनायाः।
आलम्बताग्रकर[८८]मत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ २९॥

  ईशार्थमिति । ईशायेतीशार्थं यथा तथेति क्रियाविशेषणम् । 'अर्थेन सह नित्यस- मासः सर्वलिङ्गता च वक्तव्या' । चिराय चिरमम्भसि तपश्चरन्त्या अतएव यादोविलङ्घन- विलोलविलोचनाया जलजन्तुविघट्टितचकितेक्षणायाः । तपसोऽप्यधिकं दृष्ट्यैव विलोभयन्त्येति भावः । 'यादांसि जलजन्तवः' इत्यमरः । भवान्या भवपत्न्या: । प्रयोगकालापेक्षोऽयं निर्देशः । 'इन्द्रवरुणभव-'इत्यादिना ङीप् । आनुगागमश्च । करैकदेशस्यापि करत्वादग्रश्चासौ करंश्चेति समानाधिकरणे समासः। अतएव वामनः-- 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्मेदाभेदौ' इति । तमग्रकरं भवः शिवः श्च्योतन्निदाघस- लिलाङ्गुलिना स्त्रवत्स्वेदाङ्गुलिनेति सात्त्विकोदयोक्तिः । करेणात्र गिरावालम्बत गृही-


तवान् । अत्राद्भुतातीतवृत्तान्तस्य प्रत्यक्षवदभिधानाद्भाविकालंकार:--'अतीतानागते यत्र प्रत्यक्षवदलक्षिते । अत्यद्भुतार्थकार्यत्वाद्भाविकं तदुदाहृतम् ॥' इति लक्षणात् । वसन्ततिलका वृत्तम्-'उक्ता वसन्ततिलका तभजा जगौ गः' इति तल्लक्षणात् ॥

येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ३० ॥

  येनेति ॥ देवाश्चासुराश्च तैर्देवासुरैः। 'येषां च विरोधः शाश्चतिकः' इति नैकवद्भावः। एषां यतः कार्यत एव विरोधो न गोव्याघ्रादिवच्छाश्वतिक इत्याहुः।येन मन्दराद्रिणा। मन्थदण्डीकृतेनेति भावः । अपविद्धसलिलः क्षिप्तजलोऽतएव स्फुटं नागसद्म पातालं यस्मिन्सोऽम्बुनिधिरमृतं ममन्थे मथितः । मथ्नातेर्द्विकर्मकत्वाद्दुहादित्वादप्रधाने कर्मणि लिट् । अहिपतेः । मन्थगुणीकृतस्य वासुकेरित्यर्थः । 'मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्' इति भारतवचनात् । व्यावर्तनैर्वेष्टनैराहिताङ्कः कृतचिह्न: सोऽयं मन्दराद्रिः खमाकाशं व्यालिखन्व्यापाटयन्निव विभाति । अत्रौन्नत्यानुपादानेनैव खलेखनोत्प्रेक्षणादनुपात्तगुणनिमित्ता क्रियास्वरूपोत्प्रेक्षा ।

नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः।
ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥३१॥

  नीतेति ॥ इहाद्रावशिशिररश्मेरुष्णांशोरुस्त्रैर्मयूखैः । संक्रान्तैरित्यर्थः। नीतोच्छ्राय- मुच्छ्रायं नीता। विस्तारितेत्यर्थः । तथानीलाभैरसितप्रभै रत्नैरिन्द्रनीलैर्विरचितपरभागा। तत्संनिधानाल्लब्धोत्कर्षेत्यर्थः । हंस इव श्येनी श्वेतवर्णा । विशदश्येतपाण्डराः' इत्यमरः। 'वर्णादनुदात्तात्तोपधात्तो नः' इति श्येतशब्दान्डीप् । तकारस्य च नकारः । स्फटिकानां रजतानां च भित्तयस्तासां छाया कान्तिः । अह्नो मध्ये। मध्याह्नेऽपीत्यर्थः । मुहुर्ज्योत्स्नाशङ्काम् ज्योत्स्नाभ्रान्तिं वितरति जनयतीति भ्रान्तिमदलंकारः ॥

दधत इंव विलासशालि नृत्यं मृदु पतता पवनेन क[८९]म्पितानि ।
इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥३२॥

  दधत इति ॥ इहाद्रौ मृदु पतता मन्दं वहता पवनेन कम्पितानि पङ्कजानि ललित- विलासिनीजनस्य भ्रूगतिवत्कुटिलेषु । ईषत्तरङ्गितेष्वित्यर्थः । पयःसु विलासशालि नृत्यं दधत इव । सविलासं नृत्यन्तीवेत्युत्प्रेक्षा । पुष्पिताग्रावृत्तम् ॥


अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्त्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ३३ ॥

  अस्मिन्निति ॥ अस्मिन्नद्रौ पिनाकभृता शिवेनाधीरविलोचनायाश्चकितदृष्टेः । उरगदर्शनादिति भावः । ईश्वराया गौर्याः। 'स्थेशभास--'इत्यादिना वरच् । पुंयोगविवक्षाभावान्न ङीप् । आबद्धवेपथुः प्राप्तकम्प इति सात्त्विकोक्तिः । 'द्वितोऽथुच्' इत्यथुच्प्रत्ययः । विन्यस्ता मङ्गलमहौषधिर्यवाङ्कुरादि यस्मिन्स पाणिः । सस्तो गलित उरग एव प्रतिसरः कौतुकसूत्रं यस्य तेन । 'आहुः प्रतिसरो हस्तसूत्रे माल्ये च मण्डने' इति विश्वः । करेण सलीलमगृह्यतेति देवस्य पार्वतीपरिणयनवर्णनम् । ईशार्थमित्वत्र त्वनुग्रहमात्रोक्तिरित्यपौनरुक्त्त्यम् । भाविकमेवालंकारः ॥

कामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः ।
उस्त्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् ॥ ३४ ॥

  कामद्भिरिति ॥ धनपदवीमाकाशं क्रामद्भिर्व्यश्नुवानैरनेकसंख्यैः । परःसहस्रैरित्यर्थः । क्वचित् 'अनेकवर्णैः' इति पाठस्तु प्रामादिक एव । वैयर्थ्याद्व्याघाताच्चेति । शुचिमणिभ्यः स्फटिकेभ्यो जन्म येषां तैः । 'जन्माद्युत्तरपदो बहुव्रीहिर्व्यधिकरणोऽपीष्यते' इति वामनः । तेजोभिर्विभिन्नो मिश्रोऽतएव पर्यस्यन्प्रसर्पन्निहाद्रौ सप्तसप्तेः सवितुरुस्राणां किरणानां निचयो निकरः। सहस्रमिति संख्या सहस्रसंख्याताम् । स्वनियतामिति शेषः । व्यभिचरत्यतिक्रामतीवेत्युत्प्रेक्षा ॥

व्यधत्त यस्मिन्पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः ।
स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥३५॥

  व्यधत्तेति ॥ यस्मिन्कैलासे धनाधिपः कुबेरः पुरां विजेतुः शिवस्य धृतये संतोषायोच्चगोपुरमुन्नतपुरद्वारम् । 'पुरद्वारं तु गोपुरम्' इत्यमरः । पुरमलकाख्यां पुरी व्यधत्त निर्मितवान् । तत्सखित्वादिति भावः । स एष कैलास उपान्तसर्पिणः प्रान्तचारिणो विवस्वतः सूर्यस्याकाले प्रसिद्धेतरकालेऽस्तमयं करोतीवेत्युत्प्रेक्षा। वस्तुतस्तु तत्कारणाभावाद्व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । सा चोपान्तवर्तितयासंबन्धे संबन्धलक्षणा- तिशयोक्त्युत्थापितेति विवेकः । अस्तमिति मकारान्तमव्ययम् । तस्य पचाधजन्ते- नायशब्देन षष्ठीसमासः । वृत्तमुक्तम् ।।

नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धांबद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति॥३६॥

  नानेति ॥ अमुष्मिन्कैलासेऽन्तःसानु । सानुष्वित्यर्थः । विभत्त्यर्थेऽव्ययीभावः। नानारत्नज्योतिषां अनेकमणिकान्तीनां संनिपातैर्व्यतिकरैश्छन्नेषु छादितेषु । 'वा दान्त- शान्त-' इत्यादिना निपातः । वप्रान्तरेषु कटकान्तरेषु बद्धांबद्धामभीक्ष्णबद्धाम् । दृढो- त्पादितामित्यर्थः । 'नित्यवीप्सयोः' इति नित्यार्थे द्विर्भावः । 'नित्यमभीक्ष्णम्' इति काशिका । एकपदं चैतत् । भित्तिशङ्कां भित्तिरिति संदेहमावानावानभीक्ष्णमापतन् । आङ्पूर्वाद्वाधातोः शतृप्रत्ययः। द्विर्भावादि पूर्ववत् । मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः । कनिन्प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । निहन्ति निवर्तयति । वायुसंचाराद्भित्त्यभावोऽवधार्यत इत्यर्थः । अतो निश्चयान्तः संदेहालंकारः । शालिनीवृत्तम् ॥

रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि ।
अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ ३७॥

  रम्येति ॥ अस्सिन्नद्रौ । शादाः शष्पाणि सन्त्येष्विति शाद्वलास्तेभ्यः । 'शाद्वलःशादहरिते' इत्यमरः । 'नडशादाद्वलच् । रम्या नवा द्युतिर्नापैति । किंतु नित्येत्यर्थः । नलिनीवनान्यनुदिनं सर्वदा श्यामीभवन्ति । न कदाचित्पाण्डुरीभवन्तीत्यर्थः । विचित्र- कुसुमस्तबकैराचितानां व्याप्तानां शाखाभृतां तरूणां पल्लवानि न परिणमन्ति । न जीर्णानि भवन्तीत्यर्थः । सर्वदा नूतनमेव सर्वं वर्तत इत्यर्थः । अत्र प्रस्तुतस्यैव तत्तद्वस्तुगतकान्तिस्थैर्यरूपकार्यस्य वर्णनात्प्रस्तुतमिव कारणं कश्चिदसाधारणः कैलासस्य महिमावगम्यत इति पर्यायोक्तिरलंकारः । तदुक्तम् --'कारणं गम्यते यत्र प्रस्तुतं कार्यवर्णनात् । प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते ॥' इति ॥

परिसरविषयेषु लीढमुक्ता ह[९०]रिततृणोद्गमशङ्कया मृगीभिः।
इह न[९१]वशुककोमला मणीनां रविकर[९२]संवलिताः फलन्ति भासः ॥३८॥

  परिसरेति ॥ इहाद्रौ परिसरविषयेषु पर्यन्तदेशेषु । 'विषयो देशे' इति निपातः । मृगीभिर्हरिततृणोद्गमशङ्क्या नीलतृणाङ्कुरभ्रान्त्येति भ्रान्तिमदलंकारः । लीढा पूर्वमास्वादीताः पश्चान्मुक्ता लीढमुक्ताः । दग्धप्ररूढ इत्यादिवत् 'पूर्वकाल-' इत्यादिना समानाधिकरणसमासः । नवशुककोमलाः शुकसवर्णा मणीनां मरकतमणीनां भासो रविकरैः संवलिता मिश्रिताः सत्यः फलन्ति संमूर्च्छन्ते । वर्धन्त इति यावत् ॥


उत्फुल्लस्थलनलिनीवनादमुष्मादु[९३]द्धूतः सरसिजसंभवः परागः ।
वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥३९॥

  उत्फुल्लेति ॥ अस्मिन्नद्रौ वात्याभिर्वातसमूहैः । 'वातादिभ्यो यत्' इति थप्रत्ययः । अमुष्माद्दृश्यमाणादुत्फुल्लस्थलनलिनीवनात् । जलपतितस्य परागस्योत्थानासंभवात्स्थलग्रहणम् । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्ठालत्वम् । उद्धूत उत्थापितो वियति समन्ताद्विवर्तितः परिमण्डलितः । अन्तराले तु दण्डायमान एवेति भावः । सरसिजसंभवः पद्मोद्भवः परागः । रूढ्यभिप्रायेणात्र सरसिजशब्दप्रयोगो द्रष्टव्यः । कनकमयातपत्रलक्ष्मीमाधत्तेऽनुकरोति । अत्र परागस्यातपत्रलक्ष्मीसंबन्धासंभवात्तत्सदृशीं लक्ष्मीमिति प्रतिबिम्बेनाक्षेपादसंभविधर्मसंबन्धेयं निदर्शना। तदुक्तम्--'असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिविम्बक्रियागम्या यत्र सा स्यान्निदर्शना ॥' इति ॥

इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरे[९४]खा।
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विव[९५]र्तनेषु ॥४०॥

  इहेति ॥ इहाद्रावुषसि प्रभाते सुरापगायां लक्षणया तत्कुले सयावका सालक्तका सव्यपादस्य रेखा वामचरणमुद्रा यस्यां सा । 'यावोऽलक्तो द्रुमामयः' इत्यमरः । तथा विषमाणि महदल्पानि पदानि यस्यां सा विवर्तनेषु प्रदक्षिणक्रियासु पदवी । शिवयोः प्रदक्षिणपद्धतिरित्यर्थः । सनियमयोः । संध्यायां प्रणमतोरित्यर्थः । शिवा च शिवश्च तयोः शिवयोरुमाशंकरयोः। 'पुमान्स्त्रिया' इत्येकशेषः । शरीरयोगमर्धाङ्गसंघटनारूपं कथयति । सनियमयोरिति नियमविषयेऽपि विरहासहाविह विहरतः शिवाविति भावः । अत्र पदवीविशेपणपदार्थयोः कथनं प्रति हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥

संमूर्च्छतां रजतभित्तिमयूखजालैरालोलपादपलतान्तरनिर्गतानाम् ।
धर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥४१॥

  संमूर्च्छतामिति ॥ इहाद्रौ रजतभित्तिमयूखजालैः संमूर्च्छतां बहुलीभवतामालो- लानां पादपलतानां तरुशाखानामन्तरेषु रन्ध्रेषु निर्गतानां प्रसूतानां धर्मद्युतेरुष्णांशो- र्धाम्नां तेजसामादर्शमण्डलनिभानि दर्पणबिम्बसदृशानीत्युपमालंकारः । पटलानि म-


ण्डलानि मुहुर्वारंवारं समुल्लसन्ति पुनः पुनः स्फुरन्ति । न तु सातत्येन । लतानामा- लोलत्वाभावात् । तच्च नान्यत्र मृत्पाषाणादिप्राये संभवतीति भावः ॥

शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥ ४२ ॥

  शुक्लैरिति ॥ शुक्लैर्मयूखनिचयैः शुभ्रकिरणसमूहैः परिवीतमूर्तिर्व्याप्तदेहः । वप्राभि- घातेन वप्रकीडया परिमण्डलितो वर्तुलीकृत उरुदेहो बृहच्छरीरो यस्य तथोक्तो गणभर्तुः प्रमथनाथस्योक्षा वृषभः । 'उक्षानड्वान्वलीवर्द ऋषभो वृषभो वृषः' इत्यमरः ।वधूजनमन:सु शशाङ्कशङ्कां चन्द्रभ्रान्तिं कुर्वन् । तेषां मौग्ध्यादिति भावः । अमुष्याद्रे: शृङ्गाणि भजते सेवते । अत्र शङ्काशब्दस्य संदेहार्थत्वे संदेहालंकारः । भ्रान्तिपरत्वे भ्रान्तिमदलंकारः । यथेच्छसि तथास्तु । नवोक्षविशेषणोत्थेन काव्यलिङ्गेनाङ्गाङ्गिभावेन संकीर्यते ॥

संप्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ ४३ ॥

  संप्रतीति ॥ इहाद्रौ विविधा नानावर्णाः शिखरमणिरुचः संप्रति । शरदीत्यर्थः। लघुन्यगुरुणि कुतः क्षीणपयस्यत एव भिदां भेदम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः। उपेयुषि गते जलधरपटले मेघमण्डले कथमपि शनकैर्लब्धजन्म । उत्पन्नमित्यर्थः । अत एव खण्डितविग्रहं छिन्नस्वरूपं बलभिद इन्द्रस्य धनुः पूरयितुं विभवः समर्था भवन्ति । अत्रेन्द्रधनुषो मणिरुचीनामसंबन्धे संबन्धकथनादतिशयोक्तिरलंकारः । वंशपत्रपतितं वृत्तम्- 'दिङ्मुनिवंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ।।

स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः ।
सततमसितयामिनीषु शंभोर[९६]मलयतीह वनान्तमिन्दुलेखा ॥ ४४ ॥

  स्नपितेति ॥ इहाद्रौ शंभोरिन्दुलेखा । स्वपितानि सिक्तानि नवानि लतानां तरूणां


च प्रवालानि यैस्तैः । अमृतलवस्रुत्यामृतबिन्दुनिःस्यन्देन शालन्ते ये तैर्मयूखैः सततं सर्वकालमसितयामिनीषु कृष्णपक्षरात्रिष्वपि वनान्तममलयति धवलयति । अन्यत्र नैतदस्तीति व्यतिरेको व्यज्यते ॥

क्षिपति योऽनुवनं विततां बृहद्बृहतिकामिव रौचनिकीं रु[९७]चम् ।
अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः॥४५॥

  क्षिपतीति ॥ अथ योऽद्रिरनुवनं विततां रौचनिकीं रुचम्। सौवर्णीं कान्तिमित्यर्थः। रोचनया रक्तां रौचनिकीम् । 'लाक्षारोचनशकलकर्दभाट्ठक्' इति ठक् । 'टिड्ढाणञ्-' इत्यादिना ङीप् । उत्प्रेक्षते-बृहती चासौ बृहतिका च तां महोत्तरासङ्गमिव । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । क्षिपति प्रसारयति । अनेका हिरण्मय्यः कंदरा यस्य सः। हिरण्मयशब्दो 'दाण्डिनायन-'इत्यादिना निपातनात्साधुः। अयम् । पुरोवर्ती गिरिरित्यर्थः । तव पितुरिन्द्रस्य दयितः प्रियः । जगत्या धरो जगती- धरः । यस्ते गन्तव्य इन्द्रकीलाख्य इत्यर्थः ॥

सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ४६ ॥

  सक्तिमिति ॥ अमुत्रामुष्मिन्नद्रावनिले जवाज्झटिति लतानां सक्तिमन्योन्यसङ्गमपन- यति सति । सहसा हठाद्वैरोचनैः सावित्रैर्मयूखैर्द्विगुणा द्विरावृत्ताः कृता इति द्विगुणिताः । 'गुणस्त्वावृत्तिशब्दादिष्विन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । हिरण्मयीनां हिरण्यविकाराणाम् । 'दाण्डिनायन-'इत्यादिना निपातनात्साधुः।रोधोभुवां तटभुवां, भासो मुहुस्तडिद्विलसितानि विडम्बयन्ति । अनुकुर्वन्तीत्यर्थः । उपमालंकारः ॥

कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः।
इह मदस्रपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ४७॥

  कषणेति ॥ इहाद्रौ कषणेन कण्डूयनेन यः कम्पस्तेन निरस्ता महाहयो महासर्पा येभ्यस्तैः । क्षणं विमत्तमतङ्गजवर्जितैर्मत्तमतङ्गजरहितैः । कुतः । मदस्रपितैः। ऐरावत- मदसिक्तैरित्यर्थः । 'मितां ह्रस्वः' इति ह्रस्वः । हरिचन्दनैश्चन्दनद्रुमैः सुरंगजस्यैरावतस्य गतं प्राप्तिरनुमीयते । हरिचन्दनविशेषणैः काव्यलिङ्गमुन्नेयम् ॥

जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः।
भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः॥४८॥


  जलदेति ॥ इहास्मिन्नद्रौजलदजालधनैर्मेघवृन्दसान्द्रैरसिताश्मनामिन्द्रनीलानां मरीचिभिर्दीधितिभिः । 'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्' इत्यमरः । उपहतप्रचया विघट्टितसंघाता अतएवादीपितकंदरा अप्रकाशितगह्वरा विवस्वतो दीप्तिस्तिमिरैः संवलिता संहता व्यामिश्रितेव भवतीत्युप्रेक्षा ॥

भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।
प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥४९॥

  भव्य इति ॥ इहाद्रौ भव्यः शान्तो भवन्नपि मुनेर्व्यासस्य शासनेनेन्द्राराधनरूपेण क्षात्रे पथि क्षत्रियमार्गे स्थितः। गृहीतशस्त्र एवेत्यर्थः। हतप्रमादोऽप्रमत्तः सन्। तपस्य तपश्चर्यां कुरु । तपस्येति 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । तदन्ताद्धातोर्लोट् । न च सर्वभूतहितकारिणो मे प्रमादः किं करिष्यतीति विश्वसितव्यमित्यर्थान्तरन्यासेनाह- हि यस्मात्प्रायेण बाहुल्येन। 'प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः'इति हेमचन्द्रः। हितमर्थं करोतीति हितार्थकरे विधौ व्यापारे सति । अन्तरायैर्विघ्नैर्विना श्रेयांसि लब्धुमसुखानि । अशक्यानीत्यर्थः। अतएव 'शकधृष--' इत्यादिना समानकर्तृकेषु तुमुन् । अकारणवैरिणः सर्वत्र सर्वस्यापि सन्तीति भावः ॥

मा भूवन्नपथहृ[९८]तस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्र[९९]सक्तिम् ।
रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः ॥ ५० ॥

  मा भूवन्निति ॥ तवेन्द्रियाण्येवाश्वास्ते । अपथेन हरन्तीत्यपथहृतो मा भूवन् । त्वामपथं मा निनीषुरित्यर्थः । 'माङि लुङ्' इत्याशीरर्थे लुङ् । संतापे तपःक्लेशे सति शिवः शिवां साधीयसीं प्रसक्तिं प्रवृत्तिमुत्साहं दिशतु । किंचेति चार्थः । लोकपाला इन्द्रादयस्तपसि विषये बलं शक्तिं रक्षन्तो वर्धयन्तः सन्त: कल्याणीं साध्वीं क्रियामनुष्ठानमधिकफलां क्रियासुः कुर्वन्तु । करोतेराशिषि लोट् ॥

इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये ।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ संधत्ते भृशमरतिं हि सद्वियोगः ॥ ५१ ॥


  इतीति ।। प्रियार्हे राजराजभृत्य इति पूर्वोक्तम् । हितं प्रियं वचनमिति शेषः। उक्त्वा सपदि स्वं स्वकीयं धाम स्थानं गतवति सति । पृथासुतोऽर्जुनः सोत्कण्ठं सौत्सुक्यं किमपि प्रदध्यौ चिन्तयामास । तथाहि । सद्वियोगः सुजनवियोगो भृशमरतिं व्यथां संधत्ते। करोतीत्यर्थः । अर्थान्तरन्यासः ॥

तमनतिशयनीयं सर्वतः सारयोगादविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५२ ॥

इति श्रीभारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चमः सर्गः।

  तमिति ॥ अकृशाः पूर्णा लक्ष्म्यः शोभा यस्य सोऽकृशलक्ष्मीरिति बहुवचनाश्रितो बहुव्रीहिः । एवं च 'उरःप्रभृतिभ्यः-' इति कप्प्रत्ययानवकाशः। तत्र लक्ष्मीशब्दस्यैक- वचनान्तस्यैव पाठात् । नापि 'नधृतश्च' इत्यस्यावकाशः । उरःप्रभृतिपाठसामर्थ्या- देवशैषिकस्तु वैभाषिक इत्यविरोधः। सोऽर्जुनः सर्वतः सर्वत्र सारयोगादुत्कृष्टबलप्रयोगात् । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्युभयत्राप्यमरः। अनतिशयनी- यमनतिक्रमणीयमनेकेन बहुनाङ्कभाजा समीपं गतेन । शीघ्रभाविनेति यावत् । फलेन कार्यसिद्ध्याविरहितमशून्यम् । कार्यसिद्धेरवश्यं साधकमित्यर्थः । अकृशमतनुं चेतसाशंसितं प्रातुमिष्टं शैलमिन्द्रकीलं स्वमात्मीयम् । पुरुषस्य कारः कर्म तं पुरुषकारमु- क्तविशेषणविशिष्टं पौरुषमिवाभ्याससाद प्राप्तवान् । मालिनीवृत्तम् ॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां पञ्चमः सर्गः समाप्तः॥


षष्ठः सर्गः।


रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः॥ १ ॥

  रुचिराकृतिरिति ॥ अथो आसादनानन्तरं रुचिराकृतिः सौम्यविग्रहो धृतसत्पथो- ऽवलम्बितसन्मार्गः । आकारानुरूपगुणवानित्यर्थः। 'यत्राकृतिस्तत्र गुणा वसन्ति' इति सामुद्रिकाः। उपमानेऽपि समानमेतत्।स पुरुहूतसुतोऽर्जुनः। कनकस्य विकाराः सानवो यस्य तं कनकसानुम् । गरुडसावर्ण्यार्थं विशेषणमेतत् । 'समुदाये विकारषष्ठ्योश्च' इति वहुव्रीहिरुत्तरपदलोपश्च ।तमिन्द्रकीलम् । परमः पुमान्विष्णुः पततां पक्षिणां पति गरुडमिव । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा भागीरथी । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । उपपदसमास उत्तरपदसमासश्च । तामभितोऽभिमुखमारुरोह । 'समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः' इत्यमरः । प्रमिताक्षरावृत्तम्---'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥   अथास्य कार्यसिद्धिनिमित्तानि सूचयन्मार्गं वर्णयति--

तमनिन्द्यबन्दिनं इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरु: कुसुमैः॥२॥

  तमिति ॥ विहिता अलिनिक्वणा जयध्वनय इव यैस्ते तथोक्ताः। पवनेन वायुनेरिता नुन्ना अतएवाकुला लोल विजिह्मा वक्राश्च शिखाः शाखाग्राणि येषां ते तथोक्ताः । 'शिखा ज्वाला केकिमौल्योः शिखाशाखाग्रमौलिषु' इति वैजयन्ती । जगतीरुहो भूरुहः। क्विप् । अनिन्द्या अनवद्या ये बन्दिनः स्तुतिपाठकास्त इव । तमिन्द्रसुतमर्जुनं कुसुमैर- वचकरुः । अभिववृषुरित्यर्थः । 'ऋच्छत्यॄताम्' इति गुणः । अत्र किरतेर्वृष्ट्यर्थत्वात्कु- सुमानां करणत्वम् । विक्षेपार्थत्वे तु कर्मत्वमेव । यथा--'कटाक्षान्वामा किरति' इति । दृश्यते च धातूनामर्थभेदात्कारकव्यत्ययः। यथा सिञ्जतेः क्षरणार्द्रीकरणयोरर्थयोर्द्रव द्रव्यस्य कर्मत्वकरणत्वे । यथा- 'मेघोऽमृतं सिञ्चति गौः पयश्च', 'सिञ्चतीवामृतैर्वपुः' इति । अत्र वाक्ये समासगतयोरुपमयोः साध्यसाधनभावादङ्गाङ्गिभावेन संकरः॥

अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः॥३॥

  अवधूतेति ॥ अवधूताः पङ्कजपरागकणा यैस्ते तथोक्ताः इति सौरभ्योक्तिः । तनूर्जाह्नव्याः सलिलवीचीर्भिन्दन्तीति तथोक्ता इति शैत्योक्तिः। सुखयन्तीति सुखाः । पचाद्यच् । सुखस्पर्शा इति मान्द्योक्तिः । मरुतो वातास्तमर्जुनं सुहृदः सखायमिवाभिमु- खमेत्यागत्य परिरेभिर आलिङ्गितवन्तः।।

उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः।
मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥४॥

  उदितेति ॥ उदितोपलेषून्नतपाषाणेषु स्खलनेन प्रतिघातेन संवलिताश्चूर्णिताः । अतस्तूर्यघोष इव घुमघुमायमाना इत्यर्थः । स्फुटैर्हँसानां सारसानां च विरावैर्युज्यन्त इति तथोक्ताः। क्विप् । अनुवप्रमपाम् । अन्तः पतन्तीनामिति शेषः ध्वनयोऽस्यार्जुनस्य मङ्गलं प्रयोजनमेषां ते माङ्गलिकाः । 'प्रयोजनम्' इति ठञ् । तैस्तूर्यैः कृतां मुदं हर्षं प्रतेनुः । अत्रान्यस्यान्यकार्यकारणासंभवात्तूर्यकृतमुत्सदृशीं मुदमिति प्रतिविम्बेनाक्षेपा- न्निदर्शनालंकारः॥

अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि स[१००]मृद्धिकरीम् ॥५॥


  अवरुग्णेति ॥ सोऽर्जुनः पुरोऽग्रेऽवरुग्णतुङ्गसुरदारुतरौ भग्नोन्नतदेवदारुद्रुमे बलीयसि बलवत्तरे । मत्वन्तादीयसुनि मतुपो लुक् । सुरसरित्पयसां निचये पूरे विषये वेतसवनेन वानीरवनेनाचरिताम् । 'अथ वेतसे । रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः' इत्यमरः । समृद्धिकरीं श्रेयस्करीम् । लोके यथादृष्टामित्यर्थः । प्रणतिं ददर्श । या सर्वलोकदृष्टान्तभूतेति भावः ।।

प्र[१०१]बभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयमिव संहतिमत्स तरङ्गर[१०२]ङ्गि कलहंसकुलम् ॥६॥

  प्रवभूवेति ॥ सोऽर्जुनः परितः सरोजरजसा कमलरेणुनारुणितं पाटलितम् । उत्तरीयं च कुसुमादिनारुणितं भवति । संहतिमन्नीरन्ध्रं तरङ्गरङ्गि वारितरङ्गशोभि सरिदुत्तरीयं स्तनांशुकमिव स्थितं कलहंसकुलं कादम्बकुलमवलोकयितुमलमत्यर्थं न प्रबभूव न शशाक । तत्सौन्दर्योद्वेलत्वादिति भावः ।।

दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रु[१०३]तिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥७॥

  दधतीति । सोऽर्जुनः क्षतीः क्षतानि दधति धारयति । कुतः। परिणतास्तिर्यग्दन्त- प्रहारिणो द्विरदा यस्मिंस्तस्मिन् । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । मदस्रुतिभिर्मुदितालियोषिति रोधस्यधिकां धृतिं प्रीतिं बबन्ध । निश्चली- कृतवानित्यर्थः । तथाहि । महान् रुजन्पीडयन्नपि महते गुणायोत्कर्षाय भवति । महत्कृता पीडापि शुभावहैवेत्यर्थः। तद्युक्तं गजरुग्णस्यापि रोधसःप्रीतिकरत्वमिति भावः ।।

अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥८॥

  अन्विति ॥ सोऽर्जुनोऽनुहेमवप्रं कनकसानुसमीपे । समीपार्थेऽव्ययीभावः । अरुणैः। कनककान्त्युपरञ्जनादिति भावः । पृथुभिरूर्मिभिः समतां तुल्यरूपतां गतम् । सादृश्याद्दुर्विवेच्यमित्यर्थः । सह भूतं सहचरं प्रियम् । सहशब्दस्य पचाद्यजन्तेन चरशब्देन समासः । करुणैर्दीनै रुतैः कूजितैरनुवघ्नतीमन्विष्यन्तीं रथाङ्गनामवनितां चक्रवाकीमभिननन्द । प्रकृष्टप्रेमदर्शनात्कस्य नानन्द इति भावः । अत्र तावदूर्मीणां स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणालंकार:'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात्' इति लक्षणात् । तन्मूला चेयं चक्रवाक्याः स्वकान्ते तरङ्गभ्रान्तिरिति तद्गुणम्रान्ति- मतोरङ्गाङ्गिभावेन संकरः ॥

सितवाजिने निजगदू रुचयश्चलवीचिराग़रचनापटवः ।
मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥९॥


  सितवाजिन इति ॥ चलवीचीनां रागो रञ्जनं वर्णान्तरापादनं तस्य रचना क्रिया तत्र पटवः समर्था रुचयः प्रभाः। अम्भसि निमग्नमपि भणिजालम् । स्वाश्रयभूतमिति भावः । मनोगतं स्फुरितं रोषादिविकारमाकृतयो भ्रूभङ्गादिवाह्यविकारा इव । सितवाजिनेऽर्जुनाय निजगदुः। ज्ञापयामासुरित्यर्थः । आकृत्या हि मनोगतं विचक्षणा जानन्तीति भावः॥

उपलाहतोद्धततरङ्गधृतं जविना वि[१०४]धूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितःप्रहासमिव फेनमपाम् ॥१०॥

  उपलेति ॥ उपलैराहता अतएवोद्धताश्च ये तरङ्गास्तैधृतम् । निर्गमरोध्नादित्यर्थः । जविना वेगवता मरुता वातेन विधूतं विततं च केतकस्य शिखाग्रं तद्वद्विशदमपां फेनं हिण्डीरम् । 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः। सरितःप्रहासमट्टहासमिवेत्युत्प्रेक्षा। सोऽर्जुनो ददर्श ॥

बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिवेभपतिं विकसद्विलोचनशतं सरितः ॥११॥

  बहिति ॥ बर्हिचन्द्रकनिभं मयूरमेचकसदृशम् । 'समौ चन्द्रकमेचकौ' इत्यमरः । बह्वनेकधा दानपयसां पटलम् । जातावेकवचनम् । बहवो मदाम्बुबिन्दव इत्यर्थः । अवगाढमन्तःप्रविष्टम् । गाहेः कर्तरि क्तः। इभपतिमीक्षितुं विकसदुन्मिषत्सरितो विलोचनशतमिवेत्युत्प्रेक्षा । अस्यार्जुनस्य धृतिं प्रीतिं विदधे चकार ।

प्रतिबोधजृम्भणविभिन्नमुखी पुलिने सरोरुहदशा ददृशेः।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः॥१२॥

  प्रतिबोधेति ॥ प्रतिबोधः स्फुटनं निद्रापगमश्च तत्र यज्जृम्भणमुच्छूनता जुम्भा च तेन विभिन्नमुखी विश्लिष्टाग्रा विवृतास्या च। अतएव पतन्प्रसरन्नच्छो मौक्तिकमणीनां प्रकरः स्तोमो यस्याः सा तथोक्ता । अतएव गलदश्रुबिन्दुरिव स्थितेत्युत्प्रेक्षा । शुक्तिर्वधूरिव शुक्तिवधूः। पुलिने । शयनीय इवेति भावः । सरोरुहदृशार्जुनेन ददृशे दृष्टा । अत्र प्रतिबोधादिश्लिष्टपदोपात्तानां प्रकृतानां शुत्तिवध्वोश्चोपमारूपकयोः साधकबाध- काभावात्संदेहालंकारः । तत्सापेक्षा चाशुगलनोत्प्रेक्षेति तयोरङ्गाङ्गिभावः ।

शुचिरंप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः॥

  शुचिरिति ॥ अप्सु शुचिः स्वच्छस्तनुना सान्द्रेण च फेनस्य लवेन शकलेन संवलितः संगतो विद्रुमलताया विटपः पल्लवः । 'विटपः पल्लवे खिड्गे विस्तारे स्तम्ब-


शाखयोः' इति विश्वः । स्मरदायिनः कामोद्दीपकस्य दशनांशुभृतो दन्तकान्तिकलितस्य दयिताधरस्य । 'अधीगर्थ--' इत्यादिना षष्टी । भृशं स्मरयति स्म । 'लट् स्से' इति भूतार्थे लट् । 'मितां ह्रस्वः' इति ह्रस्वः । स्मरणालंकारः ॥

उपलभ्य चञ्चलतरङ्गधृ[१०५]तं मदगन्धमुत्थितवतां पयसः।
प्रतिदन्तिनामिव स संबुबुधेकरियादसामभिमुखान्करिणः ॥१४॥

  उपलभ्येति ॥ सोऽर्जुनश्चञ्चलतरङ्गैर्धृतम् । तत्संक्रान्तमित्यर्थः । मदगन्धमुपलभ्याघ्राय पयस उत्थितवताम् । रोषादिति शेष: । कर्याकाराणां यादसाम् । शाकपार्थिवादिषु द्रष्टव्यः । प्रतिदन्तिनामिवाभिमुखान् । अभियातानित्यर्थः । करिणो गजान्संवुबुधे । ददर्शेत्यर्थः ॥

सजगाम विस्मयमुदीक्ष्य पुरःसहसा समुत्पिपतिषोःफणिनः।
प्रहितं दिविप्रजविभिःश्वसितैः शरदभ्रविभ्रममपां पटलम् ॥१५॥

  स इति ॥ सोऽर्जुनः पुरोऽग्रे सहसा समुत्पिपतिपो: समुत्पतितुमिच्छोः । पतेः सन्नन्तादुप्रत्ययः । 'तनिपतिदरिद्रातिभ्यः सन् इड्वा वक्तव्यः' इति विकल्पादिडागमः। फणिनः सर्पस्य प्रजविभिरतिवेगवद्भिः श्वसितैः फूत्कारैर्दिव्याकाशे प्रहितं प्रेरितं शरदभ्रस्य विभ्रम इव विभ्रमः सौन्दर्यं यस्य तत् । शुभ्रमभ्रव्यापकं चेत्यर्थः । अपां पटलं पुर उदीक्ष्य विस्मयं जगाम । अत्रोपमानुप्राणिता स्वभावोक्तिरलंकारः ।।

स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥१६॥

  स इति ॥ सोऽर्जुनः सैकतवतीः पुलिनवतीरभितः शफरीणां मत्सीनां परिस्फुरितान्येव चारवो दृशो यासां ताः । सुरनिम्नगां गङ्गामुपयतीर्भजन्तीः। इणः शतुरुगितत्वान्डीप् । अतएव बृहज्जघना ललिताः सखीरिव स्थिताः सरितस्ततारातिचक्रमे ॥

अधिरुह्य पु[१०६]ष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसःप्रसत्तिमिवं मूर्ध्नि गिरेःशुचिमाससाद स वनान्तभुवम् ॥१७॥

  अधिरुह्येति ॥ सोऽर्जुनोऽधिरुह्य । अर्थाद्गिरिमिति शेषः । पुष्पभरेण नम्रशिखैर्नता- ग्रैस्तरुभिः परितः परिष्कृततलां भूषितस्वरूपाम् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः। 'संपर्युपेभ्यः करोतौ भूषणे' इति सुडागमः। शुचिं शुद्धाम् । अतएव मनसः प्रसत्तिमिव मूर्तं मनःप्रसादमिव स्थिताम् ।तद्धेतौ तद्भावोत्प्रेक्षा। गिरेर्मूर्ध्नि वनान्तभुव- माससाद । अन्तःशब्दः स्वरूपवचनः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती॥


अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः॥१८॥

  अनुसान्विति ॥ अनुसानु प्रतिसानु । वीप्सार्थेऽव्ययीभावः ॥ पुष्पिताः संजातपुष्पा लताविततयो यस्सिन्सः। फलिता उरवो भूरुहा येषु तानि विविक्तानि विजनानि पूतानि वा वनानि यस्सिन्स तथोक्तः। 'विविक्तौ पूतविजनौ' इत्यमरः । अचल इन्द्रकीलो हरेस्तनयस्यार्जुनस्य तपसे तपश्चर्यार्थमधिवस्तुमधिष्ठातुम् । तनिक्रियापेक्षया समानकर्तृकत्वात्तुमुन् । अचलां धृतिमुत्साहमाततान । अत्राचलविशेषणपदार्थस्य धृतिकरणहेतुत्वात्काव्यलिङ्गमलंकारः ।।

प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनर्मुनिताम् ।
श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम्॥१९॥

  प्रणिधायेति ॥ अथ तत्रादौ विधिना योगशास्त्रानुसारेण धियं चित्तवृत्तिं प्रणिधाय ध्येयविषये धियं नियम्य । 'नेर्गद--' इत्यादिना णत्वम् । मुनितां दधतः । तपस्यत इत्यर्थः । पुरातनमुनेः । अर्जुनस्येत्यर्थः । असुकरं दुष्करं तपः श्रमं खेदं नादधौ न चकार । तथाहि । आत्मवतां मनस्विनामवसादकरमशान्तिजनकं किमिव । न किंचिदित्यर्थः । इवशब्दो वाक्यालंकारे ॥

शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥२०॥

  शमयन्निति ॥ धृतमिन्द्रियशमो विषयव्यावृत्तिरेवैकं मुख्यं सुखं येन स तथोक्तः । आत्माराम इत्यर्थः। अन्यत्र धृत इन्द्रियाणां शमः संतापनिवर्तनमेकमद्वितीयं सुखमाह्लादश्च येन स तथोक्तः । शुचिभिर्निर्मलैर्गुणैर्मैत्र्यादिभिः । अन्यत्र कान्त्यादिभिः । अधमयं पापरूपं तमोऽज्ञानम् । अन्यत्रान्धकारं च । शमयन्निवर्तयन् । विमलोऽमलिनः पापरहितः। शुभ्रोऽन्यत्र । सोऽर्जुनः प्रतिवासरं सुकृतिभिः सुकृतैः । तपोभिरित्यर्थः । स्त्रियां कीन् । कलाभिः शीतरुचिश्चन्द्र इव । ववृधे ॥

अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः।
प्रतिघातिनी विषयसङ्गतिं निरुपप्लवः शमसुखानुभवः ॥२१॥

  अधरीचंकारेति ॥ किं चेति चार्थः । विवेकस्तत्त्वावधारणं स एव गुणस्तस्मात् । तेन हेतुनेत्यर्थः । 'विभाषा गुणेऽस्त्रियाम्' इति पञ्चमी । अगुणेषु कामक्रोधादिदोषेषु विषये। तद्विरोधेन नञ्समासः । धियं चित्तवृत्तिमस्तवतो निवारितवतस्तस्यार्जुनस्य निरुपप्लवो निर्बाधः शमसुखानुभवःशान्त्यानन्दानुभवः प्रतिघातिनीं सोपप्लवां विषयसङ्गरतिं शब्दाद्युपभोगरुचिमधरीचकार । विषयनिःस्पृहं चकारेत्यर्थः । उत्कृष्टसुखलाभस्य प्रकृष्ट- वैराग्यहेतुत्वादिति भावः ॥

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः।
सहजेतरौ जयशमौ दधती बिभरांबभूव युगपन्महसी ॥२२॥

  मनसेति ॥ प्रयतोऽहिंसादिनिरतो मनसा ध्यानेन जपैर्विशिष्टमन्त्राभ्यासै: प्रणति- मिर्नमस्कारैः । एवं मनोवाक्कायकर्मभिर्दिवोऽधिपतिमिन्द्रं समुपेयिवानुपसेदिवान्सोऽर्जुनः सहजेतरौ नैसर्गिकागन्तुको । जीयतेऽनेनेति जयो वीररसः । 'एरच्' इत्यच् । शम्यतेऽनेनेति शमः। जयशमौ वीरशान्तिरसौ दधती पुष्णती महसी तेजसी युगपद्धि- भरांबभूव बभार । 'भीह्रीभृहुवाम्-' इति विकल्पादाम्प्रत्ययः । अत्र युगपद्वीरशान्ता- धिकरणत्वाभिधानादस्य लोकाद्भुतमहिमत्वं व्यज्यते ॥

शिरसा हरिन्मणिनिभः स वहन्कृतज[१०७]न्मनोऽभिषवणेन जटाः।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥२३॥

  शिरसेति ॥ हरिन्मणिनिभो मरकतमणिश्यामोऽभिषवणेन स्नानेन कृतजन्मनो जनिताः। अतः पिशङ्गीरिति भावः। जटाः शिरसा वहन्सोऽर्जुनोऽरुणस्यानूरोर्दीधितिभिः परिमृष्टमूर्धनि व्याप्तशिरसि तमालतरावुपमां तमालतरोः सादृश्यं ययावित्यार्थीयमुपमा । तरोरौपम्याधिकरणत्वात्तदपेक्षया सप्तमी ॥

धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मु[१०८]नीनधरयञ्शु [१०९]चिभिः।
रजयांचकार विरजाः स मृगान्कमिवेशते रमयितुंन गुणाः ॥२४॥

  धृतेति ॥धृतहेतिर्धृतायुधोऽप्यधृता जिह्मा मतिः कुटिलमतिर्येन सः।शुचिभिश्चरि- तैर्मुनीनधरयंस्तिरस्कुर्वन् । वेषेणैव भीषणो न तु कर्मणेति भावः। कुतः। विरजा रजो- गुणरहितः सोऽर्जुनो मृगान् रजयांचकार रमयामास । 'रञ्जेर्णौ मृगरमणे नलोपो वतव्यः' इति नलोपः । तथाहि । गुणा दयादयः कमिव । रमयितुं नेशते । कं वा वशीकर्तुं न शक्नुवन्तीति भावः। शुद्धिरेव हि परं विश्वासबीजं परस्य, न वेपो नापि संस्तव इति भावः ॥ अथास्य त्रिभिस्तपःसिद्धिमाह-~-अनुकूलेत्यादिना ॥

[११०]नुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥२५॥

  अनुकूलपातिनं न तु प्रतिकूलपातिनमचण्डगतिं मन्दगामिनं सुगन्धिम् । गन्धस्येत्वे तदेकान्तग्रहणेऽपि कवीनां निरङ्कुशत्वात्समासान्तः । अथवा केचिदागन्तुकत्वेऽप्येकवचनेन समासान्तमिच्छन्ति । पवनमभितः किरता। प्रवर्तयतेत्यर्थः । ऋतुरस्य


प्राप्त आर्तवः। 'ऋतोरण्' इत्यण्प्रत्ययः। स चासौ गुणस्तिग्मत्वरूपः सोऽवधीरितस्तिरस्कृतो यस्य तमंशुमतो रुचां निचयं सुखतां सुखस्पर्शतां नयता प्रापयता । नयतेर्द्विकर्मकत्वम् ॥

नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥२६॥

  नवेति ॥ प्रचये पुष्पावचयप्रसङ्गे नवपल्लवा एवाञ्जलयस्तान्बिभ्रतीति तथोक्तान्बृहत उच्चांस्तरूनवनतिं नम्रतां गमयता । 'गतिबुद्धि---'इत्यादिना तरूणां कर्मत्वम् । प्रतिनिशं निशि निशि शयनीयतामुपयतीम् । शयनस्थानभूतामित्यर्थः । वसुधां मृदुभिस्तृणैः स्तुणताच्छादयता।

पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः।
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥२७॥

  पतितैरिति ॥ अपेतजलदान्निरभ्रान्नभसः पतितैरपां पृषतैर्जलबिन्दुभी रजश्च शमयता तपसा कर्त्रा दयालुनेवेत्युत्प्रेक्षा । दयालुत्वे हेतुं सूचयति-परिगाढकृशोऽतिक्षीणः सोऽर्जुनः परिचर्ययोक्तविधया शुश्रूषयानुजगृहेऽनुगृहीतः । अनुग्रहोऽत्र सहकारित्वमेव सर्वभूतानुकूल्यलिङ्गात्पचेलिमं तपोऽस्येति भावः । अस्य श्लोकत्रयस्या- प्येकवाक्यत्वादुत्प्रेक्षैव प्रधानालंकारः॥

महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः।
न जगामविस्मयवशं वशिनां न नि[१११]हन्ति धैर्यमनुभावगुणः॥२८॥

  महत इति ॥ सोऽर्जुनो महते फलाय श्रेयसे सस्याय च विकसत्पूर्वोक्तं शिवं सुखदं तन्निमित्तमेव कुसुमं पुरोऽग्रेऽवेक्ष्य विस्मयवशं न जगाम । तथाहि । वशिनामनुभाव एव गुणः स च धैर्यं न निहन्ति । विस्मयादिविकारं न जनयतीत्यर्थः । जनने वा तपः क्षीयेत । 'तपः क्षरति विस्मयात्' इति स्मरणादिति भावः॥

तदभूरिवासरकृतं सृकतैरुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरा[११२]स्थितविषादधियः शतयज्वनो वनचरावसतिम्॥२९॥

  तदिति ॥ सुकृतैस्तपोभिः करणैः अभूरिभिः कतिपयैरेव वासरैः कृतं तत्पूर्वोक्तं वैभवमतोऽन्यस्य न भवतीत्यनन्यभवम्। अन्यस्यासंभावीत्यर्थः । पचाद्यजन्तोत्तरपदेन नञ्समासः। उपलभ्य निश्चित्यास्थितविषादाः प्राप्तखेदा धियो येषां ते वनचराः।'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणाल्लुक् । शतेन शतस्य वा मखानां यज्वनः शतक्रतोः । अत्र संख्येयविशेषलाभो यजिसंनिधानादवगन्तव्यः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' । वसतिमुपतस्थुः प्रापुः ॥


विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ।
अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥३०॥

  विदिता इति ॥ वनचरा इत्यनुवर्तनीयम्। विदिता ज्ञाताः । अनुमतप्रवेशाः सन्त इत्यर्थः । प्रविश्य विहितानतयः कृतप्रणामा अधिकृतकृत्यस्य नियुक्तकर्मणः शैलरक्षणा- त्मकस्य विधावनुष्ठाने शिथिलीकृते सति । अनपेतकालमनतिक्रान्तकालं यथा तथा गोत्रभिदे शकायेति वक्ष्यमाणप्रकारेणाभिरामकथाः श्राव्यवाचः । 'चिन्तिपूजिकथि- कुम्बिचर्चश्च' इत्यङ्प्रत्ययः । कथयांबभूवुः ॥

शुचिवल्कवीतत[११३]नुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्ननघ: पुरुषस्तपस्यति तपञ्जगतीम् ॥३१॥

  शुचीति ॥ शुचिना वल्केन वल्कलेन वीताच्छादिता ततुर्यस्य सः।तिमिरच्छिदांसू- र्यादीनामन्यतम इव स्थित इत्युत्प्रेक्षा । अनघ: पुरुषः। हे मघवन्, भवतो गिराविन्द्रकीले जगतीं भुवं तपंस्तापयन्महते जयाय तपस्यति तपश्चरति । 'कर्मणो रोमन्थ-' इत्यादिना क्यङि लट् ॥ जयाय तपस्यतीत्युक्तम् । तत्र हेतुमाहुः--

स बिभर्ति भीषणभुजंगभुजः पृथु विद्विषां भयविधायि धनुः।
अमलेन तस्य धृ[११४]तसच्चरिताश्चरितेन चातिशयिता मुनयः॥३२॥

  स इति ॥ भीषयेते इति भीषणौ । नन्द्यादित्वाल्युप्रत्ययः । तौ च तौ भुजंगौ च ताविव भुजौ यस्य स तथोक्तः पुरुषो विद्विषां भयविधायि पृथु धनुर्बिभर्ति । अतो जयार्थीत्यर्थः । अमलेन तस्य पुरुषस्य चरितेन धृतानि सञ्चरितानि यैस्ते मुनयोऽतिशयिता अतिक्रान्ताः॥ अथास्य तपःसिद्धिं वर्णयन्ति-मरुत इत्यादिना ॥

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् ।
गुणसंपदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणं ॥३३॥

  मरुतो वार्ताः शिवाः सुखाः । जगती पृथ्वी नवतृणा । शयनासनाद्यनुकूलेत्यर्थः । नभो विमलं नीहारादिरहितम् । रजसि सत्यपां वृष्टिः। भवतीति शेषः । किं वहुना। अस्य पुरुपस्य गुणसंपदा भूतहितादिगुणसंपत्त्यानुगुणतामनुकूलतां गमितः । वशीकृत इत्यर्थः । भूतगणः पृथिव्यादिपञ्चकं भक्तिं सेवां कुरुत इवेत्युत्प्रेक्षा ॥

इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः॥३४॥


  इतरेतरेति ॥ किं च । मृगाः पशवस्तम् । अन्तेऽन्तिके सीदन्तीत्यन्तसदोऽन्तेवासिनः। 'सत्सूद्धिष-' इति क्विप् । गुरुमिवेतरेतरेषामनभिभवेनाद्रोहेणोपासते सेवन्ते । प्रचये पुष्पावचये तरवोऽस्य विनमन्ति । करप्रचेया भवन्तीत्यर्थः । अस्येति संबन्धसामान्ये षष्ठी। किं बहुना । स नग इन्द्रकीलो भवतेव तेन पुरुषेण परवान्पराधीनः सात्विकस्यापि तवेव तस्यातिशयो वर्तत इत्यर्थः ॥

उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥३५॥

  उर्विति ॥ किं च । विपरिश्रमतायासेऽपि श्रमराहित्यमुरु महत्सत्त्वमन्तःसारमाह। दुर्बलस्य श्रमजयासंभवादिति भावः । परममुत्तमं वपुर्जयं प्रथयति च । आकारेणैव, जिष्णुत्वं गम्यत इत्यर्थः । शमिनः शान्तस्यापि तस्य नवसंगमनेऽपूर्वप्राप्तौ जनो विभुतायाः प्रभावस्यानुषङ्गि व्यापकम् । न तु हिंस्रकत्वानुषङ्गीति भावः । भयमेति । शान्तोद्भवं प्रभावं गमयतीति भावः ॥   अथेदृशोऽसौ क इति चेत्तन्न विद्म इत्याहु:----

ऋषिवंशजःस यदि दैत्यकुले यदि वान्वये महति भू [११५] मिभृताम् ।
चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् ॥३६॥

  ऋषीति ॥ स पुरुषः । ऋषिवंशजो वेति शेषः। काकुर्वा । यदि वा दैत्यकुले । जात इति शेषः। यदि वा महति भूमिभृतामन्वये जातः। तव वनेषु तपश्चरतोऽस्य गतिं स्वरूपं निरूपयितुं वयम् । सहन्त इति सहाः । पचाद्यच् । न सहाः । स्म इति शेषः ।   अपृष्टपरिभाषणापराधं परिहरन्ति--

विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया ।
असदप्यदः सहितुमर्हसि नःक्व वनेचराः क्व निपुणा मतयः ॥३७॥

  विगणय्येति ॥ अनेकगुणं वहुफलम् । इन्द्रत्वाद्यनेकफलसाधकत्वेन योग्यमित्यर्थः। कारणं तपोरूपं विगणय्य विचार्य । अथवा निजया नैसर्गिक्याल्पतया बालिश्येनाज्ञानत्वेन वा कथितं नोऽस्माकमद इदम् । वचनमित्यर्थः । असदसाध्वपि सहितुं सोढुम् । 'तीषसह-" इत्यादिना विकल्पादिडागमः । अर्हसि योग्योऽसि । तर्हि सदेव किं नोक्तम् तत्राहुः । वनेचराः क्व, निपुणा मतयो विवेकबुद्धयः क्व । नोभयं संगच्छत इत्यर्थः । अज्ञानं नापराध्यतीति भावः । अर्थान्तरन्यासोऽलंकारः ॥

[११६]धिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥३८॥


  अधिगम्येति ॥ मघवेन्द्र इति पूर्वोक्तं गुह्यकगणात्तन्मनस: प्रियं प्रियसुतस्यार्जुनस्य तपोऽधिगम्य ज्ञात्वा । गुप्त्यपेक्षया समानकर्तृकत्वात्क्त्वानिर्देशः । उदितं तत्तपसो देवकार्यार्थत्वादुत्पन्नं हर्षं निजुगोप गोपायामास । तथा हि । प्रभवतां प्रभूणां धियो नयवर्त्मगा नीतिमार्गानुसारिण्यो हि। अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः॥

प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः।
उपलब्धुमस्य नि[११७]यमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥३९॥

  प्रणिधायेति ॥ अथ हरिरिन्द्रश्चित्तं प्रणिधाय विषयान्तरपरिहारेणात्मन्यवस्थाप्य तत्र तस्मिन्नर्जुने भक्ततया विदिते सत्यपि । उपलक्षणे तृतीया । अपूर्व इव । अविदित इवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न स्मिन्नादेशः । अस्यार्जुनस्य नियमस्थिरतां दार्ढ्यमुपलब्धुम् । परीक्षितुमित्यर्थः । लोकप्रतीत्यर्थमिति भावः । सुरसुन्दरीरिति वक्ष्यमाणप्रकारं वचोऽभिदधे ॥

सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया।
[११८]विपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥४०॥

  सुकुमारमिति ॥ मर्मभिदां मर्मच्छेदिनाम् । अस्त्रान्तराणां मध्य इत्यर्थः । 'यतश्च निर्धारणम्' इति षष्टी । अपरमन्यत्कतमत् । 'वा बहृनां जातिपरिप्रश्ने डतमच्' । यूयमिव सुकुमारं कोमलं न तु कठिनम् । अन्यत्तु कठिनं भवति । तथैकं न बहु । तत्त्वनेकं भवति।तथाणु सूक्ष्मं न स्थूलम् । अलक्ष्यलक्ष्यप्रवेशित्वादिति भाव:। तत्तु लक्ष्यलक्ष्यप्रवेशि । तथातिदूरगं दूरलक्ष्यभेदि । तत्तु समीपलक्ष्यभेदि । तथामोघतयामोघत्व- गुणेन युतं युक्तम् । न कदाचिद्व्यभिचरतीति भावः । अन्यत्तु कदाचिदपि लक्ष्यादपराध्यति । तथाविपक्षमसत्प्रतिकारम् । अन्यतु विद्यमानप्रतीकारम् । चित्तभुवः कामस्य । कर्तरि षष्ठी । विजयाय । एतद्विशेषणविशिष्टमस्त्रमस्तीति शेषः। न किंचिद- स्तीत्यर्थः । अत्रोपमालंकारः । साभिप्रायविशेषणत्वात्परिकरालंकारश्च । तयोरुभयो- रङ्गाङ्गिभावेन संकरः ॥   असामर्थ्यशङ्कां परिहरति-

भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् ।
परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः॥४१॥

  भवेति ॥ भवधीतये संसारनिवृत्तये हतबृहत्तमसां निरस्तमहामोहानां योगिनां संबन्धि रजो गुणः। रजो धूलिरिति श्लिष्टरूपकम् । तस्य शमनं निवर्तकमवबोधस्तत्त्वज्ञा- नमेव वारि तद्यो युष्माकमसकलैरसमग्रैर्नयनान्येवाञ्जलयस्तैः परिपीयमाणमिवेत्युत्प्रे-


क्षा । अवसादं क्षयमेति । मुक्तानपि बध्नतीनां वः कथमसामर्थ्यमिति भावः । अत्रोत्प्रे- क्षारूपकयोः संकरः॥

बहुधा गतां जगति भूतस्मृजा कमनीयतां स[११९]मभिहृत्य पुरा।
उपपादिता विदधता भवतीःसुरसद्मयानसुमुखी जनता॥४२॥

  बहुधेति ॥ किं च । पुरा जगति बहुधा गतां नानामुखेन विप्रकीर्णां कमनीयतां चन्द्राद्युपमानद्रव्यगतलावण्यं समभिहृत्य संगृह्य भवतीर्विदधता सृजता भूतसृजा ब्रह्मणा जनता जनसमूहः। 'ग्रामजन-' इत्यादिनातल् । सुरसद्मयानसुमुखी स्वर्लोकयात्रा- प्रवणोपपादिता कृता । स्वर्गस्यापि यत्प्रसादात्सर्वलोकश्लाघ्यत्वम् । तासां वः कथम- सामर्थ्यमिति भावः । अत्राप्सरसां प्रकीर्णलावण्यसंग्रहासंबन्धेऽपि तत्संबधाभिधा- नादतिशयोक्तिः॥   अथ कार्यांशमाह -

तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताःसचिवैः।
हृतवीतरागमनसां ननु वःसुखसङ्गिनं प्रति सुखा[१२०]वजितिः ॥४३॥

  तदिति ॥ तत्तस्मात्समर्थत्वात्कालासु गीतवाद्यादिषु कृतिभिः कुशलैः सचिवैर्गन्धर्वैः सहिता उपेत्य गत्वा तस्य पुरुषस्य तपो विघ्नयत विघ्नवत्कुरुत । विहतेत्यर्थः । विघ्नवच्छब्दान्मत्वन्तात् 'तत्करोति' इति णिचि लोट् । णाविष्टवद्भावान्मतुपो लुक् । न चात्रासामर्थ्यशङ्का कार्येत्यर्थान्तरन्यासेनाह-हृतेति । ननु संबोधने । हे अप्सरस:, हृतानि वशीकृतानि वीतरागाणां निस्पृहाणां मुमुक्षूणां मनांसि चित्तानि याभिस्तासां वो युष्माकमप्सरसां सुखसङ्गिनं पुरुषं प्रति सुखाभिलाषिणं प्रत्यवजितिर्विजयः सुखा सुखसाध्या न तु दुष्करा खलु । एतेनायसुखार्थी न मुमुक्षुरित्युक्तम् । अर्थान्तरन्यासः॥   अथ सुखसङ्गित्वलिङ्गमाह-

अविमृष्यमेतदभिलष्यति स द्विषतां वधेन वि[१२१]षयाभिरतिम् ।
भववीतये नहि तथा स विधिः क्वशरासनं क्व च विमुक्तिपथः ॥४४॥

  अविमृष्येति ॥ हे अप्सरसः, स पुरुषो द्विषतां शत्रूणां वधेन शत्रुहननद्वारा विषयाभिरतिं विषयसुखमभिलष्यति वाञ्छति । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः। एतद्विषयासक्तत्वमविमृष्यमविचार्यम् । अविमृष्यमसंदिग्धव्यमिति । 'ऋदुपधाच्चक्ळृपिचृतेः' इति क्यम् । भवतीभिर्न संदिग्धव्यमित्यर्थः । हि यस्मात्स विधिः स बिभर्ति भीषणभुजङ्गभुजः' इत्यादिश्लोकोक्त्तोऽनुष्ठानप्रकारो भववीतये संसारमुक्तये न भवति । कुत इत्याह-शरासनं धनुः क्व, विमुक्ते: पन्थाश्च क्व । द्वयं परस्परं विरुद्धमित्यर्थः । न खलु हिंसासाध्या मुक्तिरिति भावः । अर्थान्तरन्यासोऽलंकारः ॥


  न च शापभयमपि संभाव्यमस्मादित्याह---

पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः ॥४५॥

  पृथ्विति॥ पृथुधाम्निमहातेजसि तत्र तस्मिन्पुरुषविषयेऽन्यमुनिवदन्यस्मिन्मुनाविव। 'तत्र तस्येव' इति वतिप्रत्ययः । विकृतिः कोपविकारश्च भवतीभिर्मा परिबोधि मा विज्ञायि। मा शङ्कीति यावत् । बुध्यतेः कर्मणि लुङ् । माङ्योगादाशीरथैऽडागमाभावश्च । तथा हि । स्वयशांस्यवतां रक्षताम् । यशोधनानामित्यर्थः । विक्रमवतां धियश्चित्तानि वधूषु स्त्रीविषयेष्वधानि व्यसनानि । 'दुःखैनोव्यसनेष्वधम्” इति वैजयन्ती। न विमृषन्ति। अर्थान्तरन्यासः। स्त्री हिंसायाः शूराणां यशोहानिकरत्वान्न सर्वथा वो हिनस्ति स इत्यर्थः ॥

आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भ[१२२]र्तुः ।
लेभे परां द्युतिममर्त्यवधूसमूहः संभावना ह्यधिकृतस्य तनोति ते[१२३]जः॥ ४६ ॥

  आशंसितेति ॥ अमर्त्यवधूसमूहोऽप्सरसां गणः सुराणां पुरोग्र आशंसित्तापचिति- भिरपेक्षितसंभावनाभिश्चारु यथा तथा । 'क्षयार्चयोरपचितिः' इत्यमरः । अभिमुखं समक्षं भर्तुः स्वामिन इति पूर्वोक्तमादेशं नियोगं समवाप्य परां द्युतिं लेभे । तथा हि । अधिकृतस्य क्वचिदधिकारे नियुक्तस्य संभावना स्वामिकृता पूजा तेजः कान्तिं तनोति॥

प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥४७॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षष्ठ: सर्गः ।

  प्रणतिमिति ॥ अथ प्रणतिं विधाय सद्मन इन्द्रभवनात्प्रस्थिताः प्रचलिताः स्तनभरैर्न- मितान्यङ्गानि यासां ताः । 'अङ्गगात्रकण्ठेभ्यो वक्तव्यम्' इति ङीप् । प्रीतिभाजः स्वामिसंभावनया संतुष्टास्ता अङ्गना अचलनलिनानां स्थिरकमलानां लक्ष्मीर्हरतीति तत्तथोक्तम् । तद्वन्मनोहरमित्यर्थः । कुतः स्तिमितं विस्मयंनिश्चलममरभर्तुरक्ष्णां सहस्त्रं


कर्तृ द्रष्टुमलं समर्थं न बभूव । तासां सौन्दर्यसागरस्योद्वेलत्वादिति भावः । अत्रोपमालंकारः॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयका- व्यव्याख्यायां घण्टापथसमाख्यायां षष्ठः सर्गः समाप्तः।।


सप्तमः सर्गः।


श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः।
संमूर्च्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः॥१॥

  श्रीमद्भिरिति ॥ अथ प्रस्थानानन्तरं श्रीमद्भिः शोभावद्भिः। सह रथगजेन सरथ- गजास्तैः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । त्रयाणां लोकानां भर्तुस्त्रिलोक- भर्तुरिन्द्रस्य । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । सचिवैर्गन्धर्वैर्गुप्तानां सुराङ्गनानां प्रस्थानं गमनमलघुषु महत्सु विमानरन्ध्रेषु विमानानां कुक्षिकुहरेषु भिन्नः प्रतिध्वानैरनेकीभूतोऽतएव संमूर्च्छन्व्याप्नुवन्मृदङ्गनादः समभिदध आचख्यौ। पौरेभ्य इति शेषः । अस्सिन्सर्गे प्रहर्षिणीवृत्तम्-'म्नौज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इतिलक्षणात्॥

सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥२॥

  सोत्कण्ठैरिति ॥सोत्कण्ठैः । अवेक्षणोत्सुकैरित्यर्थः । अमरगणैरनुप्रकीर्णादाकीर्णा- ज्ज्वलितरुचो दीप्तप्रभान्मघोन इन्द्रस्य पुरादमरावत्या निर्याय निर्गत्य । यातेः क्त्वो ल्यप् । विवस्वत उपरि स्थितानां रामाणाम्। आतपात्त्रायन्त इत्यातपत्रैः। 'सुपि-'इति योगविभागात्कप्रत्ययः । चरितगुणत्वं सार्थकत्वं नासेदे न प्रापे । तासां सूर्योपरिस्थि- तत्वादातपासंभवादिति भावः ॥

धूतानामभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम्।
आनिन्ये म[१२४]दजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥३॥

  धूतानामिति ॥ अभिमुखपातिभिः समीरैः प्रतिकूलवायुभिर्धूतानामिति दुर्निमित्तसूचनम्। आयासाद्गतिप्रयासादविशदलोचनोत्पलानां वधूनामुष्णांशुद्युतिजनित आतपकृतः। कपोलानां रागः पाटलत्वम् । मदेन जनितां श्रियम्। तत्सदृशीं श्रियमित्यर्थः। अत एव निदर्शनालंकारः । आनीन्य आनीतवान् । वधूरिति शेषः। आङ्पूर्वान्नयतेः कर्तरि लिट् । अकारानुबन्धत्वादात्मनेपदम् ॥


तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनामसति विवर्तने रथौघैरासेदे वि[१२५]यति विमानवत्प्रवृत्तिः॥४॥

  तिष्ठद्भिरिति ॥ कथमपि बाढम् । 'कथमादि तथाप्यन्ते यत्ने गौरवबाढयोः इति वैजयन्ती । देवतानामनुभावात्तिष्ठद्भिः। अपतद्भिरित्यर्थः । रथविशेषणमेतत् । प्रजविभिर्वेगवद्भिस्तुरङ्गैरायतं दूरमाकृष्टै रथौधैर्वियत्याकाशे नेमीनां चक्रधाराणाम् । 'चक्रधाराप्रधिर्नेमिः' इति यादवः। विवर्तने भ्रमणेऽसति विमानवद्विमानानामिवेत्युपमा । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रवृत्तिर्गतिरासेदे प्राता । सदेः कर्मणि लिट् ॥

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्रेषु च्व्युततिलकेषु मौक्तिकाभः।
संपेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥५॥

  कान्तानामिति ॥ कान्तानां स्तनानामङ्गरागे कृतपुलको जनितोद्भेदः । कृतरोमाञ्च इत्यर्थः । च्युताः प्रमृष्टास्तिलका येषां तेषु वक्रेषु मौक्तिकाभः श्रमसलिलोद्गमः स्वेदोद्भेदो विभूषा भूषणं संपेदे संपन्नः । कर्तरि लिट् । तथाहि । रम्याणां स्वभावसुन्दराणां विकृतिरपि श्रियं तनोति । अतः स्वेदस्यापि विभूषणत्वमुपपद्यत इति भावः ॥

राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिःस्फुटगतिभिर्वजांशुकानां।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥६॥

  राजद्भिरिति॥मरुतां पथ्याकाशे राजद्भिर्दीप्यमानैरभिन्नरूपैरविच्छिन्नाकारैरत एवोल्कानामर्चीषीव स्फुटगतीनिदीप्तमार्गाणि येषां तैः। कनकस्य निकाषः कषणं तस्य राजी रेखा तद्वदौरैररुणैः। 'गौरः पीतेऽरुणे श्वेते' इति विश्वः । ध्वजांशुकानां तेजोभिः पताकाकान्तिभिरायामस्तेषामेव दैर्घ्यं सातिरेकः सातिशयः क्रियते सेव कृत इव । दीर्घा ध्वजपटाः स्वतेजःप्रसारेण दीर्घतमा इव लक्ष्यन्त इवेत्युत्प्रेक्षा । सा चोल्काद्युप- मानुप्राणिता ॥

रामाणामवजितमाल्यसौकुमार्ये संप्राप्ते वपुषि सहत्वमातपस्य ।
गन्धर्वैरधिगतविस्मयै: प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥७॥

  रामाणामिति ॥ मालैव माल्यं तस्य सौकुमार्यमवजितं येन तस्सिन् । कुसुमादपि सुकुमार इत्यर्थः । रामाणां वपुष्यातपस्य । कृद्योगे कर्मणि षष्ठी। सहत इति सहः क्षमः। पचाद्यच् । तस्य भावः सहत्वम् । तत्संप्राप्ते सत्यधिगतविस्मयैः संप्राप्ताश्चर्यैर्गन्धर्वैर्वि- धातुर्विधिषु सृष्टिषु कल्याणी साधीयसी । उपकारकत्वादिति भावः । विचित्रता नानाविधत्वं प्रतीयेऽवगता ज्ञाता । प्रतिपूर्वादिणः कर्मणि लिट् ॥


सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतहृदैः पयोदैः ॥८॥

  सिन्दूरैरिति । सिन्दूरैर्नागसंभवाख्यै रागद्रव्यैः। 'सिन्दूरं नागसंभवम्' इत्यमरः । कृतरुचयः । अलंकृता इत्यर्थः। सह हेम्न: कक्ष्याभिर्मध्येभबन्धनैः सहेमकक्ष्या:।'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। 'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । स्रोतोभिः सप्तभिर्मदनाडीभिः । 'करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदच्युतिः' इति पालकाप्ये । करान्नासारन्ध्राभ्यामित्यर्थः । मदं क्षरन्तो वर्षन्तस्त्रिदशगजा अरुण- स्यार्कस्यांशूनां रागेणारुण्येन भिन्नैः संसृष्टैर्वर्षद्भिः स्फुरितशतहदैः स्फुरिततडित्कैः पयोदैः सादृश्यं ययुरित्युपमालंकारः ॥

अत्यर्थ दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानामुपरिचितामिवैकवेणीं रम्योर्मि त्रिदशनदीं ययुर्बलानि ॥९॥

  अत्यर्थमिति ॥ बलानि सैन्यान्यत्यर्थं दुरुपसदाहुःसहादहिममयूखमण्डलस्य सूर्य- बिम्बस्य पर्यन्तात्समीपाद्दूरमपेत्यागत्याशानामुपरिचितां गुम्फितामेकवेणीमिव स्थितामित्युत्प्रेक्षा। रम्या ऊर्मयस्तरङ्गा भङ्ग्यश्च यस्यास्तां त्रिदशनदीं मन्दाकिनीं ययुः प्रापुः ॥

आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्धूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥१०॥

  आमत्तेति ॥ आमत्तैर्भमरकुलैराकुलान्युद्भूतान्युत्थापितानि ग्रथितान्यन्योन्यसंबद्धानि च रजांसि येषु तानि पङ्कजानि धुन्वन्कम्पयन् । सुरभिरित्यर्थः । गगननदीतरङ्गै शीतो मातरिश्वा वायुः। कान्तानां संतापं विरमयति स्म शमयामास । मातर्यन्तरिक्षे श्वयतीति मातर्याश्वयतीति वेति नैरुक्ताः ॥

संभिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्ती: ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्त[१२६]स्खलितविवर्तनं पयोभिः ॥११॥

  संभिन्नैरिति ॥ इभतुरगावगाहनेन हस्त्यश्वावलोडनेन संभिन्नैः संक्षुभितैः सुरापगायाः पयोभिः कर्तृभिः पदवीमनु । पदव्यामित्यर्थः । 'लक्षणेत्थंभूत-' इत्यादिना कर्मप्रवचनीयत्वाद्द्वितीया । उर्वीर्विपुला विमानपङ्क्ती: प्राप्य । तदेव पूर्वं तत्पूर्वमिदं प्रथमं यथा तथाकाशगङ्गायास्तटाभावादिति भावः । वप्रान्तेषु रोधोभूमिषु स्खलि- तानि तैर्विवर्तनं प्रत्यावृत्तिर्वप्रान्तस्खलितविवर्तनं तटान्तस्खलनप्रतिवर्तनम् । 'वप्रः पितरि केदारेवप्रःप्राकाररोधसोः' इति वैजयन्ती। प्रतिविदधे चक्र इत्यतिशयोक्तिः।।

क्रान्तानां ग्रहचरितात्पथो रथानामक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः संपीडक्षुभितजलेषु तोयदेषु ॥१२॥


  क्रान्तानामिति ।। ग्रहै:। सूर्यादिभिश्चरितादाश्रितात् । कर्मणि क्तः। पथो मार्गात्क्रान्तानां निष्क्रान्तानामक्षाश्चक्राधारा दारुविशेषास्तेषामग्रै: क्षता दारिताः सुरवेश्मवेदिका यैस्तेषां रथानां प्रधिभिर्नेमिभिश्चक्रान्तै: । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ' इत्यमरः । संपीडेन नोदनेन क्षुभितानि जलानि येषां तेषु तोयदेषु निःसङ्गमप्रतिघातं यथा तथा विवृत्तिः परिभ्रमणमुपाददे स्वीकृतेत्यतिशयोक्तिः स्वभावोत्या संसृज्यते ॥

तप्तानामुपदधिरे विषाणभिन्नाःप्रह्लादं सुरकरिणां धनाः क्षरन्तः।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥१३॥

  तप्तानामिति ॥ विषाणभिन्ना गजदन्तक्षताः। 'विषाणं दन्तशृङ्गयोः' इति हलायुधः। अत एव क्षरन्तः स्त्रवन्तो घनास्तप्तानां सुरकरिणां प्रह्लादमुपदधिरे चक्रिरे । तथाहि । परोपकारे युक्तानामासक्तानां महतां सतां रुजत्स्वपि पीडयत्स्वपि विषये कल्याणी हितकारिणी खलु प्रवृत्तिर्व्यापारो भवतीत्यर्थान्तरन्यासोऽलंकारः। ततो युक्तं मेघानां गजदन्तक्षतानामपि तदाह्लादत्कवमिति भावः ॥

संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूर्वोः॥१४॥

  संवातेति ॥ संवाता संवहता। वातेर्गत्यर्थाच्छतृप्रत्ययः।अनिलेन । कामिनेवेति भावः । दिव्यस्त्रीणां जघनेषु वरं श्रेष्ठं यदंशुकं तस्मिन्विवृत्तिमपसारं मुहुर्नीयमाने सति पर्यस्यत्प्रसर्पत्पृथु विशालं मणिमेखलांशुजालमूर्वोर्युतकं चल्लनाख्यमिव।'युतकं संश्रये युग्मे यौतके चल्लनेऽपि च' इति विश्वः । अन्तरे भवमन्तरीयमधोंऽशुकम् । 'गहादिभ्यश्च' इति छप्रत्ययः । 'अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके' इत्यमरः। संजज्ञे संजातम् । जनिधातोः कर्तरि लिट् । उत्प्रेक्षालंकारः ॥

प्र[१२७]त्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ॥१५॥

  प्रतीति ॥ तुषारपातैः शीकरवर्षैः । 'तुषारौ हिमशीकरौ' इति विश्वः । प्रत्यार्द्रीकृततिलका मार्जितविशेषका अपि शमितपरिश्रमाः प्रह्लादमानन्दं दिशन्तः पयोदाः कान्तानाम् । कर्तरि षष्ठी । बहुमतिं संमानमाययुः । तथाहि । अल्पीयानल्पो' दोषो बहु प्रभूतं सुकतमुपकारं न हिनस्ति न हन्ति । अर्थान्तरन्यासोऽलंकारः ॥

यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले।
आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥१६॥


  यातस्येति ॥ ग्रथिततरङ्गं बद्धोर्मि यत्सैकतं तस्याभेवाभा यस्य तस्मिन्विगतानि पयांसि यस्मात्तस्मिन्विपयसि निर्जले। 'शेषाद्विभाषा' इत्यादिना विकल्पान्न समासान्तः। उरःप्रभृतिपाठस्तु पयःशब्दस्यैकवचनान्तस्यैवेति न कश्चिद्विरोधः। वारिवाहजाले मेघवृन्दे विच्छेदं त्रुटिं यातस्य सुरधनुष इन्द्रचापस्य त्रिदशवधूजनाङ्गभाजां मणीनाम्। तदङ्गसङ्गिविभूषामणीनामित्यर्थः । प्रभाः कान्तयः संधानमातेनुश्चक्रुः । अत्राभरणप्रभाणामिन्द्रधनुःसंधानासंबन्धेऽपि संबन्धाभिधानादतिशयोक्तिरलंकारः ॥

संसिद्धावितिकरणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम्।
आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकील: ॥१७॥

  संसिद्धाविति ॥ संसिद्धौ कार्यसिद्धिविषय इतीत्थंभाविना प्रकारेण । कर्तव्यमिति करणीयं तेन संनिबद्धै:। संयोजितैरित्यर्थः।आलापैराभाषणैरुपलक्षितया।'स्यादाभाषणमालापः' इत्यमरः। दशशतानि संख्या येषु तानि लोचनानि यस्य सः । सहस्रलोचन इत्यर्थः । तस्य ध्वजिन्या सेनया पिपतिषतां पक्षिणां वीथीं मार्गम्। 'पित्सन्तो नभसङ्गमाः' इत्यमरः। 'तनिपति-'इत्यादिना विकल्पादिडागमः।विलङ्घ्य जीमूतैर्जीवस्योदकस्य मूतः पटबन्धो येषां ते तैः। पृषोदरादित्वात्साधुः । अपिहितसानुराच्छादिततटः। उन्नत इत्यर्थः । इन्द्रकील आसेदे प्राप्तः । सीदतेः कर्मणि लिट् ॥

आकीर्णा मुखनलिनैर्विलासिनीनामुद्धूतस्फुटविशदातपत्रफेना।
सा तूर्यध्वनितगभीरमा[१२८]पतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥१८॥

  आकीर्णेति ॥ विलासिनीनांमुखनलिनैः । उपमितसमासः । आकीर्णा व्याप्ता उद्भूतान्यूर्ध्वमुत्क्षिप्तानि स्फुटान्यसंकुचितानि विशदातपत्राणि श्वेतच्छत्राणि फेना इव यस्यास्तथोक्ता तूर्यध्वनितैर्वाद्यघोषैर्गभीरं यथा यथा भूभर्तुरिन्द्रकीलस्य शिरस्यापतन्ती सा सेना नभोनदीव रेजे।

सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥१९॥

  सेतुत्वमिति ॥ पयोमुचां विताने सेतुत्वं दधति सति संरम्भादोटापाज्जवेनाभिपततः। मेघवृन्दमधरीकृत्य धावत इत्यर्थः । तथाभूतान् रथान्नियमितैराकृष्टै रश्मिभिः प्रग्रहैर्भुग्ना आकुंञ्चिता घोणाः प्रोथा येषां तैः । 'कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रम्' इत्यमरः । 'किरणप्रग्रहौ रश्मी' इत्यमरः।'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः। अवनमन्तीत्यवनामिनोऽवनतपूर्वकायास्तुरङ्गाः कृच्छ्रेण महता प्रयत्नेन क्षितिमा- निन्युरिति स्वभावोक्तिः ॥


माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रै:॥२०॥

  माहेन्द्रमिति ॥माहेन्द्रंनगममित इन्द्रकीलाभिमुखम् । 'अभितःपरितः-'इत्यादिना द्वितीया। दिवोऽन्तरिक्षात्पतन्तोऽवतरन्तः पर्यन्तस्थिताः पार्श्वस्था जलदा येषां ते करेणुवर्या: करेणुषु वर्याः । श्रेष्ठा इत्यर्थः। 'ननिर्धारणे' इति षष्ठीसमासनिषेधात् सप्तमी' इति योगविभागात्सप्तमीसमासः। निलयने स्थाने निष्प्रकम्पपक्षैर्निश्चलपत्रैर्जलनिधि- शायिभिर्नगेन्द्रैर्मैनाकादिभिः सादृश्यमाजग्मुरित्युपमा ॥

उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आमूलादुपनदि सैकतेषु लेभे सा[१२९]मग्री खुरपदवी तुरङ्गमाणाम् ॥२१॥

  उत्सङ्ग इति ॥ महाद्रेरुत्सङ्गे मूर्ध्नि यत्समविषमं समं च विषमं च निम्नोन्नतं तस्मिन् । द्वन्द्वैकवद्भावः । वियदभिपातलाघवेन गगनसंचारपाटवेन सममेकरूपम् । आरोहावरोहरहितमित्यर्थः । कान्तानां गच्छतां तुरङ्गमाणां खुरपदवी खुरपङ्क्तिरुपनदि नदीसमीपम् । 'अव्ययीभावश्च' इति नपुंसकत्वाद्धस्वत्वम् । सैकतेष्वामूलान्मूलमारभ्य । आदित आरभ्येति यावत्। समग्रस्य भावः सामग्री साकल्यम् । भावे प्यञ् । डीप् । लेभे। सैकतादन्यत्र निम्नेषु गगनचारेण समखुरस्पर्शाभावाद्विच्छिन्ना खुरसरणिः । सैकतेषु तु सर्वत्र समत्वादविच्छिन्नेत्यर्थः ॥

सध्वानं निपतितनिर्झरासु मन्द्रै: संमूर्च्छन्प्रतिनिनदैरधित्यकासु ।
उद्धीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥२२॥

  सध्वानमिति ॥ सध्वानं सशब्दं निपतिता निर्झरा: प्रवाहा यासु तासु । 'प्रवाहो निर्झरो झरः' इत्यमरः । अधित्यकासु नगोर्ध्वभूमिषु । 'भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां---इत्यादिना त्यकन्प्रत्ययः । मन्द्वैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । प्रतिनिनदैः प्रतिध्वानै: संमूर्च्छन्वर्धमानो रथानां ध्वनिर्धनरवशङ्कया मेघमर्जितभ्रमेणेति भ्रान्तिमदलंकारः । उद्ग्रीवैर्मयूरैः सोत्कण्ठमुपशुश्रुव उपश्रुतः । शृणोतेः कर्मणि लिट् ॥

संभिन्नामविरलपातिभिर्मयूखैर्नीलानां भृशमुपमेखलं मणीनाम् ।
विच्छिन्नामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयांबभूवुः॥२३॥

  संभिन्नामिति ॥ अविरलपातिभिर्निरन्तरप्रसारिभिरुपमेखलम् । तटेष्वित्यर्थः । 'अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेऽसिबन्धने' इति यादवः । नीलानां मणीनां


मयूखैर्भृशं संभिन्नामेकीभूतामतएव नभोन्तराले विच्छिन्नमिव स्थितामित्युत्प्रेक्षा । वप्राम्भःस्रुतिं वप्रोदकधारां वनिता अवलोकयांबभूवुः । वप्राम्भ:स्रुतेः स्वधवलिमत्यागे- नेन्द्रनीलानां नीलिमस्वीकाररूपतद्गुणोत्थापिता विच्छेदोत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः। तेन च नैल्यविच्छेदभ्रमरूपो भ्रान्तिमान्व्यज्यते ।।

आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् ।
सव्याजं निजकरिणीभिरात्तचित्ताःप्रस्थानं सुरकरिणः कथंचिदीषुः ॥२४॥

  आसन्नेति ॥ धुरं गतास्तेषां धूर्गतानां नियन्तॄणां धियमवमत्यावज्ञायासन्नायां द्विपपदव्यां वनगजमार्गे यो मदानिलस्तस्मै क्रुध्यन्तस्तं प्रति कुप्यन्तः । 'क्रुधद्रुह-' इत्यादिना संप्रदानत्वाच्चतुर्थी । सव्याजं सकपटं निजकरिणीभिरात्तचित्ता आकृष्टचित्ताः । सुरकरिणो देवनागाः प्रस्थानं गमनं कथंचित्कष्टेनेषुरभिलेषुः ॥

नीरन्ध्रं पथिषु रजो रथाङ्गनु[१३०]न्नं पर्यस्यन्नवसलिलारुणं वहन्ती।
आतेने वनगहनानि वाहिनी सा धर्मान्तक्षुभितजलेव जह्नुकन्या ॥२५॥

  नीरन्ध्रमिति ॥ नीरन्ध्रं सान्द्रं पथिषु रथाङ्गैश्चक्रैर्नुन्नं प्रेरितम् । 'नुत्तनुन्नास्तनिष्टयू- तविद्धक्षिप्तेरिताः समाः' इत्यमरः । पर्यस्यत्प्रसर्पन्नवसलिलमिवारुणं रजो वहन्ती सा वाहिनी सेना । धर्मान्ते प्रावृषि क्षुभितजला । कलुषोदकेत्यर्थः । जह्नुकन्या गङ्गेव । वनानि फलकुसुमप्रधानानि, गहनानि जीर्णारण्यानि च । तानि वनगहनान्यातेने व्यानशे। अत्र समासगतवाक्यगतोपमयोः सजातीययोरङ्गाङ्गिभावेन संकरः ॥

संभोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥२६॥

  संभोगेति ॥ अथ वृत्रारेः शक्रस्य सहायाः सचिवा गन्धर्वा उपगङ्गं गङ्गासमीपे । अव्ययीभावस्य नपुंसकत्वाद्ध्रूस्वत्वम् । संभोगक्षमगहनामुपभोगयोग्यवनां ज्वलिता मणयो येषु तानि सैकतानि बिभ्राणाम् । भृञ: कर्तरि लटः शानच् । च्युतैः स्वयं पतितैः कुसुमैराचितां व्याप्तामविरलाः सान्द्राः शाद्वलाः शादप्रायप्रदेशा यस्यां सा तां धरि- त्रीमध्यूषुरधितस्थुः । वसतेर्यज्ञादित्वात्संप्रसारणम् । अत्र धरित्रीविशेषणार्थानामधि- वासहेतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥

भूभर्तुः समधिकमादधे तदोर्व्या: श्रीमत्तां हरिसखवाहिनीनिवेशः।
संसक्तौ किमसुलभं महोदयानामुच्छ्रायं नयति यदृच्छयापि योगः॥२७॥

  भूभर्तुरिति ॥ तदा हरिसखवाहिनीनिवेशो गन्धर्वसेनाशिबिरम् । निवेशः शिबि- रोद्वाहविन्यासेषु प्रकीर्तितः' इति शाश्वतः । भूभर्तुः पर्वतस्योर्व्या: समधिकं पूर्वस्माद-


भ्यधिकं यथा तथा श्रीमत्ताम् । श्रियमित्यर्थः । आदधे जनयामास। तथाहि। महोदयानां महात्मनां संसक्तौ सम्यक्संबन्धे । 'संभक्तौ' इति पाठे तु सम्यक्सेवायाम् । किमसुलभम् । न किंचिद्दुर्लभमित्यर्थः । यतः । यदृच्छया दैवाद्योगोऽप्युच्छ्रायमुत्कर्षं नयति । अत्र प्रकृतयदृच्छया योगस्योत्कर्षाभिधानादप्रकृतसक्तियोगस्योत्कर्षांधायकत्वे कैमुतिकन्यायेनार्थापत्तिरिति प्राकरणिकादप्राकरणिकरूपार्थापत्तिरलंकारः । तदुक्तम्- 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा पतेत् । कैमुत्येन यतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति ॥

सामोदाःकुसुमतरुश्रियोविविक्ताःसंपत्तिःकिसलयशालिनीलतानां
साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते य[१३१]या परेषाम् ॥२८॥

  सामोदा इति ॥ सामोदाः ससौरभाः कुसुमप्रधानास्तरवः । शाकपार्थिवादिषु द्रष्टव्यः। तेषां श्रियः समृद्धयो विविक्ता विजनप्रदेशाः। 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः । किसलयशालिनीलतानां नवपल्लवयुतवल्लीनां संपत्तिरेता अमराङ्गनोपभुक्ताः सत्यः साफल्यं ययुः। तथाहि । यया लक्ष्म्या करणेन परेषामुपकुरुते। लक्ष्मीवानिति शेषः । सा लक्ष्मीर्नान्येति भावः। परेपामित्यत्र 'अनुकरोति भगवतो नारायणस्य' इत्यादिवत्क्रियायोगे हि संबन्धसामान्ये षष्ठी ॥

क्लान्तोऽपित्रिदशवधूजनः पुरस्ताल्लीनाहि[१३२]श्वसितविलोलपल्लवानाम्।
सेव्यानां हतविनयैरिवावृतानां संपर्कं परिहरति स्म चन्दनानाम् ॥२९॥

  क्लान्त इति ॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्तादग्रे लीनानां संश्रितानामहीनां श्वसितैर्निःश्वासैर्विलोलाः पल्लवा येषां तेषां चन्दनानां संपर्कं हतविनयैर्दुर्जनैः खलैरावृतानां संवृतानां सेव्यानां प्रभूणां संपर्कमिव परिहरति स्म । दुष्टयद्दुष्टसंसृष्टा गुणाख्या अपि त्याज्या इति भावः ॥

उत्कृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः॥३०॥

  उत्सृष्टेति ॥ उत्सृष्टा आक्षिप्ता ध्वजाः कुथा आस्तरणानि कङ्कटास्तनुत्राणानि च येभ्यस्ते । 'प्रवेण्यास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः' इत्यमरः । विदितनयैः शिक्षा- भिज्ञैर्यन्तृभिः श्रमं विनेतुं क्लममपनेतुं धरित्रीमानीताः। निवेश्यमाना इत्यर्थः । द्विपा युगान्तवातैराक्षिप्तान्युद्धृतानि द्रुमाणां गहनानि वनानि येभ्यस्ते पर्यस्ता विपर्यासिता गिरय इव विरेजुः शुशुभिरे ॥

प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं वि[१३३]लीनं संरम्भच्युतमिव शृङ्खलं चकाशे ॥३१॥


  प्रस्थानेति ॥ गजपतिना प्रस्थानश्रमेण गमनक्लेशेनजनितां निद्रां विहायामुक्तेऽतएव सदानपङ्के गजमदयुक्ते शय्यान्ते शयनीयप्रदेशे क्षणं विलीनं लग्नमलिनां कुलं संरम्भे- णोत्थानसंभ्रमेण च्युतं भ्रष्टं शृङ्खलं निगडमिवेत्युत्प्रेक्षा । 'अथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः । चकाशे शुशुभे ॥

आयस्तः सुरसरिदोघरुद्धर्त्मा संप्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः॥३२॥

  आयस्त इति ॥ वनगजदानस्य गन्धोऽस्यास्तीति तथोक्तं रोधः । परकूलमित्यर्थः । संप्राप्तुं गन्तुमायस्त उत्सुकः । प्रयत्नं कुर्वाण इत्यर्थः । 'यसु प्रयत्ने' इति धातोः कर्तरि क्तः। किंतु सुरसरिदोधेन गङ्गाप्रवाहेण रुद्धं वर्त्म यस्य सः । नागो गजो निहितो दत्तः शितस्तीक्ष्णोऽङ्कुशो यस्मिन् । 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । तं मूर्धानं विधु- न्वन् । रोषादिति भावः । यन्तारं न विगणयांचकार न विगणयामास ॥

आरोढु: समवनतस्य पीतशेष साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरःकरेणोः ॥३३॥

  आरोढुरिति ॥ समवनतस्य जलपानार्थमानतपूर्वकायस्य करेणोर्गजस्य । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । करेण पीतस्य शेषे पयस्यारोढुर्हस्तिपकात्साशङ्कं सभयं समीरिते। क्षिप्ते सतीत्यर्थः ।शीकरोऽम्बुकणः। अरुणे मदस्त्रुती मदधारे ययोस्तौ कपोलौ संमार्जन्प्रमृजन । 'मृजेरजादौ संक्रमे विभाषावृद्धिर्वक्तव्या' इति वृद्धिः । मद् इव सस्यन्दे सुस्राव । मदसंपृक्तस्य मदसादृश्यान्मदोपमा ।

आघ्राय क्षणमतितृष्यता [१३४]पि रोषादुत्तीरं निहितविवृत्तलोचनेन ।
संपृक्तं वनकरिणांमदाम्बुसेकैर्नाचेमे हिममपि वारि वारणेन ॥३४॥

  आघ्रायेति ॥ अतितृष्यताप्यतिपिपासतापि क्षणमाघ्राय रोषादुत्तीरं परतीरे । विभक्यर्थेऽव्ययीभावः । निहिते विवृत्ते घूर्णिते लोचने यस्य तेन । प्रतिगजदिदृक्षयेति भावः । वारणेन हिमं शीतलमपि वनकरिणां मदाम्बुसेकैर्दानधाराभिः संपृक्तं वारि नाचेमे न पीतम् । 'चमू अदने' इति धातोः कर्मणि लिट् ॥

प्रश्च्योतन्मदसुरभीणि निम्नगायाःक्रीडन्तोगजपतयःपयांसि कृत्वा।
किंजल्कव्यवहितताम्रदानलेखैरुत्तेरुःसरसिजगन्धिभिः कपोलैः ॥३५॥

  प्रश्च्योतदिति ॥ क्रीडन्तो विहरन्तो गजपतयो निम्नगाया गङ्गायाः पयांसि प्रश्च्योतद्भिःक्षरद्भिर्मदैः सुरभीणि कृत्वा किंजल्कैः केसरैर्व्यवहितास्तिरोहितास्ताम्रास्ताम्रवर्णा दानलेखा मदराजयो येषु तैरतएव सरसिजगन्धिभिः कपोलैरुपलक्षिताः सन्त


उत्तेरुनिंर्जग्मुः। अत्र मदसरसिजगन्धयोः समयोर्विनिमयोक्त्या समपरिवृत्तिरलंकारः। तेन च गजानां निम्नगायाश्च परिमलव्यत्ययान्तरसंरम्भो व्यज्यते ॥

आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्गं मा[१३५]ञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥३६॥

  आकीर्णमिति ॥ घनारुणेन सान्द्रलोहितेन। विशेषणसमासः। बलरजसा सेनापरागेणाकीर्णं सपदि प्रक्षोभैरालोडनैस्तटेषु तीरेषु तरङ्गितं संजाततरङ्गम् । तारकादित्वादितच् । यद्धा । तरङ्गवत्कृतम् । मत्वन्तात् 'तत्करोति' इति णिचि कर्मणि क्तः। णाविष्टवद्भावान्मतुपो लुक् । तथा मातडैरुन्मथितानां लुलितानां सरोजानां रेणुभिः पिङ्गं पिशङ्गमम्बु माञ्जिष्ठेन महारजनेनारक्तं माञ्जिष्ठं वसनमिव निर्बभासे । 'तेन रक्तं-' इत्यण् । 'कौशेयम्' इति वा पाठे 'कोशाङ्ढञ्' । 'कौशेयं कृमिकोशोत्थम्' इत्यमरः ॥

श्रीमद्भिर्नियमितकंधरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् ।
संप्रापे नि[१३६]सृतमदाम्बुभिर्गजेन्द्रैःप्रस्यन्दिप्रचलितगण्डशैलशोभा ॥३७॥

  श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिर्नियमिताः कंधरा अपरान्ताश्चरमपादाग्राणि च येषां तैः । 'अपरः पश्चिमः पादः' इति वैजयन्ती। अगुरुवनेषु साङ्गहारं साङ्गविक्षेपं यथा तथा संसक्तैर्निसृतानि प्रसृतानि मदाम्बूनि येषां तैर्गजेन्द्रैः प्रस्यन्दिनो जलस्राविणः प्रचलिता ये गण्डशैलाच्युतोपलास्तेषां शोभा संप्रापे प्राप्ता । कर्मणि लिट् । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । अत्रान्यशोभाप्राप्त्यसंभवात्तत्सदृशी शोभेति प्रतिबिम्बत्वाक्षेपान्निदर्शनालंकारः ॥

निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् ।
आमोदं व्यवहितभूरिपुष्पग[१३७]न्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥३८॥

  निःशेषमिति ॥ गन्धं वहतीति गन्धवाहो वायुः । कर्मण्यम् । निःशेषं यथा तथा प्रशमितो रेणुर्येन तन्मदजलं स्रोतोभिर्मदनाडीभिरजस्रमुज्झतां वर्षतां वारणानां संबन्धिनं व्यवहितस्तिरस्कृतो भूरिर्बहुल: पुष्पगन्धो येन सः । भिन्नाः फुल्ला एला लता- विशेषाः । 'पृथ्वीका चन्द्रवालैला' इत्यमरः। तत्पुष्पाणि चैलाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले' इत्यमरः । भिन्नैलावत्सुरभिं घ्राणेन्द्रियतर्पणमित्युपमा । आमोदं परिमलमुवाह वहति स्म ॥

सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृम्हितानि ॥३९॥

  सारश्यमिति ॥ गभीरैर्मेघघोषैः सान्द्रगर्जितैः सादृश्यं दधतीत्युपमा । दधातेः शतृ-


प्रत्ययः । 'वा नपुंसकस्य' इति विकल्पानुमभावः। उन्निद्रा बृंहितश्रवणादेव प्रबुद्धाः क्षुभिताः संरब्धाश्च ये मृगाधिपास्तैः श्रुतान्याकर्णितानि । न तु प्रतिबुद्धानीति भावः । अमरमहेभवृंहितानि सुरगजगर्जितानि कच्छान्ताननूपप्रदेशान् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । चकिता गर्जितशङ्कया संभ्रान्ताश्चकोराः पक्षिविशेषा नीलकण्ठा मयूराश्च येषु तांस्तथाभूतानातेनुः । भ्रान्तिमदलंकारः ।।

शाखावसक्तकमनीयपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीःपुरोपवनजावनपादपानाम् ॥४०॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तमः सर्गः ।

  शाखेति ॥ परिच्छाद्यतेऽनेनेति परिच्छदः परिकरो वसनाभरणादिः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः। 'छादेर्धेऽन्युपसर्गस्य' इति इस्वत्वम् । शाखास्ववसक्ताः कमनीयाः परिच्छदा येषां तेषामध्वनि श्रमस्तेनातुरैः पीडितैर्वधूजनैः सेवितानां निवेशनविभागैरावसतिकावच्छेदैः परिष्कृतानामलंकृतानाम् । 'संपर्युपेभ्यः' इत्यादिना सुट् । वनपादपानामरण्यवृक्षाणां पुरे यदुपवनं कृत्रिमवनं तत्र जाता पुरोपव- नजा लक्ष्मीः शोभा जज्ञे जाता । अत्रान्योन्यलक्ष्मीसंबन्धासंभवात्तत्सहशीति सादृश्याक्षेपादसंभवे तद्वस्तुसंबन्धेयं निदर्शना । वसन्ततिलकावृत्तम्-'उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ।।   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्यव्याख्यायां घण्टापथसमाख्यायां सप्तमः सर्गः समाप्तः॥


अष्टमः सर्गः।


अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां स[१३८]नातनम्।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ १॥

  अथेति ॥ अथ निवेशनानन्तरं सुराङ्गना अप्सरसः स्वमायया स्वेच्छाविशेषण कृतैर्निर्मितैर्मन्दिरैरुज्वलं दीप्तम् । ज्वलन्तो मणयो यस्सिम्स्तद्व्योमसदां गन्धर्वाणां सनातनं सदातनम् । 'सायंचिरं-' इत्यादिना भावार्थे ट्युप्रत्ययः । गौर्वज्रं तत्पतिरिन्द्रस्तच्चार्पवर्णानि गोपुराणि यस्य तत्तथोक्तमित्युपमा । पुरं नगरं वनानां विजिहीर्षया वनानि विहर्तुमिच्छया । कर्मणि षष्ठी । जहुस्तत्यजुः । जहातेर्लिट् । अत्र ज्वलंज्वलदिति पुरंपुरमिति चासकृद्व्यञ्जनद्वयावृत्त्या छेकानुप्रासः । अन्यत्र तद्वैपरीत्या- द्वृत्त्यनुप्रास इति तयोपमायाश्च संसृष्टिः। अस्मिन्सर्गे वंशस्थं वृत्तम्-'जतौ तु वंश- स्थमुदीरितं जरौ' इति लक्षणात् ॥


यथायथं ताः सहिता नभश्चरैः प्रभाभिरु[१३९]द्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥२॥

  यथायथमिति ॥ यथायथं यथास्वम् । स्वकीयमनतिक्रम्येत्यर्थः । 'यथास्वं तु यथायथम्' इत्यमरः । नपुंसकनिपातनं तु ह्रस्वार्थम् । नभश्चरैर्गन्धर्वैर्मेधैश्च सहिताः प्रभाभिः स्वदीप्तिभिरुद्भासिताः शैलवीरुधो याभिस्ताः पूर्वोक्ता वनजायतेक्षणाः पद्मलोचनाः स्त्रियो वनं विशन्त्यः क्षणं द्युतिर्यासां तासां क्षणद्युतीनां विद्युतामेकरूपतां समानरूपतां दधुः । मुहुर्द्रुमान्तराले तासां स्फुरणस्य क्षणिकत्वादिति भावः । श्लेषा- नुप्राणितेयमुपमा । श्लेषत्वमिति केचित् । उभयथाप्यनुप्रासेन संसर्गः ॥

निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः ।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥३॥

  निवृत्तेति ॥ निवृत्तो गतो वृत्तस्य वर्तुलस्योरुपयोधरस्य क्लमो यस्मिन्स पादप्रक्षेपेषु । विश्रान्तिसंभवादिति भावः । किंच । प्रवृत्तो जातो निह्रादिविभूषणानां नूपुरादीनामारवो यस्मिन्सः । अवनौ पृथिव्यां परिक्रमः संचारो नितम्विनीनां नभ:प्रयाणाद्भृशमधिकम् । 'पञ्चमी विभक्ते' इति पञ्चमी । धृतिं संतोषमादधे । अत्र विशिष्टपरिक्रमस्य धृत्यादानहेतुत्वात्काव्यलिङ्गमलंकारः ॥

धनानि कामं कुसुमानि बिभ्रतः क[१४०]रप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥४॥

  घनानीति ॥ धनानि सान्द्राणि । न तु विरलानि । करप्रचेयानि हस्तग्राह्याण्यनुच्चानि। 'कृत्यैरधिकार्थवचने' इति तृतीयासमासः । कामं कुसुमानि बिभ्रतो नवकुसुमि- ताञ्छाखिनस्तरूनपहाय सुरसुन्दरीजनैः पुरोऽग्रेऽभिसस्त्रेऽभिसृतम् । भावे लिट् । तथा हि । कामिनो गुणेष्वतिशयेषु विषय उत्तरमुत्तरम् । वीप्सार्थेऽव्ययीभावः । यथोत्तरमिच्छा येषां ते यथोत्तरेच्छा उत्तरोत्तराभिलाषुका हि । अत्र परिकरोत्थापि- तोऽर्थान्तरन्यासोऽलंकारः ॥

तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥५॥

  तनूरिति ।। विलेपनामोदैर्हृता आकृष्टा वनालयो वनभृङ्गास्तनूः कृशा अलक्तैररुणाः पाणय एव पल्लवा यासां ताः स्फुरन्तो नखांशूनामुत्कराः पुञ्जा एव मञ्जर्यस्ता बिभ्रतीति तथोक्ताः। क्विप् । विलासिनीनां बाहव एव लतास्ताः सिषेविरे । अत्र समस्तवस्तु- विषयरूपकालंकारः । बाह्ववयवानां लतावयवानां पल्लवादीनामपि निरूपणादिति ॥


निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ६ ॥

  निपीयमानेति ॥ शिलीमुखैरलिभिः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । निपीयमानः स्तबको गुच्छो यस्याः सा चला बालपल्लवा यस्याः सा । अतएवामन्दं दृढं दष्ट ओष्ठो यस्मिंस्तत्करावधूननं करकम्पनं तद्विडम्बयन्ती । स्तबकपानेनौष्ठदंशनं पल्लवचलनेन करावधूननं चानुकुर्वतीत्यर्थः । धूञो ण्यन्ताल्ल्युट् । णिचि धूञ्प्रीञोर्नुम्वक्तव्यः । अशोकयष्टिः । अशोकशाखेत्यर्थः । वधूजनैर्ददृशे दृष्टा । अत्र विडम्बयन्तीति प्रस्तुता- शोकशाखाविशेषणभूतोपमामहिम्नाप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुत्तिष्ठमानतयै- वोपमयाङ्गाङ्गिभावेन संकीर्यते ।   अथ कश्चिन्मधुकराक्रान्तां कांचिदाह-

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशंक्यां कथं न्वितस्त्रस्यति षट्पदावलिः ॥७॥

  कराविति ॥ मानपरिहारेण मधुपाश्रयणे तु न कश्चिद्बाध इत्याशयेन संबोधयति- हे मानिनीति । नवपल्लवस्याकृतिरिवाकृतिर्ययोरित्युपमा । तौ करौ धुनाना । धूञः क्रै- यादिकाकर्तरि लटः शानच् । वृथा व्यर्थ परिश्रमं मा कृथा मा कुरुष्व । करोतेरा- शीरर्थे माङि लुङ् । वृथात्वे हेतुमाह-कल्पलताभिशङ्कया कल्पवल्लीभ्रमेणेति भ्रान्ति- मदलंकारः। उपेयुष्युपगता षट्पदावलिः कथं न्वितस्त्रस्यति बिभेति । न त्रस्यत्येवेत्यर्थः । 'वा भ्राश-' इत्यादिना विकल्पेन श्यन्प्रत्ययः । अत्र कान्तापरिश्रमवैयर्थ्यरूपकार्यस्य षट्पदावले: कल्पवल्लीभ्रमनिबन्धनवित्रासरूपकारणसमर्थनात्कारणेन कार्यसमर्थन- रूपोऽर्थान्तरन्यासो भ्रान्तिमताङ्गाङ्गिभावेन संकीर्णः । स तूपमया संसृज्यते ॥   अथ काचित्सखी कांचित्प्रणयकुपितामाह-~-

जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुण सखीजनः ॥८॥

  जहीहीति ॥ प्रियमुपैतुं स्वयमेवानुसर्तुमिच्छतीम् । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः। कांचिन्नायिकां निपुणश्चित्तज्ञ: सखीजनः। कोपं जहीहि त्यज । 'आ च हौ' इति विकल्पादीकारादेशः । दयितोऽनुगम्यतामनुस्रियताम् । उभयथापि प्रार्थनायां लोट् । अन्यथा चञ्चलमस्थिरं तव मनः पुरानुशेतेऽग्रेऽनुशयिष्यते । अनुतप्स्यत इत्यर्थः । 'यावत्पुरानिपातयोर्लट्' इति लट् । इत्यनेन प्रकारेण पुरः पूर्वमेवानुनिन्ये प्रसादयामास॥   अथ चतुर्भिः श्लोकैः कलापकमाह-

समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ९॥

  समुन्नतैरिति ॥ समुन्नतैः काशान्यश्वबालकुसुमानि तानि दुकूलानीव तैः शालन्त इति तथोक्तैः सारसपङ्क्तयो मेखला इव ताः परिक्वणन्त्यो येषु ते तैः स्वेषां कलत्राणि श्रोण्यस्तद्वच्चारवस्तैः । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । प्रतीरदेशैर्विभूषितास्तटप्रदेशैर्भूषिताः कुञ्जसमुद्रयोषितः । वननद्य इत्यर्थः । अत्र तीरादीनां कलत्राद्यौपम्योपमेयत्वाद्योषि- च्छब्दसामर्थ्याच्च नदीनां योषिदौपम्यं गम्यते ॥

विदूरपातेन भिदामुपेयुषश्च्युताःप्रवाहादभितःप्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥१०॥

  विदूरेति ॥ विदूरपातेन भिदां भेदम् । "षिद्भिदादिभ्योऽङ्' । उपेयुष उपगतात्प्रवाहाच्च्युता अतएवाभितः प्रसारिणः प्रसर्पन्त इति प्रियाया अङ्क उत्सङ्ग इव शीताः शीतलाः शुचीनां मौक्तिकानां त्विष इव त्विषो येषां ते । किंच वनस्य प्रहासा इव स्थिता इत्युत्प्रेक्षा । वारिबिन्दवश्च । अत्रोपमयौरुभयोरुत्प्रेक्षायाश्च संसृष्टिः ।।

[१४१]खीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशारितोदरैर्वि[१४२]सारिभिः पुष्पविलोचनैर्लताः ॥११॥

  सखीति ॥ द्वौ रेफौ वर्णविशेषौ येषां ते द्विरेफाः । भ्रमरशब्देन तदर्थो लक्ष्यते । 'द्व्यक्षरं मासमिति विदधाति' इति भाष्यकारः। स्थिरा निश्चला द्विरेफा एवाञ्जनानि तैः शारितानि शबलीकृतान्युदराणि येषां तैः। 'शारः शबलवातयोः' इति विश्वः । विसारिभिर्विस्तृतैः पुष्पाण्येव विलोचनानि तैः प्रेम्णा गुरूकृत आदरो यस्सिन्कर्मणि तत्तथा सखीजनं निरीक्षमाणाः पश्यन्त्य इव स्थिताः । कुतः । नम्रमूर्तयोऽवनताङ्ग्यो लताश्च । अत्र रूपकोत्प्रेक्षयोः संकरः ॥

उपेयुषीणां बृहतीरधित्यका मनांसि जह्रु: सुरराजयोषिताम् ।
कपोलकाषै: करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ॥१२॥

  उपेयुषीणामिति ॥मदेनारुणैरव्यक्तरागैः। 'अव्यक्तरागस्त्वरुणः' इत्यमरः । करिणां कपोलानां काषैः कपणैरुपाहितश्यामरुचो जनितकृष्णवर्णा इति तद्भूषणालंकारः। चन्दना मलयजाः । 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्' इत्यमरः । वृहतीरधिस्यका ऊर्श्वभूमीरुपेयुषीणां सुरराजयोषितां मनांसिजह्रु: । अत्र चतुःश्लोक्या नद्यादीनां विशिष्टानामेवाप्सरोमनोहरणहेतुत्वोक्त्या काव्यंलिङ्गमुन्नेयम् ॥

स्वगोचरेसत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् ।
नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः॥१३॥


  स्वगोचर इति । चित्तहारिणा मनोहरेण शाखिनां प्रसवेन पुष्पजातेन विलोभ्यमाना। आकृष्यमाणा योषितः स्वगोचरे स्वविषये । स्वकरप्रचये सत्यपीत्यर्थः। प्रसव इति शेषः । उपकर्तुं परिचरितुमिच्छतां नभश्चराणां गन्धर्वाणां प्रणयेन सहायहेतुना प्रियाणि चक्रुः । स्वकरग्राह्यमपि प्रसवं स्वकान्तप्रियार्थं तद्दीयमानमेवाग्रहीषुरित्यर्थः।।

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥१४॥

  प्रयच्छतेति ॥ कुसुमानि प्रयच्छता ददता दयितेनोच्चैरुच्चैस्तरां विपक्षगोत्रं सपत्नीनामधेयं लम्भिता प्रापिता । तन्नाम्नाहूतेत्यर्थः । 'नाम गोत्रं कुलं गोत्रम्' इति शाश्वतः। मानिन्यत एव न किंचिदूचे । कर्तरि लिट् । किंतु केवलं बाष्पाकुललोचना सती चरणेन भुवं लिलेख ।गोत्रस्खलनजनितेर्ष्यानिमित्तनिर्वेदादिति भावः। मानिन्यत एव न किंचिदूच इत्युक्तम् । तदुक्तं दशरूपके--'तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमानना। तत्र चिन्ताश्रुनिःश्वासवैवर्ण्योच्छ्वासदीनता ॥' इति ॥

प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्वदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥१५॥

  प्रिय इति । वाचं यच्छति ददति । समालपतीत्यर्थः ।दाणः शतृप्रत्ययः ।'पाघ्ना-' इत्यादिना यच्छादशे:। प्रिये निबद्धदृष्टिरत एवोन्मुखी शिथिलःश्लथ आकुलश्चलितश्च तादृश उच्चयो नीवीबन्धो यस्याः सा । 'नारीकट्यंशुकग्रन्थौ नीविः स्यादुश्चयोऽप्यथ' इति मार्तण्डः । अपरान्या ख्यंशुकं न समादधे न बबन्ध । रागपारवश्यादिति भावः । पुष्पेषु वृथा व्यर्थमाहितमारोपितम् । अस्थाने प्रसारितमित्यर्थः । पाणिपल्लवं च न विवेद । प्रियासक्तचित्तत्वादिति भावः । एषा च प्रगल्भा नायिका।'पाणिपल्लवम्' इत्यत्रान्यतरसाधकबाधकप्रमाणाभावादुपमारूपकयोः संदेहसंकरः ॥

सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।
स्तनोपंपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥१६॥

  सलीलमिति ॥ आसक्ता लतान्ताः पल्लवा भूषणं यस्य तत् । पल्लवैः सह ग्रथितमि- त्यर्थः । कुसुमावतंसकं पुष्पशेखरम् । कान्तदत्तमिति भावः । सलीलं सविलासं समा- सजन्या शिरसि प्रतिदधत्या । 'दंशसञ्जस्वञ्जां शपिः' इति नलोपः । कान्तया कश्चि- त्स्तनाभ्यामुपपीड्येति स्तनोपपीडम् । 'सप्तम्यां च-' इत्यादिना णमुल्प्रत्ययः।नितम्बिना। प्रशंसायामिनिः । घनेन निबिडेन जघनेन । 'पश्चान्नितम्ब: स्त्रीकट्याः क्लीबे तु जननं पुरः' इत्यमरः । नुनुदे नुन्नः। अंशुकातिरेकादिति भावः । एषा च प्रगल्भैव ॥   अथ युग्मेनाह---

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥१७॥

  कलत्रेति ॥विलोलनीविनागात्रोन्नमनाद्विश्लिष्टवस्त्रग्रन्थिना कलत्रभारेण श्रोणिभारेण। 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । तथा गलत्स्रंसमानं दुकूलं याभ्यां ताभ्यां स्तनाभ्यां शालत इति तथोक्तेनोरसा तथा बलिव्यपायेन भङ्गिनिवृत्त्या स्फुटा रोमराजिर्यस्मिम्स्तेन निरायत्वादप्रसारितत्वात्ताम्यता तनुभवतोदरेण चोपलक्षितया । स्वभावोक्तिरलंकारः॥

विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे॥१८॥

  विलम्बमानेति ॥ विलम्बमानो विस्रंसमान आकुलो विलुलितश्च केशपाशो यस्या- स्तयाविष्कृतबाहुमूलया दर्शितकक्षप्रदेशया कयाचित्कान्तया तरुप्रसूनान्यपदिश्य । प्रसूनग्रहणं व्याजीकृत्येत्यर्थः । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । सादरं साभिलाषं मनोधिनाथस्य प्रियस्य मनः समादद आचकृपे । कर्मणि लिट् । सर्वाङ्गसौष्ठव- दर्शनात्सद्योलग्नं प्रियमनस्तत्रेति भावः । अत्र प्रियमनोहरणहेतुभिः कान्ताविशेषण- पदार्थै: काव्यलिङ्गमुत्तिष्ठमानं स्वभावोक्त्या सहाङ्गाङ्गिभावेन संकीर्यते ॥

व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥१९॥

  व्यपोहितुमिति ॥ उन्नतौ च पीवरौ च स्तनौ यस्याः सोन्नतपीवरस्तनी।'स्याङ्गाच्च-' इत्यादिना ङीप्। काचिल्लोचनतः स्वनेत्रात्पुष्पजं रजः परागं मुखानिलैः फूत्कारमारुतैर्व्यपोहितुमपनेतुमपारयन्तं किलाशक्नुवन्तं किलेत्यलोके । वस्तुतस्तदा- स्यस्पर्शलोभादपारयन्तमित्यर्थः । प्रियमुन्मना उत्सुका सत्यत एव पयोधरेणोरसि जघान । तत्कपटपरिज्ञानजन्यादौत्सुक्यादिति भावः। हननस्थानत्वादुरसीति-सप्तमी। इयं च प्रगल्भैव ॥

इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे।
विहाय निःसारतयेव भू[१४३]रूहान्पदं वनश्रीर्वनितासु संदधे ॥ २०॥

  इमानीति ॥ यथाभिरामम् । वीप्सायामव्ययीभावः । कुसुमान्यग्रपल्लवानि च कुसुमाग्रपल्लवं तस्मिन् । 'जातिरप्राणिनाम्' इत्येकवद्भावान्नपुंसकत्वम् । इमान्यमूनी- तीत्थम् । निर्देशपूर्वकमित्यर्थः । इदमदसी संनिकृष्टविप्रकृष्टार्थे । शनैरपवर्जितेऽप-


चिते सति वनश्रीर्निःसारतयेवेति हेतूत्प्रेक्षा । भूरुहांस्तरून्विहाय वनितासु पदं संदधे ।

अत्र वनितागतायाः पुष्पप्रसाधनसंभवाया लक्ष्म्या विषयभूताया निगरणेन विषयेण वनश्रियो वनितागतत्वोक्यासंबन्धे संबन्धरूपाभेदे भेदरूपा वातिशयोक्तिरलंकारः | विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥' इति लक्षणादुत्प्रेक्षात्वङ्गमस्याः ॥

प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः॥२१ ॥

  प्रावलेति ॥ प्रवालभङ्गेन पल्लवलवेनारुणः पाणिपल्लवो यस्य । तद्रसरञ्जनादित्यर्थः। परागेण पुष्परजसा पाण्डूकृतौ पीवरौ स्तनौ यस्य स पुष्पैः सुगन्धिः सुरभिरङ्गनाजनो महीरुहो वृक्षजाताद्वपुर्गुणस्य स्वदेहगुणस्योच्छ्रायः पाणिपल्लवारुण्यादेर्य उत्कर्षस्तमाददे लब्धवानिवेत्युत्प्रेक्षा । वस्तुतस्तु स्वाभाविक एव प्रवालभङ्गादिभिरभिव्यज्यत इति भावः । उत्कृष्टः श्राय उच्छ्राय इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद्धञ्प्रत्ययः। 'श्रिणीभुवोऽनुपसर्गे' इति प्रतिषेधात् ।।   पञ्चभिः कुलकमाह---

वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः।
समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥२२॥

  वरोरुभिरिति ॥ अनुसानु सानुषु यद्वर्त्म ततः सकाशाद्गुरुणा खेदेन भन्थरमलसं विनिर्यतीनां निर्गच्छन्तीनां सुराङ्गनानां संबन्धिभिर्वारणहस्तपीवरैः करिकरस्थूलैः । वराश्च त उरवश्चेति तैः । चिराय खिन्नान् । किं च नवपल्लवानां श्रीरिव श्रीर्येषां तान् । तद्वन्मृदूनित्यर्थः । अत एव समे समस्थलेऽपि । किं पुनर्विषम इति भावः । यातुं गन्तु- मनीश्वरानशक्तानत एव मदादिव पदे पदे । वीप्सायां द्विर्भावः । प्रस्खलतश्चरणान् । मदादिवेत्युपमा ॥

विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छ्रायनितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः॥२३॥

  विसारीति ॥ विसारिभिः काञ्चीमणिरश्मिभिर्लब्धया । तज्जनितयेत्यर्थः । मनोहर उच्छ्राय उत्सेधो येषां तेषां नितम्बानां शोभया करणेन नवसैकतानां द्युतिं शोभां जित्वा स्थितानि । तत्तुल्यानीत्यर्थः । अत एवोपमालंकारः । श्रमेणातिरिक्तैरतिश- यितैर्गौरवैर्गुरुत्वैरुपलक्षितानि । नितरांभारायमाणानीत्यर्थः । जघनानि च । उच्छ्रायो व्याख्यातः॥

समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ॥२४॥

  समुच्छ्वसदिति ॥ समुच्छ्वसत्पङ्कजकोशकोमलैर्दलसत्कमलमुकुलमुग्धैरित्युपमा । नाभिभिःप्रतारिकाख्यैः । 'अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका' इति केशवः । पुंलिङ्गतायां तु कविरेव प्रमाणम् । उपनीवि नीवीसमीपे । उपाहितश्रीणि जनितशोभानि तथा वलीविभङ्गिषूर्मिमत्सु मध्येषु जघनस्थलेषु स्तनातिभारान्नम्रतां दधन्ति विभ्राणानि । 'वा नपुंसकस्य' इति विकल्पाच्छतुर्नुमागमः । उदराणि च ॥

समानकान्तीनि तुषारभूषणै: सरोरुहेरस्फुटपत्रपङ्क्तिभिः ।
चितानि धर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥२५॥

  समानेति ॥ किंच। धर्माम्बुकणैः स्वेदोदकबिन्दुभिः समन्ततश्चितानि व्याप्तान्यनु- त्फुल्लविलोचनान्यविकसदक्षीण्यत एव तुषारभूषणैः शीकरपरिवृतैः।'तुषारौ हिमशीकरौ' इति शाश्वतः। अस्फुटपत्रपङ्क्तिभिरविकचदलावलिभिः। 'व्याकोशविकचस्फुटाः' इत्यमरः । सरोरुहैः समानकान्तीनीत्युपमा। मुखानि च ॥

विनिर्यतीनां गु[१४४]रुखेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः।
सविस्मयं रूपयतो नभश्चरान्विवेश तत्पूर्वमिवेक्षणादरः ॥२६॥

  विनिर्यतीनामिति॥ सविस्मयं रूपयतः पूर्वोक्तचरणादीनि वर्णयतो नभश्चरान्गन्धर्वो- स्तत्पूर्वमिव तदेव प्रथमं यथा तथेत्युत्प्रेक्षा । ईक्षणादर आलोकनकौतुकं विवेश । पूर्वार्धं व्याख्यातम् । अत्र कुलके स्वभावोक्तिरुत्प्रेक्षाङ्गम् ॥   संप्रति सलिलक्रीडावर्णनमारभते-

अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ २७॥

  अथेति ॥ अथ पुष्पावचयानन्तरं स्फुरद्भिश्चलद्भिर्मीनैर्विधूतपङ्कजेति । सदृङ्मुख- वीक्षणोक्तिः। विपङ्कं पङ्करहितम् । विहारयोग्यमिति यावत् । तत्र तीरे स्खलिता विचलितोर्मिसंहतिर्यस्याः सेति हस्तसंज्ञोक्तिः। कलहंसनादिनी कादम्बशब्दवतीति वाग्व्यापारोक्तिः। अत एव सुरापगा गङ्गा वधूरप्सरसः पयोऽवगाढुमवगाहितुम्। गाहरुदितत्वादिङ्विकल्पः । समाजुहावेवाकारयामासेवेत्युत्प्रेक्षा । 'हूतिराकारणाह्वानम्' इत्यसरः । हूयतेर्लिट् । 'अभ्यस्तस्य च' इति संप्रसारणम् ॥

प्रशान्तधर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥२८॥

  प्रशान्तेति ॥ प्रशान्तधर्माभिभवः प्रशान्तोष्णवाधः। 'वा दान्तशान्त-' इत्यादिना निपातनात्साधुः। शनैर्विवान्मन्दं वहन् । वातेः शतृप्रत्ययः। परिमृष्टपङ्कजः । पद्मग-


न्धीत्यर्थः । आत्तशीकरः । कुतः । तरङ्गमालानामन्तरे मध्ये गोचरः स्थानं यस्य सोऽनिलो विलासिनीभ्यो भुजालम्बं ददाविवेत्युत्प्रेक्षा । विशिष्टवायुसंपर्कात्तथोच्छ- श्वसुरित्यर्थः ॥

गतैः सहावैः कलहंसवि[१४५]क्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥२९॥

  गतैरिति ॥ सुरस्त्रियोऽप्सरसः सहावैः सविलासैर्गतैर्गतिभिः। नपुंसके भावे क्तः । कलहंसानां विक्रमं गतिम् । विलासविधुरमिति शेषः । तथा नितम्बिभिः प्रशस्तनितम्बै कलत्रभारैर्जघनभारै: पुलिनम्। नितम्बभारशून्यमित्यर्थः। तथा दीर्घलोचनैर्मुखैः सरोजानि च। अलोचनानीति शेषः । साभ्यगुणात्समानगुणत्वान्निरासिरे निरस्तवत्यः। गुणवदगुणयोः कुतःसाम्यमिति भावः । अस्यतेः कर्तरि लिट् । 'उपसर्गादस्यत्यूह्योर्वा" इति विकल्पादात्मनेपदम् ॥

विभिन्नपर्यन्तगमीनपङ्क्तयः पु[१४६]रो विगाढाः सखिभिर्मरुत्वतः।
कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ३० ॥

  विभिन्नेति ॥ विभिन्ना विच्युतसंघाताः पर्यन्तगाः प्रान्तगता मीनानां पङ्क्तयो यासां ताः । कुतः । मरुत्वतः सखिभिरिन्द्रस्य सचिवैर्गन्धर्वैः पुरः पूर्वं विगाढाः प्रविष्टाः । तासां विश्वासार्थं गर्तग्राहादिपरीक्षार्थं चेति भावः । सभीतिभिरप्रविष्टविषयत्वात्सभयैः। 'विषादिभिः' इति पाठेऽप्ययमेवार्थः । सुरसुन्दरीजनैस्तदेवावगाहनं प्रथमं यथा तथात एक कथंचिद्भयात्कृच्छ्रेणापः प्रपेदिरे जगाहिरे ॥

विढागमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥ ३१ ॥

  विगाढेति ॥प्रयत्नेन संवाहिताः संचारिताः पीवराः स्थूला ऊरवो याभिस्ताभी रमणीभिरम्भसि विगाढमात्रे प्रविष्ट एव सति । सुपसुपेति समासः । 'मात्रं कात्स्नर्येऽवधारणे इत्यमरः । विभिद्यमाना स्वयं विशीर्यमाणा । कर्मकर्तरि शानच् । तरङ्गसंहति- स्तीरेषु सारसान्पक्षिविशेषान् 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः। यद्वा । सारसान्हंसान् । 'चक्राङ्गः सारसो हंसः' इति शब्दार्णवे। उदस्योत्सार्य विससार वितस्तार ॥

शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः।
[१४७]टाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥३२॥

  शिलेति॥ शिलावद्धनैः कठिनैर्नाकसदां गन्धर्वाणामुर:स्थलैर्बृहन्निवेशैर्महासंस्थानै:।


अतिस्थूलैरित्यर्थः । वधूपयोधरैश्च तटमभितो नीतेन प्रापितेनात एक विभिन्नवीचिना भग्नोर्मिणाम्भसा कर्त्रा । रुषेवेति हेतूत्प्रेक्षा। कलुषत्वमाविलत्वम् । मनःक्षोभश्च ध्वन्यते। भेजे। कर्मणि लिट् । यथा कश्चिन्मृदुस्वभावः केनचित्कठिनादिना साङ्गभङ्गं ताडयित्वा निष्कासितःक्षुभ्यति तद्वदिति भावः। कलुषत्वमित्यत्र वाच्यप्रतीयमानयोरभेदाध्यवसायः। अन्यथा शुद्धवाच्यस्याविलत्वस्य रोषहेतुकत्वादुत्प्रेक्षानुविधानादिति ।।

विधूतकेशाः परिलोलि[१४८]तस्त्रजः सुराङ्गनानां प्र[१४९]विलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः॥३३॥

  विधूतेति ॥ विधूता विक्षिप्ताः केशा यैस्ते परिलोलिता विलोलिताः स्त्रजो यैस्ते प्रविलुप्तचन्दनाःप्रमृष्टाङ्गरागा अतिप्रसङ्गादविच्छेदात्सुराङ्गनानां विहितागसः कृतमण्डन- खण्डनरूपापराधा अत एवोर्मयस्तरङ्गाः । सभया इव स्त्रीभ्यो भीता इव मुहुः प्रकम्पमीयुः। स्वाभाविकस्य कम्पस्य भयहेतुकत्वमुत्प्रेक्ष्यते । यद्वा । सुराङ्गनानां विधूतकेशा इत्यादियोजना । सापेक्षत्वेऽपि गमकत्वात्समासः । स्त्रीसंग्रहणसाहसमपराधः । भयं तु राजादिभ्य इति ॥

विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये।
हृतस्य शेषानिव कुङ्कुमस्य तान्विकस्थनीयान्दधुरन्यथा स्त्रियः॥३४॥

  विपक्षेति ॥ विपक्षस्य सपत्नीजनस्य चित्तानामुन्मथनाः । व्यथका इत्यर्थः । बहुलग्रहणात्कर्तरि ल्युट् ।ये नखव्रणा नखक्षतानि । 'व्रणोऽस्त्रियाम्' इत्यमरः । विभ्रमस्य सौन्दर्यस्य मण्डनम् । तादर्थ्येऽप्यश्वघासादिवत्यष्ठीसमासः । न तु चतुर्थीसमासो यूपदार्वादियत्प्रकृतिविकाराभावादिति । तेन कुङ्कुमलेपादिना तिरोहिताश्छन्ना इतस्य क्षालितस्य कुङ्कुमस्य । व्यञ्जकत्वेन शेषानिवावशिष्टलेशानिव स्थितानित्युत्प्रेक्षा । विकत्थनीयान्भर्तृवाल्लभ्यस्य व्यञ्जकत्वेन श्लाघनीयांस्तान्नखव्रणान्स्त्रियोऽन्यथा दधुः। प्रकाशं दधुरित्यर्थः ॥   अथ युग्मेनाहः-सरोजेत्यादिना ॥

सरोजपत्रे नु[१५०]विलीनषट्पदे वि[१५१]लोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥३५॥

  अमू पुरोवर्तिनी विलीनपट्पदे संसक्तभृङ्गे । सकनीनिकत्वमक्ष्णोरर्थं सिद्धमित्युपमानं विशिष्यते । सरोजपत्रे नु । यद्वा । विलोलदृष्टेश्चञ्चलाक्ष्या विलोचने स्वित् । नुस्विच्छब्दौ वितर्के । किंच । नतपक्ष्मसंततेश्चञ्चलाक्ष्याः शिरोरुहाः स्विन्निशब्दं नीरवं च तन्निश्चलं च तद्भिरेफवृन्दं तु ॥


अगूढहासस्फुटदन्तकेसरं मुखं खिदेतद्विक[१५२]सन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः॥३६॥

  अगूढेति ॥ किंच । अगूढहासो व्यक्तस्मितं तेन स्फुटा दन्ताः केसरा इव दन्तकेसरा यस्य तन्मुखं स्वित् । यद्वा विकसत्पङ्कजं न्वितीत्थम् । संशयेनेति शेषः । नलिनीवने प्रलीनां निगूढां सखी योषितः सुचिरेणातिविलम्ब्य विदांबभूवुर्विविदुः । निश्चिक्युरित्यर्थः। 'उषविदजागृभ्योऽन्यतरस्याम्' इति विकल्पादाम्प्रत्ययः।अत्र युग्मे निश्चयान्तसंदेहालंकारः॥

प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजंन काचिद्विजहौ जलाविलांवसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥३७॥

  प्रियेणेति ॥ काचित्प्रियेण संग्रथ्य स्वयमेव रचयित्वा विपक्षसंनिधौ सपत्नीजनसमक्षं पीवरस्तने वक्षस्युपाहितां स्रजं मालां जलाविलाम् । मृदितामपीत्यर्थः । तां न विजहौ न तत्याज । न च निर्गुणायां तत्र का प्रीतिरिति वाच्यमित्यर्थान्तरन्यासेनाह-- गुणाः प्रेम्णि वसन्ति । वस्तुनि न वसन्ति हि । यत्प्रेमास्पदं तदेव गुणवत् । अन्यत्तु गुणवदपि निर्गुणमेव । प्रेम तु न वस्तुपरीक्षामपेक्षत इति भावः ॥

[१५३]संशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥३८॥

  असंशयमिति॥ स्त्रीणां नेत्रशोभार्थमञ्जनधारणमम्बुविहारोपगमाद्रक्तवर्णत्वं चाक्ष्णां ततः शुक्लत्वतिरोधानं च निश्चितमित्युत्प्रेक्षते । रमणीभिर्यदञ्जनं न्यस्तम्। तदिति शेषः। यत्तदोर्नित्यसंबन्धात्। तदञ्जनमुपान्तयो रक्ततां रोद्धुं प्रतिबद्धमेव न्यस्तम् । न तु शोभार्थमित्यर्थः । अन्यथा रागामिव्यात्या शुक्लत्वतिरोधानं स्यादित्यर्थः । असंशयमित्यु- त्प्रेक्षाव्यञ्जकम् । संशयस्याप्यभावः । नात्र संशयोऽस्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । कुत एतदिति चेद्यतस्तस्मिन्नञ्जने सलिलेन हृते क्षालिते सत्यपि रागः पूर्वोक्त एवोपा- न्तरक्तता किंतु प्रतिबन्धाभावादभितो व्याप्त्येत्याशयः। नयनेषु शुक्लतां निरास निरस्तवान्। अस्यतेर्लिट् । श्रियं शोभां तु न निरास । अतः शुक्लत्वविरोधिरागनिरोधार्थमेवेदमञ्जनं स्यात् । नतु शोभार्थम् । तस्यास्तदभावेऽपि सद्भावादित्यर्थः । अञ्जनापगमेऽपि तन्नयनानां राग एवालंकारोऽभूदिति भावः। अत्राञ्जनन्यासमनूद्य तस्य शोभार्थत्व- निषेधेन रागरोधार्थत्वोत्प्रेक्षणमुदितम् । उत्तरार्धे तस्यैव समर्थनात्। एवमुपान्तरक्ततां रोद्धुं यदञ्जनं न्यस्तमित्येकान्वये विध्यनुवादविरोधः स्यात् ॥

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः।
उपलुतास्तत्क्षणशोचनीयतां च्युताधिकाराःसचिवा इवाययुः ॥३९॥


  द्युतिमिति ॥ द्युतिं शोभां तेजश्च वहन्तो वेगिभिर्जविभिर्जलैरज्ञैश्च । डलयोरभेदात् । 'जलं गोकवले नीरे ह्रीवेरे च जडेऽन्यवत्' इति विश्वः । प्रलोभान्मोहाद्धृता गृहीता उपप्लुता मृदिताः। यद्वा कर्तरि क्तः। प्लवमाना इत्यर्थः । अन्यत्र । धनग्रहणबन्धनादिना पीडिता वनितावतंसकाश्युताधिकारा भ्रष्टाधिकाराः सचिवा इव तत्क्षणं शोचनीयतामाययुः प्रापुः॥

विपत्रलेखा निरलक्तकाधरा नि[१५४]रञ्जनाक्षीरपि बिभ्रतीः श्रि[१५५]यम् ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनम् ॥ ४०॥

  विपत्रेति ॥ विगताः पत्रलेखास्तिलकविशेषा यासां ता विपत्रलेखाः। निरलक्तकाः क्षालितरागा अधरा यासां ताः। निरञ्जनान्यक्षीणि यासां ता निरञ्जनाक्षीरपि । ब्रवीहौ सपथ्यक्ष्णोः स्वाङ्गात्यच् । 'षिद्गौरादिभ्यश्च' इति ङीप् । तथापि श्रियं बिभ्रतीः शोभाकारणाभावेऽपि शोभमाना इति विभावनालंकारः । रामा निरीक्ष्य नभश्चरैर्गन्धर्वैस्तासां वपुषैव मण्डनमलंकृतम् । न तु मण्डनेन तद्वपुरित्यक्षरार्थः । इति बुबुधे ज्ञातम् । कर्मणि लिट् । स्वभावरमणीयानां किमलंकरणैरिति भावः ॥

तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च[१५६]विपक्षयोषिताम् ।।४१॥

  तथेति ॥ विलासिनीजनः पूर्वं जलविहारात्प्राक्प्रियानुरागेण कृतो भूषणेष्वादर आसक्तिर्येन सः । अनुरक्ताप्रियत्वात्सम्यक्प्रसाधितः सन्नपीत्यर्थः । प्रियस्यानुरागेण च विपक्षयोषितां सपत्नीनां दृष्टीश्चक्षूंषि तथा न ददाह न दुःखीचकार । यथा जलार्द्रः सन् । नखशब्देन नखक्षतानि लक्ष्यन्ते । तान्येव मण्डनं तस्य श्रिया।तत्कृतशोभयेत्यर्थः। विपक्षयोषितां सपत्नीनां दृष्टीश्चक्षूंषि यथा ददाह तापयामास । मण्डनान्तरादपि नखमण्डमनुरागादपि तदनुभाव एव सपत्नीनां दुःखहेतुरिति भावः । जलार्द्रो ददाहेति- विरुद्धकार्योत्पत्तिरूपो विषमालंकारः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना वा स्याद्विषमालंकृतिस्त्रिधा ॥' इति लक्षणात् ।।

शुभाननाः साम्बुरुहेषु भीरवो विलोलहराश्चलफेनपङ्क्तिषु ।।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥४२॥

  शुभेति ॥ शुभानना विलोलहारा नितान्तगौर्योऽरुणाङ्ग्य:। 'गौरोऽरुणे सिते पीते' इति वैजयन्ती। भीरवस्ताः स्त्रियः साम्बुरुहेषु चलाः फेनपङ्क्तयो येषु तेषु हृतानि कुङ्कुमानि यैस्तेषु । कुङ्कुमसंक्रमारुणेष्वित्यर्थः । ऊर्मिषु विषयेष्वलमत्यर्थं परभागं गुणोत्कर्षं न लेभिरे । 'परभागो गुणोत्कर्षः' इति यादवः । तासामूर्मीणां चारुणत्वादिगुणसाम्यान्न कश्चिद्विशेषो लक्ष्यत इत्यर्थः । अत एव सामान्यालंकार:---- सामान्यं गुणसाम्येन


यत्र 'वस्त्वन्तरैकता' इति लक्षणात् । शुभाननत्वसाम्बुरुहत्वाद्युभयविशेषणानां क्रमेणो- भयस्मिन्समन्वयाद्यथासंख्यालंकारश्च । 'यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयात्' इति काव्यप्रकाशे लक्षणात् । अनयोरङ्गाङ्गिभावेन संकरः ॥

हृदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति ।
मुहुस्तनैस्तालसमं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥४३॥

  हृदेति ॥ व्यस्ताभ्यां विपर्यासिताभ्यां वधूकराभ्यामाहते । एकेन करेणोत्सार्यान्येन ताडित इत्यर्थः। ह्रदाम्भसि मृदङ्गध्वनिवद्धीरं गम्भीरं रवमुज्झति सति । तथा ध्वनति सतीत्यर्थः । मुहुस्तनैस्तालो गीतवाद्यनृत्यानां कालपरिच्छेदः । 'तालः कालक्रियामानम्' इत्यमरः । तस्य सममनुरूपं मनोरमं नृत्यमिव प्रवेपितं प्रकम्पः । भावे क्तः । समाददे स्वीकृतम् । उपमालंकारः ॥

श्रिया हसद्भिः कमलानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्नवी ॥४४॥

  श्रियेति ॥ श्रिया शोभया कमलानि हसद्भिः। कमलसदृशैरित्यर्थः । 'हसतीर्ष्यत्यसूयति' इति दण्डिना सदृशपर्यायपरा उक्ताः । सस्मितै: प्रतिमागतैः । प्रतिबिम्बगतैरित्यर्थः । 'प्रतिमानं प्रतिबिम्बं प्रतिमा' इत्यमरः । मुखैरलंकृतान्यम्बूनि यस्याः सा । किं च सुरराजयोषितां कृतमानुकूल्यं विहाराद्युपकारो यया सा । इत्थं योषिद्भिरुपकृता स्वयं च तासामुपचिकीर्षुर्जाह्नवी गङ्गा प्रसादस्य स्वच्छत्वस्य साफल्यम् । अर्थ- गौरववत्षष्ठीसमासनिर्वाहः। अवाप । अप्रसन्नाम्भसि विहारबिम्बग्रहणयोरसंभवादित्यर्थः। स्वच्छा एव हि परैरुपक्रियन्ते स्वयं चोपकुर्वते तेषामिति भावः । 'कृतानुकारा' इति पाठेऽनुकारोऽनुकूलकरणमुपकार इत्येवं व्याख्येयम्।अत्र जाहृवीविशेषणपदार्थस्य साफल्यं प्रति हेतुत्वाकाव्यलिङ्गमलंकारः ॥

परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः।
उपाययु: कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥४५॥

  परीति ॥ परितः स्फुरद्भिर्विवर्तमानैर्मीनैर्विघट्टिता ऊरवो यासां ता अतएव त्रासविलोलदृष्टयो भयविकसन्नेत्राः कम्पितपाणिपल्लवाश्च सुराङ्गनाः सखीजनस्यापि विलोकनीयतामुपाययुः । किमुत प्रियजनस्येति भावः । स्वभावोक्तिरलंकारः ।।

भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥४६॥

  भयादिति ॥ मानिनी । दुर्लभस्वयंग्रहणेति भावः । अम्भसि जले झषेण मत्स्येनाहते सति । 'पृथुलोमा झषो मत्स्यः' इत्यमरः । भयादिव । वस्तुतस्तु न तथेति भावः। किं तु मुदौत्सुक्येनैवाश्लिष्य प्रियमानन्दयति स्म । तथाहि । रामाः स्त्रियोऽकृत्रिमोऽनारोपितो यः प्रेमैव रसस्तेनाहितैनितैः कृतकैः । कृत्रिमैरपीत्यर्थः । ईहितैश्चेष्टितैर्मनो हरन्ति । आरोपितमपि भयं प्रेममूलत्वान्मनोहरं बभूवेत्यर्थः । अत्राल्पानुभावेन भयेन सहजरागनिगूहनान्मीलनालंकार:- 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्' इति लक्षणान्तरसंभवादर्थान्तरन्यासेन संसृज्यते ॥

तिरोहितान्तानि नितान्तमाकुलैरपां वि[१५७]गाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः॥४७॥

  तिरोहितेति ॥ अपां विगाहान्नितान्तमाकुलैर्विकीर्णैः प्रसारिभिरायतैरलकैः केशैस्तिरोहितान्तानि च्छन्नप्रान्तानि वधूनां वदनानि द्विरेफवृन्दैरन्तरितानि च्छन्नानि सरोरुहाणि तैः सरोरुहैस्तुल्यतां ययुरित्युपमालंकारः ॥

करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा।
सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥४८॥

  कराविति ॥ मानिनी पयस्यगाधे सति । किलेत्यलीके । मजनभयादिवेत्यर्थः । जातसंभ्रमोत्पन्नभयात् एव नवपल्लवाकृती करौ धुनाना कम्पयन्ती । धुनोतेः त्र्यादिकात्कर्तरि लटः शानच् । सखीषु विषये निर्वाच्यमवाच्यम् । अनिन्द्यमित्यर्थः । धार्ष्ट्यदूषितश्च न भवतीत्यधार्ष्ट्यदूषितस्तम् । वस्तुतो रागमूलमपि भयमूलत्वारोपादिति भाव:। प्रियाङ्गसंश्लेपमवाप । अत्रापि तुल्याङ्गेन भयेनागन्तुकेन सहजानुरागनिगूह- नान्मीलनालंकारः । तदुक्तं काव्यप्रकाशे -- 'समानलक्षणं वस्तु वस्तुना यन्निगृह्यते। निजेनागन्तुना वापि तन्मीलनमुदाहृतम् ॥'

प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासवि[१५८]कम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥४९॥

  प्रियैरिति ॥ प्रियैः कामिभिः सलीलं करवारिभिरञ्जलिजलैर्वारितोऽवरुद्धः। सिक्त इत्यर्थः । प्रवृद्धै संततैर्निःश्वासैर्विकम्पितौ स्तनौ यस्य सः । सविभ्रमं सविलासमाधूतानि कराग्रपल्लवानि पाणिपल्लवानि येन सः। विलसनशीला विलासिनी । मै कष- लसकत्थस्रम्भः' इति धिनुण्प्रत्ययः । सैव जनः । जातावेकवचनम् । यथार्थतामाप । उक्तरीत्यानेकर्विलासवत्तया यथार्थनामकत्वमवापेत्यर्थः । 'क्वचिद्गम्यमानार्थस्याप्रयोगः' इति नाम्नो न प्रयोगः । यथा माधे-~~-'चिराय याथार्थ्यमलम्भि दिग्गजैः' इति। क्वचित्प्रयुज्यते च । यथा रघुवंशे--"परंतपो नाम यथार्थनामा' इति। नैषधेऽपि-- 'स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः' इति । स्वभावोक्तिरलंकारः॥

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवंदनादिवाददे ॥ ५०॥


  उदस्येति ॥ दयितेन धैर्यं काठिन्यमुदस्यापनीय । अनुनीयेत्यर्थः । सादरं यथा तथा प्रसादितायाः सौमनस्यं गमिताया नतभ्रुवः स्त्रियः संबन्धि करवारिभिर्वारित- भवरुद्धमतएव निमीलती नयने यस्य तन्मुखं सपत्नीवदनादिव श्रियमाददे जग्राह । तदानीं तद्वदनस्य निःश्रीकत्वात्तदीयश्रीग्रहणमुत्प्रेक्ष्यते ॥

विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् ॥५१॥

  विहस्येति॥ धृताम्भसि प्रियसेचनार्थं गृहीतजले पाणौ । अञ्जलावित्यर्थः। प्रियेण विहस्य विधृतेऽवलम्बिते सति । अतएच मदनार्द्रचेतसो मदनपरवशाया वध्वाः संबन्धि वीतोच्चयबन्धं मुक्तनीविग्रन्थि । स्रंसमानमित्यर्थः । अंशुकं पयसा धनीकृता काञ्ची सखीव बभार जग्राह । स्त्रीणां किल स्त्रीष्वेवायत्तं लज्जारक्षणमिति भावः ।।

निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् ।
नतभ्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥५२॥

  निरञ्जन इति ॥ नतभ्रुवोऽङ्गनाया विग्रहे वपुषि निरञ्जने निर्धौतकज्जले दृशौ विलोचने कर्म साचिविलोकितं तिर्यगीक्षणं कर्तृ मण्डयति स्म । 'तिर्यगर्थे साचि तिरः' इत्यमरः । अयावकं क्षालितलाक्षारागमोष्ठपल्लवं वेपथुः कम्पो मण्डयति स्म। 'ट्वितोऽथुच्' इत्यथुच्प्रत्ययः । अतिलकं तिलकरहितं तदास्पदं तिलकस्थानं ललाटम् । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । बलिक्रिया रेखाबन्धश्च मण्डयति स्म । तदा निरलंकारस्याङ्गनाशरीरस्य तच्छरीरविकारैरेवालंकारः समजनीत्यर्थः ।।

निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनःश्रमो नु तासां मदनो नु पप्रथे॥५३॥

  निमीलदिति ॥ प्रियोपकण्ठं प्रियसमीपे । अत्यन्तसंयोगे द्वितीया । निमज्जतीनां विगाहमानानामतएव निमीलन्ति निमिषन्त्याकेकराण्याकेकरवन्ति लोलानि चक्षूंषि यासां तासाम् । आकेकरलक्षणं तु नृत्यविलासे-'दृष्टिराकेकरा किंचित्स्फुटापाङ्गे प्रसारिता । मीलितार्धपुटा लोके ताराव्यावर्तनोत्तरा' इति । तासां स्त्रीणाम् । कृतो गात्राणां वेपथुः कम्पो येन सः । श्वसितैर्निःश्वासैरुद्धतावुत्पतितौ स्तनौ येन सः। श्रमः खेदो तु भदनो नु पप्रथे प्रादुर्बभूव । निमज्जनप्रियसंनिधानरूपोभयकारणसं- भवान्नेत्रनिमीलनगात्रकम्पनिःश्वासधारणाञ्च संदेहः । स एवालंकारः ॥

प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः।
जनस्य रूढप्रणयस्य चेत[१५९]सः किमप्यमर्षोऽनुनये भृशायते॥५४॥

  प्रियेणेति ॥ काचित्प्रियेण विपक्षतः सपत्नीतश्चरमं पश्चात्सिक्ता सती चुकोप ।


सान्त्वनैरनुनयैर्न तुतोष । तथाहि । रूढप्रणयस्य गाढप्रेम्णो जनस्य संबन्धी चेतसो मनसोऽमर्षः प्रकोपः किमपि कुतोऽपि हेतोरनुनये सति भृशायते गाढो भवति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । अन्यत्र शान्तिहेतुरनुनयोऽत्र प्रकोपायैव भवति । तत्र कारणं तु न ज्ञायत इत्यर्थः ।

इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
[१६०]त्सर्पितोर्मिचयलङ्घिततीरदेशमौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ५५ ॥

  इत्थमिति ॥ पीनै: स्तनैरूरुभिर्जघनस्थलैश्च शालन्त इति तथोक्ताभिरिति सलि- लनोदनसामर्थ्योक्तिः । स्थलस्य साक्षादप्राण्यङ्गत्वान्न द्वन्द्वैकवद्भावः । वनिताभिरित्थं विहृत्योदस्यमानं नुद्यमानमुत्सर्पितैरुपरिभावं प्रापितैरूर्मिचयैर्लङ्घितस्तीरदेशो येन तद्वारि । औत्सुक्यं विहारासहिष्णुत्वं तेन नुन्नं प्रेरितमिवेत्युत्प्रेक्षा । 'नुदविद-' इत्यादिना निष्ठानत्वम् । पुरोऽग्रे प्रतस्थे । स्वजनवदिति भावः ।।

ती[१६१]रान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ॥ ५६ ॥

  तीरान्तराणीति ॥ रथाङ्गनाम्नां मिथुनानि चक्रवाकद्वन्द्वान्यन्यानि तीराणि तीरान्तराणि नीत्वा । नियोज्येत्यर्थः । अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः । विलोलिता विलुलिताः सरोजवनश्रियो याभिस्ताः सुरसरिज्जलैर्धौतहाराः. क्षालितमुक्तावलयस्ताः स्त्रियस्तारावितानैरुडुगणैस्तरला भासुराः । 'तरलो भासुरे हीरे चञ्चलेऽपि' इति वैजयन्ती । यामवत्यो रात्रय इव । संरेजिरे शुशुभिरे ॥

संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् ।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥ ५७ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीयेऽष्टमः सर्गः।

  संक्रान्तेति ॥ संक्रान्तैश्चन्दनरसैर्मलयजद्रवैराहितो वर्णभेदो रूपान्तरं यस्य तत् । विच्छिन्नानि त्रुटितानि यानि भूषणानि तेषां ये मणिप्रकरां मणिगणास्तेषामंशुभिश्चित्रं


नानावर्णम् । बद्धोर्मि तरलं तरङ्गितं नाकवनिताभिः परिभुक्तमुक्तं पूर्वं परिभुक्तं पश्चान्मुक्तम् । 'पूर्वकाल-' इत्यादिना तत्पुरुषः । सिन्धोर्गङ्गायाः सलिलम् । शेरते- ऽत्रेति शयनीयं तल्पम् । बहुलग्रहणात्साधुः । तस्य लक्ष्मीं बभार । अतएव निदर्शनालंकारः। लक्षणं तूक्तम् ॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयका- व्यव्याख्यायां घण्टापथसमाख्यायामष्टमः सर्गः समाप्तः ।।


नवमः सर्गः।


वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः।
तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥१॥

  वीक्ष्येति ॥ अथ जलक्रीडानन्तरं भानुमानंशुमानात्तचित्रपरिधानविभूषाः स्वी- कृतविविधवस्त्राभरणाः । सुरवसंनाहवतीरित्यर्थः । अतएव रन्तुमनसः। 'समानकर्तु- केषु तुमुन्'। 'लुम्पेदवश्यं मः कृत्ये तुं काममनसोरपि' इति मकारलोपः।सुरनारी:। वीक्ष्य तासां प्रियार्थं तत्प्रियार्थमिव । अवसरदानरूपं प्रियं कर्तुमिवेत्यर्थः। फलोत्प्रेक्षेयम्। अस्तमदर्शनम् । मकारान्तमव्ययमेतत् । यातुं प्राप्तुमुपपयोधि पयोधिसमीपे ललम्बे सस्रंसे । अस्मिन्सर्गे स्वागतावृत्तम्-'स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥

मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥२॥

  मध्येति ॥ मध्यमोपलनिभे नायकमणिसदृशे । 'निभसंकाशनीकाशप्रतिरूपोपमादयः' इत्यमरः । 'शर्करायां स्त्रियां प्रोक्तः पुंस्यश्मन्युपलो मणौ' इति वैजयन्ती। लसदंशौ प्रसरद्रश्मौ भानावेकत एकस्सिन्भागे च्युतिं स्रस्ततामुपेयुषि प्राप्ते सति द्यौः परिवृत्त्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् । अन्यत्र गात्रस्य तिर्यगावृत्त्या मुहुश्चलन्तीम् । वासरलक्ष्मीं हारयष्टिं मुक्तावलीमिवोवाह वहति स्म ।

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपु[१६२]रुवाह पतङ्गः ॥३॥

  अंशुपाणिभिरिति ॥ पतङ्गः सूर्यः । 'पतङ्गः पक्षिसूर्ययोः' इत्यमरः । अतीव निर्भरम् । 'अत्यतीव च निर्भरे' इत्यमरः । पातुमिच्छुः पिपासुस्तृषितः सन् । पिबतेः सन्नन्तादुप्रत्ययः । अंशव एवं पाणयस्तैः पद्मेषु जातं पद्मजं मधु मध्वेव । मध्विति


श्लिष्टं रूपकम् । मकरन्दमद्यमित्यर्थः । 'मधु मद्ये पुष्परसे' इत्यमरः । भृशमत्यन्तं रसयित्वास्वाद्य क्षीबतां मत्तत्वं गत इवेत्युत्प्रेक्षा । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । क्षितिमेष्यन्गमिष्यंल्लोहितं रक्तं वपुरुवाह । यथा मत्तः क्षीबतया क्षितौ लुठति रज्यते च तद्वदिति भावः । सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः । अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः ।।

गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं चक्रवाकहृ[१६३]दयान्यभितापः ॥४॥

  गम्यतामिति ॥ सहस्रमरीचौ सूर्ये । लोहितो भवतीति लोहितायति । 'लोहि- तादिडाज्भ्यः क्यप्' इति क्यप् । 'वा क्यप:' इति परस्मैपदे शतृप्रत्ययः । अतएव नयनानां गम्यतामुपगते दर्शनीयतां प्राप्ते सत्यभितापो धरित्रीं विरहय्य विहाय । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । चक्रवाकहृदयान्याससाद प्राप । अत्र धरित्र्या यादृशस्तीव्रार्ककरकृतसंतापस्तादृक्चक्रवाकहृदयेषु विरहसंतापः संजात इति परमार्थः। परंतु तदुपक्रमानन्तरमेतस्याविर्भावात्स एवात्र संक्रान्त इत्यभेदाध्यवसायेनोपदेशः। अतएव भेदेऽभेदरूपातिशयोक्तिरलंकारः ।।

मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि संभृतसान्द्रः।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः॥ ५॥

  मुक्तेति ॥ रवौ सामि मज्जस्यर्धास्तमिते सति । 'सामि स्वर्धे जुगुप्सायाम्' इत्यमरः । मुक्तं त्यक्तप्रायं मूलमाश्रयभूतो रविः । अन्यत्र स्वामी । येन सोऽतएव लघुरल्पकश्च मुक्तमूललघुरुज्झितपूर्वस्त्यक्तपूर्वदिक्कः । अन्यत्र त्यक्तपूर्वजनः।पश्चिमे नभसि नशोभागे। अन्यत्र क्वचिन्नीचस्थले । संभृतः संहतः सन् । अतएव सान्द्रश्च रश्मिसमूहः । आश्रितजनश्च ध्वन्यते । खिन्नश्चासौ जिह्मश्च, खिन्नेन दुःखेन जिह्यो वा, दीन इव न विरेजे । अत्र मुक्तमूलत्वादिप्रस्तुतविशेषणसाम्यादप्रस्तुताश्रितजन- प्रतीतेः समासोक्तिः । तत्र वाच्यस्य रश्मिसमूहस्याचेतनस्यापि प्रतीयमानेन चेत- नेनाभेदाभिधानाद्दु:खितत्वाद्युत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः॥

कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डनमभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥६॥

  कान्तेति ॥ कुङ्कुभवत्कुङ्कुमेन वा ताम्राः सायस्य सायंकालस्य । 'सायं साये प्रगे प्रातः' इत्यमरः । यन्मण्डनं तदभि तदुद्दिश्य त्वरयन्त्यस्त्वरां कारयन्त्यः सौधानां जालैर्गवाक्षः पतिताः प्रविष्टाः । 'जालं गवाक्ष आनाये' इति वैजयन्ती। रविभासः सूर्यरश्मयः कान्तानां प्रेयसां दूत्य इव वनिताभिः सादरं यथा तथा ददृशिरे दृष्टाः। सायंतनार्कभासां प्रियसमागमसुचकत्वादेव तासु स्त्रीणामादरोऽभवदित्यर्थः ॥


अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥७॥

  अग्रेति ॥ विवस्वान्सूर्योऽग्रेऽस्तशैलशिखरे ये सानवस्तेषु ये भूरुहास्तान्नितान्त- पिशङ्गैरत्यन्तारुणैर्मृदुभिः करैरिव करैरंशुहस्तैरिति श्लिष्टरूपकम् । 'बलिहस्तांशवः कराः' इत्यमरः । यद्वा । करैर्मृदु श्लथमवलम्ब्य । अस्त इति शैलोऽस्तशैलः । 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । तस्य गहनं काननं नु जलधिं नु महींन्वाविवेश । तपनस्य पतनसंदेह एव दृष्टः । पतनं तु क्व चास्य तन्न ज्ञायते । शीघ्रभावादिति भावः । अत्र तपने पतनस्यारोप्यमाणस्य गहनाद्यनेकविषयत्वेन संदेहात्संदेहालंकारः॥

आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥८॥

  आकुल इति ॥ चलानां कुलायेभ्यः कुलायान्प्रति चलतां पतन्त्रिकुलानां पक्षिस- मूहानामारवैः शब्दैराकुलो व्याप्तः । अनुदितशब्देनाभावमात्रमुषःशब्देन संध्यामात्रं च विवक्ष्यते । उषसि भव औषसः। 'संधिवेला-'इत्यादिना योगविभागादण्प्रत्ययः । अन्यथा कालाट्ठ्ञ्स्यात् । तथा चानुदितौषसरागोऽविद्यमानसंध्याराग इत्यर्थः। एकत्रा- पगमादन्यत्रानुदयाच्चेति भावः । अहरिदश्वोऽविद्यमानसूर्यः । एकत्रानुदयादन्यत्रा- स्तमयाञ्चेति भावः। अतएव विपाण्डुः । तिमिरानुदयादिति शेषः। दिनान्तः सायंकालो दिनमुखेन प्रातःकालेन तुल्यतामाययौ । तद्वद्वभूवेत्यर्थः । अतएवोपमालंकारः ॥

आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमवितानवि[१६४]भासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९ ॥

  आस्थित इति ॥ स्थगितवारिदपङ्क्त्या पिहितमेघवृन्दया संध्ययास्थित आक्रान्तो व्याप्तो गगनपश्चिमभागः । सोर्मिः । ऊर्मिसंक्रान्तेत्यर्थः । तथा विद्रुमवितानविभासा प्रवाल प्रकरकान्त्या रञ्जितस्य स्वसावर्ण्यमापादितस्यं जलधेः श्रियमूहे । संध्याया रक्तवर्णत्वादिति भावः । वहतेः कर्तरि लिट् । तत्सद्दशीं श्रियमुवाहेत्यर्थः । अतएव निदर्शनालंकारः ॥

प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥१०॥

  प्राञ्जलाविति ॥ प्रबद्धोऽञ्जलिर्येन तस्मिन्प्राञ्जलौ बद्धाञ्जलौ । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वाच्यो वोत्तरपदलोपश्च । नतमूर्ध्नि नमस्कुर्वाणे तत्प्रवणं तत्र संध्यायामेवाहितं चेतो यस्य तस्मिन्नेवंविधेऽपि जने विषये


प्रेम हित्वा विहाय विरमन्त्या निवर्तमानया । 'च्याङ्परिभ्यो रमः' इति परस्मैपदम् । संध्यया चापलेनास्थैर्येण । युवादित्वादण्प्रत्ययः । सुजनादितरो दुर्जनस्तस्य मैत्री सख्यमनुविदधेऽनुचक्रे । कर्मणि लिट् । यथा दुर्जनमैत्री स्निह्यन्तमपि जहाति तद्वत्संध्यापि सेवमानं जनमहासीदित्यर्थः । मित्रस्य कर्म मैत्री । अणन्तान्ङीप् । अत्र संध्यादुर्जनमैत्र्योश्चापलं समानधर्मोऽनुविधानम् । अत एवार्थरूपेणेयमुपमा ॥

औषसातपभयादपलीनं वासरच्छविविरामपटीयः।
संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥११॥

  औषसेति ॥ औषसात्प्राभातिकादातपाद्भयं तस्मादिवेत्युत्प्रेक्षा । अपलीनं क्वचिद्रूढं वासरच्छवेरातपस्य विरामाद्धेतोः । पटीयः प्रभविष्णुतरम् । अन्धं करोतीत्यन्धकारं ध्वान्तम् । 'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः । अथ संध्यापगमनानन्तरं शनकैर्मन्दमन्दं निम्नात्संनिपत्यागत्य समानि समस्थलान्युदवाप व्यानशे। अत्र प्रस्तुता- न्धकारविशेषणसाम्यादप्रस्तुतार्थप्रतीतेः समासोक्तिरलंकारः। उत्प्रेक्षा त्वङ्गतः स्यात् ।।

एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥ १२ ॥

  एकतामिति ॥ एकतामभेदं गतस्येव तमोव्याप्त्या तथा प्रतीतेरियमुत्प्रेक्षा । महतः शैलादेरपि कस्यचित्कस्यापि पदार्थस्य विवेको भेदो नोपलेभे न गृहीतः।अतएवोत्प्रेक्षते- पतितेनास्तमितेन भास्वता सूर्येण । 'भास्वद्विवस्वत्सप्ताश्व--' इत्यमरः । भुवनानाम् । भुवनस्थपदार्थानामित्यर्थः । विशेषा भूधरादिभेदा आत्मनि स्वस्मिन्नेव निदधिर इव निहिता इव । कथमन्यथा नोपलभ्येरन्नित्यर्थः । अत्रोत्प्रेक्षयोः सजातीययोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः ।।

इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः॥१३॥

  इच्छतामिति ॥ वधूभिः स्वकामिनीभिः सहाभेदमवियोगमिच्छताम् । तथा संकल्पवतामपीत्यर्थः । यामिनीषु विरहिणाम् । नियतवियोगानामित्यर्थः। रहतेरावश्यकेऽर्थे णिनिः । यद्वा निन्दायामिनिः। तेषां विहगानां चक्रवाकाणां मिथुनानि वियोगमापुरेव । न तु नापुरित्ययोगव्यवच्छेदः । तथाहि । कालनियोगो दैवाज्ञा न लङ्घ्यते खलु । दुर्वार इत्यर्थः॥

यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ १४ ॥

  यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । अन्तिकगते समीपस्थेऽपि दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न तु संगच्छमाने सतीत्यर्थः । 'पाघ्राध्मा--' इत्यादिना दाणो यच्छादेशः । अम्बुरुहिण्या नलिन्योज्झितहर्षं चक्रवाकदुर्दशादर्शनादिव त्यक्तविकासं पङ्कजं मुखमिव नतिं नम्रत्वं नीयते स्म नीतम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति नयतेर्द्वि- कर्मकत्वात्प्रधाने कर्मणि लिटू । प्रायेण दुःखदर्शनात्स्त्रियः खिद्यन्ते । विशेषेण विरह- दर्शनादिति भावः । अत्र पङ्कजावनतेश्चक्रवाकविक्रोशानन्तर्यात्तद्धेतुकत्वमुत्प्रेक्ष्यते । तच्च मुखोपमेयमम्बुरुहिण्या कामिनीसाम्यं गमयन्त्या निरुह्यत इत्युपमोत्प्रेक्षयोरङ्गा- ङ्गिभावेन संकरः । व्यञ्जकाप्रयोगात्प्रतीयमानोत्प्रेक्षा ॥

रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ १५॥

  रञ्जिता इति ॥ तिमिरेणान्धकारेण विविधास्तरवः शैलाश्च रञ्जिताः स्वसावर्ण्य- मापादिता नु । अन्यथा कथमेषां नीलाढ्यत्वमिति भावः । तथा गगनं नामितं तु। आभूतलादिति शेषः । "मितां ह्रस्वः' इत्यत्र वाशब्दानुवृत्त्या व्यवस्थितविभाषाश्रयणान्न ह्रस्वः । यद्वा गगनं स्थगितमाच्छादितं नु । उभयत्रापि तमसावृतत्वान्न दृश्यत इति भावः । तथा धरित्री विषमेषु निम्मोन्नतेषु पूरिता समीकृता नु । अन्यथा तद्विवेकः कथं न स्यादिति भावः । ककुभो दिशश्च संहृता नु लुप्ताः किम् ।'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । कथमन्यथा न दृश्यन्त इति भावः । अत्र तिमिरे तरुशैलाद्यनेकविषयरञ्जकत्वादिकमारोप्य संदिग्ध इति संदेहालंकारः । अनेन नुशब्दस्य संभावनाद्योतकत्वमत्रोत्प्रेक्षाप्रकारमित्यलंकारसर्वस्वकारः ॥

रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।
स्पष्टतारकमियाय नमः श्रीर्वस्तुमिच्छति निरापदि सर्वः ॥१६॥

  रात्रीति ॥ श्रीः शोभा कर्त्री रात्रे संध्याया रागेण स्वच्छायोपरञ्जनेन मलिनान्यत एव विकासं रहयन्ति त्यजन्ति । रहयतेस्त्यागार्थाच्छतृप्रत्ययः । पङ्कजानि विहाय त्यक्त्वा स्पष्टतारकं नमः खमियाय पाप । तथाहि । सर्वो जनो निरापदि निर्बाधस्थले वस्तुं स्थातुम् । 'एकाच उपदेशेऽनुदात्तात्' इतीट्प्रतिषेधः। 'घसिश्च सान्तेषु वसिः प्रसारिणीः' इति वचनात् । इच्छति ॥   अस्तादिसंध्यान्तं वर्णयित्वा चन्द्रोदयवर्णनमारते-~-

व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ १७ ॥

  व्यानश इति ॥ शशधरेण चन्द्रेण विमुक्तः क्षिप्तः केतकीकुसुमकेसर इव पाण्डुर्लभ्भिता प्रापिता कान्तिर्यस्य सोऽशुसमूहो रश्मिसमूहश्चूर्णस्य कर्पूरक्षोदस्य मुष्टिरिव । मुष्टिशब्दस्य द्विलिङ्गत्वेऽप्यत्र पुंलिङ्गतैव ग्राह्या । उपमेयानुसारात् । वासवस्येन्द्रस्य दिशं प्राचीं व्यानशे व्याप । अनेन दिशानिशाकरयोर्नायिकानायकौपम्यं गम्यते ॥

उज्झती शुचमिवा[१६५]शु तमिस्रा[१६६]मन्तिकं व्रजति ता[१६७]रकराजे ।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥१८॥

  उज्झतीति ॥ इन्द्रस्येयमैन्द्री दिक्प्राची तारकराजे नक्षत्रनाथे। 'कनीनिकायां नक्षत्रे तारकं तारकापि च' इति विश्वः । अन्तिकं समीपं व्रजति सति । आशु तमिस्रामन्ध- तमसम् । 'तमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना' इति वैजयन्ती। शुचमिव । विरहदुःखमिवेत्यर्थः । उज्झती विजहती प्रसादो नैर्मल्यमेव गुणः स एव मण्डनं यस्य तत् । रश्मयो हास इव तेन विशदं मुखमिव मुखमग्रभागम् । श्लिष्टोपमेयम् । ऊहे वहति स्म । अत्र दिक्चन्द्रयोर्नायिकानायकौपम्यं गम्यते ॥

नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥१९॥

  नीलेति ॥ शैलरुद्धवपुष उदयगिरितिरोहितमण्डलस्य सितरश्मेरिन्दोः संबन्धि नीलनीरजनिभे श्यामकमलतुल्ये ख आकाशे निपतत्प्रसरत् । हिमवद्गौरं शुभ्रं करजाल- मंशुसमूहो वारिधेः पयसि निपतङ्गाङ्गमम्भ इव । रराज । उपमानेऽपि विशेषणानि योज्यानि ॥

द्यां निरुन्धद[१६८]तिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् ।
क्षिप्यमाणमसितेतरभासा शंभुनेव क[१६९]रिचर्म चकासे ॥ २० ॥

  द्यामिति ॥ द्यां निरुन्धदाकाशमावृण्वदतिनीलघनाभं मेचकम् । उद्यताः करा अंशवो हस्ताश्च यस्य तेन । असिताभ्य इतराः शुभ्रा भासो यस्य तेन चन्द्रेण पुरस्तात्प्राच्यामग्रे च क्षिप्यमाणं नुद्यमानं ध्वान्तं शंभुना क्षिप्यमाणं करिचर्मेव चकासे । उपमानेऽपि विशेषणानि योज्यानि ॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां ज[१७०]हति दीधितिजाले
निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥ २१ ॥

 अन्तिकेति ॥ अन्तिकान्तिकेऽतिसमीपे । 'प्रकारे गुणवचनस्य' इति द्विर्भावः। कर्मधारयवद्भावात्सुपो लुक् । अन्तिकान्तिकगतेनेन्दुना विसृष्टे मुक्ते दीधितिजाले किरणसमूहे जिह्मतां संकोचं जहति त्यजति सति तिमिरभारैस्तमःस्तोमैर्निरोधादुपरोधान्निःसृतो निर्गतो दिगन्त उच्छ्रसन्प्राणन्निव रराजेत्युत्प्रेक्षालंकारः ॥


लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकट[१७१]ङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ २२ ॥

  लेखयेति ॥ इन्दुर्विमलविद्रुमंभासा स्वच्छप्रवालसवर्णया लेखया कलयासंततं सान्द्रं तिमिरमादिवराहः कनकस्य टङ्कः शिलाभेदकं शस्त्रम्।'टङ्कः पाषाणदारणः'इत्यमरः। तद्वत्पिशङ्ग्या लोहितवर्णया । 'पिशङ्गादुपसंख्यानम्' इति डीप् । दंष्ट्रया भुवा मण्डलमिव । उदास उञ्चिक्षिपे । अस्यतेः कर्तरि लिट् । सोपसर्गादस्यतेरात्मनेपदं विकल्पात् ॥

दीपयन्नथ नभः किरणौघै: कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोघेरुन्ममज्ज शनकैस्तुहिनांशुः ॥ २३ ॥

  दीपयन्निति ॥ अथोदयानन्तरं किरणौघैर्नभो दीपयन्प्रकाशयन्कुङ्कुमेनारुणो यः पयोधरः कुचस्तद्वद्गौरोऽरुणः। उदयरागादिति भावः । तुहिनांशुरिन्दुः शनकैः पूर्वपयोधेः पूर्वसागराद्धेम्नः कुम्भ इवोन्ममज्जोज्जगामेत्युत्प्रेक्षा ।

उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥२४॥

  उद्गतेन्दुमिति ॥ लोको जनः । 'लोकस्तु भुवने जने' इत्यमरः । उद्गतेन्दुमुदितचन्द्रा- मविभिन्नतमिस्रामनि:शेषितध्वान्तां रजनीं व्यंशुकमपनीतावगुण्ठनमत एव स्फुटं दृश्यमानं मुखं यस्याः सा तां तथापि व्रीडयातिजिह्मां वक्रां नववधूं नवोढाम् । 'वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च' इति धरणिः । स्त्रियमिवावितृप्तः सन्पश्यति स्म ।

न प्रसादमुचितं गमिता द्यौर्नोद्धृतं तिमिरमद्रिवनेभ्यः।
दिङ्मुखेषु न च धाम विकीर्णं भूषितै[१७२]व रजनी हिमभासा ॥२५॥

  नेति ॥ हिमभासा चन्द्रेण द्यौराकाशमुचितंयोग्यं प्रसादं न गमिता । अद्रयो वनानि च तेभ्यस्तिमिरं नोद्धृतं नोत्सारितम् । दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्यस्तम् । तथापि रजनी भूषितैव। उक्तगुणासंपत्ताविति भावः । अत्र प्रसाधनकारणाभावेऽपि तत्कार्यभूषणोक्त्या विभावनालंकारः ॥

मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ २६ ॥

  मानिनीति ॥ उदितः शीतमयूख उष्णेन विरहतप्तेन बाष्पेण कलुषानाविलान्मानि- नीजनस्य कलहान्तरितनायिकाजनस्य विलोचनपातान् । मानभङ्गजनितरोषेण भीषणानिति भावः । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता। कलहान्तरिता' इति द-


शरूपके । प्रतिगृह्णन्स्वीकुर्वन् । अपरिहार्यत्वादिति भावः। अत एव भीतभीतो भीत- प्रकार इवेत्युत्प्रेक्षा । मन्दमन्दं मन्दप्रकारम् । उभयत्रापि 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुलोपः। खमाकाशं प्रययौ ॥

शिलष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः।
उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ २७ ॥

  लिप्यत इति । तताःप्रसारिताः करा एव करा अंशुहस्ता येन तस्य ततकरस्य तारका एव प्रियवधूरुपकण्ठमन्तिके कण्ठे वा । अत्यन्तसंयोगे द्वितीया। विभक्त्यर्थेऽव्ययीभावः। श्लिष्यतःप्रत्यासीदत आलिङ्गतश्च हिमांशोः संबन्धी समन्तादुद्वमन्नुत्सर्पन्। अर्थान्तरत्वादकर्मकत्वम् । 'धातोरर्थान्तरे वृत्तेः' इति वचनात् । लोहितरागो- ऽरुणप्रभोऽङ्गराग इवाभिरराज । आलिङ्गनाद्रागो गलतीति प्रसिद्धिः। अत्र रूपकोपमयोरङ्गाङ्गिभावेन संकरः।।

प्रेरितः शशधरेण करोघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ २८ ॥

  प्रेरित इति ॥ शशधरेण चन्द्रेण प्रेरितो विसृष्टः करौघ: संहतानि सान्द्राण्यपि तमांसि मन्दरेण मन्दराचलेन भिन्नो नुन्नः क्षीरसिन्धुरविरलाः सान्द्रा उच्चा उन्नताश्च तरवो येषु तानि काननानीव नुनोद दूरीचकार ॥

शारतां ग[१७३]मितया शशिपादैश्छायया विटपिनां प्रतिपेदे ।
न्यस्तशु[१७४]क्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ २९ ॥

  शारतामिति ॥ शशिपादैश्चन्द्ररश्मिभिः । 'पादा रश्म्यध्रितुर्यांशाः' इत्यमरः ।शारतां शबलतां गमितया। 'शारः शबलपीतयोः' इति विश्वः । विटपिनां तरूणां छायया न्यस्तैनिक्षिप्तै: शुक्लबलिभिः श्वेतपुष्पाद्युपहारैश्चित्राणि तलान्युपरिभागा यासां ताभिः । 'करोपहारयोः पुंसि बलिःप्राण्यङ्गजे स्त्रियाम्' इत्यमरः। वसतिवेश्ममहीभिर्निवासगृ- हृभूभिस्तुल्यता साम्यं प्रतिपेदे प्राप्ता । कर्मणि लिट् । आर्थीयमुपमा ।

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ३०॥

  आतप इति ॥ आतपे । दुःखकरेऽपीति भावः । बध्वा चक्रवाक्या सहाति एष धृति- मता संतोषवता यामिनीषु विरहिणा नियतविरहेणात एव विहगेन चक्रवाकेण हिमर- श्मेश्चन्द्रस्य किरणा न सेहिरे। तथाहि । दुःखिते संजातदुःखे मनसि सर्वम् । मनोहरम- पीति भावः । असह्यं सोढुमशक्यम् । 'शकिसहोश्च' इति यत्प्रत्ययः। पूर्वे तु 'आतपाः'


इति पेठु: । तत्र वध्वा सहातपा अपि सेहिरे । तद्विरहिणा तु शशिकिरणा अपि न सेहिर इति योज्यम् । फलं तु समानम् ॥

गन्धमुद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः॥ ३१॥

  गन्धमिति ॥ अपां कणवाही । योग्यान्वये व्यवधानमपि सोढव्यम् । विकसतां कुमुदानां गन्धं सौरभमुद्धतं रजः परागो यस्मिन्कर्मणि तद्यथा तथा। 'शेषाद्विभाषा' इति विकल्पान्न कप् । विक्षिपन्विकिरन् । इत्थं शिशिरः सुरभिः । यामिनीमरुद्रात्रिवायु: परितो लीनाः शयिता विहङ्गा यासु ता वनराजीरादुधावेषत्कम्पयामास । विहङ्गशय- नाविरोधेन वनराजिः किंचित्कम्पितेत्यर्थः । आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । यथा कश्चित्कामिनीं गन्धोदकादिना सिञ्चन्नाकर्षति तद्वदिति भावः ॥

संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ३२ ॥

  संविधातुमिति ॥ यामिनी वनितेव तया रात्रिरूपया कान्तया मन्मथस्याभिषेकं त्रिभुवनजैत्रयात्राभिषेकं संविधातुं सम्यक्कर्तुमंशवो जलानीव तेषामोघः पूरो लसन्यस्मिन्सः । ततचिह्नः स्फुटलाञ्छन इन्दुः सोत्पलो रजतकुम्भ इवोदास उत्क्षिप्तः । अस्यतेः कर्मणि लिट् । अत्र संविधातुमिति तुमुना प्रतीयमानोत्प्रेक्षयानुप्राणितोऽयमुपमोत्प्रेक्षयोः संकरः ॥

ओज[१७५]सापि खलु नूनमनूनं ना[१७६]सहायमु[१७७]पयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ३३ ॥

  ओजसेति॥ ओजसानूनं संपूर्णमप्यसहायं सहायरहितम्। पुरुषमिति शेषः। जयश्रीर्नोपयाति खलु नूनम् । कुतः। यद्यस्माद्विभुः समर्थोऽप्यनङ्गः शशिमयूखानां सखासहचरस्तथोक्तः । ससहायः सन्नित्यर्थः । विजयि विजयशीलम् । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः । चापमाददे । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥   इत्थमुद्दीपनसामग्रीमुपवर्ण्य संप्रति तत्कार्यभूतं रतिवर्णनमारते-

सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ३४ ॥

  सद्मनामित्यादि ॥ संनिकृष्टरतिभिरासन्नसुरतोत्सवैरत एव सुरदारैः सुरवधूभिरा- हितशोभैः प्रागेव विहितकेलिगृहमण्डनैरपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनमीषेऽभिलेषे । इषेः कर्मणि लिट् । आगतप्रियकथैः प्राप्तप्रियजनवृत्तान्तैरपि दू-


तस्य कर्म दूत्यं दूतीव्यापार ईषे । दूतस्य भावकर्मणोर्यत्प्रत्ययः । तथा भूषितैरपि विभूषणं प्रसाधनमीषे । औत्सुक्यातिरेकादिति भावः ॥

न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतरुपधत्ते रम्यतां प्रियसमागम एव ॥३५॥

  नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात्प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपधत्त आधत्ते । तदभावादरुचिर्युक्तैवेत्यर्थः । अतएव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । 'पोर- दुपधात्' इति यत्प्रत्ययः । 'कृत्यल्युटो बहुलम्' इत्यधिकरणार्थः ॥

प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः।
मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवललम्बे ॥३६॥

  प्रस्थिताभिरिति ॥ अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रचलिताभिर्ध्वम्सि- तानि खण्डितानि प्रियसखीवचनानि स्वयं प्रस्थानं लाघवायेत्येवंरूपाणि याभिस्ता- भिर्मानिनीभिः कोपनाभिः। 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति लक्षणात् । अपहस्तितं निरस्तं धैर्यं येन स तथा सादयन्मानं शरीरं च कर्षयन्नपि । सदोषोऽपीत्यर्थः। मदोऽवललम्बे स्वीकृतः अज्ञानव्याजेन लाघवापह्नवसौकर्यादिति भावः॥

कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ३७॥

  कान्तेति ॥ रतये सुरताय बहु संदिशतीभिरनेकं वाचिकं कथयन्तीभिः। संदेशव्यसनाद्गन्तव्यमप्यजानतीभिरित्यर्थः । रमणीभिः । कान्तवेश्म यातं प्राप्तमेव । न तु मध्ये मार्गान्निवृत्तमित्यर्थः । तथाहि । मन्मथेन परिलुप्तमतीनां स्खलितं विरुद्धाचरणमपि प्रायश उपकारि भवति ॥

आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।
निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥३८॥

  आश्विति ॥ आशु कान्तमभिसारितवत्या अभिगतवत्याः । स्वार्थे णिच् । योषितः संबन्धि पुलकै रुद्धाचावृतौ कपोलौ यस्य तत् । खण्डा प्रसृष्टा पत्राणां पत्रलेखानां तिलकस्य चाकृतिः संनिवेशो यस्य तत्तथोक्तं मुखं कान्त्याखण्डं पूर्णमिन्दुं निर्जिगाय जयति स्मेत्यार्थीयमुपमा। 'जयति द्वेष्टि' इति दण्डिना सादृश्यार्थेषु गणनात् ।।   अथ युग्मेन सखीनायिकासंवादमाह-

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ३९ ॥

  उच्यतामिति ॥ तत्र नायिकाह :-स धूर्तोऽशेषमखिलं वचनीयं वक्तव्यमुच्य- ताम् । निःशङ्कमुपालभ्यतामित्यर्थः । ब्रूझो दुहादित्वादप्रधाने कर्मणि लोट् । अथ सख्याह-हे सखि, ईश्वरे भर्तरि नायके विषये परुषता पारुष्यं न साध्वी न हिता। अथ नायिकाह—तनमननीय सान्त्वयित्वानय । पुनः सख्याह-विप्रियाणि जनयन्नप्रियाणि कुर्वन्स कथं वानुनेयोऽनुनयाहः ॥

किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ४० ॥

  किमिति ॥ पुनर्नायिकाह-तार्ह गतेन तं प्रति गमनेन किम् । कोऽर्थ इत्यर्थः । अत उपैतुं गन्तुं न युक्तं हि । पुनः सख्याह-हे सुभगमानिनि सौन्दर्यमानिनि । सुभगमात्मानं मन्यत इति । 'आत्ममाने खश्च' इति चकारागिणनिप्रत्ययः । तस्मिन्- प्रिये विषये को मानः । मानो न कर्तव्य इत्यर्थः । यद्वा। नहीत्यादि सखीवाक्यम् । तत्र नहीत्येकं वाक्यम् । तद्युक्तं सखीत्यर्थः । हे सखि, किं तूपैतुं युक्तम् । कुतः। सुभगमानिनि प्रिये को मानः । तादृग्जनस्य दुर्लभत्वादिति भावः । इत्येवंरूपासु योषितां कथासु विषये समेतैः । समीपमागत्याकर्णयद्भिरित्यर्थः । कामिभिर्बहुरसा- नेकस्वादा धृतिः संतोष ऊह ऊढा । अत्र रौक्ष्योत्सुक्यनिर्वेदाद्यनेकभावशाबल्यपरि- पूर्णकान्ताकथाकर्णनादुत्तरोत्तरमपूर्वहृदयानन्दनिष्यन्दमानन्दसंदोहमविन्दन्नित्यर्थः । प्रायेणात्र प्रौढाः कलहान्तरिताश्च नायिकाः॥

'योषितः पुलकरोधि दधत्या धर्मवारि नवसंगमजन्म ।
कान्तवक्षसि बभूव पतन्त्या म[१७८]ण्डनं लुलितमण्डनतैव ॥ ४१ ॥

 योस्ति इति ॥ पुलकरोधि रोमाञ्चव्यापि नवसंगमेन जन्म यस्य तद्धर्मवारि स्वेदो- दकं दधत्या इति सात्त्विकोक्तिः । कान्तवक्षसि पतन्त्येत्यौत्सुक्योक्तिः । योषितो या लुलितमण्डनतोत्सृष्टप्रसाधनत्वम् । भावे तल् । सैव मण्डनं बभूव । तादृश- फलत्वात्तस्येति भावः ॥

शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलजः।
संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ४२ ॥

शीध्विति ॥ शेरतेऽनेनेति शीधु पक्केक्षुरसविकारो मद्यविशेषस्तस्य पानेन विधु-


रासु विमूढासु । तथा दयितैः संगतासु स्वयंप्राप्तासु च कामिनीष्वतिमानवतीस्वाशु मानं कोपं निगृह्णन्निवर्तयन् । शिथिलीकृता लज्जा येन स मदनो तु मदो नूपलेभे । लक्ष्यते स्मेत्यर्थः । प्रियसमागमशीधुपानरूपोभयकारणाभङ्गादुभयथा माननिग्रहाद्य- नुभावसाधारण्याच्च संदेहः । स एवालंकारः ॥

द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलहोऽस्याः।
कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥४३॥

  द्वारीति ॥ द्वारि त्वदागमनमार्ग एव चक्षुरित्यौत्सुक्योक्तिः। अधिपाणि पाणौ करे कपोलाविति चिन्तोक्तिः । किंबहुना जीवितं त्वयि त्वदधीनम् । त्वां विना न जीवतीत्यर्थः । इति गाढानुरागोक्तिः । अतोऽस्याः कलहो विग्रहः कुत इत्येवं कामिनां प्रीतये पुनरुक्तं पुनःपुनरुच्यमानं वचो दूतीवाक्यं नवनवत्वं नवप्रकारत्वम- पूर्ववद्भावमियाय । प्रकारार्थे द्विर्भावः। कर्मधारयवद्भावात्सुपो लुक् । कान्तानुराग- प्रकटनात्कामिनः प्रहृष्यन्तीति भावः । कलहान्तरितेयम् ।

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥ ४४ ॥

  साचीति ॥ लोचनयुगं साचि तिर्यङ्गमयन्ती प्रिये तिर्यक्पातयन्ती । न तु सम- रेखयेत्यर्थः । दयितवक्षसि पातं रुन्धतीष्टमपि प्रतिबध्नती लज्जा सुभ्रुवो नायिकाया विभूषां शोभां जनयति स्म संगतौ सुरतप्रसङ्गे सत्युपरराम च । एवं यतस्तदा चा- भूषणमेवेति भावः । 'विभाषाकर्मकात्' इति परस्मैपदम् ॥

सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथम[१७९]भिबाष्पनिपातः ॥४५॥

  सव्यलीकमिति ॥ सव्यलीकं सापराधमत एवावधीरितोऽवज्ञातः सन् । खिन्नस्तम् । 'पूर्वकाल-'इत्यादिना तत्पुरुषः । सपदि कोपस्य पदेन व्याजेन प्रस्थितं निर्गच्छन्तं प्राणनाथं प्रियं योषितः संबन्ध्यभिबाष्पनिपात आभिमुख्येनाश्रुमोक्षः सुहृदिव रुणद्धि स्म रुरोध ।बाष्पपातस्य मन्युमोक्षलिङ्गतया प्रस्थानप्रतिबन्धकत्वात्सुहृदौपम्यम्। इयमधीरा खण्डिता--'ज्ञातेऽन्यासङ्गिनि पतौ खण्डितेर्ष्याकषायिता। अधीराश्रु विमुञ्चन्ती विज्ञेया चात्र नायिका ॥' इति दशरूपके ॥

शङ्किताय कृतबाष्पनिपातमीर्ष्यया विमुखितां दयिताय ।
मानिनीमभिमुखा[१८०]हितचित्तां शंसति स्म घनरोमविभेदः॥४६॥

  शङ्कितायेति ॥शङ्किताय दयितायाविश्वस्ताय नायकायेर्ष्यया विमुखितां विमुखीकृ-


ताम् । अतएव कृतबाष्पनिपातां मानिनीं धनरोमविभेद: सान्द्रपुलकोदयोऽभिमुखमाहितं चित्तं यया ताम् । निष्कोपामित्यर्थः । शंसति स्म । व्यनक्ति स्मेत्यर्थः । अन्यथा सात्त्विकानुयादिति भावः । अत्रापि पूर्वोक्तैव नायिका ॥

  अथ संभोगशृङ्गारमाह । तत्रापि बाह्यरतमाह---

लोलदृष्टि वदनं द[१८१]यितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामु[१८२]पपेदे ॥ ४७ ॥

  लोलेति ॥ प्रियतमे लोलदृष्टि चञ्चलेक्षणं दयिताया वदनं रभसेन बलात्कारेण चुम्बति सति विनीवि निर्गतबन्धनमंशुकं नितम्बाद्व्रीडया सह शिथिलतामुपपेदे । उभयमपि शिथिलमासीदित्यर्थः । अत्र व्रीडांशुकरूपसंबन्धिभेदभिन्नवृत्तिस्रंसनरूपशैथि- ल्यस्याभेदाध्यवसायनिबन्धनातिशयोक्तिभूलः सहोक्तिविशेषोऽलंकारः । अत एव व्रीडांशुकौपम्यं च कल्प्यम् । अत्र वात्स्यायन:-बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते। तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् ॥ द्वितीयं सुरतं साक्षान्नानाकरणकाल्पितम् ॥' इति ॥

हीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः॥४८॥

  ह्रीतयेति ॥ गलितनीवि गलितबन्धनं तथाप्यवलम्बिता काञ्ची येन तत् । काञ्ची- लग्नमित्यर्थः। तदन्तरीयमधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । निरस्यन्नाक्षिपन् । हृदयेशः प्रियो ह्रीतया वस्त्रापगमाल्लज्जितया ।ह्रीधातोः कर्तरि क्तः। दयितया मण्डलीकृतो वर्तुलीकृतः पृथुस्तनभारो यस्मिन्कर्मणि तद्यथा तथा । गाढ- मित्यर्थः । सस्वज आश्लिष्टः । प्रियदृष्टेः प्रतिबन्धार्थमित्यर्थः ।।

आदृता नखपदैः परिरम्भाश्रुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसंभृ[१८३]तकीर्तिर्वाम एव सुरतेष्वपि कामः॥४९॥

  आदृता इति ॥ परिरम्भा आलिङ्गनानि नखपदैर्हेतुभिरादृता अभिमताः । 'हेतौ' इति तृतीया । तथा चुम्बितानि चुम्बनानि घनदन्तनिपातैर्गाढदन्तक्षतैर्हेतुमिरादृतानीति लिङ्गविपरिणामः । सुरतसुखोद्दीपकत्वान्नखदन्तक्षतपूर्वकेष्वालिङ्गनचुम्बनेष्वादरः संवृत्त इत्यर्थः । ननु सुकुमारे कामतन्त्रे कथं पीडाकरेष्वादर इति न वाच्यमित्याह- सौकुमार्येति । सौकुमार्यमेव गुणस्तेन संभृतकीर्तिर्लब्धयशाः कामः सुरतेषु संभोगेष्वपि । न केवलं विप्रलम्भेष्विति भावः । वामः क्रूर एव । सुकुमार काम इति वादमात्रम् । वस्तुतस्तु पीडयन्नेव सुखमावहतीति भावः । सामान्येन विशेषणसम- थेनरूपोऽर्थान्तरन्यासः ॥


  अथाभ्यन्तरं रतमाह-

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ ५० ॥

  पाणीति ।। रहस्येकान्त इति विश्रम्भातिशयोक्तिः । गद्गदवाचां स्खलद्भिरां योषितां संबन्धीनि पाणिपल्लवयोर्विधूननं कम्पनमन्तः सीत्कृतानि सीत्काराः । एतेन कुट्टमिताख्यो भाव उक्तः। 'अधरपीडनादौ सुखेऽपि दुःखवदुपचारः कुट्टमितम्' इति लक्षणात् । नयनानामर्धनिमेषा अर्धनिमीलितानि । रहस्येकान्ते गद्गदवाचां योषितामिति विशेषणसामर्थ्याद गद्गदकण्ठत्वं चेत्येतानि मदनस्यास्त्रतामुपययुः । अस्त्रवत्पुंसामुद्दी- पनान्यासन्नित्यर्थः । अत्र सीत्कारार्धनिमेषादिना सुखपारवश्यं व्यज्यते । तदुक्तं रति- रहस्ये--'स्वस्तता वपुषि मीलनं दृशोर्मूर्च्छना च रतिलाभलक्षणम् । श्लेषयेत्स्वजघनं मुहुर्मुहुः सीत्करोति गतलज्जिताकुला ॥' इति ॥

  अथ मधुपानवर्णनमारभते-पातुमित्यादिना ॥

पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः॥५१॥

  युवान आहितरतीनि वर्धितरागाण्यत एवापुनरुक्तरसानि पुनःपुनः पानेनाप्यपूर्व- स्वादान्यत एव तर्षयन्ति तृष्णोत्पादकानि । अतृप्तिकराणीत्यर्थः । सस्मितानि वधूनां वदनानि सोत्पलानि मधूनि च पातुमभिलेषुरिच्छन्ति स्म । अत्र प्रस्तुतानामेव वदनानां मधूनां च पानक्रियौपम्यस्य गम्यत्वात्केवलं प्राकरणिकविषयतया तुल्ययोगितालंकारः। 'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति लक्षणात् ॥

कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥५२॥

  कान्तेति ॥ कान्तसंगमेन पराजितमन्यौ त्यक्तरोषे । तदवधिकत्वात्तस्येति भावः । किंच वारुणीरसनेन मध्वास्वादेन शान्तो विवादो वाक्कलहादिर्यस्य तस्मिन् । अत उपाहितसंधौ प्रियैः सह कृतसंधाने मानिनीजने विषयेऽनङ्गो धनुषीषुम् न संदधे संधानं नाकरोत् । सिद्धसाध्ये साधनवैयर्थ्यादिति भावः॥

कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः।
इत्यनेक उपदेश इव स्म खाद्यते युवतिभिर्मधुवारः ॥५३॥

  कुप्यतेति ॥ यूनः प्रियान्कुप्यत यूनां कोपं जनयत । नात्र 'क्रुधद्रुह-' इत्यादिना यूनां संप्रदानत्वे चतुर्थी । तस्य 'ये प्रति कोपः' इति नियमात् । अत्र कोपस्तावत्कृ त्रिम इत्याश्वानतचित्ता अनुकूलचित्ता भवत । किंच कोपितास्तान्वरिवस्यत परिचरत । 'नमोवरिवश्चित्रङः क्यच्' इति क्यच् । वरिवसः परिचर्यायामित्यर्थे तस्य नियमश्च । इत्येवमनेकोऽनेकप्रकारो य उपदेशः प्रवर्तकवाक्यं स इव मधुवारो मधु- पानावृत्तिः । 'मधुवारा मधुक्रमाः' इत्यमरः । युवतिभिः स्वाद्यते स्म । मधुवारस्य कोपादिकार्यप्रवर्तकत्वसाम्यादुपदेश इवेत्युत्प्रेक्षा । अनियताः खलु मत्तचेष्टा इत्ति भाव: ॥

भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा ।
ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ५४ ॥

  भर्तृभिरिति ॥ भर्तृभिः प्रणयसंभ्रमाभ्यां प्रेमादराभ्यां दत्ताम् । 'संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि' इति विश्वः । अत एवातिरसामधिकस्वादां वारुणीं वरुणात्मजाम् । 'सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा' इत्यमरः । रसयित्वास्वाद्य वधूभिर्ह्रीविमोहविरहान्मदेन लज्जाजाड्यापगमाद्धेतोः पाटवं पटुत्वं तु हृदयं ज्ञानविशेषं नूपलेभे । अत एव हृदयस्य तत्कार्यज्ञानसामर्थ्याद्धृदयमेव प्रागसत्पश्चाल्ल- ब्धमिति संदेहः । अन्यथा कथं प्रियं प्रति वक्रोत्याद्यर्थेषु प्रवृत्तिरिति भावः । संदेहालंकारः॥

स्वादितः स्वयमर्थेधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ५५ ॥

  स्वादित इति ।। स्वयं स्वादितः।आदौ स्वयमेवादाय पीतः, अथानन्तरं प्रियतमैरे- धितंमानं वर्धितबहुसंमानं यथा तथा लम्भितो ग्राहितः । स्वहस्तेन पायित इत्यर्थः। ततः प्रियतमैः सह पीतः । युगपदेकपात्रेण पीत इत्यर्थः । आसवः प्रमदानां प्रतिपदं प्रतिवारं नैकरूपरसतामनेकविधस्वादुत्वम् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नञ्समासे नलोपः स्यात् । भेज इव प्रापेव । उपचारविशेषाद्भोज्येषु रसविशेषः स्यादिति भावः । आस्वादनादिपदार्थानामनेकरसताप्राप्तिहेतुत्वात्काव्यलिङ्गं तावदेकं स्वादनादीनामनेकधर्माणामेकस्मिन्नेव सर्वक्रमेण संबन्धात्पर्यायभेदश्च । तयोश्च संसृष्टयोरनेकरसत्वोत्प्रेक्षाबीजत्वात्तया सहाङ्गाङ्गिभावेन संकरः॥

भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोलपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥ ५६ ॥

  भ्रुविलासेति ॥ भूविलासैः सुभगान्सुन्दान्वधूनयनानां विभ्रमाननुकर्तुं तैरात्मानं समीकर्तुमिवेति फलोत्प्रेक्षार्थत्वात् । मृदुविलोलपलाशैरीषच्चञ्चलदलैरुत्पलैश्चषकेषु या वीचयो मधूर्मयस्तासु यः कम्पः स आददे स्वीकृतः । न तु स्वकम्पस्तस्य विलो लविशेषणेनैवोक्तत्वात्तत्स्वीकारश्च तद्योग एव । पूर्वं नेत्रमात्रसाम्यभाजामुत्पलानां कम्पमानवीचियोगात्सुभ्रूविलासनेत्रसाम्यं जातमित्यर्थः ।।

ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ५७ ॥

  ओष्ठेति ॥ ओष्ट एव पल्लवस्तस्य विदंशे दंशने रुचिरभिलाषो येषां तेषाम् । मुख- सुरापानमिषेणाधरं पिपासतामित्यर्थः । रमणानां फुल्लानि लोचनान्येव विनीलसरोजानि येषु तैः । अङ्गनास्यान्येव चषकानि पानपात्राणि । 'चषकोऽस्त्री पानपात्रम् ' इत्यमरः । तैर्मधुवारो मधुपानावृत्तिर्हृद्यतां हृदयप्रियतामुपययौ । 'हृदयस्य प्रियः' इति यत्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लास-' इति हृद्भावः । रमणविशेषणार्थहेतुक- काव्यलिङ्गसंकीर्णरूपकालंकारः ॥

प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ५८ ॥

  प्राप्यत इति ॥ गुणवताप्याश्रयवशेन गुणानां विशेषः प्रकर्षः प्राप्यते व्यक्तम् । तत्तथा । यदुक्तं तत्तथैवेत्यर्थः । हि यस्माद्दयिताया आननेन करणेन दत्तं मधु रसातिशयेन स्वादुप्रकर्षण कर्त्रा व्यानशे व्याप्तम् । विशेषेण सामान्यसमर्थनरूपो- ऽर्थान्तरन्यासः॥

वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।
जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ५९॥

  वीक्ष्येति ॥ रत्नचषकेषु स्फटिकादिमणीपात्रेष्वतिरिक्तां यावकापगमात्पूर्वाभ्य- धिकां कान्तस्य यद्दन्तपदमण्डनं तस्य लक्ष्मीं शोभाम् । प्रतिबिम्बितामिति शेषः। वीक्ष्यौष्ठयावकनुदोऽधरलाक्षारागहारिणो मधुवारा मधुपानाभ्यासाः प्रमदानां बहुमता अभिमताः । वर्तमाने क्तः। तद्योगात्षष्ठी। जज्ञिरे जाताः । तेषां प्रियानुरागचिह्न- प्रकाशकत्वादिति भावः ॥

  मधुपानाद्विलोचनेषु रागोत्पत्तिरधरेभ्यश्च लाक्षारागनिवृत्तिर्मध्वाननयोश्चान्यो- न्यगन्धसंक्रान्तिरिति स्थिते सत्युत्प्रेक्षते--

लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥६०॥

  लोचनेति ॥ लोचने चाधरश्च लोचनाधरम् । 'समुद्राभ्राद्धः-' इति व्यभिचारज्ञाप- कान्नात्राधरशब्दस्य पूर्वनिपातः । कृतश्चासावाहृतश्चेति विशेषणसमासः । लोचना- धरस्य कृताहृतो रागो यया सा तथोक्ता । लोचनयोः कृतरागाधरादासमन्ताद्धृतरागा चेत्यर्थः । षष्ठ्याश्चार्थसंबन्धात्सामान्यस्य योग्यविशेषे पर्यवसाननियमेनाधिकरणा- पादानार्थयोराक्षेपात् । तथा चाधरलोचनगुणयो रागतद्विरहयोः स्थानपरिवृत्तिं कृतवतीत्यर्थः । तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेनाननेन विशेषितोऽतिशयितो गन्धो यस्याः सा । यद्वा वासितानना चासावर्थादाननेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः। उभयथाप्याननसंक्रान्तस्वगन्धा स्वसंक्रान्ताननगन्धा चेत्यर्थः । एवंभूता वारुणी मदिरा परगुणात्मगुणानां परयोर्लोचनाधरयोर्गुणौ च परस्याननस्य गुण आत्मनो वारुण्या गुणश्च परगुणात्मगुणास्तेषां परगुणात्मगुणानां व्यत्ययं नु विनिमयं नु चितेने विस्तारयामास । चित्तेन प्रामादिकी वस्तुपरिवृत्तिर्व्य- त्ययः । बुद्धिपूर्वा तु विनिमयः। अत्र तन्त्रोच्चरितस्य परगुणशब्दस्यावृत्त्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथंचिदगत्या सोढव्यः । उपमानपूर्वपदबहुव्रीहिवत् । तथा चायमर्थः । परगुणयोरधरलोचनगुणयो रागतद्विरहयोर्व्यत्ययं नु विनिमयं नु वितेने । तथा परगुणात्मगुणयोराननगन्धात्मगन्धयोश्च व्यत्ययं तु विनिमयं नु वितेने। अन्यथा कथमन्यस्मिन्नन्यधर्मोपलम्भः संभवतीति भावः। अत्र लोचनाधररागयोस्तद- भावयोर्वा भेदेऽप्यभेदाध्यवसायादेकत्ववाचो युक्तिः । तस्मात्तन्मूलातिशयोक्त्यनुप्राणिता चेयं व्यत्ययविनिमययोरन्यतरकरणोत्प्रेक्षेति संक्षेपः।सा च प्रतीयमाना। व्यञ्जकाप्रयोगात्। नुशब्दस्तु संशये ॥

तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुत्दृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः॥ ६१॥

  तुल्येति ॥ अक्ष्णोस्तुल्यरूपमक्षितुल्याकृति योषितः कर्णगं कर्णावतंसीकृतमसितो- त्पलं निरुपकार्यनुपकारकं विदित्वा ज्ञात्वा। तत्कार्यशोभायाः कर्णान्तविश्रान्तेनाक्ष्णैव कृतत्वादिति भावः । मदरागः सुहृदिवोत्पलस्य बन्धुरिव । अनिष्टवारकत्वादिति भावः । लम्भितेक्षणरुचिराहितनयनकान्तिः सन् । प्रविभेजे वर्णान्तरापादनेन प्रविभक्तवान्। अवैलक्षण्यकरादक्ष्णो व्यावर्तयामास । ततो विच्छित्तिकरत्वादिति भावः ।

क्षीणयावकरसोऽप्यतिपानै: का[१८४]न्तदन्तपद [१८५]संभृतशोभः।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ६२ ॥

  क्षीणेति ॥ अतिपानैः क्षीणयावकरसः क्षीणलाक्षारागोऽपि कान्तस्य दयितस्य दन्त- पदेन दन्तक्षतेन संभृता शोभा यस्य सः । वध्वा अधरपल्लवरागोऽतितरामतिमात्रम् । अतिशब्दात्तरप्प्रत्यये 'किमेत्तिङ्ङव्यय-' इत्यादिनाम्प्रत्ययः। 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययसंज्ञा । सान्द्रतां घनत्वमाययाचिव । प्रियोपभोगचिह्नमण्डितानां कामिन्यवय- वानां किमन्यैर्मण्डनैरिति भावः । तत्र क्षीणस्यापि सान्द्रतेति विरोधात्कान्तदन्तेत्या- दिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्संकीर्णा चोत्प्रेक्षा ॥


रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ६३ ॥

  रागेति॥ वनितानां सर्वगापि सर्वाङ्गगतापि । 'अन्तात्यन्त-' इत्यादिना ड:।मदश्री रागेण कान्तानि नयनानि येषु तेषु विद्रुमवदरुणानि कपोलतलानि येषु तेषु मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः । अत्र मदश्री: सर्वगतापि मुखेष्वेव ददृश इति विरोधः। तस्य मुखविशेषणैः समाधा- नात्काव्यलिङ्गानुप्राणितो विरोधवदाभासोऽलंकारः । स चोपमया संसृज्यते ॥

बद्धकोपविकृतीरपि रामाश्चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः॥ ६४ ॥

  बद्धेति ॥ बद्धा कोपेन विकृतिर्याभिस्तास्तथाभूता अपि रामाः कर्म चारुता तासां सौन्दर्यं कर्त्रा अभिमततां प्रियवाल्लभ्यमुपनिन्ये । सौन्दर्ये हि विकृतिमपि रोचयत इति भावः। मधुमदो दयितानां वश्यतां विधेयत्वमुपनिन्ये । तथाहि । सर्व आत्मवर्गहितमिच्छति । अतश्चारुता स्त्रीत्वात्स्त्रीणामुपचकार । मधुमदस्तु पुंस्त्वात्पुंसामिति युक्तमित्यर्थः । अत्र विकृता अप्यभिमताः कुपिता अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानादुभयथापि विरोधाभासो भवन्नर्थान्तरन्यासेन संसृज्यते ॥

वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि ।
योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥६५॥

  वाससामिति ॥ उपनाभि नाभिसमीपे वाससां शिथिलतां ह्रीनिरासं लज्जात्यागमपदे कुपितान्यस्थानकोपांश्च गुणपक्षे गुणकोटौ विदधती निवेशयन्ती । दोषानप्येतान्गुणान्कुर्वतीत्यर्थः । मदिरापि योषितां वचनीयम् 'न नाभिं दर्शयेत्' इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज । तथा दोषाणामपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वान्न कश्चिद्वचनीयावकाश इत्यर्थः ।।

भर्तृषूपसखि निक्षिपतीनामात्मनो म[१८६]धुमदोद्यमितानाम् ।
बीडया विफलया वनितानां न स्थितं न विगतं हृ[१८७]दयेषु ॥६६॥

  भर्तृष्विति ॥ उपसखि सखीसमीपे । समीपार्थेऽव्ययीभावः । आत्मनः स्वदेहान् । 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इति वैजयन्ती । भर्तृषु निक्षिपतीनां निपातयन्तीनाम् । भर्तृणामुपरि पतन्तीनामित्यर्थः । 'आच्छीनद्योर्तुम्' इति विकल्पान्नु- मभावः । कुतः । मधुमदेनोद्यमितानां प्रेरितानाम् । न तु स्वेच्छयेति भावः । वनिता-


नामनुरक्तस्त्रीणाम् । 'वनिता जनितात्यर्थानुरागायां च योषिति' इति विश्वः । हृदयेषु विफलया। अनुचिताचरणादिति भावः । व्रीडया न स्थितं न विगतम् । वैफल्यात्तस्या मदोपाधिकत्वाच्चेति भावः । अत एव नोभयनिषेधविरोधः ॥

रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ६७ ॥

  रुन्धतीति ॥ नयनानां वाक्यानां च विकासं प्रागल्भ्यं रुन्धती प्रतिबध्नती। तथा परिरम्भ आलिङ्गने सादितौ स्तम्भितावुभौ करौ यया सा युवतीनां संबन्धिनी क्षीबता भत्तता । कर्तरि क्तः। अनुपसर्गात् “फुल्लक्षीबकृशोल्लाघा:' इति निपातनात्साधुः । क्षीबा मत्ता तस्या भावः क्षीबता । त्वतलोर्गुणवचनस्य पुम्वद्भावो वक्तव्यः । बहुगुणै- र्दृष्टिसंकोचादिभिर्व्रीडितस्य व्रीडायाः। भावे क्तः। ललितं विलासमनुजह्रेऽनुचक्रे । कर्तरि लिट् । व्रीडाकार्यकरत्वाद्रीडानुकरणमित्युपमालंकारः ॥

योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् ।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥६८॥

  योषिदिति ॥ उद्धत उत्कटो मनोभवेन यो रागः प्रीतिः स यस्याः सा योषिन्मानवत्यपि दयितस्याङ्कं ययौ । यतो मानाद्रागो बलीयानिति भावः । लाघवदोषं परिहरति- कारयतीति । अनिभृता चपला । न कार्यकारिणीत्यर्थः। वारुणी मदिरा गुणेषु दोषेषु च विषये । सर्वोऽपि द्वन्द्वो विभाषयैकवद्भवति । रहस्यविभेदं रहस्यभङ्गं कारयति खलु । बलान्निगूहितावपि गुणदोषौ प्रकाशयतीत्यर्थः । यतो निगूढरागप्रकटनं प्रकटमानत्यागश्च प्रमत्ताया न लाघवमावहति । अबुद्धिपूर्वकत्वादिति भावः ॥

आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ६९ ॥

  आहित इति ॥ मधुना मद्येन चेष्टितस्य रतिव्यापारस्य मधुरत्वे माधुर्य आहिते नु संपादिते नु प्रागसत्येव मनोहरत्वे संप्रत्युत्पादिते वा । विकासं गमिते नु प्राक्सत्येव माधुर्ये प्रकर्षं प्रापिते वा । उद्धतराग उद्रिक्तरागः। अत एव कुसुमेषोः कामिनीष्ववसरः प्रवेशो नव इवाबभौ। नित्यसंनिहितोऽपि मदनः कामिनीषु मदकृततात्कालिक- चेष्टामाधुर्याद्रागोद्रेके सत्यपूर्ववदुद्दीप्तोऽभूदित्यर्थः । संशयानुप्राणितेयमुत्प्रेक्षा ॥

मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः।
योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥७०॥

  मा गमन्निति ॥ शङ्कितनाथा अविश्वस्तपुरुषा योषितो मदेन विमूढधियः स्तब्धबु द्धयो नोऽस्मन्प्रोज्झ्य विसृज्य । प्रपूर्वादुज्झतेः समासेऽनञ्पूर्वे क्त्वो ल्यप् । रन्तुं मा गमन्न गच्छन्त्विति मनीषयेति शेषः । गमेर्माङि लुङ् । 'न माङयोगे' इत्यडागमप्रतिषेधः। मदिरां भृशमतिमात्रं नेषुर्नेच्छन्ति स्म । किंतु भर्तृवियोगभयादीषदेव पपुरित्यर्थः । तथाहि । प्रेम स्नेहोऽपदेऽस्थानेऽपि भयान्यनिष्टानि पश्यत्युत्प्रेक्षते । शङ्कत इति यावत् । शङ्काहेतौ प्रेम्णि कर्तृत्वोपचारः ॥

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः।
संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥७१॥

  चित्तेति ॥ चित्तस्य निर्वृतिविधायि सुखकरं विविक्तं रह।'विविक्तं रहसि स्मृतम्' इति विश्वः ॥ मन्मथो मधुमदो मद्यमदः शशिभासश्चन्द्रिका दयितैः सह संगमश्च। 'वृद्धो यूना-' इति निर्देशात्सहशब्दाप्रयोगेऽपि सहार्थे तृतीया । एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थासंभोगं कामपि भुवं कांचिद्दशां नयन्ति स्म । रत्यवस्थामप्यतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः । 'प्रेमाभिलाषो रागश्च स्नेहः प्रेमरतिस्तथा। शृङ्गारश्चेति संभोगः सप्तावस्थः प्रकीर्तितः॥' इत्युक्तं रसरत्नाकरे । 'प्रेमा दिदृक्षा रम्येषु तच्चिन्ताप्यभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्ने- हस्तत्प्रवणक्रिया । तद्धियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधा क्रमः॥ इति ॥

  क्रीडावस्थामाह-

धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप ॥ ७२ ॥

  धार्ष्ट्येति ॥ धार्ष्ट्येन प्रागल्भ्येन लङ्घितातिक्रान्ता यथोचिता योग्या भूमिर्मर्यादा यस्मिंस्तथोक्ते । चुम्बनताडनमणितसीत्कारपुरुषायितादौ स्वयमुच्छृङ्खलवृत्तिरिति भावः । निर्दयं यथा तथा विलुलितान्याकर्षणाकुलितान्यलका माल्यानि च यस्मिंस्तस्मि- न्मानिनीरतिविधौ सुरते कुसुमेषुः कामो मत्तमत्तोमत्तप्रकार इव विभ्रमं विजृम्भणमाप प्राप । मत्तः किं न करोतीति भावः । कारयितरि कर्तृत्वोपचारादुत्प्रेक्षा ।

शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥७३ ।।

  शीध्विति ॥ शीधुपानेन मद्यपानेन विधुरेषु विह्वलेषु।'भैरेयमासवः शीधुः'इत्यमरः। अत एव वपुःष्वङ्गेषु निघ्नतां प्रियपराधीनतामुपगतेषु सत्सु । 'अधीनो निघ्न आयत्तः' इत्यमरः । वधूनां संबन्धिनि रतिरसे सुरतरसास्वाद आहितभावं दत्तचित्तं कामिषु विषय ईहितं चुम्बनताडनादिचेष्टितं वीतलक्ष्यं निर्विषयम् । अस्थानकृतमपीत्यर्थः । रेजे । रागिणां स्खलितमपि शोभत इति भावः ॥

अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो ह[१८८]रिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ ७४ ॥

  अन्योन्येति ॥ अथ हरिसखा इन्द्रसचिवा गन्धर्वास्तेषामप्सरसां चान्योन्यरक्तमनसां परस्परानुरक्तचित्तानां चेतोभुवः कामस्य निदेशमाज्ञां बिभ्रतीनां स्मरविधेयानाम्। तासु रममाणास्वेवेत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी। विबोधः प्रबोधनं शीलमेषां ते वैबोधिका वैतालिकाः। 'शीलम्' इति ठक् । तेषां ध्वनिभिर्मङ्गलरवैर्विभावितोऽभ्यूहितो ज्ञातः पश्चिमार्धश्चरमभागो यस्याः सा तथोक्ता सा रात्रिः संहृता संक्षिप्तेवेत्युत्प्रेक्षा। सुखिनां भूयानपि कालो लधीयानिव भवतीति भावः । परिवृत्तिं विवृत्तिमियाय । प्रभातकल्पाभूदित्यर्थः ।

निद्राविनोदितनितान्तरतिक्लमानामायामिमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ ७५ ॥

  निद्रेति ॥ निद्रया विनोदितोऽपनीतो नितान्तमत्यर्थं यो रत्याः क्लमः स येषां तेषा- मायामिभिरायामवद्भिर्दीर्घैर्मङ्गलनिनादैर्वैबोधिकध्वनिभिर्विवोधितानां यूनां रामासु । 'सुन्दरी रमणी रामा' इत्यमरः । भाविविरहेणाकुलितासु सतीषु रतानि । तान्येव "पूर्वाणि प्रथमानि तत्पूर्वाणि तेषां भावस्तत्पूर्वता ताम् । भावे तल्प्रत्ययः । समादधिरे प्रापुरिवेत्युत्प्रेक्षा । आद्यसुरतवदादरात्प्रवर्तन्त इत्यर्थः । यदुत्तरकालं दुर्लभं तदति- तृष्णयानुभूयत इत्यर्थः ।।

कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥ ७६ ॥

  कान्तेति ॥ सुरतखेदेन निमीलितान्यक्षीणि येन तं कान्ताजनं स्त्रीसमूहं संवाहितुं सेवितुमिव । खेदापनोदार्थमङ्गमर्दनं कर्तुमिवेत्यर्थः । 'संवाहनं वाहनेऽपि नरादेरङ्ग-


मर्दने' इति विश्वः । 'वाह प्रयत्ने' इति धातोरण्यन्तात्तुमुन् । अन्यथा णिज्ग्रहणे संवाहयितुमितिं स्यात् । मन्दमन्दं मन्दप्रकारम् । 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुपो लुक् । समुपयान्संवान् रजनीपरिवृत्तिवायुर्निशावसानमरुत् । हर्म्येषु माल्यानि च मदिरा च परिभोगो विमर्दश्च तेषां गन्धानाविश्चकार । बहिः प्रसारयामा- सेत्यर्थः । अत्र संवाहितुमिवेत्युत्प्रेक्षा। मान्द्यगुणमूलत्वाद्गुणनिमित्तक्रियाफलोत्प्रेक्षा ॥

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु म[१८९]दावशेषः ॥ ७७ ॥

  आमोदेति ॥ आमोदेन मद्यगन्धेन वासिताः सुरभिताश्चला दष्टमुक्तत्वात्स्फुर- न्तश्चाधरपल्लवा येषु तेषु निद्रया कषायितान्यपटूकृतानि विपाटलानि लोचनानि येषु तेषु । 'कषायस्तुवरे न स्त्री निर्यासे रञ्जकादिके । सुरभावपटौ रक्ते सुन्दरे लवणेऽपि च' इति केशवः । व्यामृष्टानि प्रमृष्टानि पत्राणि तिलकाश्च येषां तेषु विलासिनीनां नीनां वदनेषु मदावशेषः शोभा बबन्ध । मण्डनान्तरापाये मदशेष एच मण्डनं बभूवेत्यर्थः । स्त्रीणां मद एव विभूषणमिति भावः ॥

गतवति नखलेखाल[१९०]क्ष्यतामङ्गरागे समददयितपीताताम्रबि[१९१]म्बाधराणाम् ।
विरहविधुरमिष्टा सत्सखीवा[१९२]ङ्गनानां हृदयमवललम्बे रात्रिसंभोगलक्ष्मीः ॥ ७८ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये नवमः सर्गः।

  गतवतीति ॥ अङ्गरागेऽङ्गविलेपने नखलेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति । विमर्दात्तन्मात्रावशेषे सतीत्यर्थः । किं च बिम्बतुल्या अधरा बिम्बाधराः। 'शाकपार्थिवादित्वान्मध्यमपदलोपीसमानाधिकरणसमासः' इति वामनः । समदैर्दयितैः पीताः पीडिता अत एवातिपीडनादाताम्रा आसमन्ताद्वक्ता बिम्बाधरा यासां तासामङ्गनानां संबन्धि विरहेणाह्रिकेन वियोगेन विधुरं विह्वलं हृदयम् । रात्रिसंभोगलक्ष्मीः। नखपदादिशोभेत्यर्थः । इष्टाप्ता सत्सखीव निपुणसहचरीवावललम्बे धारयामास । प्रियसंभोगचिह्नशोभा स्पष्टा बभूवेत्यर्थः । प्रियोपभोगचिह्नशोभावलोकन-


लालसाः कथं विरहमसहन्तेत्यर्थः । श्रुतिपूर्णोपमालंकारः। मालिनीवृत्तम् । लक्षणं तूक्तम् ।।   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां नवमः सर्गः समाप्तः।


दशमः सर्गः।


  अथागन्तुकसहजशोभासंपन्नतया समग्रसाधनाः स्त्रियो मुनिमनःप्रलोभनार्थं प्रास्थन्नित्याह--

अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः।
वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥१॥

  अथेति ॥ अथ प्रभाते परिमलजां संभोगसंभूतां लक्ष्मीं शोभामवाप्य । संभोग: स्यात्परिमले' इति वैजयन्ती । संभोगात्स्त्रियः शोभन्त इति भावः । एतेनागन्तुकशोभा- संपत्तिरुक्ता । अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं चोक्तम् । अथ सहज- शोभासंपत्तिमाह-अवयवेति । अवयवैः स्तनादिभिर्दीपिता मण्डिता च मण्डनश्री: प्रसाधनशोभा याभिस्ताः। रम्यहावा मनोहरविलासास्ताः स्त्रियः । 'हावो विलास- श्चेष्टायाम्' इति विश्वः। वसतिं शिबिरमभिविहाय सर्वतस्त्यक्त्वा सुरपतिसूनोरर्जुनस्य विलोभनाय जग्मुः। अत्रावयवदीपकतया प्रसिद्धस्य मण्डनस्य तद्दीप्यत्वासंबन्धेऽपि संबन्धाभिधानादवयवसौन्दर्यातिशयद्योतनार्थत्वादतिशयोक्तिरलंकारः । अस्मिन्सर्गे पुष्पिताग्रावृत्तम्-~-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणाद् ॥

द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम् ।
अवनिषु चरणैः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदे ॥२॥

  द्रुतेति ॥ गगनपरिक्रमलाधवेन गगनगमनवेगेन द्रुतपदं यथा तथाभियातुं गन्तुमिच्छतीनाम्। किं च । पृथुस्तनीनां तासामप्सरसाम् । किं च। अलधुनितम्बतया न लघवो नितम्बा यासां तासां भावस्तत्ता तथा स्थूलनितम्बतया चरणैरवनिषु चिरं निषेदे स्थितम् । अभ्यासपाटवेन मनसात्वरमाणानामपितासांस्तनजधनभाराच्चरणा नोत्तस्थुरित्यर्थः ॥

निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥३॥

  निहितेति ॥ निहिता आरोपिताः सरसयावकाः सान्द्रलाक्षारागा येषु तैर्वधूनां चरणतलैश्चरणन्यासैः कृतपद्धतिः कृतमार्गरेखा । अत एवारुणिता अरुणीकृता नीला- स्तृणोलपास्तृणानि दूर्वादीन्युलपा वल्वजाख्यास्तृणविशेषाश्च यस्याः सा । 'उलपा वल्वजाः प्रोक्ता:' इति हलायुधः। 'उलपा उशीरतृणानि' इति क्षीरस्वामी । ब्राह्मण- परिव्राजकवदुलपानां पृथङ्निर्देशः । धरित्री शक्रगोपैरिन्द्रगोपाख्यैः कीटकैः । 'इन्द्र- गोपस्त्वग्निरजः' इति हैमः । अविरलं निरन्तरं यथा तथा वितता व्याप्तेवेत्युत्प्रेक्षा । बभासे॥

ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ ४ ॥

  ध्वनिरिति ॥ अगविवरेषु नगरन्ध्रेषु । गुहास्वित्यर्थः । प्रतिरवैः प्रतिध्वनिभिर्विततः सम्मूर्च्छितः पृथुभी रशनागुणानां शिञ्जितैः स्वनितैरनुयातोऽनुगतः । मिलित इति यावत् । 'स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्' इत्यमरः । नूपुराणां ध्वनिभि- र्ध्वनैर्वनानि मुखराः शब्दायमानाः समुत्सुका उत्कण्ठिता हंसाःसारसाश्च येषां तानि चक्रे । अत्र हंसादिषु मुखरसमुत्सुकीकरणरूपेण वस्तुना तेषां नूपुरादिध्वनौ सादृश्याद्धंससारसान्तरकूजितभ्रान्तिप्रतीतेर्भान्तिमदलंकारो व्यज्यते ॥

अवचयपरिभोगवन्ति हिंस्त्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः॥५॥

  अवचयेति ॥ अवचयः पुष्पफलादिच्छेदनम् । परिभोग उपभोगः । तद्वन्ति हिंस्त्रा घातुका व्याघ्रादयः। 'शरारुर्धातुको हिम्स्र:' इत्यमरः। तैः सहचरिताः सहचरन्तः । कर्तरि क्तः। 'मतिबुद्धि--'इत्यादिसूत्रेण चकारात्सुप्तशयितादिवद्वर्तमानार्थता । अन्ये हिंस्त्रेतरे मृगा हरिणादयो येषु तानि सहचरितान्यमृगाणि काननानि ।तथा समुदितेन साध्वसेन विक्लवं विवशं चेतश्च वधूभ्यः । 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी । अभितो मुनिमभिदधुः । आसन्नं सूचयामासुरित्यर्थः । अवचयादिलिङ्गचतुष्टये- नासन्नो मुनिरित्यन्वमीयतेत्यर्थः ॥

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥६॥

  नृपतिमुनिपरिग्रहेणेति ॥ सा भूर्नृपतिरेव मुनिस्तस्य परिग्रहेणाधिष्ठानेन हेतुना सुरसचिवानां गन्धर्वाणामप्सरसां च तेजो जहार । तदाश्रमप्रवेशादेव निस्तेजस्का अभूवन्नित्यर्थः । ननु कथं मानुषेण तेजसामानुषं तेजो निरस्तमित्याशङ्क्याह-हि यस्मादुपहित आहिते परमे प्रभावधाम्नी सामर्थ्यतेजसी येषां तेषां जयिनां जयनशीला नाम् । 'महताम्' इति पाठे महत्तामुत्कटानाम् । तपसामलङ्घ्यं नास्ति । किमप्यसाध्यं नास्तीति भावः ॥

सचकितमिव विस्मयाकुलाभिःशुचिसिकतास्वतिमानुषाणिताभिः
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥७॥

  सचकितमिति ॥ विस्सयाकुलाभिस्ताभिः स्त्रीभि: कर्त्रीभिः शुचयः सिकता यासु तासु । पादरेखाभिव्यक्तियोग्यास्वित्यर्थः । क्षितिषूपहितानि विन्यस्तानि केतुरथाङ्ग- लाञ्छनानि रेखास्वरूपध्वजचक्राण्येव चिह्नानि येषु तान्यत एवातिमानुषाणि जिष्णो- रर्जुनस्य पदानि सचकितमिव सभयमिव यथा तथा दद्दशिरे दृष्टानि । अद्भुतवस्तु- दर्शनाद्भयविस्मयौ भवत इति भावः ॥

अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् ।
ऋतुरिव तरुवीरुधां समृद्धया युवतिजनैर्जगृहे मुनिप्रभावः ॥ ८॥

  अतिशयितेति ॥ अतिशयितातिक्रान्ता बनान्तराणां द्युतिर्याभिस्तासाम् । कुतः। फलानां कुसुमानां चावचयेऽपि लवनेऽपि सैव विधा प्रकारो यासां तद्विधानाम् । तथैव समग्राणामित्यर्थः। तरूणां वीरुधां समृद्ध्या लिङ्गेन युवतिजनैर्मुनिप्रभावो ऋतुरिव जगृहे निश्चितः । कारणतयेति शेषः । उपमालंकारः॥

मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः।
बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥९॥

  मृदितेति ॥ ससलिलमार्द्रं यद्वल्कलं तदेव भारस्तेन भुग्नशाखो नम्रशाखः । 'वल्कं वल्कलमस्त्रियाम्' इत्यमरः । अत एव मृदितकिसलयो विलुलितपल्लवः । 'क्वचिन्न' इति प्रतिषेधान्न मृदेर्गुणः। अशोको वृक्षविशेषः सुराङ्गनानामप्सरसां संवन्धिनीमधिकां बहुमतिं तत्कर्तृकसंमानं सज्जनसेवि धन्योऽयमिति ययौ प्राप । ननु सेवकेषु का श्लाघेत्यत्राह-परीति । सद्गुणानां महतां परिजनताप्यनुचरत्वमपि । भावे तल् । गुणायोत्कर्षाय । भवतीति शेषः। एतेन तासां मुनेः प्रभावदर्शनादेव तत्पारवश्यं। गम्यते ॥

यमनियमकशीतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान्कृतपदपङ्क्तिरथर्वणेव वेदः॥ १०॥

  यमेति ॥ यमो देशकालाद्यनपेक्षया शुद्धिहेतुरहिंसादिः। नियमस्तदपेक्षया शुद्धिहे- तुस्तपःस्वाध्यायादिः । ताभ्यां कृशीकृतान्यपि स्थिराणि दृढान्यङ्गानि यस्य सः । विधृ- तायुधो धृतशस्त्रोऽत एव तपःक्षात्रयुक्तःसोऽर्जुनः शमः शान्तिरभ्युदयकाण्डे दीप्ततो- ग्रताभिचारकाण्डे ताभ्यामनुपमाभ्यां गरीयानुदग्र: । अथर्वणा वसिष्ठेन कृता रचिता पदानां पङ्क्तिरानुपूर्वी यस्य स वेदः । चतुर्थवेद इत्यर्थः । अथर्वणस्तु मन्त्रोद्धारो वसिष्ठकृत इत्यागमः । स इव ताभिः स्त्रीभिः परिददृशे दृष्टः॥   अथ चतुर्मिस्तमेव विशिनष्टि-शशधरेत्यादिभिः ।।

शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसद्मा सकलमिवापि द[१९३]धन्महीधरस्य ॥११॥

  शशधरश्चन्द्र इव लोचनाभिरामैर्नेत्राह्लादकरैर्गगनविसारिभिरंशुभिस्तेजोभिः परीतो व्याप्तोऽम्बरवदेकं सानु सद्म यस्य सः । एकदेशस्थोऽपीत्यर्थः। महीधरस्येन्द्रकीलस्य सकलं शिखरनिचयमपि दधदावृण्वन्निवेत्युत्प्रेक्षा ॥

सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥१२॥

  सुरेति ॥ पुनः । सुरसरिति गङ्गाकूले परं तपोऽधिगच्छन्नर्जयन् । फलाभिलाषेणेति शेषः । हविः समभिलषन्नित्युपमानविशेषणसामर्थ्यात् । तथा विधृतः पिशङ्गबृहज्ज- टाकलापो येन सः। अत एवोपवेदि वेद्याम् । विभक्त्यर्थेऽव्ययीभावः । शिखासमूहै- र्ज्वालाजालैर्विततो विस्तृतो हविराज्यादिकं समभिलषन् । जातं वेदो हिरण्यं यस्मादिति जातवेदा वह्निरिव स्थितः ।।

सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमांसमृद्धिम्॥१३॥

  सदृशमिति ॥ पुनः । आकृतेर्वपुषः। 'आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । सदृशं तुल्यमतनुं महान्तं प्रयत्नमुद्योगं द्धत् । तथा तदनुगुणां प्रयत्ना- नुकूलामपरैरन्यैरलङ्घ्याम् । कर्तुमशक्यामित्यर्थः । क्रियां व्यापारं दधत् । तथा क्रिया- नुरूपं क्रियानुगुणमलघु गुरु तपो दधत् । तथा विजयवतीं सर्वोत्कर्षवतीं विजयफलां वा तपःक्रियानुरूपां तपःसमा समृद्धिमैश्वर्य दधत् । अत्र पूर्वं प्रत्युत्तरस्य विशेषणतया स्थापनात्प्रथमैकावल्यलंकार:---'यथापूर्वं परस्य विशेषणतया स्थापन एकावली' इति सर्वस्वसूत्रात् ॥

चि[१९४]रनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकत्या ।
ससचिब इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥१४॥

  चिरनियमेति ॥ पुनश्च । चिरनियमेन दीर्घकालतपसा कृशः क्षीणाङ्गोऽपि शैलसारः। उपमानपूर्वपदो बहुव्रीहिः। शमे निरतोऽपि प्रकृत्या स्वभावेन दुरासदो दुर्धर्षो निर्जने विजने देशे तिष्ठन्नपि ससचिवः सपरिवार इव किं च । मुनिरप्यैश्वर्यरहितो-


ऽपीत्यर्थः। त्रयाणां लोकानां भर्तुरिन्द्रस्य । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः। तुल्यरुचिः समानतेजाः । अपिशब्दः सर्वत्र विरोधद्योतनार्थः । स च मुनेरतर्क्यमहिमत्वेन निरस्त इति विरोधालंकार:--'विरोधाभासत्वं विरोधः' इति सूत्रात् ॥

तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥१५॥

  तनुमिति ॥ अवजिते तिरस्कृते लोकानां सारधाम्नी सत्त्वतेजसी यया ताम् । 'अन उपधा-' इत्यादिना ङीप् । त्रयाणां भुवनानां समाहारस्त्रिभुवनम्।'तद्धितार्थ-' इत्यादिना समाहारार्थे तत्पुरुषः । पात्रादित्वात्स्त्रीत्वप्रतिषेधः । तस्य गुप्तौ रक्षणे सहा समर्थाम् । पचाद्यच् । तनुं मूर्त्तिं विलोकयन्त्योऽमरस्त्रियोऽप्सरसो विजयफले विजयार्थे तपोधिकारे तपोनुष्ठानेऽस्यार्जुनस्य यत्नं विफलभवययुर्मेनिरे । त्रैलोक्याधिपत्यादि- महाफलसाधनसमर्थस्य तुच्छफलाभिलाषो मत्तमातङ्गमांसभोगोचितस्य कण्ठीरवस्य जीर्णतृणचर्वणोत्कण्ठेव न शोशामावहतीति भावः ।अत्र विशिष्टतनुविलोकनस्य स्त्रीविशेषणवैफल्यजननहेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥

मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि।
अलघुनिबहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥१६॥

  मुनीति ॥ प्रतनुबलान्यनुत्कृष्टसाराणि तपाम्स्यधितिष्ठतोऽनुतिष्ठतो मुनीन्दनुतन- यान्दानवांश्च सद्यस्तत्क्षणमेव विलोभ्याकृष्य चिरात्कुलिशभृता शक्रेणालघुनि महति पदे स्थाने विहितं दत्तं स्वं स्वकीयं नियोगमधिकारं ताः स्त्रियो बहु यथा तथा मेनिरे। निकृष्टपदवृत्तीनामुत्कृष्टपदलाभो महान् । बहुमानमूलमिति भावः । विलोभ्य मेनिर इत्यन्वयः । यद्वा विलोभ्य लोभं कारयित्वा विहितं शक्रणेत्यन्वयात्समानकर्तृत्व- निर्वाहः ॥

अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदशनेन ।
प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥१७॥

  अथेति ॥ अथानन्तरं कृतकविलोभनं कृत्रिमं विलोभनं विधित्सौ विधातुमिच्छौ । विपूर्वाङ्धातेः सन्नन्तादुप्रत्ययः । युवतिजने हरिसूनोरर्जुनस्य दर्शनेन चित्तजम्ना कामः प्रसभं बलादवततार। दैवतत्परं वञ्चयितुमागतस्य मोहो भवति । यतः स्वयं मुनिवञ्चनप्रवृत्ताः स्त्रियस्तेन वञ्चिता इत्यर्थः । युक्तं चैतत् । हि यस्मान्मधुरा मनोहरा यौवनश्रीर्मनो हरति । बलादिति शेषः ।।

सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥१८॥

  सपदीति । सपदि वधूनां निदेशानियोगाद्ध्वनिता नादितामनोरमा वल्लक्यो विणा मृदङ्गाश्च यैस्तैर्हरिसखैर्गन्धर्वैर्वियत्याकाशे वने च युगपद्दतुगपणस्यतुर्षट्कस्य संनिधान- माविर्भावो यथायथं यथास्वम् । असंकरेणेत्यर्थः।'यथास्वं तु यथायथम्'इति निपातः। वितेने वितस्तरे । उद्दीपनसामग्री संपादितेत्यर्थः ।।

  अथ वर्षाक्रमेणर्तून्वर्णयति-सजलेत्यादि ।

सजलजलधरं नभो विरेजे विवृ[१९५]तिमियाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तेरषु ॥ १९ ॥

  सजला जलधरा यस्मिंस्तन्नभो विरेजे । तडितो लता इव तासां रुचिः प्रभा विवृतिं विजृम्भणमियाय । तथा व्यवहितरतिविग्रहैर्दूरीकृतरतिप्रकल्पितप्रणयकलहैर्जलगुरुभिः। जलभाराद्गम्भीरैरित्यर्थः । स्तनितैर्गर्जितैर्दिगन्तरेषु वितेने विततैरभावि। भावे लिट्। अकर्मकत्वं वैवक्षिकम् । अत एव दिगन्तरेष्वित्यधिकरणत्वेन प्रयोगः । अन्यथा कर्मत्वमेव स्यात् ॥

परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् ।
विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ २० ॥

  परीति ॥ परिसुरपतिसूनुधामार्जुनाश्रमं प्रति । परीति लक्षणार्थे कर्मप्रवचनीयस्य योगाद्वितीया । यद्वा वर्जनार्थस्य तस्यात्र विरोधाद्विभक्त्यर्थेऽव्ययीभावः । तथा च सुरपतिसूनुधाम्नीत्यर्थः । सद्यो मालतीनां जातीलतानाम्। 'सुमना मालती जातिः' इत्यमरः । मुकुलानि समुपदधज्जनयन्विरलं यथा तथा बद्धविन्दुरपां निपातो वृष्टि- रवने: संबन्धिनीं सरजसतां सरजस्कत्वम् । 'अचतुर-' इत्यादिसूत्रेण साकल्या- र्थेऽव्ययीभावः । 'समासान्तनिपातश्च बहुव्रीह्यर्थस्तु लक्ष्यते । अव्ययीभावदर्शनं तु प्रायिकम्' इति केचित् । अपजहार । धूलिं शमयामासेत्यर्थः ।

प्रतिदिशम[१९६]भिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः॥२१॥

  प्रतिदिशमिति ॥ दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । शरत्प्रभृतित्वात् समासान्तनिपातः। अभिगच्छता संवाता ककुभान्यर्जुनकुसुमानि । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । तेषां विकासेन सुगन्धिना मनोज्ञगन्धेन । गन्धस्येत्वे तदेकान्तग्रहणं प्रायिकम् । अनिलेनाविमृष्टः संस्पृष्टोऽत एव सचित्तजन्मा । कामाक्रान्त इत्यर्थः । अत एव गतधृतिर्गतधैर्य आकुलितः क्षोभितश्च । रतिं प्रतीति भावः । एवंभूतो जीवलोको नव इवावस्थान्तरप्राप्त्यापूर्व इव विबभौ भाति स्मेत्युत्प्रेक्षा ।।


व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वि[१९७]तेने नवनवयोजितकण्ठरागरम्यम् ॥२२॥

  व्यथितमिति ॥ व्यथितं दुःखितमपिमनो भृशं हरन्ती। किमुत सुखितमिति भावः। जम्ब्वा: फलं जम्बु । 'बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम्' इत्यमरः । 'जम्ब्वा वा' इत्यणाभावपक्षेऽञि 'फले लुक्' इति लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । जम्बु च तत्फलं चेति सामान्यविशेषयोः सह निर्देशः। यद्वा जम्ब्वा: फलमिति विग्रहः । 'इको ह्रस्वोऽङ्यो गालवस्य' इति ह्रस्वः । तस्य परिणतस्योपभोगेन हृष्टा । अत एव परभृतयुवतिः कोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन संपादितेन कण्ठरागेण कण्ठमाधुर्येण रम्यम् । सौम्यमित्यर्थः । स्वनं स्वरं वितेने । वर्षास्वपि मधुराः कोकिलालापा इति प्रसिद्धिः॥

अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे।
जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥२३॥

  अभिभवतीति ॥ कदम्बवायौ कदम्बसंबन्धिनि मारुते मदमधुरे शिखण्डिनां निनादे च मनोऽभिभवत्यभिहरति सति जिष्णुर्जयनशीलोऽर्जुनो जनः पृथग्जन इव धृतेर्धैर्यान्न चचाल । वर्षा अपि तदुद्दीपनाय न शेकुरित्यर्थः । हि यस्मान्महतां समाधिभङ्गः सुकरो न । न केनापि कर्तुं शक्यत इत्यर्थः ॥

धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २४ ॥

  धृतेति ॥ बिसानि वलयानीव तेषामावलिर्धृता ययासा । कुमुदवनमेकं मुख्यं दुकूलमिव तद्वहन्ती । आत्ता गृहीता बाणा नीलझिण्टी यया सात्तबाणा, धृतशरा च । 'गृह्णीयात्क्षत्रिया शरम्' इति स्मरणात् । 'बाणोक्ता नीलझिण्टी च' इति वैजयन्ती। शरद्वधूर्जायेव धनसमयेन वर्षर्तुना । वरेणेति शेषः । अमलतले निर्मलतले सरोजं पाणिरिव तस्मिन्नाललम्बे जगृहे । कर्मणि लिट् । वधूवरसमागमवदृतुसंधिरशोभतेत्यर्थः । अत्र 'आत्तबाणा' इति झिण्टीशरयोर्बाणयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिरुपमा- ङ्गमित्यनयोः संकरः ॥

  अथर्तुसंधि वर्णयति-

समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥२५॥

  समदेति ॥ समदशिखिरुतानि मत्तमयूरकूजितानि हंसनादैः समेत्य तथा कुमुदव-


नानि कदम्बपुष्पवृष्ट्या कम्बपुष्पसंपदा समेत्यातिशयिनीमतिशयवतीं श्रियं जग्मुः । तथा हि । गुणमहतां गुणाधिकानां योगः परस्परसमागमो महते गुणायोत्कर्षाय । भवतीति शेषः । अत्र त्रिपाद्यां समालंकार:--'सा समरलंकृतिर्योग्यवस्तुनोरुभयोरपि' इति लक्षणात् । सोऽपि चतुर्थेनार्थान्तरन्यासेन स्वसमर्थकेनाङ्गाङ्गिभावेन संकीर्यते ॥

सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानिषट्पदाली मलिनयंति स्म विनीलबन्धनानि॥२६॥

  सरजसमिति ॥ प्रियमधुरिष्टमकरन्दा । नात्र कप्समासान्तः।'पुंलिङ्गोत्तरपदो बहुव्रीहिः' इति केचित् । नपुंसकलिङ्गस्यैव मधुशब्दस्योरःप्रभृतीषु पाठात् 'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुम्नपुंसकयोर्मधुः॥' इत्यभिधानात् । षट्पदाली षट्पदावलिरुपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैः कीर्णं व्याप्तम् । किं च स्वतोऽपि सह रजसा सरजसम् । न त्वरजस्कमिति भावः । साकल्येऽव्ययीभावः । 'अचतुर-' इत्यादिना निपातः। केतकीनां प्रसवं पुष्पमपहाय विनीलबन्धनानि नलिनवृन्तान्यसनानि प्रियकपुष्पाणि । मकरन्दभरितानीति भावः । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । मलिनयति स्म । यथा वृन्ताद- न्यत्रापि मालिन्यं स्यात्तथा मधुलोभाच्छादयामासेत्यर्थः। नहि मध्वासक्तो मधुलामे विभूतिष्वासज्जतीति भावः ॥

मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषःसुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २७॥

  मुकुलितमिति ॥ धृता जलबिन्दवो यासु तासु शाद्वलस्थलीषु शादहरितप्रदेशे- ष्वविरलवपुषः स्थूलमूर्तयः सुरेन्द्रगोपाः कीटविशेषा मुकुलितं मुकुलीकृतं बन्धुजीवम्। बन्धुजीवकमुकुलमित्यर्थः । 'बन्धूको बन्धुजीवकः' इत्यमरः । अतिशय्यातिक्रम्य विकचपलाशचयो विकसितकिंशुकराशिः।'पलाशे किंशुकः पर्णः' इत्यमरः । तस्य श्रियम् । तत्सदृशीं श्रियमित्यर्थः । अत एव निदर्शनालंकारः। समीयुः प्रापुः ॥

  अथ हेमन्तवर्णनमाह--

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥ २८ ॥

  अविरलेति ॥ अविरलानि धनानि फलिनीवनानां प्रियंगुवनानां प्रसूनानि यस्मिन्सः। 'प्रियंगुः फलिनी फली' इत्यमरः । कुसुमितैः कुन्दैर्माध्यकुसुमैः सुगन्धिर्गन्धवाहो यस्मिन्सः।माध्यं कुन्दम्' इत्यमरः। शैशिराणामपि कुन्दानां हेमन्ते प्रादुर्भावादविरोधः । विरलतुषारकण इति प्रारम्भोक्तिः । तुषारकालो हेमन्तश्चिरायासमयजमकालसंभवं गुणमुत्कर्षं लेभे ॥

निचयिनि लवलीलताविकासे ज[१९८]नयति लोध्रसमीरणे च हर्षम् ।
विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥२९॥

  निचयिनीति ॥ निचयिन्युपचयवति लवलीलतानां विकासे पुष्पविजृम्भणे तथा लोध्रसमीरणे हर्षं चोत्कण्ठां जनयति सति पाण्डुसूनुर्विकृति नोपययौ । कुतः । हि यस्माज्जिगीषतां जेतुमिच्छतां चेतो नयान्नीतेर्न चलति । न हि क्रोधाक्रान्ते चेतसि शृङ्गारस्यावकाशः । तद्विरुद्धत्वाद्रोषस्येति भावः ॥

कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥३०॥

  कतिपयेति ॥ कतिपयैरेव सहकारपुष्पैश्चूतकुसुमै रम्यः। न तु वसन्तवत्समग्रैर्नापि हेमन्तवत्तद्रहितैरिति भावः । तनुतुहिनोऽल्पहिमः । न तु हेमन्तवद्वहुतुहिनो नापि वसन्तवद्विरलतुहिन इति भावः । अल्पानि कतिपयानि विनिद्राणि सिन्दुवाराणि विकसितनिर्गुण्डीकुसुमानि यस्मिन्सः। अत्रापि सहकारवदभिप्रायो द्रष्टव्यः । 'सिन्दु- वारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । इत्थं सुरभिमुखं वसन्तप्रारम्भं हिमा- गमान्तं हेमन्तावसानं च शंसति सूचयतीति स तथोक्तः। स्मरस्यैकबन्धुः सहकारी। उभयर्तुधर्मसंपत्तेरिति भावः। शिशिरः समुपययौ ।।

  अथ वसन्तप्रारम्भमाह-

कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् ।
क्वणदलिकुलनू[१९९]पुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥३१॥

  कुसुमेति ॥ कुसुमप्रधानानां नगानां वृक्षाणां कुसुमानां नगा वृक्षा वा तेषां वना- न्युपैतुमारोढुं कामो यस्याः सा । 'शैलवृक्षौ नगावगौ' इत्यमरः । 'लुम्पेदवश्यं मः कृत्ये तुं काममनसोरपि' इति मकारलोपः । वसन्तलक्ष्मीः किसलयिनीं पल्लविनीं चूतयष्टिम् । चूतशाखामिवेति भावः । अवलम्ब्यावष्टभ्य । अन्यथारोढुमशक्यत्वादिति भावः । क्वणच्छिञ्जमानं शब्दायमानमलिकुलं नूपुरमिव यस्याः सा तथोक्ता सती । 'क्वणदलिकुलनूपुरम्' इत्यपि पाठः । अत्रालिकुलवन्नूपुरम् । नलिनवनेषु पदं निरासे निदधे । तेषु प्रथमं प्रादुरासीदित्यर्थः। 'उपसर्गादस्यत्यूह्योर्वा,' इति वचनादात्मनेपदम्। अत्र प्रकान्तवसन्तलक्ष्मीविशेषणसामर्थ्यादप्रस्तुतनायिकाव्यवहारसमारोपात्समासो- क्तिरलंकारः॥

विकसितकुसुमाधरं ह[२००]सन्तीं कुरबकराजिवधूं विलोकयन्तम् ।
ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ ३२ ॥


  विकसितेति ॥ विकसितो विश्लिष्टः कुसुममेवाधरो यस्मिन्कर्मणि तद्यथा तथा हसन्तीं स्मयमानां कुरबकराजिरेव वधूस्तां विलोकयन्तम् । कामुकतयेति भावः । अत एवाशोकपल्लवेषु पल्लवसंस्तरेषु निषण्णम् । स्थितमित्यर्थः । रिरंसयेति शेषः। सशरम् । नित्यविजयित्वादिति भावः । इत्थंशृङ्गारवीरयोरेकाधिकरणभूतमनङ्गं सुराङ्गना ददृशुरिवेत्युत्प्रेक्षा । अशोकाद्यवलोकनान्मदनसाक्षात्कारादिव महान्मनःक्षोभस्तासामासीदित्यर्थः। अत्र रूपकोत्प्रेक्षयोः संसृष्टिः॥

मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।
अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥३३॥

  मुहुरिति ॥ अनुपततानुधावता दक्षिणानिलेन मलयमारुतेन मुहुर्विधूयमानं कम्पितमत एव विरचिता संहतिर्येन । तत्संभूतमित्यर्थः । पङ्कजिन्या यन्नलिनं मुखमिव तस्यान्तर्विसर्पि प्रान्तचार्यलिकुलं कर्तृ अलकाकृतिमलकसादृश्यं प्रपेदे ॥

श्वसनचलितप[२०१]ल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्रुचुम्बे ॥३४॥

  श्वसनेति ॥ षट्पदेनालिना । शाललता सर्जतरुशाखा वधूरिव शाललतावधूः । 'प्राकारग्रहयोः शालः शालः सर्जतरुः स्मृतः इति शाश्वतः।श्वसनेन वायुना नि:श्वासेन च चलितः पल्लवोऽधरोष्ठ इव पल्लवाधरोष्ठो यत्र तस्मिन् । 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्' । मधुना मकरन्देन मद्येन च सुरक्षिणि सुगन्धिनि पुष्पे मुख इव नवं यथा तथा निहितेर्ष्यं कृतकोपमिवेति क्रियाविशेषणम् । तथावधूनयन्ती कम्पयन्ती । 'धूञ्प्रीञोर्नुम्वक्तव्यः' इति णिचि नुमागमः । चुचुम्वे चुम्बिता । अत्र श्वसनशब्दार्थमधुशब्दार्थयोश्च स्वस्वभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिः । सा चोपमाङ्गमित्यनयोः संकरः ।।

प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पु[२०२] ष्पमासः ॥३५॥

  प्रभवतीति ॥ परः शत्रुस्तदा तस्मिन्काले विजेतुं नप्रभवति न शक्नोति । यदा जिते- न्द्रियतेन्द्रिजयित्क्मात्मरक्षा भवति विद्यते । तथा हि । अवजितभुवनस्त्रैलोक्यविजयी पुष्पमासो वसन्तः। सिततुरगेऽर्जुने विषये विजयं न लेभे । अतो जितेन्द्रिया दुर्जया इत्यर्थः । विशेषेण सामान्यार्थसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥

  अथ ग्रीष्मं वर्णयति-

कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनीवधारितस्य ।
इति विरचितमल्लिकाविकासःस्मयत इव स्म मधुं निदाघकालः ॥३६॥


  कथमिति ॥ विरचितमल्लिकाविकासो निदाधकालो ग्रीष्मो ऋतुभिर्वर्षादिभिः समं मुनिनावधीरितस्य तिरस्कृतस्य तव संमतिर्लोके योग्यत्वेनानुमतिर्मान्यत्वं कथमिव भवित्री । न संमानः कथंचिद्भविष्यतीत्यर्थः । इतीत्थं मधुर्वसन्तः । 'चैत्रे दैत्ये वसन्ते च जीवे कोके मधुः स्मृतः' इति विश्वः । स्मयते स्मेव जहास किमित्युत्प्रेक्षा।'लट् स्मे' इति भूतार्थे लट् । प्रहासस्य शुभ्रत्वेन कविप्रसिद्धेर्मल्लिकाविकासे ह्रासत्वाध्यवसायः। अत्रर्तुभिः सममवधीरितस्येत्यत्राभेदाध्यवसायमूला सहोक्तिरलंकारः । संबन्धभेदभिन्नस्यावधीरणस्याभिन्नतयाध्यवसायात्तदेवावधीरणमसंमतिद्वारा स्मयोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥

बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार ॥३७॥

  बलवदिति ॥ बलवत्प्रबलमपि । प्रकृष्टगामीति यावत् । मिथोविरोधि परस्परस्पर्धिबलं सैन्यम् । 'वरूथिनी बलं सैन्यम्' इत्यमरः । विपक्षनिर्जयाय शत्रुविजयाय । 'तुमर्थाच्च-' इत्यादिना चतुर्थी । शत्रूञ्जेतुमित्यर्थः । न प्रभवति न शक्नोत्येव । कुतः। यद्यस्मात्कारणाद्भुवनानां परिभवी जेतापि । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः। ऋतुगणस्तदानीं तमर्जुनं क्षणमपि नोन्मनीचकारानुन्मनसमुन्मनसं न चकार । 'अरुर्मनश्चक्षुः--' इत्यादिनाभूततद्भावे च्चिप्रत्ययः । सलोपश्च । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥

  एवं तटस्थस्योद्दीपनसामग्री विफलेत्युक्तम् । संप्रति विपरीता जातेत्याह---

श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥३८॥

  श्रुतीति ॥ सहायैस्तासां सहचरैर्गन्धर्वैः । कृतमिति शेषः ।'न लोक-'इत्यादिना षष्ठीप्रतिषेधः । कर्तरि तृतीया । श्रुतिसुखं श्रोत्रमधुरमुपवीणितं वीणयोपगानम् । 'सत्यापपाश-' इत्यादिना वीणाशब्दाण्णिजन्ताभावे क्तः । अविरलैर्भूयोऽभिलाञ्छनैः पूर्वोक्तैः फलकुसुमादिभिश्चिह्नैर्हारिणो मनोहराः काला वसन्तादिऋतवोऽविहिताकृता हरिसूनोरर्जुनस्य विक्रिया मनोविकृतिर्यैस्तानि तथाभूतानि सन्ति ।'नपुंसकमनपुंसक-' इत्यादिना नपुंसकैकशेषः । त्रिदशवधूषु मनोभवं वितेनुर्विस्तारयामासुः । सोऽयं परप्रहारार्थमुद्यतमायुधं स्वात्मानमेव प्रहरतीति न्यायवज्जात इति भावः । अत्र मुनिविक्रियार्थं स्त्रीणां विक्रियारूपानर्थोत्पत्तिकथनाद्वितीयो विषमालंकारः। तथा च सूत्रम्-'विरूपकार्यानर्थयोरुत्पत्तिरूपसंघटनाद्विषमालंकारः' इति ॥   तटस्थवदालम्बनगणोऽपि विपरीतोऽभूदिति श्लोकद्वयेनाह-

न दलति निचये तथोत्पलानां न च विषमच्छदगु[२०३]च्छयूथिकासु।
अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ ३९ ॥

  नेत्यादि ॥ आसां लोचनानि हरितनयावयवेषु यथा तथा दलति विकसत्युत्पलानां निचयेऽमिरतिं नोपलेभिरे न प्रापुः। तथा विषमच्छदगुच्छाः सप्तपर्णस्तबका यूथिकमल्लिकाश्च तास्वभिरतिं नोपलेभिरे।'सप्तपर्णो विशालत्वक्शारदो विषमच्छदः'इत्यमरः। तथा रमणीयत्वात् । तदवयवानामित्यर्थः । इति चक्षुःप्रीतिरुक्ता ॥   अथ मनःसङ्गं सूचयति-

मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव ता[२०४]सां दुरधिगमा हि गतिःप्रयोजनानाम् ॥४०॥

  मुनिमिति ॥ या: स्त्रियः कमनीयता सौन्दर्यं सैव गुणस्तेन मुनिमर्जुनमभिमुखतां वश्यतां निनीषवो नेतुमिच्छवः समुपययुः । तासां स्त्रीणां स मुनिरेव मदनमुपदधे जनयामास। तथा हि । प्रयोजनानामुद्देश्यानां गतिः परिणतिर्दुरधिगमा हि दुर्ज्ञेया खलु । अतः कचिद्भवति क्वचिन्न भवतीति भावः ॥   अथासामनुरागमेव कार्यतः प्रपञ्चयति--

प्रकृतम[२०५]नुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा।
प्रथममुपहितं विलासि चक्षुःसिततुरगे न चचाल नर्तकीनाम् ॥४१॥

  प्रकृतमिति ॥ विलासि सविलासं नर्तकीनां संबन्धि।'शिल्पिनि ष्वुन्'इति ष्वुन्प्रत्ययः। 'नृत्तिखनिरञ्जिभ्य एव' इति नियमः । चक्षुः कर्तृ प्रकृतं प्रकान्तमभिनेयमभिनेतव्यं रसभावादिव्यञ्जकं नानुससार । तद्दूषणं तदानुगुण्येनैव दृष्टिप्रयोगनियमादिति भावः। तथा प्रविकसदङ्गुलि चञ्चलाङ्गुलि पाणिपल्लवं वा नानुससार ।स च दोषः ।'यतो हस्तस्ततो दृष्टिः' इति नियमादिति भावः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः ।'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किंतु प्रथमं प्रवेश एव सिततुरगेऽर्जुन उपहितं सन्न चचाल तत्रैव लग्नं तस्थौ। रागान्धैर्न किंचित्करणी- यमनुसंधेयमिति भावः ।

अभिनयमनसः सुराङ्गनाया निहितमलक्तकव[२०६]र्तनाभिताम्रम् ।
चरणमभिपपात षट्पदाली धृतनवलोहितपङ्कजाभिशङ्का ॥ ४२ ॥

  अभिनयेति ।। अभिनयो रसभावादिव्यञ्जकचेष्टाविशेषः । 'व्यञ्जकाभिनयौ समौ'


इत्यमरः । तत्र मनो यस्यास्तस्याः । व्यासङ्गाद्भृङ्गापातमजानत्या इत्यर्थः । सुराङ्गनाया: संवन्ध्यलक्तकवर्तनया लाक्षारसरञ्जनेनाभिताम्रं निहितं न्यस्तं चरणं षट्पदाली कर्त्री धृता नवलोहितपङ्कजानामभिशङ्का प्रत्यग्रकोकनदभ्रमो यया साभिपपाताभिधावति स्म । अत्र षट्पदाल्याः स्त्रीचरणे पङ्कजभ्रमाभिधानाद्भ्रान्तिमदलंकारः । तेन चोपमा व्यञ्जत इत्यलंकारेणालंकारध्वनिः ॥

अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु ।
सवपुषमिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥ ४३ ॥

  अविरलमिति ॥ नमितशिखानि नर्तकीपादपीडनान्नमिताग्राणि कदम्बकेसराणि। रङ्गपूजादत्तानीति शेषः । अविरलं सान्द्रं यथा तथा द्रुतो रागोष्मणा विगलितोऽत एव परिषिक्तः प्रसृतस्तं द्रुतपरिषिक्तं नर्तकीनामलसेषु पदेषु पादन्यासेष्वलक्तकं लाक्षारागं सवपुषं मूर्तिमन्तं चित्तरागमुत्कटतया कायाद्बहिर्निःसृतं मुनिविषयकं राग- मिवेत्युत्प्रेक्षा । ऊहुर्वहन्ति स्म ।

  अथासां शृङ्गारचेष्टां कथयति--

नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्ग्यष्टेः ।
स्फुटमभिलषितं बभूव वध्वा व [२०७] दति हि संवृतिरेव कामितानि ॥४४॥

  नृपेति ॥ नृपसुतमर्जुनमभितः संमुखं परिजनस्य सखीजनस्य गात्रेण तिरोहिता लज्जया स्वाकारगोपनायान्तर्हिताङ्ग्यष्टिर्यस्याः सा तस्याः समन्मथाया वध्वा अमिलषितं मुनिं प्रत्यनुरागः स्फुटं बभूव । न च संव्रियमाणस्याभिव्यक्तिर्विरुद्धेति वाच्यमित्याह- यतः संवृतिः सम्यग्गोपनमेव कामितान्यनुरागान् । कामयतेर्भावे क्तः । वदति हि । प्रकटयतीत्यर्थः । अयमनुरागस्य स्वभाव उक्तः । यया चेष्टया रागः संव्रियते सैवास्य प्रकाशिका जातेति भावः ।।

अभिमुनि सहसा हृते परस्या धनमरुता जघनांशुकैकदेशे।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥४५॥

  अभिमुनीति ॥ अभिमुनि मुनिसमक्षं घनेन मरुता जघनांशुकस्यैकदेशे सहसा हृते सति सत्रपायाः सलज्जायाः परस्याः संबन्ध्यवसनौ निरावरणावूरू यस्मिम्स्तच्चकितं भयसंभ्रमः प्रतियुवतीरपि सपत्नीरपि विस्मयं निनाय । किमुतान्यजनमित्यपिशव्दार्थः। न तु मुनिमित्याशयः॥

धृतबिसवलये नि[२०८]धाय पाणौ मुखम[२०९]धिरूषितपाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥ ४६॥


  धृतेति ॥ अपरा स्त्री स्मराभितापाद्धेतोर्धृतानि बिसान्येव वलयानि येन तस्मिन्पा- णावधिरूषिते चन्दनादिचर्चिते पाण्डू गण्डलेखे गण्डस्थले यस्य तन्मुखं निधायारो- प्यामधुमदे मधुमदरहिते तथाप्यलसे लोचने यस्मिन्कर्मणि तद्यथा तथा तं नृपसुतं निदध्यौ पश्यति स्म । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥

  अथ पञ्चभिर्मुनिं प्रति दूतीवाक्यमाह--

सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ ४७ ॥

  सखीति ॥ कुसुमेषुणा कामेनाभितप्ता पीडिता सा नायिका । हे सखि, दयितं मुनिमिहानयेति मां प्रहितवती भवदन्तिकं प्रेषितवती । किं त्वविमृश्यकारिणीयमि त्याह- हृदयमिति । अहृदयामनस्का। तस्यास्त्वद्गतत्वादिति भावः । अत एव सा पूर्वं प्रागेव भवदुपकण्ठं त्वत्समीपमुपागतं हृदयं मनो न विवेद । नाम संभावनायाम् । अतो मत्प्रेषणं व्यर्थं तस्यान्तरङ्गत्वाद्बहिरङ्गस्य दुर्बलत्वादिति भावः । एतेन मनःसङ्ग उक्तः । चक्षुःप्रीतिस्तु प्रागेव सर्वासामुक्तेति न पृथगुच्यते ॥

  'दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश॥' इति । तत्राद्यमवस्थाद्वयमयधायि । संप्रति काचित्क्रमनैरपेक्ष्येण सूचयति-

चिरम[२१०]पि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां म[२११]नांसि ॥४८॥

  चिरमिति ॥ चिरं कलितान्यपि संदेशार्थं बुद्ध्या योजितान्यपि । वचनानीति शेषः। परिशुष्यता मुखेनेति जागरोक्तिः । परिगदितुमयारयन्त्याशक्नुवत्या तया । हे गतधृण। अद्यापि तां नानुकम्पस इति भावः । सत्सखीनां मनांसि नयनयुगैः सममार्द्रतां गमितानि । उपचयं गमितानीत्यर्थः । शोकबाष्पैरिति भावः । अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते । अत्र शोकबाष्परूपकारणभेदात्प्रतियोगिभेदाच्चार्द्रत्वभेदेऽप्य- भेदाध्यवसायः । तन्मूला चेयं नयनयुगैः सममिति सहोक्तिरलंकारः ॥

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥४९॥

  अचकमतेति ॥ किं वाच्यं चेत्याह-सा स्त्री मृद्धी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीमचकमतैच्छत् । तस्यास्ततोऽपि शीत- लत्वादिति भावः । कमेर्णिङन्ताल्लङ् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' इति द्विर्भाव इति केचित् । तन्न । अचीकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेश्चलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायास्तत्र धरित्र्यामपि भृशमरतिं दुःख-


भवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गमुपैतुमिच्छा । वर्तत इति शेषः । अस्याश्चौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात्प्रथमः पर्यायालंकारः । तदुक्तम्- 'क्रमेणैकमनेकसिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालंकृतिर्द्विधाः ॥ इति लक्षणात् ॥

तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥५०॥

  तदिति ॥ तत्तस्मात्कारणात्तस्या दुःखस्थत्वाद्धेतोः। हे अनघ निष्पाप! तनुः कृशेति कार्श्यावस्थाकथनम् । सा नायिका सकामा सफलमनोरथास्तु । हि यस्मात्त्वमेवार्थः प्रयोजनं वस्तु वा तस्मिम्स्त्वदर्थे निमित्ते । सतीति शेषः । त्वामुद्दिश्येत्यर्थः । परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति । मरिष्यतीत्यर्थः। तथा च तेऽनिमित्तहत्ययानघ- त्वव्याघातः स्यादिति भावः ।'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इदं च दशमावस्थाप्रदर्शनम् । न च तपोनिष्ठत्वाद्भेतव्यमित्याह-पुनरिति । पुनरपि पश्चादपि। 'पुनरप्रथमे भेदे' इति विश्वः । तपः सुलभम् । अनुराग्यनुरूपो योग्यश्च युवतिजनस्तु नाप्यते न लभ्यते खलु ॥

  एवं प्रलोभितस्यापि मुनेर्मौनं न भग्नमित्याह-

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।
[२१२]पगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥५१॥

  जहिहीति ॥ कठिनतां निःस्पृहतां जहिहि । त्यजेत्यर्थः । जहातेः 'आ च हौ' इती- कारः । वाचं प्रयच्छ । संधत्स्वेत्यर्थः । मुनीनां मानसं मनः करुणामृदु ननु दयार्द्रं खलु। 'स्वान्तं हृन्मानसं मनः' इत्यमरः । किं च। अभव्या निर्भाग्या उपगतं प्राप्तम् । विषयमिति शेषः । अवधीरयन्त्यवमन्यन्ते । एवमुक्तप्रकारेण सोऽर्जुनः कयाचिदेत्य समीपमागत्य निपुणं चतुरं यथा स्यात्तथोच उक्तः । अत्र पञ्चश्लोक्यां विप्रलम्भ- शृङ्गारस्यौत्सुक्यनाम्नो व्यभिचारिभावस्य चापुनरुक्तिः । अनौचित्येन नायिकायाः प्रवृत्ते- राभासत्वमनुसंधेयम्। तदुक्तम्-'एकत्र चेन्नानुरागस्तिर्यङ्म्लेच्छगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति । तन्निबन्धनादूर्जस्वलमलंकारः । तथा च सूत्रम्, 'रसभेदतदाभासतत्प्रशमानां निबन्धनेन रसवत्प्रायमूर्जस्वलम्' इति । समाहितातिरसबन्धे रसवदलंकारः। भावनिबन्धे प्रेयोऽलंकारः। रसभावनिबन्धे तूर्ज- स्वलालंकारः । तत्प्रशमनिबन्धने समाहितालंकार इति सूत्रार्थः ॥

सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ ५२ ॥


  सललितेति ॥ सललितं सविलासं यथा तथा चलितेन विवर्तितेन त्रिकेण कटिभागेन। 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । अभिरामाः शिरसि जाताः शिरसिजाः। 'सप्तम्यां जनेर्ड:' । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । 'उपपदमतिङ्' इति समासः। एतेन मनसिजो व्याख्यातः। तेषां संयमने बन्धन आकुलो व्यग्र एकः पाणिर्यस्याः सापरा स्त्री सुरपतितनयेऽर्जुने । जेतैव जैत्रः । जेतृशब्दात्तृजन्तात् 'प्रज्ञादिभ्यश्च' इत्यण्प्रत्ययः। मनसिजस्य जैत्रः शरस्तं तथाभूतम् । विलोचनस्यार्धमेकदेशम् । कटाक्षमित्यर्थः । निरासे विससर्ज ॥

कु[२१३]सुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी।
तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥५३॥

  कुसुमितमिति ॥ इभकुम्भवत्पृथुभ्यां स्वनाभ्यामानतमङ्गं यस्याः सा।'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप्। काचित्तनुस्तन्वी । 'चोतो गुणवचनात्' इति विकल्पात्र ङीप् । कुसुमितमुच्चैरुन्नतं चूतमवलम्ब्य । अत एव चूतलतायोगाद्विसृतो विस्तृतो गुणो ज्या यस्याः सा । 'विसृतं विस्तृतं ततम्' इति, 'मौर्वी ज्या शिञ्जिनी गुणः' इति चामरः। अनङ्गचापयष्टिरिव । आकृष्टमुक्तेति भावः।तदभिमुखं समुन्ननाम समुज्जजृम्भे। अङ्गभङ्गं चकारेत्यर्थः ॥

सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुण[२१४]संदितावतस्थे ॥५४॥

  सरमसमिति ॥ अन्यापरा विगलितनीवि श्लथवन्धनमत एव विलोलं स्थानचलितम्। नील्या रक्तं नीलम् । 'नील्या अन्वक्तव्यः' इत्यन्प्रत्ययः । अन्तरीयं परिधानमवलम्ब्य हस्तेन गृहीत्वा सरभसं सत्वरमभिपतितुं मनो यस्याः सा तथोक्ता । गन्तुमुद्युक्तेत्यर्थः। तथापि ससाध्वसेव । न तु वस्तुतः ससाध्वसा । किं तु च्युतेन गलितेनरशनागुणेन संदिता बद्धा सत्यवतस्थे स्थिता। 'बद्धे संदानितं मूतमुदितं संदितं सितम्' इत्यमरः । कर्मणि क्तः । 'द्यतिस्यतिमास्थाम्-' इतीकारः ।।

  काचिद्युग्मेनाह-

यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥५५॥

  यदीत्यादि । तव मनसि शमः शान्तिर्यदि । अस्तीति शेषः । अङ्ग भोः, चापं किम् । किमर्थमित्यर्थः । किं तु हे शठ हे वञ्चक, तव विषयाः शब्दादयो वल्लभाः प्रियाः । न तु मुक्तिः । तदेव द्रढयितुमाह--भवतु । को दोष इति शेषः। यद्यहं रागी तर्हि किमिति भवतीर्न गणयामीति शङ्कां निवारयति--दिशतीति । तव हृदये मनसि हदये-


श्वरा काचित्तव प्रेयस्यन्यकामिनीभ्यः रूयन्तरेभ्योऽवकाशं न दिशति न प्रयच्छति । रूयन्तरासक्त्या नास्मान्गणयसि । न तु वैराग्यात् । तदर्थमेवायं ते सकल: प्रयासोऽपीत्यर्थः॥

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जया[२१५]सौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ ५६ ।।

  इतीति ॥ इतीत्थमसूयया मत्सरेण स्फुरन्नधरोष्ठो यस्मिन्कर्मणि तद्यथा तथाभिधा- योक्त्वा विषमितचक्षुषा कुटिलीकृतदृष्ट्यागणिता गुरव आचार्यादयो मानोऽभिमानो लज्जा च यया तया कयाचिदसौ मुनिरुरसि स्वयं स्वहस्तेनैव श्रवणोत्पलेन जघ्ने हतः।

सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः।
श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥५७॥

  सविनयमिति ॥ अपरा सविनयमनौद्धत्येन साचि तिर्यगभिसृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगैकस्य लसतः कपोलस्य लक्ष्म्यो यस्याः सेति । बहुवचनपदोत्तरो बहुव्रीहिः । अन्यथा कप्प्रत्ययः स्यादित्युक्तं प्राक् । श्रवणनियमितेन कर्णान्तप्रापितेन श्रोत्ररुद्धप्रसरेण । तावदायतेनेत्यर्थः । असकलेनासंपूर्णेन । कटाक्षेणेति यावत् । लोचनेन तं मुनिं धनंजयं सकलमिव समग्रप्रायं यथा तथा निदध्यौ पश्यति स्म । कटाक्षेणैव गाढमद्राक्षीदित्यर्थः । एषु श्लोकेषु भावाभासनिबन्धनादूर्जस्वलालंकारः। औत्सुक्यमत्र भावः। आभासत्वं चास्य विरक्तमुनावनौचित्यादित्युक्तं प्रागेवेति ॥

  अथासां मुनिविलोभनमुपसंहरति--

करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारणेऽनु[२१६]नेतुं प्रियमियती ह्यबलाजनस्य भूमिः॥५८॥

  करुणमिति ॥ ताभिः स्त्रीभिस्तदभिमुखं मुनिसमक्षं करुणं दीनमभिहितमुक्तम् ।त्रपा निरस्ता लज्जा त्यक्ता । किंबहुनाश्रु च विमुक्तम् । ततः परं न किंचिद्विधेयमासीदिति भावः । कुतः। हि यस्मादबलाजनस्याभिसारणे समागमविषये प्रकुपितमननुकूलं प्रियमनुनेतुमनुकूलयितुमियती भूमिरित्येतावती सीमा ।साधनानां परमावधिरिति भावः। अर्थान्तरन्यासोऽलंकारः॥

  अथासामनुरागदार्ढ्यं निगमयति-

असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः॥५९॥

  असकलेति ॥ असकलनयनेक्षितानि नयनार्धविलोकितानि लज्जालसंगतं मन्दगमनं


परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्ग इत्येवंप्रकारं विविधं नानाविचेष्टितम्।'नपुंसकमनपुंसक-'इत्यादिना नपुंसकैकशेषत्वम्। तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि । अनङ्गो मदनो वधूर्मण्डयितुं प्रभवति। सर्वावस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥

  इदानीमेतासां त्रिभिर्मुनिविलोभने प्रयासवैफल्यमाह-

अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थ[२१७]लातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ॥६०॥

  अलसेति॥ वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसबधूनां गतिर्येन तत्प्रयातं गमनम् । भावे क्तः। तथोरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादति- गौरवादुदितपरिश्रमेणोद्गतश्रमेण जिह्मिते धूर्णिते ईक्षणे यस्मिम्स्तत्स्थितं वा स्थितिश्च । सर्वत्र वाशब्दः समुच्चये ॥

भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः।
अधिकविततलोचनं वधूनामयुगपदुन्नमितभ्रु वीक्षितं च[२१८]॥ ६१ ॥

  भृशेति ॥ तथा भृशेन गाढेन कुसुमशरस्य कामस्येषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोरनवसितार्थैरस्फुटोच्चारणादनवधारिताभिधेयैः पदैः सुप्तिङन्तशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्चाधिकं वितते विस्तृते लोचने यस्मिम्स्तदयुगपत्पर्याये- णोन्नमिते भ्रुवौ यस्मिम्स्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्र्स्वः । वीक्षितं वीक्षणं च ॥

रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥६२॥

  रुचिकरमिति ॥ पूर्वोक्तं रुचिकरं स्पृहाजनकमपि । 'रुचिः कान्त्यर्चिषोर्भासि स्त्रियां शोभास्पृहार्थयोः' इति वैजयन्ती । स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ शुद्धे। निर्विकारचेतसीत्यर्थः । पृथातनुजेऽर्जुने विषयेऽर्थवत्सप्रयोजनं न बभूव । तथा हि । महतां धीराणां मनांस्यमर्षे क्रोधे ज्वलयति सति सुखाभिलाषोऽवसरमवकाशं न लभते । रौद्रस्य शृङ्गारविरोधित्वादिति भावः । अत्र विशेषकेऽर्थान्तरन्यासोऽलंकारः॥

स्वयं संरा[२१९]ध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते।


मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरुचयःसगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः॥६३॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः।

  स्वयमिति ॥ एवं हरिसुतेऽर्जुने स्वयमखण्डेनाविलुप्तेन तपसा शतमखमिन्द्रं संराध्य प्रीणयित्वा परोच्छित्त्या शत्रुवधेन लभ्यां साध्यां लक्ष्मीं राजलक्ष्मीमभिलषति सति सोद्वेगैः कार्यसिद्ध्यभावात्सनिर्वेदैर्मनोभिरुपलक्षिताः । किं च । प्रणयविहत्या प्रार्थनाभङ्गेन ध्वस्तरुचयो नष्टकान्तयः सगन्धर्वा गन्धर्वसहितास्त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्-'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्या- व्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ॥


एकादशः सर्गः।


अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १॥

  अथेति॥अथाप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः। नन्द्यादित्वाल्युप्रत्ययः । तयाप्सरोमुखाच्छ्रुतयामर्षाद्विषद्वेषान्निसर्गाच्च या जितेन्द्रियता तयागन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते दृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम। अत्रामर्षनिसर्गयोर्जितेन्द्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥

  किमिन्द्रो निजरूपेणैवागतो नेत्याह-

मुनिरूपोऽनुरूपेण सूनुना ददृशे पु[२२०]रः।
द्राघीयसा वयोतीतः प[२२१]रिक्लान्तः किलाध्वना ॥ २॥

  मुनिरूप इति ॥ मुने रूपमिव रूपं यस्य स मुनिरूपः। मुनिवेषधारीत्यर्थः । स इन्द्रोऽनुरूपेण । दर्शनप्रदानयोग्येनेत्यर्थः । सूनुना पुत्रेणार्जुनेन पुरोऽग्रे ददृशे दृष्टः । कथंभूतः। वयो यौवनादिकमतीतो वृद्धः। 'द्वितीया श्रित-इत्यादिना द्वितीयासमासः। द्राघीयसातिदीर्घेण । 'प्रियस्थिर-'इत्यादिना दीर्घशब्दस्य द्राघादेशः । अध्वना । अध्वगमनेनेत्यर्थः । परिक्लान्तः परिश्रान्तः । किलेत्यलीके । वृद्ध इव दूराध्वश्रान्त इव स्थित इत्यर्थः । 'इव' इति पाठे स्पष्टार्थः ॥


  अथ चतुर्भिरिन्द्रं विशिनष्टि-

जटानां कीर्णया केशैः संहत्या परितः सितैः।
पृक्तयेन्दुकरैरह्न: पर्यन्त इव संध्यया ॥३॥

  जटानामिति ॥ परितः सितैः केशैः कीर्णया व्याप्तया जटानां संहृत्या समूहेनोपलक्षितः। अत एवेन्दुकरैरिन्दुकिरणैः पृक्तया युक्तया संध्ययोपलक्षितोऽह्नः पर्यन्तो दिनान्त इव स्थितः। तस्यापि परिणतरूपत्वाद्वृद्धोपमानत्वम् । जटानां संहत्येत्युक्त- त्वात्संध्यासाम्यम् ॥

विशदभ्रुयुगच्छन्नवलितापाङ्गलोचनः।
प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः॥४॥

  विशदेति ॥ पुनश्च । विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने वलितापाङ्गे बलिमत्तान्ते लोचने यस्य स तथोक्तः । 'अपाङ्गौ नेत्रयोरन्तौ' इत्यमरः। पामादित्वाल्लोमादि सूत्रेण तृलच्प्रत्ययः । प्रालेयावतत्या हिमसंहत्या म्लानपलाशानि क्लान्तदलान्यब्जानि यस्सिन्स ह्रद इव स्थितः ॥

आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः॥५॥

  आसक्तेति ॥ पुनश्च । परिकृशैः परिक्षीणैरप्यासक्तभरनीकाशैर्भाराकान्तसदृशैः । सभारवद्गुरूभवद्भिरित्यर्थः।'इकः काशे'इति दीर्घः।अङ्गैरुपलक्षितः।कार्श्याल्लधून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एवाद्यून औदरिकः 'आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः । आङ्पूर्वाद्वीव्यतेः क्तः। 'च्छ्वो: शूडनु- नासिके च' इत्यूठादेशः । 'दिवोऽविजिगीषायाम्' इति निष्ठानत्वम् । सद्गृहिण्यानु- कूलकलत्रेणेव प्रायः प्राचुर्येण यष्ट्यावलम्बनदण्डेनावलम्बितो धारितः । न तु स्वशक्त्येति भावः॥

गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपट[२२२]लच्छन्नविग्रहः॥६॥

  गूढ इति ॥ वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीयर्थः । प्रकृत्यादिभ्य उपसंख्या- नात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दान्तरितमूर्तिरम्शुमानिव लोकाभि- भाविना लोकव्यापिना धाम्ना तेजसा । राजन्दीप्यमानो दद्दश इति पूर्वेण संबन्धः ॥

जरतीमपि बिभ्राणस्तनुम[२२३]प्राकृतारुतिः।
चकाराकान्तल[२२४]क्ष्मीकः ससाध्वसमिवाश्रमम् ॥७॥


  जरतीमिति ॥ जरतीं जीर्णाम्।'जीनो जीर्णो जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणो दधदप्यप्राकृता लोकसामा- न्याकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः। अत्र 'उर:प्रभतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठात्।'शेषाद्विभाषा'इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं ससाध्वसमिव चकार । तेजस्विदर्शनाद्भयं भवति । तत्तु न दुःखजनकं तस्यामानुपत्वादिति सूचयितुमिवशब्दः॥

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि वलात्प्रह्लादते मनः ॥ ८॥

  अभित इति ॥ पृथासूनुरर्जुनस्तमिन्द्रमभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्यावृतः। स्तृणोतेः कर्मणि लिट् । 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्व- ज्ञातसंबन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह-अविज्ञात इति । बन्धौ सुहृद्यविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि । स्निह्यतीत्यर्थः॥

आतिथेयीमथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ।। ९ ।।

  आतिथेयीमिति ॥ अथ हरिरिन्द्रः सुतादर्जुनादातिथेयीमतिथिषु साध्वीम् । 'पथ्यतिथि- वसतिस्वपतेर्ढञ्'। अपचितिं पूजामासाद्य प्राप्य। 'पूजा नमस्यापचितिः'इत्यमरः। विष्टर आसने । 'ऋदोरप्' इति स्तुपातेरप्प्रत्ययः । 'वृक्षासनयोर्विष्टरः' इति षत्वम् । विश्रम्य नाम विश्रम्य किल । श्रममपनीयेत्यर्थः । इति वक्ष्यमाणप्रकारां भारतीं व्याजहारोक्तवान् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ॥

  अथ तावन्मुनिवदेनं मुमुक्षुं कृत्वाह---

त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ १०॥

  त्वयेति ॥ त्वया साधु समारम्भि सम्यगुपक्रान्तम् । रमेः कर्मणि लुङ् । कुतः। यद्यस्मान्नवे वयसि यौवने । तपः । चर्यत इति शेषः । तथा हि । अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । 'प्रियस्थिर-' इत्यादिना वृद्धशब्दस्य वर्षादेशः । प्रायो विषयैर्ह्रियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥

  अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यदित्याशयेनाह-

श्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११ ॥

  श्रेयसीमिति ॥ तवाकृतिर्मूर्त्ति: । रम्येति शेषः । श्रेयसीं श्रेष्ठां गुणसंपदं तपःसमारम्भूरूपां संप्राप्ता । अतो न निष्फलेति भावः । न च स्वाकारा गुणाढ्याश्च कियन्तो न सन्तीति वाच्यमित्याह-लोक इति । लोके रम्यता रम्याकारता सुलभा हि । गुणार्जनं गुणसंपादनं दुर्लभम् । त्वयि तूभयं संपद्यत इति हेम्नः परमामोद इति भावः ।।

  यदुक्तम् 'त्वया साधु समारम्भि' इति, तदेव साधुत्वं संसारनिःसारताख्यापनया युग्मेनोपपादयति-

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १२ ॥

  शरदिति ॥ यौवनश्रियस्तावच्छरदम्बुधरच्छाया इव गत्वर्यश्चञ्चलाः । इति क्वरबन्तो निपातः। 'टिडाणञ्-' इत्यादिना ङीप् । विषयाः शब्दादयस्त्वापात- रम्यास्तत्कालरमणीयाः। 'तदात्वे पात आपात:' इति वैजयन्ती । पर्यन्तेऽवसाने परि- तापयन्ति दुःखं कुर्वन्तीति तथोक्ताः ॥

अन्तकः पर्यवस्थाता जन्मिनः संततापदः।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १३॥

  अन्तक इति ॥ किं च । संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनः- प्राणिनः ।'प्राणीतु चेतनोजन्मी' इत्यमरः । व्रीह्यादित्वादिनिः। अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा। प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंभिन्नतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम्'काकमांसंशुनोच्छिष्टं [दुर्गन्धं क्रिमिसंकुलम्।म्लेच्छपक्वं सुरासिक्तं] स्वल्पं तदपि दुर्लभम्॥' इति न्यायादिति भावः । इत्युक्तहेतोस्त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादश इति शेषः। भव्यं सुखे शुभे चापि भेद्यवद्योग्यभाविनोः' इति विश्वः।'भव्यगेय-' इत्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । 'उदोऽनूर्ध्व- कर्मणि' इत्यात्मनेपदम् ॥

  संप्रति प्रशंसापूर्वकं स्वाभिसंधिं दर्शयति-

चित्तवानसि कल्याणी य[२२५]त्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ १४ ॥

  चित्तवानिति ॥ चित्तवान्प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यतस्त्वां कल्याणी साध्वी । 'बह्वादिभ्यश्च' इति ङीप् । मतिरुपस्थिता संगता । किं तु केवल- मेकं यथा तथा विरुद्धो वेषो में मनः संदेहयति संशययुक्तं करोति । यद्वा वेषः ।


केवलं वेष एवेत्यर्थः । 'केवलः कृत्स्न एके च', 'केवलं चावधारिते' इत्युभयत्रापि शाश्वत:॥

  वेषविरोधमेवाह-

युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ १५ ॥

  युयुत्सुनेति ॥ युयुत्सुनेव योद्धुमिच्छुनेव त्वया। युधेः सन्नन्तादुप्रत्ययः । किमिदं कवचं चर्मामुक्तमर्पितम् । तत्र को विरोध इत्यत्राह-हिं यस्मात्तपस्विनः केवले एके। कवचाद्यसहचरिते इति यावत्।ते च ते अजिनवल्कले च।'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः । वसत आच्छादयन्ति । अतस्तपस्विनस्ते कवचधारणं विरुद्धमित्यर्थः ॥

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ १६ ॥

  प्रपित्सोरिति ॥ किं च। मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। 'सनि मीमा-'इत्यादिनेसादेशः। अत्र 'लोपोऽभ्यासस्य' इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे नि:स्पृहस्य गतस्पृहस्य । अतोनात्मरक्षार्थे धनुर्धारणं युक्तमित्यर्थः । नापि परहिसार्थमित्याह- भूतानां जन्तूनाम् । 'क्ष्मादौ जन्तौ च भूतानि' इति वैजयन्ती। 'क्रुधद्रुहोरुप- सृष्टयोः कर्म' इति कर्मसंज्ञायाम् कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी। अनभिद्रुहो- ऽहिंसकस्य । 'सत्सूद्विष--' इत्यादिना क्विप् । ते तव महेषुधी महानिषङ्गी भीमं त्रासज- नकं धनुश्च । न समर्थयते शममित्युत्तरेणान्वय: । समर्थयत इति वचनविपरिणाम: कार्यः

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ॥ १७ ॥

  भयंकर इति ॥ तथा मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः । मेघर्तिभयेषु कृञ्' इति खच्प्रत्ययः । 'अरुर्द्विष-' इत्यादिना मुमागमः । असिः खड्गः। तपसि तिष्ठतीति तपस्थः । तपश्चरन्नित्यर्थः । 'सुपि स्थः' इति कप्रत्ययः। तस्य तव शमं शान्ति न समर्थयते न संभावयति । किं शान्तस्य शस्त्रेणेति भावः ॥

  नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह-

जयमत्रभवान्नूनमरातिष्वभिलाषुकः।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ १८॥

  जयमिति ॥ अत्रभवान् । पूज्य इत्यर्थः । इतरास्योऽपि दृश्यन्ते' इति प्रथमार्थे प्राग्दिशीयस्रल्प्रत्ययः। सुप्सुपेति समासः । 'त्रिषु तत्रभवान्पूज्यस्तथैवात्रभवानपि' इति यादवः । अरातिषु शत्रुषु विषये जयमभिलाषुको जयमिच्छुः । 'लषपत-' इत्यादिनो- कञ्प्रत्ययः । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । 'नूनं तर्केऽपि निश्चये' इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गमायुधं क्व । क्षमावन्तः शान्तास्तपोधनाः क्व । क्रोधशान्त्योर्विरोधात्तत्कार्ययोः शस्त्रतपसोरप्येकत्रासंगतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥

  तपसो जयार्थत्वे दोषमाह-

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥१९॥

  य इति ॥ यः पुमान्निश्चितं श्रेयो निःश्रेयसं मुक्तिः ।'अचतर-'इत्यादिना समासान्तो निपातः । 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्' इत्यमरः।निःश्रेयसं कुर्वन्तीति निःश्रेयसकरीः । निःश्रेयसुहेतुनित्यर्थः । 'कृञो हेतुताच्छील्यानुलोम्येषु' इति हेत्वर्थे टप्रत्ययः । टित्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । 'उदर्कः फलमुत्तरम्' इत्यमरः । अत एव मूढः स पुमान् ग्लानिरेव दोषस्तं छिन्दत्वीति ग्लानिदोषच्छिदः पिपासाहारिणीः। क्विप्। स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति।'णाविष्टवद्भावे विन्मतोर्लुक्'इति मतुपो लुक्।महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्दुनः पङ्कसंकरवत्प्रेक्षावद्भिर्गर्हित इत्यर्थः ।अत्र 'यत्तपसो वधोदर्कीकरणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्'इति वाक्यार्थे वाक्यार्थान्तरमारोप्य प्रतिबिम्बकरणाक्षेपादसंभववस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः॥

  नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तपसस्तदर्थत्वे को दोषस्तत्राह--

मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥२०॥

  मूलमिति ॥ हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिशब्दादनृतस्तेयादीनां संग्रहः । दोषस्यावगुणस्य मूलं कारणभूतौ । 'स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम्' इति भावः । अर्थकामौ मा स्म पुषो नोपचिनुष्व । 'स्मोत्तरे लुङ् च' इति लुङ् ।'पुषादि-'इत्यादिना च्लेरङ्मदेशः। हि यस्मात्तावर्थकामौ तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारावुपप्लवौ हिंसादिप्रवर्तकत्वादन्तकौ । अत: पुरुषार्थपरिपन्थिनावेतौ न पुरुषार्थावित्यर्थ: ।

  मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम् । तत्रार्थस्य दुःखैकनिदानत्वाद- प्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति---

अभिद्रोहेण भूतानामर्जयन्गत्वरीः श्रियः।

  अभिद्रोहेणेत्यादि । भूतानामभिद्रोहेण हिंसया गत्वरारास्थराः श्रियः सपदाऽजयज्जनः । उदकमस्तीत्यदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । सिन्धूनां नदीनामिवापदां विपदां पात्रतां मूलत्वमेति ॥

  आपत्पात्रतामेव व्यनक्ति--

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदामिव संपदाम् ॥ २२ ॥

  या इति ॥ याः संपदः सत्सहायानां विद्यमानसाधनानामेव पुंसां गम्याः साध्याः । विपदोऽपि सत्सहायानामेव गम्याः । निस्तीर्या इत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । यासु सतीषु खेदो रक्षणादिक्लेशः । विपत्सु स्वत एवेति विशेषः। यतो याभ्यः संपद्भयो भयम् । अनेकानर्थमूलत्वादिति भावः । विदद्भयस्तु स्वरूपत एवेति भावः। किं बहुना । विपदामिव तासां संपदां संबन्धि । न किम् । अस्तीति शेषः । यद्दुःखाय न भवति । सर्वं दुःखावहमेवेति भावः । यदाहुः-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥' इति । अतो हेया इति भावः । अत्र यन्न दुःखायेत्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात्तासां किमिति पूर्णवाक्ये तच्छब्दोपादानं नापेक्षते । तदेतत्काव्यप्रकाशे स्पष्टम् ॥

दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ २३ ॥

  दुरासदानिति ॥ किं च । दुरासदान्दुःप्रापान् । विश्वासाजन्म यस्यास्तस्याः । जन्मो- त्तरपदत्वाद्व्यधिकरणो बहुव्रीहिः । धृतेः संतोषस्योग्रावरीन । धनिकस्य सर्वत्रानाश्वा- ससंभवाद्विस्रम्भसुखभञ्जकानित्यर्थः । भुज्यन्त इति भोगान्धनान्याहेयानहिषु भवान् । 'दृतिकुक्षिकलशिवस्त्यस्यहेर्ढञ्' । भोगान्फणानिव । 'भोगः सुखे धने चाहेः शरीरफणयोरपि' इत्युभयत्रापि विश्वः । अध्यास्याधिष्ठायापद्विपत्र दुर्लभा । आशीविषमखमिव नेच्छन्तमेव भोगिनं पुमांसं बलादापदवस्कन्दतीत्यर्थः ॥

  इतोऽपि श्रियो हेया इत्याह----

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः॥२४॥

  नेति ॥ श्रियः संपदो जातु कदाचिदन्तरज्ञा नीचानीचविशेषाभिज्ञा न भवन्ति । अत एवासां श्रियां प्रियैर्न भूयते । न ता: कुत्राप्यनुरज्यन्तीत्यर्थः । नन्वयं श्रीदोषो न पुरुषदोष इति चेत्तत्राह-मूढा अमी जनास्तास्वननुरक्तास्वपि श्रीष्वासक्ताः। स्त्रीषिव श्रीष्वननुरक्तास्वनुरागः पुंसामेवायं दोष इत्यर्थः। किमर्थं तर्हि तास्वेव सर्वेषामा सक्तिरित्यर्थान्तरं न्यस्यति– वामेति।जन्तवो वामशीला वक्रस्वभावा हि। स्वभावस्य दुर्वारत्वादिति भावः ॥

  यदुक्तम् 'नान्तरज्ञाः श्रियः' इति, तदेव भङ्ग्यन्तन्तरेणाह--

कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव संपदः ॥२५॥

  क इति ॥ संपदोऽशीलेषु दुःशीलेषु विषये न तद्विरुद्धमुच्यते यच्चञ्चला इति । अतः स्तुतिपदे स्तुतिविषये तत्र कोऽपवादः का निन्दा । किंतु क्षुद्राः संपदः साधुवृत्तानपि विक्षिपन्त्येव जहत्येव । तदेव तासां निन्दापदमित्यर्थः । तस्मादर्थो न पुरुषार्थ इति संदर्भार्थः ॥

  ननु नार्थमहमर्थये । किंतु वीरधर्ममनुपालयन्वैरनिर्यातनमिच्छामीत्याशङ्क्य तदपि परपीडात्मकत्वादयुक्तमिति श्लोकचतुष्टयेनाचष्टे-

कृतवानन्यदेहेषु कर्ता च विधुरं मनः।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ २६ ॥

  कृतवानिति ॥ तत्रात्मदृष्टान्तेनैव परपीडातो निवर्तितव्यमित्याशयेनाह-अप्रियैरनिष्टवस्तुभिः संयोग इव प्रियैरिष्टवस्तुभिः सह विप्रयोगो विरहोऽन्यदेहेषु स्वस्यैव देहान्तरेषु । अतीतानागतेष्विति शेषः । मनो विधुरं दुःखितं कृतवान् । कर्ता करिष्यति च । भविष्ये लुट् । तद्वर्तमाने चानुभूयत इति शेषः । इष्टनाशो दुःखहेतुरिति सर्वत्रापि त्रैकालिकसिद्धमिति श्लोकार्थः ॥

  संप्रतीष्टसमागमस्य सुखहेतुत्वमाह-

शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ २७॥

  शून्यमिति ॥ प्रियसमागम इष्टजनसंयोगे सति शून्यं रिक्तमप्याकीर्णतां संपूर्णतामेति। समृद्धमिव प्रतीयत इत्यर्थः । व्यसनं विपदप्युत्सवैस्तुल्यम् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । विप्रलम्भो वञ्चना । प्रतारणमिति यावत् । सोऽपि लाभाय । किंबहुना प्रियसंगतस्य सर्वावस्थास्वपि सुखमेवेत्यर्थः ॥

  प्रकारान्तरेण प्रियवियोगस्य दुःखहेतुत्वमाह-

तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ २८ ॥

  तदेति ॥ तदा रम्याण्यप्यरम्याण्यमनोहराणि भवन्ति । किंबहुना प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किं च । तदा सबन्धुः सन्नप्येकाक्यसहाय एव । 'एकादाकिनिच्चासहाये' इत्याकिनिच्प्रत्ययः। यदेष्टेन रहितः ॥

युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥

  युक्त इति ॥ किं च।युक्तः। हितेनेति शेषः। हितेनेष्टेन युक्तः सन्।प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह~~यदीति । पीडात्मनः स्वस्य च नष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्म- दृष्टान्तेन परपीडातो निवर्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥

  अथ देहास्थैर्यश्रद्धया च परपीडा न कार्येत्याह-

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं न्या[२२६]याधारा हि साधवः ॥ ३० ॥

  जन्मिन इति ॥ अस्य जन्मिन उत्पत्तिधर्मिकस्य शरीरिणः । व्रीह्यादिस्वादिनिः। स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मिधर्मत्वादेव चलाम् । अनित्यामित्यर्थः । चलतेः पचाद्यच् । 'चरिचलिपतिवदीनां वा द्वित्वमच्याक्वाभ्यासस्येति वक्तव्यम्' इति द्विर्भावः । अभ्यासस्यागागमश्च । विद्वान । जानन्नित्यर्थः । 'विदेः शतुर्वसुः' इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयेत्यर्थः । ‘स्मोत्तरे लङ् च ' इति लुङ् । 'लुङि च' इति हनो वधादेशः। 'शेषे प्रथमः' इति प्रथमपुरुषः । हि यस्मात्साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न् स्यादिति भाव:। 'न्यायाचाराः' इति पाठे न्यायमाचरन्तीतिः तथोक्ताः । कर्मण्यण् ॥

  तर्हि किं मे कर्तव्यं तत्राह:-

विजहीहि रणोत्साहं मा तपः साधु नीनशः।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ३१ ॥

  विजहीहीति ॥ हे तपोधन, रणोत्साहं रणोद्योगम् । लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहस्तं विजहीहि-त्यज । 'आ च हौ' इतीकारः । साधु समीचीनम् । निःश्रेय- सकरत्वादिति भावः । तपो मा नीनशो न नाशय । नश्यतेर्ण्यन्तान्माङ्योगादाशिषि लुङ् । अडागमनिषेधश्च । किंतु जन्मन उच्छेदं कर्तुम् । मोक्षं साधयितुमित्यर्थः । शान्त पधि विजिगीषानिवृत्तो मवेत्यर्थः । 'हुझल्भ्यो हेर्धिः' इति धिः । ध्वसोरेद्धा- वभ्यासलोपश्च' इत्यकार इति ।

  अथ सर्वथा मे विजयकण्डूतिर्न निवर्तत इत्याशङ्क्य तर्ह्यन्तःशत्रुविजयेन विधीयतां तदपनोद इत्याह--


जीयन्तान्दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ३२॥

  जीयन्तामिति ॥ दुर्जया अजय्याश्चक्षुरादयो देहे वर्तमाना रिपवो जीयन्तां यस्मात्तेष्वन्तःशत्रुषु जितेषु सत्सु त्वयायं कृत्स्नो लोको जितो ननु । किमुतान्ये शत्रवस्तदन्तर्गता इत्यर्थः । जितेन्द्रियस्येन्द्रियार्थनिःस्पृहस्य वैरानुदयाद्विजयव्यपदेशः ॥

  अजितेन्द्रियस्यानिष्टमाचष्टे----

परवानर्थसंसिद्धौ नी[२२७]चवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥ ३३ ॥

  परवानिति ॥ अर्थसंसिद्धावभ्यवहारादिस्वार्थसाधने परवान्पराधीनः । 'परतन्त्रः पराधीनः परवान्' इत्यमरः । नीचवृत्तिः कर्षणवहनादिनिकृष्टकर्मापत्रपो निर्लज्जोऽवि- धेयेन्द्रियोऽजितेन्द्रियः पुमान्गौर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्य- तामिति यावत् । 'विधेयो विनयग्राही वचनेस्थित आश्रवः' इत्यमरः । एति प्राप्नोति । उपमालंकारोऽयम्-'प्रकृताप्रकृतयोरर्थसाधर्म्याच्छेषे तु शब्दमात्रसाधर्म्यम्' इति ।

  न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम् । किंत्वपारमार्थिकत्वादपीत्याह-

श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ ३४ ॥

  श्व इति ॥ अधुना भवा अधुनातनीदानींतनी। सायंचिरं-' इत्यादिना ट्युप्रत्ययः । सुखसंवित्तिः सुखानुभुवः श्वः परेऽहनि त्वया स्मरणीया । न त्वनुभवनीया । इति हेतोः । कम्यन्त इति कामा विषयास्तान्स्वप्नोपमान्स्वप्नतुल्यान्मत्वातात्त्विकान्निश्चित्य तदङ्गतां तच्छेषत्वं कामपरतन्त्रतां मा गा न गच्छ । 'इणो गा लुङि' इति गादेशः ॥

  इतोऽपि हेयाः कामा इत्याह-

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥३५॥

  श्रद्धेया इति । श्रद्धातुमर्हाः श्रद्धेया विश्वसनीयास्तथा विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा प्रीणयन्तीति प्रियाः प्रीतिजनकाः।'हगपध-'इत्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किं च । त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयं तेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि । प्रसिद्धशत्रुतैधर्म्यादिति भावः । अत्र श्रद्धेयत्वादीनां विप्रलम्भ- कत्वादीनां चैकत्रविरोधो विषयस्वाभाव्येन समाधीयत इति विरोधाभासोऽलंकारः । तेने च कामानां प्रसिद्धशत्रुवैधर्म्य व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ।।


  तर्हि किं कर्तव्यमित्याशङ्क्यो पसंहरन्नाह-

विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ३६॥

  विविक्त इति ॥ विविक्ते विजने।'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः'इत्यमरः। जहुकन्यया गङ्गया भूयो भूयिष्ठं पुनःपुनर्वा । भूयः पुनःपुनः ख्यातं भूतार्थे पुनरव्ययम्' इति विश्वः। प्लाविते सिक्ते।'पाविते' इति पाठे पवित्रीकृत इत्यर्थः। अस्मिन्नग इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति । संनिकृष्टा भविष्यतीत्यर्थः । 'पुरा पुराणे निकटप्रबन्धातीतभाविषु' इति विश्वः । उदायुधो गृहीतशस्त्रो मा भूः। शस्त्रं विमुञ्चेत्यर्थः ॥

व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ३७॥

  व्याहृत्येति॥ मरुतां पत्यौ देवेन्द्र इति वाचं व्याहृत्योक्त्वावस्थिते सति तूष्णीं स्थिते सति । अथ कपिध्वजोऽर्जुनः प्रश्रयगम्भीरं विनयमधुरम् । 'विनयप्रश्रयो समौ' इति यादवः । वच उवाचोक्तवान् ॥

  किमुवाचेत्यपेक्षायामादौ चतुर्भिरिन्द्रवाक्यमुपश्लोकयन्नाह-

प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ३८॥

  प्रसादेति॥ प्रसादोऽत्र प्रसिद्धार्थपदत्वं तेन रम्यम्।'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः। लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षमाकङ्क्षवत्पदकदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकङ्क्षितमित्यर्थ:। अनुपस्कारमध्याहारदोषरहितम्। विष्व- ग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थमत एव निराकुलमसङ्कीर्णार्थम् ॥

न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ॥ ३९॥

  न्यायेति ॥ पुनर्न्यायेन युक्त्या निर्णीतसारत्वान्निश्चितार्थत्वाद्धेतोरागमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदार्ढ्यादेवं प्रतीयते । वस्तुतस्तु शास्त्रसिद्धार्थमिवेतीवशब्दार्थः । किं च । अन्येषां प्रतिवादिनामप्रकम्प्यतयानुमानादिभिरबाध्यत्वादप्रत्याख्ये- यतयाम्नायवचनोपमम् । वेदवाक्यतुल्यमित्यर्थः ।।

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥४०॥

  अलङ्घ्यत्वात्वादिति ॥ अन्यैर्जनैरलङ्घ्यत्वादनुल्लङ्घनीयत्वात्क्षुभितोदन्वदूर्जितमुद्वेला- म्भोधिगम्भीरम्। औदार्यादुक्तिविशेषत्वात् ।श्लाघ्यविशेषणत्वाद्वा। तदुक्तं दण्डिना- 'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति । 'अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः । अन्यत्राणिमादिसमृद्धे:। ऋषेर्मु- नेश्चित्तमिव शान्तं सौम्यम् ॥

इदमीदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः॥४१॥

  इदमिति ॥ इदमीदृग्गुणोपेतं यथोक्तगुणयुक्तम् । इदमुपपदादृशेः क्विप् । 'इदंकि- मोरीश्की' इतीशादेशः । लब्धे प्राप्तेऽवसरसाधने कालोपायौ येन तत्प्रियं प्रीतिकरं वाक्यं को वक्ता व्याकुर्याद्ववाहरेत् । यो वक्ता सोऽनीदृगाशय ईदृग्विवक्षावान्न भवति । अबुद्धिरित्यर्थः । तस्यार्थस्य वक्तुमशक्यत्वादिति भावः ॥

  एवमिन्द्रवाक्यमुपश्लोक्य नाहमस्योपदेशस्याधिकारीति परिहरति-

न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ४२ ॥

  नेति॥ हे तात,अमुष्य यत्नस्य तपोरूपस्यास्य मदीयोद्योगस्य पूर्वं चापरं च पूर्वापरे। त एवं पौर्वापर्यं कारणं फलं च । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यन्प्रत्ययः । ते तव न ज्ञातम् । त्वया न ज्ञायत इत्यर्थः । 'मतिबुद्धि-' इत्यादिना वर्तमाने क्तः। तद्योगादेव षष्ठी । कुतः । येन कारणेन मां मुनिभिस्तुल्यं सदृशं धर्मं मोक्षधर्मं शासितुमुपदेष्टुमिच्छसि । शासिरयं दुहादित्वाद्विकर्मको ज्ञेयः ।।

  अथ पौर्वापर्यमज्ञात्वाप्युपदेशे दोषमाह-

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ४३ ॥

  अविज्ञातेति ॥ अविज्ञातः प्रबन्धः पूर्वापरसंगतिर्येन तस्य वाचस्पतेर्बृहस्पतेरपि । कस्कादित्वात्सः। अथवा 'षष्ठ्या: पतिपुत्रपृष्ठपारपदयस्पोषेषु' इति सकारः। एतस्मादेव ज्ञापकादलुगिति केचित् । वच उपदेशो नयद्रुहो नीतिविरुद्धकारिणः पुरुषोहि- तमुद्योगद्धताफलतां निष्फलत्वं व्रजत्येव गच्छत्येव ॥

  ननु सदुपदेशस्य कुतो वैफल्यमित्याशङ्क्य सोऽप्यस्थाने प्रयुक्तश्चेदूषरक्षेत्रे शालि- बीजवद्धिफल एवेत्याशयेनाह

श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः॥४४॥

  श्रेयस इति॥ हे तात।'पुत्रे पितरि पूज्ये च तातशब्दं प्रचक्षते' इति। श्रेयसोऽपि हितार्थयोगात्प्रशस्ततरस्याप्यस्य ते तव वचसो हितोपदेशरूपस्य रात्रेर्विपर्ययो दिवसः स्फुटतारस्य व्यक्ततारकस्य नभस इव भाजनं पात्रं नास्मि । अनधिकारित्वादिति भावः । अत्राह्नो नभोमात्रसंबन्धसंभवेऽपि तारासंबन्धासंभवात्तद्विशिष्टनभःसंबन्ध- विरोधाधुक्तं तारकितस्य नभसो न पात्रमहरिति ।

  कुतस्ते मोक्षोपदेशानधिकारित्वम्, किं च ते तपसः पौर्वापर्यमित्यपेक्षायां तत्सर्वं स्वजात्यादिकथनपूर्वकं निरूपयति-

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ४५ ॥

  क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महाकुले प्रसूतः, वीरसंतानश्चेत्याह-पाण्डोस्तनय इति । तत्रापि कौन्तेयोऽस्मि, न माद्रेय इत्याह-पार्थ इति । पृथा कुन्ती तत्सुतः पार्थः। 'तस्यापत्यम्' इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह-- धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । 'खचि मुमागमः' इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थं पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुर्विप्रस्तत्पत्नी पृथा नाम काचिद्ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अथैवं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह-स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः।'दायादो ज्ञातिपुत्रयोः'इति,'विभक्तपितृद्रव्यं च दायमाहुर्मनीषिण:' इति च विश्वः । स्वामीश्वरादिसूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः। तैः प्रास्तस्य राज्यान्निरस्तस्य । वैरिनिर्यातनार्थिन इत्यर्थः।ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । वृद्धशब्दादिष्ठन्प्रत्यय:। वृद्धस्य च ज्यादेशः । शासने निदेशे स्थितः। तदाज्ञया तपस्यामीत्यर्थः । अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्फुरतीति भाव:।अत एव हिंसैकरसस्य रागद्वेषकषायितचेतसः कुतो मे मोक्षाधिकार इति तात्पर्यम् । सार्थविशेषणत्वात्परिकरालंकारः॥

  यदुक्तम् 'विरुद्धः केवलं वेषः' इति, तत्रोत्तरमाह-

कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् ।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः॥४६॥

  कृष्णेति ॥ द्वीपोऽयनं जन्मभूमिर्यस्य स द्वीपायनः । स एव द्वैपायनोव्यासः। प्रज्ञा- दित्वात्स्वार्थेऽण्प्रत्ययः । स एव कृष्णवर्णत्वात्कृष्णद्वैपायनश्च । तस्यादेशानुपदेशादी दृशम् । विरुद्धवेषमित्यर्थः। व्रतं तपोर्नियमं बिभर्मि धारयामि। न तु स्वेच्छयेति भावः। अथोपास्यां देवतामाह-भृशमिति । स्वाराध्यस्य सुखमाराध्यस्य । प्रादिसमासः 'स्वाराधस्य' इति पाठ उपसृष्टात्खल्प्रत्ययः । मरुत्वत, इन्द्रस्य । भृशं सम्यगाराधने यत्तः। प्रयत्नवानित्यर्थः । तस्य क्षत्रियदैवतत्वादिति भावः॥

  ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथमरिपरिभवप्राप्तिरित्यत्त आह-

दुरक्षान्दीव्यता राज्ञा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥४७॥

  दुरक्षानिति ॥ दुरक्षान्। कपटपाशकैरित्यर्थः । 'दिवः कर्म च' इति करणे कर्मसंज्ञा। दीव्यता क्रीडता । 'आहूतो न निवर्तेत द्यूतादपि रणादपि' इति शास्त्रात् । न तु व्यसनितयेति भावः। राज्ञा युधिष्ठिरेण राज्यं राष्ट्रमात्मा स्वयं वयं चत्वारोऽनुजा वधूर्जाया द्रौपदी च पणतां ग्लहत्वम्।‘पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः। नीतानि । सर्वं द्यूते राज्ञा हारितमित्यर्थः । नीतानीति नपुंसकैकशेषः। नयतेर्द्वि- कर्मकत्वात्प्रधाने कर्मणि क्तः। ननु सर्वज्ञस्य राज्ञः कथमियमविमृष्यकारिता तत्राह- भवितव्यतानर्थानामवश्यंभावितेदृशी नूनं निश्चितम् । नात्र संशय इत्यर्थः । बुद्धिरपि भवितव्यतानुसारिण्येव । न स्वतन्त्रेत्यर्थः ॥

  ननु तथापि तवैव तेष्वासङ्गो न तेषां त्वयि तत्राह-

तेनानुजसहायेन द्रौपद्या च मया विना।
भृशमायामियामासु यामिनीष्वभितप्यते ॥४८॥

  तेनेति ॥अनुजाः सहाया यस्य तेन । अनुजयुक्तेनेत्यर्थः । तुल्ययोगः सहायार्थः ।, तेन युधिष्ठिरेण द्रौपद्या च भया विना । मद्विरह्यदित्यर्थः । आयामिनो दीर्घा यामा: प्रहरा यासां तास्ताम् । दुःखितस्य तथाभावादिति भावः। यामिनीष्वभितप्यते। भावे लट् । तेषु सद्वत्वेषां मय्यप्यासङ्गान्न वैराग्यावकाश इत्यर्थः ॥

  अथ वैरिनिर्यातनस्यावश्यंभावद्योतनाय चतुर्भिः परनिकारान्वर्णयति-

हृतोत्तरीयां प्रसभं सभायामागतह्रियः।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥४९॥

  हृतेत्यादि । अरातयः शत्रवः सभायां प्रसभं बलात्कारेण हतोत्तरीयामत एवाग- तह्रिय: संप्राप्तलज्जान्नोऽस्मान्मर्मच्छिदा मर्मच्छेदिना वचसा निरतक्षन्नशातयन् । वस्त्राद्यपहारवाक्पारुष्याभ्यां तथा व्यथयामासरित्यर्थः। तक्षणशब्दसामर्थ्याद्वचसो वास्यौपम्यं गम्यत इति वस्तुनालंकारध्वनि: ॥   अथातिदुःसहनिकारान्तरमाह--

उपधात्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावमानयने सत्याः सत्यंकारमिवान्तकः ॥५०॥

  उपाधत्तेति ॥ अन्तको मृत्युर्गुरुसंनिधौ भीष्मद्रोणादिसमक्षमेव सत्याः पतिव्रतायाः कृष्णाया द्रौपद्या आनयने केशाम्वरादिकर्षणे भावं चित्ताभिप्रायमितः परमनेन पाण्डवाभिभवेनैतान्स्वनगरं नेष्यामीत्येवंभूतं सत्यंकारमिव। क्रियतेऽनेनेति कारः।करणे घञ् । सत्यस्य कारः सत्यंकारः सत्यापनम् । चिकीर्षितस्य कार्यस्यावश्यं क्रियास्थापनार्थं परहस्ते यद्दीयते स सत्यंकारः। क्रियादौ सत्यदार्ढ्याय प्राग्दीयमानो मूल्यैकदेशश्च। 'क्लिबे सत्यापनं सत्यंकार: सत्याकृतिः स्त्रियाम्' इत्यमरः । 'कारे सत्यागदस्य' इति मुमागमः । तमिव सपत्नेषुपाधत्त निहितवान् । तेषां विनाशकाले विपरीत- बुद्धिमुत्पादितवानित्यर्थः ॥

  केनेयमाकृष्टा सभ्यैर्वा किं कृतं तत्राह-

तामैक्षन्त क्षणं सभ्या दुःशासनपु[२२८]रःसराम् ।
अभिसायार्कमावृत्तां छायामिव महातरोः॥ ५१ ॥

  तामिति ॥ दुःशासनः पुरःसरो यस्यास्तां तथोक्ताम् । दुःशासनेन सभां प्रत्याकृष्य- माणामित्यर्थः । 'अनुपसर्जनात्' इति न ङीप् । तां कृष्णाम् । सभायांसाधवः सभ्या:। सभाया यः इति यप्रत्ययः । अभिसायार्कं दिनान्तसूर्याभिमुखम् । स्थितस्येति शेषः । 'सायो नाशदिनान्तयोः' इति विश्वः । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। महातरो: संबन्धिनीमावृत्तां छायामिव तां कृष्णां क्षणमैक्षन्त । न चिरं जुगुप्सितत्वात् । नापि किंचिद्वयाप्रियन्त माध्यस्थभङ्गभयात् । ते त्वर्कवदेव साक्षित्वमात्र- मास्थिता इत्यर्थः । अत्राकृष्यमाणायाः कृष्णाया आक्रष्टारं प्रति पराङ्मुखत्वादावृत्त- च्छायौपम्यम् । तथापि तां न मुञ्चतीति दुःशासनस्य तरुसाम्यम् ।।

  अथास्यास्तादात्मिकमायथार्थ्यं वर्णयति--

अयथार्थक्रियारम्भैः पतिभिः किं त[२२९]वेक्षितैः ।
अरुध्येतामितीवास्या नयने बाष्पवारिणा ॥ ५२ ॥

  अयथार्थेति ॥ अयथार्था मिथ्याभूताः क्रियारम्भाः प्रतिशब्दप्रवृत्तिनिमित्तभूतकर्मोद्योगा येषां तैः। तामरक्षद्भिरित्यर्थः। तव संबन्धिभि: पान्ति रक्षन्तीति पतयो भर्तार:। 'पातेर्डतिः' इत्यौणादिको डतिप्रत्ययः। तैरीक्षितैरवेक्षितैः किम् । न किंचित्फल- मस्तीत्यर्थः । इतीवेत्थं विचार्यैवेत्युत्प्रेक्षा । बाष्पवारिणास्या: कृष्णाया नयने अरु- ध्येतामावृते । रुधेः कर्मणि लङ् । अशरणा रुरोदेत्यर्थः ॥


  ननु भवद्भिः किमर्थमसमर्थैरिवोपेक्षितं तत्राह-

सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ५३ ॥

  सोढवानिति ॥ गुणाः प्रिया यस्य स गुणप्रियः प्रियगुणः । 'वा प्रियस्य' इति परनिपातः।ज्यायानग्रजो युधिष्ठिर एव। वृद्धशब्दादीयसुनि 'ज्यादादीयसः'इत्याकारादेश:। नोऽस्माकमन्ते भवामन्त्यां निकृष्टां दशामवस्थां सोढवान्न तु वयम् । किंतु तदवरुद्धा इति भावः । ननु शत्रूपेक्षा महानर्थकारिणीत्याशङ्क्याह-सुलभ इति । द्विषां विद्विषां भङ्गः सुलभः । कालान्तरेऽपीति शेषः । सत्सु सज्जनेष्ववाच्यतानिन्द्यता दुर्लभा न तु शत्रूपेक्षा। हि प्रसिद्धौ । शत्रूपेक्षातो लोकापवाद एव बलवान् । तस्योत्पन्नस्य पुनरपतिविधेयत्वात्स च समयोल्लङ्घने स्यादेवेति भावः ।।

  ननु शत्रुवधे राज्ञां को नामापवादः प्रत्युत कीर्त्तिरेवेत्याशङ्क्य सत्यं स एव समयो- ल्लङ्घनकलङ्कितकीर्त्या महानिन्दानिदानमित्याशयेनाह---

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ५४ ॥

  स्थितीति ॥ तोयराशीनां समुद्राणां तोयानि मनस्विना मनांसि च स्थित्यविक्रान्ते- र्मर्यादोल्लङ्घनादेवोर्भीरुण्यतएवाकुलितानि संक्षोभितान्यपि स्वच्छान्यकलुषाणि। न त्वरन्त इत्यर्थः। मनस्व्ययं युधिष्ठिर इति भावः । अत्र तोयानां सामान्यतो मनस्विनां चापकृतानामेव गुणतौल्यादौपम्यस्य गम्यतया तुल्ययोगितालंकारः । गुणश्चात्र भीरुत्वं स्वच्छता च॥

  नन्वजातशत्रोः स्वजनवैरे किं कारणमित्याशङ्क्यास्मत्सौहार्दमेवेत्याह-

धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत ।
असन्मैत्री हि दोषाय कू[२३०]लच्छायेव सेविता ॥ ५५ ॥

  धार्तराष्ट्रेरिति ॥ धार्तराष्ट्रैर्धृतराष्ट्रपुत्रैः सह प्रीतिः सौहार्दमेवास्मासु विषये वैरमसूयत सूतवती । सूयतेर्दैवादिकात्कर्तरि लङ् । ननु सौहार्दं वैरजनकं चेद्विप्रतिषिद्धं तत्राह- असदिति । हि यस्मादसन्मैत्री दुर्जनेन संगतिः कूलस्यासन्नपातस्य नदीतटस्य छायेव सेविता श्रिता सती दोषायानर्थाय भवति । न खलु दुर्जनः सुजनवन्मित्र- द्रोहपातकं पश्यतीति भावः । उपमाप्राणितोऽयमर्थान्तरन्यासालंकारः ॥ .

  नन्वादावेव तेषां वृत्तमविज्ञाय कथं मैत्री कृतेत्याशङ्क्य किं कुर्मः। दुर्जनवृत्तं दुर्वि- ज्ञेयमित्याह-

अपवादादभीतस्य समस्य गुणदोषयोः।
असद्वृत्तेरहोवृत्तं दु[२३१]र्विभावं विधेरिव ॥ ५६ ॥


  अपवादादिति ॥ अपवादाज्जनाक्रोशादभीतस्य । अजुगुप्समानस्येत्यर्थः । गुणदोषयोः समस्य तुल्यबद्धेः। निग्रहानुग्रहौ गुणदोषयोरननुरुन्धत इत्यर्थः । विघावप्येतद्विशेषणं योज्यम् । असद्वृत्तेर्दुराचारस्य धूर्तस्याहोवृत्तमीहितं विधेर्दैवस्य वृत्तमिव दुर्विभावं विभावयितुमशक्यम् । किंतु कार्यैकसमधिगम्यमित्यर्थः । भवतेर्ण्यन्तात्कृच्छ्रार्थे 'खल्प्रत्ययः॥

  नन्वेवं मानी कथं परिभूतो जीवसि तत्राह-

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥५७॥

  ध्वंसतेति ॥ परैः शत्रुभिः परिभूतस्य मे हृदयं सद्यो ध्वंसेत। भ्रश्येदित्यर्थः । अमर्षः कर्ता प्रतीकारं प्रतिक्रियारूपं भुजालम्बं हस्तावलम्बनं न लम्भयेन्न ग्राहयेद्यदि । हृदयेनेति शेषः । सत्यं जीवामि प्रतिविधित्सया । न तु निर्लज्जतयेति भावः ॥

  ननु तवैव कोऽयमभिमानस्तत्राह-

अवधूयारिभिर्नीता हरिणैस्तु [२३२] ल्यवृत्तिताम् ।
अन्योन्यस्यापि जिहीमः किं पुनः सहवासिनाम् ॥५८॥

  अवधूयेति ॥ अरिभिरवधूय परिभूय हरिणैर्मूगैस्तुल्यवृत्तितां तुल्यजीवनत्वम् । वन्याहारतामित्यर्थः । नीताः प्रापिता वयम् । पञ्चापीति शेषः । अन्योन्यस्यापि जिह्रीमो लज्जामहे । सहवासिनां सहचारिणां किं पुनः। प्रागेव जिह्रीम इति किमु वक्तव्यमित्यर्थः। क्रियायोगे संबन्धसामान्ये षष्ठी।अत्र वयं पञ्चापि तुल्याभिमाना एव। इदं तु मदेकसाध्यं कर्मेति मुनिशासनान्मयानुष्ठीयतं इति भावः ॥

  ननु तर्हि दुःखैकनिदानमन्तःशत्रुर्मान एव त्यज्यतामित्याशङ्क्य तत्त्यागे दोषमाह-

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ५९॥

  शक्तीति ॥ शक्तिवैकल्येनोत्साहादिशक्तिवैधुर्येणावृष्टम्भसामर्थ्यविरहेण च नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वाद्दुर्बलत्वात्। स्थिरांशरहितत्वाच्च। 'सारो वले स्थिरांशे च इत्यमरः । लघीयसो गौरवहीनस्य नीरसस्य च। मानहीनस्य जन्मिनो जन्तोः। व्रीह्यादित्वादिनिः।तृणस्य च गतिरवस्था समेति मग्नहीरस्य तृणादपि निकृष्टत्वान्न त्याज्यो मान इति भावः । श्लेषालंकारेस्यं तदनुप्राणितेयमुपमेत्यनेकार्थदीपिकेति व्यज्यते॥


  मानत्यागे दोषमुक्त्वा तत्सद्भावे षड्भिर्गुणमाह-

अलङ्घ्यं तत्तदुद्वीक्ष्य य[२३३]द्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ ६०॥

  अलङ्घ्यमिति ॥ महीभृतां पर्वतानां संबन्धि यद्यच्छृङ्गादिकमुच्चैरुन्नतं तत्तदलङ्घ्य- मुद्वीक्ष्योत्प्रेक्ष्य । तर्कयित्वेति यावत् । महतां महात्मनां तुङ्गता मानौन्नत्यं ज्यायसीं प्रियतां प्रियत्वं केन हेतुना मा गात् । न केनापि । प्रियत्वं गच्छत्येवेत्यर्थः । आशिषि माङि लुङ् । अटोऽपवादः। दैवादनिच्छतोऽपीच्छामुत्पादयत्येवौषधवदित्यर्थः । आशंसनार्थमाशीःप्रयोगः । उद्धीक्ष्येत्यसमानकर्तृकत्वनिर्देशः क्वचित्प्रयोगदर्शनात्सोढव्यः। केचित् 'उद्वीक्ष्यम्' इति पठन्ति । तत्र यद्यदुच्चैस्तत्तदलङ्घ्यमुद्वीक्ष्यमवलोकनीयं न चोल्लङ्घनीयमिति । अतो महतामित्यादि योजयन्ति ॥

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ६१ ॥

  तावदिति ॥ किं च । तावदेवासौ लक्ष्म्याश्रीयते। तावदस्य पुंसो यशः स्थिरम् । तावदेवासौ पुरुषः। पुरुषत्वेन गण्यत इत्यर्थः। यावन्मानादभिमानान्न हीयते न भ्रंश्यति। मानहीनस्य न किंचिच्छुभमस्तीत्यर्थः ॥

स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते।
नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥ ६२ ॥

  स इति ॥ स पुमानर्थवज्जन्मा सार्थकजन्मा यस्य पुंसो नाम्नि पुरोऽग्रे स्थिते सति संख्यायां पुरुषगणनाप्रस्ताव उद्यता गुणमधिकृत्योन्नमिताङ्गुलिरन्यां द्वितीयामङ्गुलिम् ।। उद्यतामिति शेषः । नाभ्येति न प्राप्नोति । अद्वितीयत्वादस्येत्यर्थः। एतन्मानरहितस्य न संभवतीति भावः॥

दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ६३ ॥

  दुरासदेति ॥ दुरासदैवंनैर्ज्यायान्प्रवृद्धस्तथापि तुङ्गोऽपि भूधरो गम्यो गन्तुं शक्य एव। प्रसिद्धं चैतदिति भावः।महौजस्कं प्रतापसंपन्नं मानप्रांशं मनोन्नतम्। पुरुषमिति शेषः । अलङ्घ्यता न जहाति। न कदाचिन्मानीलङ्घयितुं शक्यत इत्यर्थः । गिरेरपि गरीयान्मानाधिक इति भावः । अत्रोपमानाद्भूधरादुपमेयस्य मानिनो धर्मान्तर- साम्येऽप्यलङ्घ्यत्वेनाधिक्यकथनाद्व्यतिरेकालंकारः॥


गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शु [२३४] भ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥६४॥

  गुरूनिति ॥ ते नरा वंश्यानन्वये भवान्गुरून्कुर्वन्ति प्रथयन्ति । स्वनाम्ना व्यपदेशयन्ति रघुदिलीपादिवदित्यर्थः। तैर्नरैः। वसूनि धनानि धरतीति वसुंधरा।'संज्ञाया भृतृवृजि-' इत्यादिना खच्प्रत्यये 'खचि ह्रस्वः' इति ह्रस्वान्नुमागमश्च । अन्वर्थानुगतार्था । तेषां वसुभूतानां धारणादिति भावः । येषां शुभ्राणि यशांसीन्दुमण्डलं ह्रेपयन्ति लज्जयन्ति। यशसो निष्कलङ्कत्वादिति भाव: । ईदृशं हि यशोमानमहत एव संभवतीति तात्पर्यार्थः। ह्रीधातोर्ण्यन्ताल्लट्।'अर्तिह्नि-'इत्यादिना पुगागमः। अत्र ह्रेपणस्य सादृश्यपर्यवसानादुपमालंकारः॥

उदाहरणमाशी:षु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षों यैररातिषु पात्यते ॥ ६५ ॥

  उदाहरणमिति ॥ यैरमर्षः क्रोध: शुष्के नीरसेऽशनिरिवारातिषु विषये पात्यते प्रक्षिप्यते मनस्विनां मानिनां प्रथमेऽग्रेसरास्त आशी:षु पुरुषैरेवं भवितव्यमेवंरूपासूदाहरणं निदर्शनम् । भवन्तीति शेषः । रामादिवदुपमानं भवन्तीत्यर्थः । अतो न त्याज्यो मान इति संदर्भार्थः॥

  यदुक्तम् 'अभिद्रोहेण भूतानाम्' इत्यादि, तत्र युग्मेनोत्तरमाह-

न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् ।
ना[२३५]नित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदम् ॥ ६६ ॥

  नेत्यादि ॥ उदन्वद्वीचिरिव चञ्चलं समुद्रतरङ्गवदस्थिरं सुखं कामं न प्रार्थयेच्छामि। तथा चञ्चलमर्थं च न प्रार्थये । किं चानित्यता विनाशिता सैवाशनिस्तस्मा अस्यन्विभ्यत् । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः। विविक्तं निर्बाधं ब्रह्मणो वेधस आत्मनानपद्यत इति पदं स्थानमैक्यलक्षणं मुक्तिं च न प्रार्थये । एतेन यदुक्तम् 'ढच्छेदुं जन्मनः कर्तुम्' इत्यादि, तत्समाहितम् ।

प्रमार्ष्टुमयशःपङ्कमि[२३६]च्छेयं छद्मना कृ[२३७]तम् ।
बैधव्यतापितारातिवनितालोचनाम्बुभिः॥६७॥

  प्रमार्ष्टुमिति ॥ किंतु च्छद्मना कपटेन कृतम् । शत्रुभिरिति शेषः । अयश एक पङ्कमिति रूपकालंकारः । वैधव्येन तापितानां दुःखीकृतानामरातिवनितानां लोचनाम्बुभिः प्रमाष्टुं क्षालयितुमिच्छेयमभिलषेयम्। इषिधातोर्लिङि रूपम्। वैरनिर्यातनातिरिक्तं न किंचिदिच्छामीत्यर्थः ॥


  एवं तर्हि 'यः करोति वधोदर्का:' इत्यायुक्तदोषः स्यादित्याशङ्कामङ्गीकृत्य ग्लानिर्न दोषायेति न्यायमाश्रित्य युग्मेनोत्तरमाह-

[२३८]पहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः।
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥६८॥

  अपहस्य इत्यादि ॥ अथवा सद्भिः पण्डितैरपहस्ये। अपहसिष्य इत्यर्थः । 'वर्तमान- सामीप्ये वर्तमानवद्वा' इति हसतेरण्यन्तात्कर्मणि लट्। ण्यन्तस्तु भ्रान्तपाठः। मेधियः प्रमादोऽनवधानत्वं वास्तु । भवानप्यस्थानेऽयोग्यविषये विहित आयासो हितोपदेशप्रयासो येन स तथोक्तः। विफलप्रयत्नः सन्नित्यर्थः । कामं जिह्वेतु लज्जताम् ॥

वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् ।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥६९॥

  वंशेति ॥ अहं तु विद्विषां शत्रूणां समुच्छेदेन विनाशेन करणेन वंशलक्ष्मीमनु- द्धृत्यापुनरावर्त्य निर्वाणं मोक्षमपि जयश्रियोऽन्तरायं विघ्नं मन्ये । न तु पुरुषार्थमि- त्यर्थः । किमुतान्योत्सवादिकमिति भावः ॥

  नन्वयं ते दुराग्रह इत्यत आह---

अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा ।
यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः॥७०॥

  अजन्मेति॥ पुरुषो यावदरिभिर्विलुप्तं संहृतं यश इषुभिर्नादत्ते। अरिवधेन न प्रत्याहरती- त्यर्थः । तावदजन्मा। अजातप्राय इत्यर्थः। नन्वजातोऽपि जननानन्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह-गतासुर्मृतः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह -तृणमेवेति । तृणतुल्य इत्यर्थः । अकिम्चित्करस्य त्रैकाल्यानुपयोगा- ज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहाद्ब्रवीमि । किं तु वीरधर्ममनुपालयामीति भावः ।।

  सर्वथा वैरिनिर्यातनं कर्तव्यमित्युक्तम् । तदकरणे पुरुषगुणानां हानिदोषमाह-

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि[२३९]तपोधन ॥७१ ॥

  अनिर्जयेनेति ॥ यस्यामर्षः क्रोधो द्विषतां शत्रूणामनिर्जयेन निर्जयं विनैव प्रशाम्यति। उपलक्षणे तृतीया । तस्मिन्पुरुष इत्युक्तिः पुरुषशब्दः कथम् । नं कथंचिदित्यर्थः। प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्याभावादिति भावः । हे तपोधन, त्वं हि त्वमेव ब्रूहि कथय। न च ते किंचिदविदितमस्तीति भावः।'हि हेताववधारणे' इत्यमरः॥


ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किं पुरुषकारेण । तत्राह-कृतमित्यादिद्वयेन ॥

कृतं पुरुषशब्देन जातिमात्रावलम्बिना।
योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥ ७२ ॥

  जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचि- त्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । कृतमिति निषेधार्थमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि पुरुषशब्दः प्रवर्तते । परंतु नासौ पुंसामाशास्यः। पश्वादिसाधारण्यादिति तात्पर्यार्थः। तर्हि कीदृक्श्लाघ्य इत्याशंक्याह- य इत्यादिनार्थद्वयेन । अङ्गीकृतगुणैर्गुणपक्षपातिभिर्यः पुमाञ्श्लाघ्य: स्तुत्यः सन्सविस्मयं ससंभ्रममुदाहृतः कथितः । पुंसेदृशेन भवितव्यमिति निदर्शितः ॥

ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पु[२४०]मान्पुमान् ॥ ७३ ॥

  ग्रसमानमिति ॥ किं च । सदसा सभया गौरवेणेरितं कथाप्रसङ्गेषु गौरवपूर्वकमुच्चारितम्। सत ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान्पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः पुंशब्दो जातिवचनो द्वितीयो गुणवचनः । स एव श्लाघ्य: । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नशब्दार्थपौनरुक्यलक्षणो लाटानुप्रासोऽलंकारः। तथा च सूत्रम्-'तात्पर्यभेदयुक्तो लाटानुप्रासः' इति ॥

  ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह---

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
[२४१] मैवाध्येति नृपतिस्तृष्यन्निव ज[२४२]लाञ्जलेः ॥ ७४ ॥

  यथेति ॥ नृपतिर्युधिष्ठिरो यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुमिच्छया । प्रतिज्ञानुसारेणैव जिघांसोत्यर्थः । तृष्यन्पिपासुर्जलाञ्जलेरिव ममैवाध्येतीच्छति कार्यसिद्धेर्मुदायत्तत्वान्मामेव स्मरति । अतोऽयं ममाभिनिवेश इत्यर्थः । 'अधीगर्थ-' इत्यादिना कर्मणि षष्ठी ॥

  ननु युधिष्ठिरः स्वार्थं साधयति । त्वया च स्वार्थमात्रमनुसंधीयतामित्यत आह----

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कुच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ७५॥

  स इति । स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते । भावे लट् । आपदि स्वार्थसाधकः कुलघातकः । तत्कथं स्वार्थनिष्ठकार्यता युक्तेत्यर्थः ॥


यदुक्तम् 'विजहीहि रणोत्साहम्' इत्यादि, तत्रोत्तरमाह---

कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ७६ ॥

  कथमिति ॥ धर्मरोधिनी धर्मविरोधिन्यर्वाग्गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमता वा । वर्णप्रक्रमेण तस्य विधानात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च क्षत्रियस्यापि कैश्चिदिष्टत्वात् । तदेतत्सम्यग्विवेचित- मस्माभी रघुवंशसंजीविन्याम् 'स किलाश्रममन्त्यमाश्रितः' इत्यत्र । कथं वादीयतां मया कथं वाङ्गीक्रियताम्। संप्रश्ने लोट्। तथाहि। पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः । 'ब्रह्मचारी भूत्वा गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत्' इति श्रुत्यनुसारादित्यर्थः । एतदपि 'चत्वार आश्रमाः' इत्येतत्पक्षमा- श्रित्योक्तम्। यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेत्। गृहाद्वनाद्वेति व्युत्क्रमपक्षस्यापि श्रवणात् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥

  ननु भवान्गृहस्थ एव । तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य । न चाह- मद्यापि कृतकृत्य इत्युत्तरमाह-

आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥७७ ॥

  आसक्तेति ॥ आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः । रूढा प्रसिद्धा । महतीत्यर्थः। इयं पूर्वोक्ता धूर्वैरनिर्यातनभारः । दूरगा दूरवर्तिनी जननी च मातापि । तथा नृपोऽप्या- चारवान् । तपोधिक इत्यर्थः । तत्रापि ज्यायाञ्ज्येष्ठो नृपो युधिष्ठिरश्च मे मम स्वा- तन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति। आश्रमान्तरं प्रतिबध्नातीत्यर्थ:।तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ।।

  उक्तमर्थमुपसंहरति--

स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥७८ ॥

  स्वधर्ममिति ॥ मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वध- र्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह-अरातिभिरिति । अरातिभित्कृतध्वंसाः कृतापकाराः सन्त आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । 'उपसर्गस्यायतौ' इति रेफस्स लत्वम् । अत्र मनु:--'न निवर्तेत सङ्ग्रामात्क्षात्रधर्ममनुस्मरन्' इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥   किंबहुना ममायं निश्चयः श्रूयतामित्याह-

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशः शल्यमुद्धरे ॥ ७९ ॥

  विच्छिन्नेति ॥ विच्छिन्नं वाताहतं यदभ्रं तदिव विलीयेति विच्छिन्नाभ्रविलायं यथा तथा । 'उपमाने कर्मणि च' इति कर्तर्युपपदे णमुल् । नगमूर्धन्यस्मिन्गिरिशृङ्गे विलीये विशीर्ये वा । कषादिषु यथाविध्यनुप्रयोगः । यद्वा सहस्राक्षमिन्द्रमाराध्यायश एव शल्यं तदुद्धर उद्धरिष्यामि । न तु गत्यन्तरशङ्केत्यर्थः । वाशब्दो विकल्पे ।

इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भ[२४३]वोद्भवाराधनमादिदेश ॥८०॥

  इतीति॥ मघवेन्द्र इत्युक्तवन्तं तनूजं पुत्रमर्जुनम्। आविष्कृता प्रकटिता दिव्यमूर्तिर्निज- रूपं येन स तथोक्तः सन् । दोर्भ्यां बाहुभ्यां परिरभ्य विभूत्यै श्रेयसे । उपहन्यतेऽनेनेत्युपघातम् । करणे घञ्प्रत्ययः । अघानां दुःखानामुपघातमघोपघातं भवः संसारस्तस्योद्भवः कारणमिति भवोद्भवः शिवस्तस्याराधनमुपासनमादिदेश । शिवमुद्दिश्य तपश्चरेत्याज्ञापयामासेत्यर्थः ॥

प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषामुच्चार्य वाचमिति तेन तिरोबभूवे ॥८१॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीय एकादशः सर्गः ।

  प्रीत इति ॥ पिनाकिनि शिवे प्रीते सति लोकपालैः सह मया लोकत्रयेऽपि विहितं दत्तमप्रतिवार्यमनिवार्यं वीर्यं यस्य स तथोक्तः सन् । परेषां शत्रूणां लक्ष्मीं भृशं समुत्सुकयितासि समुत्सुकां त्वय्यनुरक्तां कर्तासि । पुनराहरिष्यसीत्यर्थः । वीरभोग्याः संपद इति भावः। उत्सुकशब्दात् 'तत्करोति' इति ण्यन्तात्कर्तरि लुट् । इति वाचमुच्चार्य तेनेन्द्रेण तिरोबभूवेऽन्तर्दधे । भावे लिट्॥

 इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायामेकादशः सर्गः समाप्तः।


द्वादशः सर्गः।


अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ १॥

  अथेति ॥ अथेन्द्रतिरोधानानन्तरं रुचिरवदन इन्द्रसाक्षात्कारसंतोषात्प्रसन्नमुखो धनंजयोऽर्जुनो वासवस्य वचनेनोपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथाभि- राधयितुं प्रसादयितुं तपांसि विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । 'तदर्हम्' इति वतिप्रत्ययः । विदधे चक्रे । अस्मिन्सर्ग उद्गतावृत्तम्-'सजमादिमे सलघुकौ च नस- जगुरुकैरथोद्गता । अङ्घ्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥' इति लक्षणात् ॥

अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः॥२॥

  अभिरश्मीति ॥ अभिरश्मिमाल्यभिसूर्यं सूर्याभिमुखं भुव्येकचरणं निषीदत एकचरणेन तिष्ठतो विमलस्य बाह्यान्तरशुद्धिमतः । धृता जयधृतिर्जयेच्छा येन तस्यानाशुषोऽनश्नतः। 'उपेयिताननाश्वाननूचानश्व' इति निपातः। तृस्यार्जुनस्य बहूनां पूरणा बहुतिथाः। बहुसंख्यका इत्यर्थः।'तस्य पूरणे डट्'।'बहुपूगगणसंघस्य तिथुक्'इति तिथुगागमः। तिथयो दिनानि प्रतिजग्मुः। अत्र तिथिशब्दः पुंलिङ्गः ।'तदाद्यास्तिथयो: द्वयोः' इत्यभिधानात् । अन्यथा बहुतिथा इत्यत्र टित्वान्ङीप्स्यात्

वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः।।
व्या[२४४]प नगपतिरिव स्थिरतां महतां हि धैर्यम[२४५]विभाव्यवभवम् ॥३॥

  वपुरिति ॥ पाण्डवोऽर्जुनः सततं वपुष इन्द्रियाणां चोपतपनेषु संतापकरेषु। करणे ल्युट् । असुखेष्वनशनादिदुःखेष्वपि नगपतिर्गिरीन्द्र इव स्थिरतां दार्ढ्यं व्याप प्राप। तथाहि । महतां धैर्यमविभाज्यं दुर्बोधं वैभवं सामर्थ्यं यस्य तत्तथोक्तम् । धीरणाम- किंचित्करं दु:खमिति भावः ॥

न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥४॥

  नेति ॥ तस्यार्जुनस्य मानसं मनः संनिहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु । तथा शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात ।


न किंचिदाचकाङ्क्षेति भावः । प्राणधारणं तु तस्य तप एवेत्याह-तथाहि । सुकर्मणां सुकृतिनां शोभनं तपः सुतप एवामृतायतेऽमृतवदाचरति । किं तपस्तृप्तानां तर्पणा- न्तरैरिति भावः। लोहितादिडाज्भ्यः क्यष्' । 'वा क्यषः' इत्यात्मनेपदम् । लोहिता दिराकृतिगणः ॥

न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे।
सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेल[२४६]वे ॥५॥

  नेति ॥ सोऽर्जुनो न विसिस्मिये। अहो मुहत्तपस्तप्तमिति न विस्मयं जगाम । 'तपः क्षरति विस्मयात्' इति स्मृतेरिति भावः । न विषसाद फलविलम्बाद्गतोत्साहो न बभूव। 'विषादश्चेतसो भङ्गः' इति लक्षणात् । 'सदिरप्रते:' इति षत्वम् । मुहुरलसतां तपति मन्दोधमत्वं च नागमत् । किं च । हतशक्तिनी हतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्तमसी गुणावुरुधृति महासारं तस्यार्जुनस्य सत्त्वं सत्त्वगुणं न हतः स्म न हतवती । हन्तेः 'लट् स्मे' इति भूतार्थे लट् ॥

तपसा कृशं वपुरुवाह स विजितजगत्रयोदयम् ।
त्रासजननमपि तत्त्वविदां कि [२४७] मिवास्ति यन्न सुकरं म[२४८] नस्विभिः॥६॥

  तपसेति ॥ सोऽर्जुनस्तपसा कृशं तथापि विजितो जगत्रयस्य भुवनत्रयस्योदय उत्कर्षो येन तत्तथोक्तम् । किं च । तत्त्वविदामपि लोकहितार्थतत्त्वं जानतामपि त्रासजननं भयंकरं वपुरुवाह वहति स । न चैतञ्चित्रमित्याह---किमिति । यन्मनस्विभिर्न सुकरं तत्किमिवास्ति । न किमपीत्यर्थः । इवशब्दो वाक्यालंकारे । 'मनस्विनाम्' इति पाठे शेषे षष्ठी स्यादेव । कृद्योगलक्षणायाः 'न लोक-' इत्यादिना निषेधात् ॥

ज्वलतोऽनलादनुनिशीथमधिकरुचिरम्भसां निधेः।
धैर्यगुणमवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥ ७॥

  ज्वलत इति ॥ विजयी सोऽर्जुनोऽनुनिशीथमर्धरात्रे। विभत्स्यर्थेऽव्ययीभावः। अर्धरात्र- निशीथौ द्वौ' इत्यमरः । ज्वलतो दीप्यमानादनलादग्नेरधिकरुचिदीप्यमानस्तथाम्भसां निधेधैर्यं गाम्भीर्यं तदेव गुणस्तमवजयन् । किं च । शैलतः शैलादपि समुन्नततरो ददृशे दृष्टः अत्र रुच्यादिभिरनलाद्याधिक्यासंबन्धे संबन्धाभिधानादतिशयोक्तिरलंकारः॥

जपतः सदा जपमुपांशु वदनमभितो विसारिभिः।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥८॥

  जपत इति ॥ सदोपांशु रहः । गूढमित्यर्थः । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । 'कर-


णवदनशब्दमनुप्रयोग उपाशु' इति कौमारलक्षणम् । जप्यत इति जपस्तं जपम् । मन्त्रमित्यर्थः । जपतः पठतस्तस्यार्जुनस्य वदनं कर्तृ अभितो विसारिभिः प्रसरणशीलै- र्दशनकिरणैर्हेतुभिः परिवेषभीषणमर्कमण्डलमिव शुशुभे । 'परिवेषस्तु परिधिरुपसूर्य- कमण्डले' इत्यमरः ॥

कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ ९॥

  कवचमिति ॥ कवचं वर्म बिभ्रदुपवीतपदे यज्ञोपवीतस्थाने निहितमारोपितं सज्यं कार्मुकं येन स तथोक्तः । सोऽर्जुनो महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य स शैलपतिरिव हिमवानिव विदिद्युते शुशुभे ॥

प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ॥१०॥

  प्रविवेशेति ॥ नियमसवनाय नियमस्नानाय कृशस्य तपःकर्षितस्य तथा । 'सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति विश्वः । गच्छतस्तस्यार्जुनस्य पदैः पादन्या- सैर्विनमितो हिमवान्गां भुवं प्रविवेशेवेत्युत्प्रेक्षा। ननु कृशंस्य कथमियद्गौरवम्।तत्राह- गुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत्। न नयति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यात्स्थौल्यात् । तत्र च हेमपिण्डतूलपिण्डावेव निदर्शनमिति भावः ॥

परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथ: ॥११॥

  परिकीर्णमिति ॥ उद्यतभुजस्योर्ध्ववाहोस्तस्य शिरस उपरि । 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी । विततं विस्तृतं भुवनयोर्विवरे द्यावापृथिव्योरन्तराले परिकीर्णं व्याप्तं दुरासदं दुर्धर्षं ज्योतिस्तेजो मुनीनां दिवौकसां च निजान्नियतात्पथो मार्गाज्जगृहे जग्राह । प्रतिबबन्धेत्यर्थः॥

रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया॥१२॥

  रजनीष्विति ॥ बहुलसमये कृष्णपक्षेऽपि रजनीषु रात्रिषु राजतनयस्यार्जुनस्थ धामभिस्तेजोभिर्भिन्नस्तिमिरनिकरो यस्य तन्नभः शशिरश्मीनां संगमेन हेतुना युजा संगतया श्रिया । तच्छ्रीतुल्यया श्रियेत्यर्थः । अत एव निदर्शनालंकारः। न जहे न त्यक्तम् । जहातेः कर्मणि लिट् । ज्योत्स्नातुल्यं ज्योतिर्जातमित्यर्थः ॥

महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना।
ह्रीतमिव नभसि वीतमले न विरा[२४९]जते स्म वपुरंशुमालिनः ॥१३॥

  महतेति ॥ जिष्णोरर्जुनाज्जन्म यस्य तेन । जन्मोत्तरपदत्वाद्यधिकरणो बहुव्रीहिः। महता मयूखनिचयेन बहुकिरणसमूहेन शमितरुचि हतप्रभमंशुमालिनो वपुरर्कबिम्बं ह्रीतं जितत्वाल्लज्जितमिवेत्युत्प्रेक्षा । वीतमले विमले । मेघनीहाराद्यावरणरहितेऽपीत्यर्थः । नभसि न विराजते स्म ॥

तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः।
रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पु[२५०]रीः॥ १४ ॥

  तमिति ॥ उदीरिता उद्गाता अरुणा जटानामंशवो यस्य तमधिगुणमधिज्यं शरासनं यस्य तमर्जुनं जनाः सिद्धगणा आसुरीरसुरसंबन्धिनीः पुरीर्मिमन्थियुं मथितुमिच्छुम् । मथेः सन्नन्तादुप्रत्ययः । तथानुदितानुत्पन्ना ललाटे दृग्यस्य तं साक्षात्रिपुरविजयो- द्यतमभालाक्षं रुद्रामिव ददृशुः । अत्रामालाक्षस्य रुद्रस्यासंभवात्स्वतःसिद्धोपमाना- सिद्धेर्नेयमुपमा । किंतूत्प्रेक्षा । सा चामालाक्षमित्युपमानादुपमेयस्य न्यूनत्वकथनार्थे- ऽन्वयव्यतिरेकेणोज्जीवितेत्यनयोरङ्गाङ्गिभावेन संकरः । उपमा तु व्यज्यत इत्यलंकारे- णालंकारध्वनिः ॥

मरुतां पतिः स्विदहिमांशुरु[२५१]त पृथुशिखः शिखी तपः।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ १५॥

  मरुतामिति । मरुतां पतिः स्विद्देवेन्द्रो वा । अहिमांशुरुत सूर्यो वा । पृथुशिखो महाज्वालः शिखी पावको वा । असुकरं दुष्करं तपस्तप्तुमुपक्रमते । अयं जनः पुरुषः कश्चित्प्राकृतो नेति सोऽर्जुनस्तापसैस्तपस्विभिः। 'अण् च' इति मत्वर्थीयोऽण्प्रत्ययः। अवययेऽवगतः । यातेरवपूर्वात्कर्मणि लिट् । अत्रेन्द्रत्वादिकमारोप्य जनत्वापवादा- त्साम्यमारोप्यापह्नवालंकारः। सामान्य लक्षणं तु -निषिद्धविषये साम्यारोपो ह्यपह्नवः' इति ॥

न ददाह भू[२५२]रुहवनानि हरितनयधाम दूरगम् ।
न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १६ ॥

  न ददाहेति ॥ दूरगम् । व्यापकमित्यर्थः। हरितनयस्येन्द्रसुतस्यार्जुनस्य धाम तेजो भूरुहवनानि वृक्षखण्डान्न ददाह । अग्निवदिति भावः । तथापो जलानि परिशोषं न नयति स्म । अर्कवदिति भावः । तथापीति शेषः । सिद्धाश्च तापसाश्च तैः सुसहं न बभूव । अतोऽस्यालौकिकं तेज इति भावः । अत एव दुःसहत्वदाहाद्यजनकत्वयोर्वि-


रोधाद्विरोधाभासोऽलंकार:-'आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति

लक्षणात् ॥

विनयं गुणा इव विवेकमपनयभिदं नया इव ।
न्यायमवधय इवाशरणाः शरणं ययुः शिवमथोमहर्षयः॥ १७॥

  विनयमिति ॥ अथोऽनन्तरमशरणा महर्षयो मुनयो विनयं शिक्षां गुणा औदार्यादय इव।अशिक्षितस्य तदभावादिति भावः। अपनयभिदं दुर्नीतिवारकं विवेकं सदसज्ज्ञानं नया नीतय इत । अविवेकिनो नीत्यभावादिति भावः । नीतिः षाङ्गुण्यप्रयोगः। नीयतेऽनेनेति न्यायो नियामकं प्रमाणं तम् । अवधयः समया इव । अप्रामाणिकस्य समयोल्लङ्घनादिति भावः। शिवं शरणं रक्षितारम् । 'शरणं गृहरक्षित्रोः' इत्यमरः। ययुर्जग्मुः।शरणत्वेन प्रापुरित्यर्थः । अशरणाः शरणमिति चोपमास्वपि यथायोग्यं योज्यम् । उपमालंकारः॥

परिवीतमंशुभिरुदस्तदिनकरमयूखमण्डलैः ।
शंभुमुपहतदृशः सहसा न च ते नि[२५३]चायितुमभिप्रसेहिरे ॥१८॥

  परिवीतमिति ॥ उदस्तं निरस्तं छादितं दिनकरमयूखमण्डलं यैस्तैः । सूर्यतेजोविजयि- भिरित्यर्थः । अंशुभिस्तेजोभिः परिवीतं व्याप्तं शंभुं शिवमुपहृतदृशः प्रतिहतदृष्टयस्ते महर्षयः सहसा झटिति निचायितुं निशामयितुम् । द्रष्टुमित्यर्थः । 'चायृ पूजानिशा- मनयोः' इति धातोः 'शकधृषा-' इत्यादिना तुमुन् । नाभिप्रसेहिरे न शेकुः ॥

अथ भूतभव्यभवदीशमभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥ १९॥

  अथेति ॥ अथ दृगुपघातानन्तरं भूतभव्यभवतां भूतभविष्यद्वर्तमानानामीशं देवमभिमुखयितुमभिमुखीकर्तुं कृतस्तवाः कृतस्तोत्राः सन्तः । न त्वन्यथेति भावः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । तत्र पूर्वोक्ते महसि तेजसि कमनीयविग्रहं रम्यमूर्तिमयुग्मानि त्रीणि लोचनानि यस्य तं पुरुषं ददृशुः॥

  अथ पञ्चभिः पुरुषं विशिनष्टि-ककुद इत्यादिना ।।

ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि ।
स्पर्शसुखमनुभवन्तमुमाकुचयुग्ममण्डल इवार्द्रचन्दने ॥२०॥

  कीदृशं पुरुषम् । अकृशेन महता परिणाहेन विशालतया शालत इति तथोक्ते । 'परिणाहो विशालता' इत्यमरः । वृषस्य वृषभस्य ककुदेंऽसकूटे । आश्रयीकृत इति


शषः । आद्रचन्दन उमायाः कुचयुग्ममण्डल इव कृतबाहुंन्यस्तहस्तमत एव स्पर्शसु- खमनुभवन्तम् । ककुदस्य तथाविधस्पर्शसुखकरत्वादिति भावः । उपमालंकारः॥

स्थितमुन्नते तुहिनशैलशिरसि भुवनातिवर्तिना।
साद्रिजलधिजलवाहपथं सदिगश्रुवानमिव विश्वमोजसा ॥ २१॥

  स्थितमिति ॥ उन्नते तुहिनशैलशिरसि हिमवतः शिखरे स्थितम् । क्वचित्कोणे स्थितमित्यर्थः । तथापि भुवनातिवर्तिना सर्वलोकातिशयिनौजसा तेजसा। अद्रिभिः पर्वतैर्जलधिभिः समुद्रैर्जलवाहपथेनाकाशेन च सह वर्तत इति तथोक्तम् । दिग्भिः सह वर्तत इति सदिक् । उभयत्रापि 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। विश्वमश्रुवानं व्याप्नुवन्तमिव स्थितमित्युत्प्रेक्षा । 'अशुङ् व्याप्तौ' इति धातोः शानच् ॥

अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।
लोकमखिलमिव भूमिभृता रवितेजसामवधिना[२५४]धिवेष्टितम् ॥२२॥

  अनुजान्विति ॥ जानुनोर्मध्येऽनुजानुमध्यम् । विभक्त्यर्थेऽव्ययीभावः । अवसक्तं लग्नं विततमायतं च वपुर्यस्य तेन महाहिना । अवसक्तिकाबन्धभूतेनेत्यर्थः । अधिवेष्टितमत एव रवितेजसामवधिनां पर्यन्तभूतेन भूमिभृता लोकालोकाचलेनाभिवेष्टितमखिलं लोकमिव स्थितमित्युपमा । 'असूर्यंपश्यापरभागो लोकालोकाचलः' इत्यागमः ।।

परिणाहिना तुहिनराशिविशदमुपवीतसूत्रताम् ।
नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ २३ ॥

  परिणाहिनेति ॥ पुनश्च । तुहिनराशिवद्विशदं शुभ्रमुपवीतसूत्रतां यज्ञोपवीतत्वं नीतं प्रापितमुरगं शेषाहिमनुरञ्जयता स्वगुणोपरक्तं कुर्वता । श्यामीकुर्वतेत्यर्थः। परिणाहिना विशालेन विलसन्मरीचिना प्रसृतकिरणेन शितिना नीलेन गलेन कण्ठेनोपलक्षितम् । 'कण्ठो गलोऽथ ग्रीवायाम्' इत्यमरः । अत्रोरगस्य स्वधवलिमत्यागेनान्यजन्यनीलिम- ग्रहणात्तद्गुणालंकार:-'स्वगुणत्यागादन्योत्कृष्टगुणग्रहस्तद्गुणः' इति लक्षणात्।।

प्लुतमालतीसितकपालकमुदमुपरुद्धमूर्धजम् ।
शेषमिव सुरसरित्प[२५५]यसा शिरसा विसा[२५६]रि शशिधाम बिभ्रतम् ॥२४॥

  प्लुतेति ॥ पुनश्च । मालती जातीकुसुमम् । 'सुमना मालती जातिः' इति ।'पुष्पे जातीप्रभृतयः स्वलिङ्गा ब्रीहयः फले' इति चामरः । तद्वत्सितं यत्कपालमेव कुमुदं तत्प्लुतमाप्लुतं येन तत्तथोक्तम् । अवरुद्धमूर्धजं व्याप्तशिरोरुहम् । अत एव सुरसरित्पयसां शेषमिव निर्यातावशिष्टं गाङ्गमम्भ इव । स्थितमित्यर्थः । उत्प्रेक्षालंकारः। विसारि विसृत्वरं शशिधाम चन्द्रतेजः शिरसा बिभ्रतम् । पुरुषं ददृशुरिति पूर्वेण संबन्धः ।।


मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः।
पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥२५॥

  मुनय इति ॥ ततो दर्शनानन्तरं मुनयोऽभिमुखमेत्य । शिवस्येति शेषः । नयनविनि- मेषेण नेत्रसंज्ञया नोदिताः प्रेरिताः सन्तः पाण्डुतनयस्यार्जुनस्य तपसा जनितं तत्पूर्वोक्तं जगतामशर्मासुखम् । दुःखमित्यर्थः । 'शर्मशातसुखानि च' इत्यमरः । भृशं सम्य- गाचचक्षिरे कथितवन्तः।।

तरसैव कोऽपि भुवनैकपुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥२६॥

  तरसेति॥ हे भुवनैकपुरुष,वृत्रो वृत्रासुर इव भीमविग्रहः कोऽपि। अविज्ञात इत्यर्थः। पुरुषस्तरसा बलात्कारेणैव । 'तरसी बलरंहसी' इति विश्वः । अमलवपुष उज्वलमूर्ते रवेरपि ज्योतिरभिभूय तपस्यति तपश्चरति । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरो:' इति क्यङ् ॥

स धनुर्महेषुधि बिभर्ति कवचमसिमुत्तमं जटाः।
वल्कमजिनमि[२५७]ति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥२७॥

  स इति ॥ किं च । स पुरुषो महान्ताविषुधी यस्य तन्महेषुधि धनुः कवचं वर्मोत्तममसिं खड्गं जटा वल्कं चीरमजिनं चर्म च बिभर्ति । इत्येवंरूपमिदं विरुद्धवेषधारणं मुनिताविरोधि मुनित्वप्रतिबन्धकं तथाप्यस्य न राजत इति न । किं तु राजत एषेत्यर्थः । चित्रमाश्चर्यम् । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः ॥

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् ।
स्तम्भमनुभवति शान्तमरुद्रहतारकागणयुतं नभस्तलम् ॥२८॥

  चलन इति ॥ किं च । तस्य पुंसश्चलनेऽवनिः पृथिवी चलति । तथा करणनियमे समाधिष्विन्द्रियसंयमे सति।'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः। सदिङ्मुखं दिक्सहितं शान्तैः स्तिमितैर्मरुतां वायूनां ग्रहाणां सूर्यादीनां तारकाणां गणैर्युतं नभस्तलं व्योम स्तम्भं निश्चलतामनुभवतीत्यर्थः । अतो विश्वातिशायिनी तस्य शक्ति- रुपलभ्यत इति भावः॥


२४-२५ श्लोकयोर्मध्ये क्वचित्क्षेपकोऽयं दृश्यते-

बहुभिश्च बाहुभिरहीनभुजगवलयैर्विराजितम् ।
चन्दनतरुभिरि[२५८]वालधुभिः प्र[२५९]बलायतैर्मलयमेदिनीभृतम् ।

  बहुभिरिति । अहीनां सर्पाणां मध्ये य इनाः श्रेष्ठा भुजगास्त एव वलयानि येषां तैः । सर्पाभरणैरित्यर्थः । बहुभिरनेकैर्बाहुभिः। सहस्रभुजत्वात्तस्येति भावः । विराजितं शोभितं चन्दनतरुभिरनेकैर्मलयमेदिनीभृतमिव स्थितम् । चन्दनतरवोऽप्यहीना महान्तो भुजगास्तेषां वलयो वेष्टनं येषां तैरिति । अलघुभिर्महद्भिःप्रबलाश्च त आयताश्च तैरुभयविशेषणम् । प्रबलदीर्घैरित्यर्थः । अथवा । अमलायतैरमला निर्मलाश्च ते तैः । उपमालंकारः ॥   न चैतदुपेक्ष्यमित्याशयेनाह-

स तदोजसा विजितसारममरदितिजोपसंहितम् ।
विश्वमिदमपिदधाति पुरा किमिवास्ति य[२६०]न्न तपसामदुष्करम् ॥२९॥

  स इति ॥ स पुमानोजसा विजितसारं निरस्तसत्त्वम् । अमरदितिजोपसंहितं सुरा- सुरसहितं तदिदं विश्वं पुरापिदधाति । अपिधास्यतीत्यर्थः । शीघ्रमेव हारष्यताति भावः। 'निकटागामिके पुरा' इत्यमरः । 'यावत्पुरानिपातयोलट्' इति भविष्यदर्थे लट् । तथाहि । यत्कर्म तपसामदुष्करं तत्किमिवास्ति । न किंचित्तेन दुष्करमस्तीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥

  न चैतदन्यफलकं तप इत्याह-

विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति ।
प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः॥३०॥

  विजिगीषत इति ॥ स पुरुषो जगन्ति भुवनानि युगपद्विजिगीषते यदि विजेतुमिच्छति वा। 'पूर्ववत्सनः' इत्यात्मनेपदम् । अथ युगपत्संजिहीर्षति संहर्तुमिच्छति वा। अभवमपवर्गं प्राप्तुमभिवाञ्छति वा । न विद्मो वयमिति शेषः । किं तु । वयमप्यस्य रुचस्तेजांसि विषहितुं सोढुम्। 'तीषसहलुभरुषरिषः' इति विकल्पादिडागमः । नो क्षमा न शक्ताः । केचित् 'रुचः कामितानि विषहितुमवधारयितुम्' इति व्याचक्षते । तत्र सहेरवधारणार्थत्वं विचार्यम् ॥

किमुपेक्षसे कथय नाथ न[२६१]तव विदितं न किंचन ।
त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः॥३१॥

  किमिति ॥ हे नाथ, किं किमर्थमुपेक्षसे कथय । त्वमिति शेषः। तव न विदितम् । त्वयाज्ञायमानमित्यर्थः।'क्तस्य च वर्तमाने' इति षष्ठी।न किंचन किमपि न । हे अभयद, नोऽस्मानलं त्रातुमर्हसि । त्वयि शासति सति पराभवो मा स्म भवन्माभूत्। स्मोत्तरे लङ् च' इति लङ् ॥

इति गां विधाय विरतेषु मुनिषु वचनं समाददे।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः॥३२॥

  इतीति ॥ इतीत्थं गां वाचं विधाय । अभिधायेत्यर्थः । सामान्यस्य विशेषपर्यवसानात् । मुनिषु विरतेषु तूष्णींभूतेषु सत्सु । अन्धकान्तकः शिवो भिन्नस्योद्वेलस्य जलधेर्जलस्य नादमिव गुरु गम्भीरं यथा तथा दिशां विवरमन्तरालं ध्वनयन्वचनं समाददे स्वीचकार । उवाचेत्यर्थः।।


बदरातपोवननिवासनिरतमवगात मान्यथा ।
धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ ३३ ॥

  बदरीति ॥ बदरीतपोवने बदरिकाश्रमे निवासनिरतं नित्यनिवासिनं गां गतं भुवम- वतीर्णं जगतामुदयनिधने सृष्टिसंहारौ धातुः।तयोः कर्तुरित्यर्थः।'तृन्'इति दधातेस्तृन्प्रत्यय:। अत एव 'न लोक-' इत्यादिना कर्मणि षष्ठीप्रतिषेधः। आदिपुरुषस्य विष्णोरंशमंशभूतं नरम् । नरसंज्ञकमित्यर्थः । यो नारायणसख इति भावः । अन्यथोक्तवैपरीत्येनैनं मावगात । मनुष्यमात्रं मा जानीतेत्यर्थः।'इणो गा लुङि' इति गादेशः ॥

  अथ तस्य तपसो निमित्तमाह-

द्विषतः परांसिसिषुरेष सकलभुवनाभितापिन:।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥३४॥

  द्विषत इति ॥ एष नरः सकलभुवनान्यभितापयन्त्यभीक्ष्णमिति तथोक्तान् । 'बहुल माभीक्ष्ण्ये' इति णिनिः । क्रान्ते आक्रान्ते कुलिशकरस्येन्द्रस्य वीर्यबले शक्तिसैन्ये ये स्तान्द्विषतः शत्रून्परासिसिषुः परासितुमिच्छुः । अस्यतेः सन्नन्तादुप्रत्ययः । मदुपासनं मदाराधनम् । करणे ल्युट् । महत्तपो विहितवान् ।

  अथास्य मानुषावतारे कारणमाह-

अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः।
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥३५॥

  अयमिति ॥ विभू प्रभू अयं नरोऽच्युतः कृष्णश्च सरसिरुहजन्मनो ब्रह्मणो वचनेन प्रार्थनयासुराणां निधनेन मारणेन करणेन प्रजाः पातुं रक्षितुं भुवमभ्युपेत्य मनुजेषु तिष्ठतः । वस्तुतस्तु साक्षान्नरनारायणावेतौ कृष्णार्जुनावित्यर्थः ॥

  अथास्य सत्त्वसंपदं प्रकाशयितुमाह-

सु[२६२] रकृत्यमेतदवगम्य निपुणमिति मूकदानवः।
हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥३६॥

  सुरेति॥ मूकदानवो मूकाख्यः कश्चिदसुर एतत्पाण्डवकृत्यं सुरकृत्यमिति निपुणमवगम्य साधु निश्चित्य पाण्डुसुतमर्जुनं हन्तुमभिपतति । तत्तस्मात्कारणादत्रार्जुनाश्रमे विषये । आश्रमं प्रतीत्यर्थः । मया सह त्वरया गम्यताम् । द्रष्टुमिति शेषः ॥

विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥३७॥


  विवर इति॥ पापे निरतिरतिप्रीतिर्यस्य स एष दानवो विवरे रन्ध्रेऽपि । एकान्ते- ऽपीत्यर्थः। एनं पाण्डवमनिगूढं प्रकाशं स्पष्टं यथा तथाभिभवितुं न पारयन्न शक्नुवन् । विभाषायाम् 'नञ्' इति नञ्समासः। अविशङ्कितया स्वरूपगूहनान्निःशङ्कितया वराह- मायया वराहभूमिकया विजयं व्यवस्यति । विजयं प्रत्युद्युक्त इत्यर्थः ।

  ततः किं भावीत्यत आह----

निहते विडम्बितकिरातनृपतिवपुषा रिपो मया ।
मुक्तनिशितविशिखःप्रसभंमृगयाविवादमयमाचरिष्यति ॥ ३८ ॥

  निहत इति ॥ विडम्बितमनुकृतं किरातनृपतिवपुर्येन तेन । तद्रूपधारिणेत्यर्थः । मया रिपौ वराहे निहते मया हते विषये मुक्तनिशितविशिखः सन् । अयं पाण्डवः प्रसभं प्रसह्य मृगयाविवादं मृगप्रहारकलहमाचरिष्यति करिष्यति । मत्प्रहत्तमेव मृगं प्रहत्य स्वयमहमेव प्रहर्तेति कलहिष्यत इत्यर्थः॥

  ततोऽपि किं भावीत्याह-

तपसा निपीडितकृशस्य विरहितसहायसंपदः ।
सत्त्वविहितमतुलं भु[२६३]जयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः॥३९॥

  तपसेति ॥ तपसा नितरां पीडितोऽत एव कृशस्तस्य निपीडितकृशस्य । 'पूर्वकाल-' इत्यादिना समासः। तथा विरहिता सहायसंपद्यस्य तस्यैकाकिनो मृधे रणे। 'मृधमा- स्कन्दनं संख्यम्' इत्यमरः । अधिकुप्यतोऽधिकं कुप्यतोऽस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतम् । स्वाभाविकमित्यर्थः। 'सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयो: ॥ प्राणे वलेऽन्तःकरणे' इति वैजयन्ती । अतुलं निरुपमं भुजयोर्बाह्वोर्बलं शक्तिं पश्यत । 'बलं शक्तिर्बलं सैन्यम्' इति शाश्वतः ॥

  अथ त्रिभिरस्य किरातभावं वर्णयति-

इति तानुदारमनुनीय विषमहरिचन्दनालिना ।
धर्मजनितपुलकेन लसद्गजमौक्तिका[२६४]वलिगुणेन वक्षसा ॥ ४०॥

  इतीत्यादि । शिव इतीत्थं तान्मुनीनुदारं युक्तियुक्तं यथा तथानुनीय शिक्षयित्वा। उक्त्वेति यावत् । रुचिरः किरातपृतनापतिः संववृत इत्युत्तरेणान्वयः। किरातसेनापति- वेषधारी बभूवेत्यर्थः । कथंभूतः। विषमा विकृतविन्यासा हरिचन्दनस्यालयो रेखा यस्मिम्स्तेन । धर्मेण स्वेदेन जनिताः पुलका रोमाञ्चायस्मिम्स्तेन । 'पुलकः पुनः । रोमाञ्च- कण्टको रोमविकारो रोमहर्षणम्' इति हेमचन्द्रः। 'धर्मः स्यादातपे ग्रीष्मे उष्णस्वेदा- म्भसोरपि' इति विश्वः । लसन्तः शोभमाना गजमौक्तिकानां करिकुम्भोद्भवमौक्तिका- नामावलय एव गुणाः सूत्राणि यस्मिंस्तेन वक्षसा वक्षःस्थलेनोपलक्षितः । करिणां मु-


क्तायोनित्वे प्रमाणमाहागस्त्यः-जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः। शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनयः ॥ इति ॥

वदनेन पुष्पितलतान्तनियमितविलम्बिमौलिना।
बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥४१॥

  वदनेनेति ॥ पुष्पितैर्लतान्तैर्विकसितलताग्रैर्नियमिताः संयता विलम्यिनश्च ते मौलयः संयतकेशा यस्य तेन । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । शिखिपिच्छलाञ्छिते बर्हिबर्हाङ्किते कपोलभित्ती यस्य तेनारुणनयनेनारक्तनेत्रेण वदनेन रुचं शोभां बिभ्रत् ॥

बृहदुद्वहलञ्जदनादि धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥४२॥

  बृहदिति ॥ पुनश्च । जलद् इव नदतीति जलदनादि । 'कर्तर्युपमाने' इति णिनिः। उपहितैकमार्गणं संहितैकबाणं धनुरुद्वहन् । अत एव मेघनिचय इव स्थित इत्युपमा । अत्र विशेषके स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥

अनकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहै:।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥ ४३ ॥

  अनकूलमिति ॥ अस्य शिवस्यानुकूलं विचिन्त्य प्रियमिति निश्चित्यात्तविग्रहैहीत- किरातदेहै:। तथा शूलानि परशवः कुठाराः शराश्चापानि च तानि भृतानि यैस्तैः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' इति निष्ठायाः परनिपातः । गणपतिभिः प्रमथमुख्यै- र्महती वनेचरचमूः सेना विनिर्ममे निर्मिता । माङ: कर्मणि लिट् ॥

विरचय्य काननविभागमनुगिरमथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥४४॥

  विरचय्येति । अथेश्वराज्ञयानुगिरं गिरौ। विभत्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' इति समासान्तः। काननविभागं वनविभागं विरचय्य । अस्यायमिति देशविभागं कृत्वेत्यर्थः । भीमैनिदैः कलकलैः पिहिता उरवो भुवो यैस्ते तथोक्ताः सन्तः । मृगया- मपदिश्य व्याजीकृत्य परितः प्रतस्थिरे प्रस्थिताः॥

क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः॥ ४५ ॥

  क्षुमितेति ॥ क्षुभितास्त्रस्ता अभिनि:सृताः स्वस्थानान्निर्गता विभिन्ना मुक्तसंघाश्च ये शकुनयः पक्षिणो मृगाश्च तेषां यूथानि तानि तेषां निःस्वनैः पूर्णानि पृथूनि वनानि गुहाविवराणि च यस्य स भूधरः सहसा भयादिवेत्युत्प्रेक्षा । ररास चुक्रोश ॥

न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः।
घ्नन्ति सहजमपि भूरिभियःसममागताः सपदि वैरमापदः ॥४६॥

  नेति । पथि पलायनमार्गे विरोधिनी जातिवैरिणी मृगानां सिंहव्याघ्रादीनां विहंगानां काकोलूकानां च संहतिः संघो रुषं परस्परक्रोधं नेयाय न प्राप । किं तु सहैव चचारेत्यर्थः।तथा हि। भूरि प्रभूता भीर्यासु ताः समं साधारण्येनागता आपदो विपत्तयः सहजं स्वाभाविकमपि वैरं सपदि घ्नन्ति । नहि संघातव्यसनेषु प्रजायते वैरानुबन्ध इति भावः ॥

चमरीगणैर्गण[२६५]बलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विष[२६६]क्तपृथुप्रियबालवालधिभिराददे धृतिः॥४७॥

  चमरीति ॥ वंशविततिषु वेणुगुल्मेषु विषक्ता लग्नाः पृथवो भृशं प्रियबाला:। प्रिय- रोमाणो बालधयः पुच्छानि येषां तैः । 'पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः' इत्यमरः । चमरीगणैर्मृगविशेषैर्गणबलस्य शिवबलस्य संबन्धिनि । तद्धेतुक इत्यर्थः । संबन्धमात्रविवक्षायां षष्ठी।अन्यथा'भीत्रार्थानां भयहेतुः' इति पञ्चमी स्यात्।बलवति प्रबले भय उपस्थिते प्राप्तेऽपि धृतिधैर्यमाददे स्वीकृता । बालच्छेदभयात्प्राणहानिमप्यवगणय्य स्थितमित्यर्थः॥

हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थमभिदृशिरे सहसा प्रतिबोधजृम्भितमुखैर्मृगाधिपैः॥४८॥

  हरेति॥ प्रतिभये भयहेतौ।'भयंकरं प्रतिभयम्' इत्यमरः प्राप्तेऽपीति शेषः। गजमदैः सुगन्धयः सुरभयः केसराः सटा येषां तैः। हतानेकगजैरित्यर्थः । सहसा सेनाकल- कलश्रवणानन्तरमेव प्रतिबोधेन निद्रापगमेन जृम्भितानि व्यात्तानि मुखानि येषां तैर्मृगाधिपैः सिंहैः स्वस्थं निःशङ्कमेव यथा तथा हरसैनिका अभिददृशिर ईक्षिताः। न तु किंचित्क्षुभितमित्यर्थः । युक्तं चैतद्राजनामधारिणां केसरिणामिति भावः॥

बिभरांबभूवुरपवृत्तज[२६७]ठरशफरीकुलाकुलाः।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥४९॥

  बिभरामिति ॥अपवृत्तजठरैस्तत्कालक्षोभाल्लुठितोदरैः शफरीकुलैराकुला व्याप्ताः पङ्कै- र्विषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः सरितः करिभिः । पलायमानैरिति शेषः । रुग्णानां मार्गरोधितया भग्नानाम् । 'ओदितश्च' इति निष्ठानत्वम् । चन्दनानां रसैररुणं करिरुग्णचन्दनरसारुणं पयो बिभरांबभूवुः । भृधातोः भीह्रीभृहुवांश्लुवच्च' इत्याम्प्रत्ययः । श्लुवद्भावश्च । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः ॥


महिषक्षतागुरुतमालनलदसुरभिः सदागतिः।
व्यस्तशुकनिभशिलाकुसुमःप्रणुदन्ववौ वनसदां परिश्रमम् ॥५०॥

  महिषेति ॥ महिषैर्लुलायैः क्षतानि विदलितानि तैरगुरुभिस्तमालैर्नलदैरुशीरैश्च सुरभिः सुगन्धिः। व्यस्तानि विक्षिप्तानि शुकनिभानि शुकसवर्णानि शिलाकुसुमानि शैलेयाख्या ओषधिविशेषा येन सः। अतः शीतल इति भावः । 'कालानुसार्यवृद्धाश्मपुष्प- शीतशिवानि तु । शैलेयम्' इत्यमरः । शुकनिभेति स्वरूपकथनम् । सदागतिर्वायुर्व- नसदां वनेचराणां परिश्रमं प्रणुदन् । अतो मन्द इति भावः । 'मातरिश्वा सदागतिः' इत्यमरः । ववौ वाति स्म ॥

मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसंप्लवः ॥५१॥

  मथिताम्भस इति ॥ सत्त्वसंप्लव प्राणिसंक्षोभो निदाघो ग्रीष्म एक सरसीः सरांसि। 'कासारः सरसी सरः' इत्यमरः । मथिताम्भसः संक्षोभितोदका रयेण पलायनवेगेन विकीर्णं व्याकीर्णं यथा तथा मृदिता निष्पीडिताः कदल्यो गवेधुकास्तृणधान्यविशेषाश्च यासां तास्तथोक्ताः। 'तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका' इत्यमरः । मृदित इति 'क्विति च' इति गुणप्रतिषेधः । क्लान्ता जलरुहलता पद्मिन्यो यासु ता एवंभूता विदधे चकार॥

इति चालयन्नचलसानुवनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ ५२ ॥

  इतीति ।। इतीत्थमुमापतिरचलसानुषु वनेषूपभोग्यवृक्षेषु गहनेषु दावेषु च जाता- स्तथोक्तान् । सत्त्वानिति शेषः । चालयन् । मुदितानां हरिणीनां दशनैः क्षता वीरुधो लता यस्यां तामिन्द्रसूनोरिमामैन्द्रसूनवीम् । वसत्यत्रेति वसतिमाश्रमम् । वहिवस्यर्तिभ्यश्च' इत्यौणादिको वसतेरतिप्रत्ययः । प्राप ।

स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषणविभिन्नभुवं दनुजं दधानम[२६८]थ सौकरं वपुः ॥५३॥

  स इति ॥ अथानन्तरं स शिवो घननीलं मेघमेचकं मुनेरर्जुनस्याभिमुखमुपस्थितमागतं पोत्रस्य मुखाग्रस्य । निकषणेनोल्लेखनेन विभिन्ना विदारिता भूर्येन जम् । 'मुखाग्रे क्रोडहलयोः पोत्रम्' इत्यमरः । 'हलसूकरयोः पुवः' इति ष्ट्रन्प्रत्ययः। सूकरस्येदं सौकरं वाराहं वपुर्दधानं दनुजं दानवमाससाद प्राप ॥

कच्छान्ते सुरसरितो निधाय सेनामन्वीतः सकतिपयैः किरातवर्यैः।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य संप्रतस्थे ॥५४॥


  कच्छान्त इति ॥ लक्ष्मीवान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य वकारादेशः । स शिवः । सुरसरितो मन्दाकिन्याः कच्छान्तेऽनूपप्रान्ते । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । सेनां निधाय । स्थापयित्वेत्यर्थः । कतिपयैः किरातवर्यैरन्वीतोऽनुगतः सन् । 'ई गतौ' इति धातोरनुपूर्वात्कर्मणि क्तः । सगुल्मजालैर्लताप्रतानसहितैस्तरुगहनैः प्रच्छन्नश्छादितः । 'वा दान्तशान्त-'इत्यादिना निपातः। तस्य वराहस्य पदमन्वनुपदम् । पदानुसारेणेत्यर्थः । संप्रतस्थेप्रस्थितः। 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । प्रहर्षणीवृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां द्वादशः सर्गः समाप्तः ॥


त्रयोदशः सर्गः।


वपुषां परमेण भूधराणामथ संभाव्यपराक्रमं विभेदे ।
मृगमाशु वि[२६९]लोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १॥

  वपुषेति ॥ अथेश्वरप्रस्थानानन्तरं महेन्द्रसूनुरर्जुन: परमेण महता वपुषा हेतुना भूधराणां विमेदे विदारणे संभाव्यपराक्रमं क्षमोऽयमिति प्रतर्क्यपौरुषं स्थिराभ्यां दृढाभ्यां दंष्ट्राभ्यामुग्रं मुर्ख यस्य तं मृगम् । वराहमित्यर्थः । आशु तदागमनानन्तरम् । अविलम्वेनेत्यर्थः । विलोकयांचकार ददर्श । अस्मिन्सर्गे प्राक्पञ्चत्रिम्शच्छोकादौपच्छन्द- सिकं वृत्तम् ॥

स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः ।
नयमिच्छति तस्य जातशङ्के मनसीमं मुहरा[२७०]ददे वितर्कम् ॥ २ ॥

  स्फुटेति ॥ स्फुटं स्पष्टं यद्धा विरचिता सटानां केसराणामुन्नतिरुद्धतिर्यस्य सः । क्रोधाद्धर्षितलोमेत्यर्थः । 'सटा जटाकेसरयोः' इति विश्वः । दूरादभिधावन्संमुखमापतन् । तथावधीरितान्यकृत्यस्त्यक्तान्यकर्मा स वराहो जयमिच्छति जयार्थिन्यत एव जातशङ्के । स्वयं जिघांसोर्द्विषामेकलक्ष्यत्वादिति भावः। तस्य मुनेर्मनसि मुहुरिमं वितर्कं वक्ष्यमाणमूहम् । 'अध्याहारस्तर्क ऊहः' इत्यमरः । आदद उत्पादितवान् ।

  अथैकादशभिर्वितर्कमेव निरूपयति---

घनपोत्रवि[२७१]दीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः।
अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥३॥

  घनपोत्रेति ॥ धनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलितानि शालमूलानि


वृक्षमूलानि येन सः । निबिडस्य स्कन्धस्य निकाषेण निकषणेन रुग्णवप्नो भग्नसानुः । अतो महासत्त्वसंपन्न इति भावः।एकश्चासौ चरश्चेत्येकचर एकाकी। यूथादपेत इत्यर्थः। अतोऽयं वराहः समराय समरं कर्तुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । समाजुहूषमाण इव समाह्वातुमिच्छन्निव । इवशब्दः संभावनायाम् । समाह्वयतेः सन्नन्ताच्छानच्प्रत्ययः 'स्पर्धायामाङ्'।'पूर्ववत्सनः' इत्यात्मनेपदम् । 'अभ्यस्तस्य च'इति संप्रसारणम्। मामभिवर्तते मामभिधावति।उपसर्गवशात्सकर्मकत्वम्। अतः सर्वथा नायमुपेक्ष्य इति भावः ॥

इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम् ।
मयि तां सुतराम[२७२]यं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥४॥

  इहेति ॥ इहाश्रमे तपोनुभावाद्वीतभयाः। लक्षणया विगतवैरा इत्यर्थः । अत एव व्यालमृगाः क्रूरव्याघ्रादयः । 'व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि' इति विश्वः । परेषु प्राण्यन्तरेषु वृत्तिं जीविकां जहाति । हिंसया न जीवन्तीत्यर्थः । अयं वराहो मयि मद्विषये तां वृत्तिं सुतरां विधत्ते करोति। मा हन्तुमिच्छतीत्यर्थः । तदियं विकृतिस्तप:- सामर्थ्यभङ्गरूपा भवेत्किं नु । यद्वा । माया कस्यचिद्दैत्यस्य वराहभूमिका भवेन्नु । किंनुशब्दौ वितर्के ॥

अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः।
अवधूय विरोधिनीः किमारान्मृगजातीरभियाति मां जवेन ॥५॥

  अथवेति ॥ अथवेति पक्षान्तरे । एष मृगः पूर्वं जन्मान्तरे भृशमत्यर्थमासेवितयाति- परिचितया रुषा क्रुधा । मद्गोचरयेति शेषः । कृतज्ञयेव पूर्वकृतं वैरानुबन्धं संप्रति जा- नात्येवेत्युत्प्रेक्षा । न मुक्तो न त्यक्तः । अद्यापीति शेषः । नूनमयं प्राग्भवीयवैरानुबन्धी कश्चित् । संप्रति वैरबीजासंभवादिति भावः। कुतः । यद्यत आरात्समीपतः । 'आरद्दूर- समीपयोः' इत्यमरः । विरोधिनीर्मृगजातीरवधूय त्यक्त्वा जवेन मामभियात्यभिधावति। अन्यथा नाभियायादिति भावः ॥

  न केवलमभियानमेव । किं च मनोवृत्तिरप्यत्र प्रमाणमित्याह-

न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र त[२७३]था भृशं मनो मे।
विमलं कलुषीभवश्व चेतः कथयत्येव हितैषिणं रिपुं वा ॥६॥

  न मृग इति । अयं मृगो न खलु, किंतु कोऽपि कश्चिदन्य एव जिघांसुर्हन्तुमिच्छुः। हन्तेः सन्नन्तादुप्रत्ययः।'अभ्यासाच्च' इति कुत्वम्।'अज्झनगमां सनि' इति दीर्घ:। कुतः । हि यस्मात् । अत्रास्मिन्मृगविषये मे मनस्तथा भृशं स्वलति क्षुभ्यति । यथायं जिघांसुरयमिति बुद्धिरुत्पद्यत इत्यर्थः । तथा हि । विमलं प्रसन्नं तथा कलुषीभवत्क्षु-


भ्यश्च चेत एव हितैषिणं रिपुं वा मित्रममित्रं च कथयति । यत्र यत्र मनः प्रसीदति तदेव मित्रम् । यत्र क्षुभ्यति सोऽमित्र इति निश्चितमित्यर्थः । अतोऽयं वध्य इति भावः।

  ननु मुनेः किमनया दुःशङ्कया । तत्राह--

मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥७॥

  मुनिरिति ॥ मुनिरस्मि । अतो निरागसो निरपराधस्य मे कुतो भयमित्येयोऽभिमा- नोऽहंकारः । अनपकारिणं मां कोऽपि किं करिष्यतीति बुद्धिर्भूतये श्रेयसे न भवति । तथा हि । परवृद्धिषु विषये बद्धमत्सराणां दुरात्मनामलङ्घ्यं किमिवास्ति । न किं- चिदकार्यमस्तीत्यर्थः । इवशब्दो वाक्यालंकारे ।

  अस्तु । जिघांसुरपि तुच्छः किं करिष्यतीत्यत्राह--

दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ ८॥

  दनुज इति ॥ अयं दनुजः स्विद्दानवो वा क्षपाचरो राक्षसो वा । न तु मृग एवेत्यर्थः। कुतः। वनजे सत्त्वे वन्यप्राणिनीतीदृशं बलं नास्ति। वतेत्याश्चर्ये। वलमेव समर्थयते। तथा हि । मेघनीलोऽयं वराहः सकलं शैलराजमभिभूयाक्रम्य कम्पयतीव।पदविष्टम्भभरात्तथा प्रतीयत इत्यर्थः । अत्र कम्पयतीवेत्युत्प्रेक्षागर्भोऽयं शैलकम्पनरूपकार्येण तत्कारणबलातिरेकसमर्थनात्कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः॥

  किं च। योऽयं शैले मृगयाकलकल इव श्रूयते सोऽप्येतन्मायापरिकल्पित एवेत्याह-

अयमेव मृगव्यसत्रकामः प्रहरिष्यन्मयि मायया शमस्थे।
पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भान्तमृगाणि काननानि ॥९॥

  अयमिति ॥ अयमेव शमस्थे शान्तिनिविष्टे इति रन्ध्रोक्तिः। मयि । अधिकरणविवक्षायां सप्तमी । मायया प्रहरिष्यन् । प्रहर्तुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति चकारात्- क्रियार्थायां क्रियांयां लृट् । 'लृटः सद्धा' इति शत्रादेशः । मृगव्यं मृगया तस्य सत्रं वनम् । तदर्थं वनमित्यर्थः । तत्कामयत इति मृगव्यसत्रकामः । मृगयाभूमिपरिग्रहार्थी सन्नित्यर्थः । 'कर्मण्यण्' । 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' इति, 'सत्र- माच्छादने यज्ञे सदा दाने वनेऽपि च' इति चामरः। पृथुभिर्बृहद्भिर्ध्वजिनीरवैः सेनाकलकलैः स्वमायया कल्पितैरेवेत्यर्थः । काननानि चकितोद्भ्रान्तास्त्रस्तपलायिता मृगायेषु तान्यकार्षीच्चकार । अयमेव रन्ध्रान्वेषी मत्प्रहारार्थं स्वयमेव मृगयुर्भूत्वा वनावरोधाय सेनाघोषं कल्पयामास । स मृगरूपेणागच्छत्तीत्यर्थः ।।   वितर्कान्तरमाह-

बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्गणमाशिश्रियंदाकुलं तिरश्चाम् ॥ १०॥

  बहुश इति ॥ अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य दुर्योधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरः स्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । 'अभियोगोऽवरोधः स्यात्' इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियद्वराहरूपेण प्राविक्षत्। 'णिश्रिद्रुस्नुभ्यः कर्तरि चङ्' । 'चङि' इति द्विर्भावः ॥

  वितर्कान्तरमाह-

अवलीढसनाभिर[२७४]श्वसेनः प्रसभं खाण्डवजातवेदसा वा।
प्रतिकर्तुमुपागतः समन्युः कृ[२७५]तमन्युर्यदि वा वृकोदरेण ॥११॥

  अवलीढेति ॥ खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभमवलीढसनाभिर्दग्धबन्धुः। 'सपिण्डास्तु सनाभयः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः' इत्यमरः।अत एव समन्युर्बद्धवैरः । तस्यार्जुनस्यापकारयितृत्वादिति भावः । अश्वसेनस्तक्षकपुषः कश्चिन्महासर्पः प्रतिकर्तुं वैरनिर्यातनार्थमुपागतो वा । वराहमाययेति शेषः । पक्षान्तरमाह- यदि वा वृकोदरेण भीमसेनेन कृतमन्युर्जनितक्रोधो वा । कश्चिदिति शेषः । पुरा किल पाण्डवः खाण्डवदाहे पावकभयात्पलायमानांस्तक्षकपुत्रानश्वसेनस्य बन्धून्वाणैरवरुध्य दाहयामासेति भारतकथा ॥

  अथ द्वाभ्यामनन्तरकरणीयमध्यवस्यति--बलेत्यादिना ॥

बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ १२॥

  किंबहुना । यथा तथा वास्तु । अयं मायिकः पारमार्थिको वास्त्वित्यर्थः । सर्वथापि बलशालितया। बलदृप्ततयेत्यर्थः । उच्छेदपरां धियं दधानः । मां जिघांसुरित्यर्थः । अतोऽयं मृगो नियमेनावश्यं मया निबर्हणीयो वध्यः । 'प्रमापणं निबर्हणम्' इत्यमरः । तथा हि । अरातिभङ्गं शत्रुक्षयं परमं लाभमाहुः ॥

  ननु तपोविरोधिनी हिंसेत्याशङ्ख्याह-

कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३ ॥


  कुर्विति ॥ हे तात वत्स, मार्गदायी न भवतीत्यमार्गदायी । रन्ध्रान्वेषिणां प्रवेशम- यच्छन्नित्यर्थः । कुतः। जयार्थित्वादित्याह-विजयाय तपांसि कुर्विति मुनिर्व्यासो मामलं भृशमन्वशादनुशिष्टवान् । अनुशासेर्लङ्। ननु मुनिर्वा कथमधर्ममन्वशात्तत्राह- बलिन इति । अस्य मृगस्य बलिनः प्रबलस्य वधादृते वधं विना।'अन्यारादितरर्त-' इत्यादिना पञ्चमी । अन्यथोपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम् । हिंसापि दुष्टनिग्रहात्मिका नाधर्म इत्यर्थः ॥

इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ १४ ॥

  इतीति ॥ तेनार्जुनेनेतीत्थं विचिन्त्य वितर्क्य चापनाम चापाख्यं प्रथमं पौरुषचिह्नम् । तस्य मुख्यायुधत्वादिति भावः। आललम्बे गृहीतम् । कर्मणि लिट् । अथ परस्य शत्रोर्मेंदे विदारण उपजापे चोपलब्धगुणो ज्ञातशक्तिः। बाणस्तु प्राप्तमौर्वीकश्चेति शेषः। शुद्धो ऋजुर्दिग्धत्वादिदोषरहितो वा । 'न कर्णभेदैर्नो दिग्धैर्नाग्निज्वलिततेजसै:' इति निषेधात् । अन्यत्रोपधाविशुद्धः । बाणश्च सचिव इवाददे जगृहे । अत्र बाणसचिवयोः शब्दमात्रसाधार्म्याच्छेषालंकारः प्रकृताप्रकृतविषय इति सर्वस्वकारः । उपमैवेति केचित् ॥

अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥१५॥

  अनुभावेति । गुरु महत्पूज्यं च स्थिरत्वात्सारवत्त्वादविसंवाद्यभङ्गुरम् । अन्यत्र प्रतिष्ठितत्वादसत्यरहितम् । गुणवत्सज्यम् । अन्यत्रौदार्यादिगुणवत् । धनुर्मिन्नमिवा- नुभाववता निश्चयबुद्धिमता । 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः । धनंजयेन स्वबलव्यसनेऽपि तपसा क्षीणत्वेऽपि । अन्यत्र स्वं धनं तदेव बलं तस्य व्यसने नाशेऽपि । पीड्यमानमाकृष्यमाणमवरुद्ध्यमानं च सन्मित्रमिवानतिं नम्रतामानुकूल्यं च प्रपेदे । अलंकारस्तु पूर्ववत् ॥

प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥१६॥

  प्रविकर्षति ॥ तदानीं तस्मिन्काले महेषौ बाणे गाण्डिवमर्जुनधनुरधिरोहति सति। 'कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुंसकौ' इत्यमरः । 'गाण्ड्यजगात्संज्ञायाम्' इति वप्रत्ययः । प्रविकर्षेण ज्यास्फालनेन यो निनादस्तेन भिन्नरन्ध्रो विदलितगह्वर: । तथा पदविष्टम्भेन पादाक्रमणेन निपीडितो नुन्नः सकलः सर्वः शैलः संशयं जीवितसंदेह- मारुरोह । प्रापेत्यर्थः । अत्र शैलस्य संशयासंबन्धेऽपि संबन्धकथनादतिशयोक्तिरलंकारः।

ददृशेऽथ[२७६] सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधमात्मेव भ[२७७]यानकः परेषाम्॥१७॥

  ददृश इति ॥ अथ बाणसंधानानन्तरं शिवेन स्थिरं निश्चलं पूर्णं च यथा तथायत आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः । चापमण्डलमन्तर्धाय स्थित इत्यर्थः।तिसृणाम्। 'न तिसृचतसृ' इति दीर्घप्रतिषेधः । पुराम् । त्रिपुरासुरस्येत्यर्थः । वधं संहारं विधातुं कर्तुं रचितः कल्पितः । स्थानविशेषे स्थापित इति यावत् । आत्मा स्वयमिव परेषां भयानको भयंकरः सोऽर्जुनः सविस्मयं ददृशे दृष्टः । उपमालंकारः ॥

  अथ पिनाकिवृत्तान्तमाह---

विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः ।
धनुरा[२७८] यतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शंभुः ॥ १८ ॥

  विचकर्षेति ॥ अथ शंभुश्च संहितेषुः सन् । उच्चैर्भृशं चरणास्कन्दनेन पदविष्टम्भेन नामितोऽधो नीतोऽचलेन्द्रो येन स तथोक्तः आयतभोग आकृष्टकायो वासुकिरेव ज्या तस्य वदनमेव ग्रन्थिस्तेन विमुक्त उत्सृष्टो वह्निर्यस्य तद्धनुर्विचकर्षेति स्वभावोक्तिः ॥

स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधांस्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं प्रकतिप्रत्यययोरिवानुबन्धः ॥ १९ ॥

  स इति ॥ सह संभूयार्थमरिवधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र सहार्थमभिधेयमभिधास्यतोरित्यर्थः । 'प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः। यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्धात्वादिः । प्रत्ययः सनादिः । तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिरित्यादौ ककारः। स इव पराभवाय नाशाय लोपार्थमेवाप । न तु स्थित्यर्थमित्यर्थः ॥

अथ दीपितवारिवाहवर्त्मा खवित्रासितवारणादवार्यः।
निपपात जवादिषुः पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानु: ॥२०॥

  अथेति ॥ अथ रिपोर्मध्यप्रवेशानन्तरं दीपितं वारिवाहवर्त्माकाशं येन सः। अवार्यों दुर्वार इषुः शरो रववित्रासितवारणात्स्वघोषभीषितगजात्पिनाकाच्छिवधनुषः- 'पिनाकोऽजगवं धनुः' इत्यमरः । महतोऽभ्रान्मेघाद्विद्युतोऽयं वैद्युतः कृशानुरशनि । रिव जवाद्वेगान्निपपातादधाव ॥

व्रजतोऽस्य बृहत्पतत्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ २१ ॥


  व्रजत इति ॥ व्रजतो धावतोऽस्य बाणस्य बृहद्भ्य: पतन्त्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः। कृता तार्क्ष्योपनिपातवेगशङ्का गरुडागमनवेगभ्रमो येन सः। अत एव महोरगाणां सर्पाणां हृदयानि श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित् । 'समुद्राभ्राद्ध:' इति सूत्रे पूर्वनिपातव्यभिचाराच्छोत्रशब्दस्य पूर्वनिपातव्यभिचारः । प्रतिनादैः प्रति- ध्वनिभिर्महान्सम्मूर्च्छितो नाद उत्पपातोत्थितः । अत्र नादस्योरगहृदयभेदकत्वासंब- न्धेऽपि संबन्धाभिधानादतिशयोक्तिः । सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गि- भावेन संकरः॥

नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गै:।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः॥२२॥

  नयनादिति ॥ शूलिनो नयनात्प्रवृत्तैर्निर्गतैरिव स्थितैरित्युत्प्रेक्षा । नेत्राग्निशिखाकल्पैरित्यर्थः। पिशङ्गै: पिङ्गलैर्विलसत्तडिल्लताभैर्विद्युद्दामतुल्यैरित्युपमा । मनसश्चित्तादप्याशुतरं शीघ्रतरम् । आशुशब्दादनव्ययात्तरम् । अतः 'किमेत्तिङ्व्यय-- इत्यादिनाम्प्रत्ययो न । 'क्लीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत्' इत्यमरः। यतो गच्छतः। इणः शतृप्रत्ययः । मार्गणस्य शरस्य । 'कलम्बमार्गणशराः' इत्यमरः । किरणैर्व्योम- न्याकाशे मार्ग उल्कोरेखाकारः पन्था विदधे विरचित इति स्वभावोक्तिरलंकारः॥

अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिरव्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ २३ ॥

  अपयन्निति ॥ पृषत्को बाणः । 'पृषत्कबाणविशिखाः' इत्यमरः । धनुषः पिनाकादप- यन्निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः। शिवान्तिकस्थैर्नभश्चरैरभिख्यया शोभया जिहानः । शोभनं गच्छन्नित्यर्थः । 'ओहाङ् गतौ' इति धातोः शानच् । 'अभिख्या नामशोभयोः' इत्यमरः। विवरे सीदन्तीति विवरेसदस्तैर्विवरेसद्भिरन्तरालवर्तिभिर्नभश्वरैः । 'सत्सूद्विष--' इत्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अथ वराहं विशन्प्रविशंस्तदुपोढैस्तं वराहमुपोढै: प्रत्यासन्नै:। वहेः कर्तरि क्तः। नभश्चरै- र्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण निष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थनभश्चरकर्तृकदर्शनयौगपद्यासंबन्धेऽपि तत्संबन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेगप्रतीतेरलंकारेण वस्तुध्वनिः॥

स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो न[२७९]भःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥

  स इति । स बाणस्तमालनिभे तमालप्रमे । नीलाभ इति यावत् । सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिन इवाविषक्तवेगोऽप्रतिवद्धवेगः सन् । तथा नभःस्थैः खे-


चरैर्भयेन विप्लुतं विह्वलं यथा तथेक्षितः सन् । अपां संबन्धि वेग आपः । अपां समूहो वापम् । आपेन गच्छतीत्यापगा नदी ताम् । गृह्णातीति ग्राहो जलग्राहः। जलचर इति यावत्।'जलचरे' इति वक्तव्याद्विभाषया ग्रह इति पाप्रत्ययः। स इव। जगतीं भूमिम्। 'जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति वैजयन्ती। जगाहे विवेश । अन्तर्हित इत्यर्थः॥

  अथार्जुनबाणप्रयोगमाह-

सपदि प्रियरूपपर्वरेखः सितलोहाग्रन[२८०]खः खमाससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन्प्राणभृतः कपिध्वजेषुः॥ २५॥

  सपदीति । सपदि शिवबाणप्रयोगसमय एव प्रिया रूपमाकृतिः पर्वाणि ग्रन्थयो रेखा रचनाश्च यस्य सः । अङ्गुलिपक्षे पर्वरेखाः प्रसिद्धाः । लोहाग्रमय:फलं तन्नख- मिवेत्युपमितसमासः । सितं लोहाग्रनखं यस्य सः । कुपितस्यान्तकस्य मृत्योर्या तर्जन- स्याङ्गुलिस्तर्जनाङ्गुलिस्तस्याः श्रीरिव श्रीर्यस्य स कपिध्वजेषुरर्जुनबाणः प्राणभृतो व्य- थयन्भीषयमाणः खमाकाशमाससाद प्राप । उपमालंकारः ॥

परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु ।
स जवेन पतन्परःशतानां पततां व्रात इवारवं वितेने ॥ २६॥

  परमेति ॥ परमात्रपरिग्रहेण दिव्यास्त्राधिष्ठानेनोरु महदत एव स्फुरदुल्काकृति । उल्कावद्दीर्घायमाणमित्यर्थः। तेजो वनेषु विक्षिपन्विकिरन्सन् । जवेन पतन्धावन्स बाणः। शतात्परे पर:शतास्तेषाम् । शताधिकसंख्यकानामित्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी-'इति योगविभागात्समासः। 'राजदन्तादिषु परम्' इत्युपसर्जनस्य शतशब्दस्य परनिपातः। पारस्करादित्वात्सुडागमः। पततां पत- त्रिणाम् । पतत्पत्ररथाण्डजाः' इत्यमरः । व्रातः समूह इवारवं वितेने विस्तारयामास ॥

अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ २७ ॥

  अविभावितेति ॥ अतिरंहसातिवेगेनाविभावितेऽलक्षिते निष्क्रमो गाण्डीवान्निःसरणं प्रयाणमन्तरागमनं च यस्य सः। तथा शमितायामः संक्षिप्तदैर्घ्य इव स्थित इत्यु- पात्तवेगगुणनिमित्ता दैर्ध्य गुणाभावोत्प्रेक्षा। स शरः। सह नु सह वा। चित्तवृत्त्येति शेषः। चित्तवृत्तेः पूर्वतरं नु प्रागेव वा । उभयत्रापि लक्ष्ये । पतित्वेति शेषः । अथवापतित्वा नु । लक्ष्य इति शेषः । लक्ष्यभेदं चकार । अत्रोपात्तवेगगुणनिमित्ताद्बाणस्य चित्सवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षास्तिस्त्र उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिका इत्यलंकारेण वस्तुध्वनिः॥


स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥२८॥

  स इति ॥ जयहेतुः स शरो वृषध्वजसायकावभिन्नं शिवशरविद्धमेषणीयम् । वेद्धुमिति शेषः । इषेरिच्छार्थादनीयर् प्रत्ययः । प्रतिकायम् । प्रतिपक्षमिति यावत् । विधिना विधिवाक्येनोदीरितं फलसाधनतया प्रतिपादितमर्थं यागादिकं प्रयत्नः पुरुषव्यापार इव । लघ्वक्लेशेन यथा तथा साधयितुम् । स्वार्थणिजन्तात्तुमुन् । प्रसेहे शशाक । उपमालंकारः।

अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥२९॥

  अविवेकेति ॥ अविवेकोऽन्तरानभिज्ञत्वं वृथाश्रमो निष्फलप्रयासस्तावर्थं धनमिव अस्थानविनियोगहेतुकत्वादनयोर्धनहानिकरत्वमिति भावः । क्षयोऽनुपचयो लोभो- ऽदातृत्वं तौ संश्रितानामनुजीविनामनुरागमिव । अकिंचित्करे स्वामिन्यनुरागस्थानव- स्थानादिति भावः । अनयो दुर्नीतिः प्रमादोऽनवधानता तौ विजिगीषुमिव । रन्ध्रभूयिष्ठस्य जयासिद्धेरिति भावः । विशिखौ शिवार्जुनबाणौ तं वराहमवसादं करणशैथिल्यं विनिन्यतुर्नीतवन्तौ । नयतिद्विकर्मकः । मालोपमेयम् ॥

अथ दी[२८१]र्घतमं तमः प्रवेक्ष्यन्सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्त्यां वलयीभूततरुं धरां च मेने ॥३०॥

  अथेति ॥अथ स वराहो दीर्घतमं तमो दीर्घनिद्रां प्रवेश्यन्। मरिष्यन्नित्यर्थः। सहसा झटिति रुग्णरयो भग्नवेगः संभ्रमेण भ्रान्त्या ।'संभ्रमो भ्रान्तिहावयोः'इति विश्वः। उष्णरश्मिमुर्व्यां| भूमौ निपतन्तमिव मेने । धरां च वलयीभूता मण्डलीभूतास्तरवो यस्यास्तां तथा मेने । तथा बभ्रामेत्यर्थः । स्वभावोक्तिरलंकारः ॥

स गतः क्षितिमुष्णशो[२८२]णितार्द्र: खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ ३१ ॥

  स इति ॥ क्षितिं गतः क्षितौ पतित उष्णेन प्रत्यग्रत्वाच्छोणितेनार्द्र: प्लुतः खुराणां दंष्ट्रयोश्चाग्राणां निपातेनाघातेन दारिताश्मा पाटितपाषाणः।किंच।क्षणमीक्षितेन्द्रसूनुः। स्वार्थविघतरोषादिति भावः । अत एव विहितः कृतोऽमर्षगुरुः क्रोधोद्धत्तो ध्वनिः क्रन्दितं येन स तथोक्तः स वराहोऽसुभिः प्राणैर्निरासे निरस्तः । त्यक्त इत्यर्थः । अस्यतेः कर्मणि लिट् । इयं च स्वभावोक्तिः ।


स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन्प्रियतामेति यथा कृतावदानः॥३२॥

  स्फुटेति ॥ अथ वराहपातानन्तरं पार्थोऽर्जुनः प्राज्यशरः प्रभूतशरः । सन्नपीत्यर्थः। 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । स्फुटपौरुषं व्यक्तविक्रमं वराहभेदिनं शरं जिघृक्षुर्ग्र- हीतुमिच्छु: । ग्रहे: सन्नन्तादुप्रत्ययः। आपपाताधावति स्म । कृतज्ञतया शरग्रहणम् । न तु लोभादित्यर्थः । नन्वन्येऽप्युपकर्तार एव । किमित्यत्रैवादरस्तस्येत्यत आह- कृतवेदिनां कृतज्ञानां कृतावदानः कृतकर्मा । 'अवदानं कर्म वृत्तम्' इत्यमरः। यथा प्रियतामेति तथा करिष्यन्नुपकरिष्यन्न प्रियतामेति । कृतकरिष्यमाणयोः कृतं बलीय इति न्यायादिति भावः ॥

  अथ युग्मेनाह-

उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिर[२८३]वाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥ ३३ ॥

  उपकार इति । असति नीचे प्रयुक्त उपकार इव मृगे स्थितिमप्राप्य प्रणाशमदर्शनं गत इत्युपमा । तथा कृतशक्तिः कृतपौरुषो गुरुत्वाल्लोहभाराद्गौरववत्त्वाच्चावाङ्मुखो नम्रमुखः । अत एवात्मपौरुषेण जनितव्रीड इव स्थित इत्युत्प्रेक्षा ।

स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्त[२८४]मां दधानः।
अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥३४॥

  स इति ॥ उत्तमां स्वरुचं स्वकान्तिं कीर्तिमिव दधान इत्युत्प्रेक्षा । किं च । विचिन्त्य सर्वथा ग्राह्योऽयमिति विमृष्य समुद्धरता सेनार्जुनेनोच्चैः स्ववार्तं स्वपाटवम् । 'वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्' इति यादवः । अनुयुक्तः पृष्ट इव स्थित इत्युत्प्रेक्षा । आदरात्तथा प्रतीयत इत्यर्थः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । स बाणो विलोचनाभ्यां नयनाभ्यां कृत्वा भृशं परिरेभे न्वालिङ्गितः किमित्युत्प्रेक्षा । तेनात्यादरेण दृष्ट इत्यर्थः ॥

तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।
संनिकाशयितुमग्रतः स्थितं शासनं कु[२८५]सुमचापविद्विषः ॥ ३५॥

  तत्रेति ॥ तत्र प्रदेशे महाभुजोऽर्जुनः कुसुमचापविद्विषः स्मरारेः शासनं वक्ष्यमाणमादेशं संनिकाशयितुं प्रकाशयितुम् । निवेदयितुमिति यावत् । अग्रतः स्थित कार्मुकभृतं वनेचरं सहसा झटिति पश्यति स्म । इतः प्रभृति रथोद्धतावृत्तम्- 'रो नराविह रथोद्धता लगौ' इति लक्षणात् ॥


स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् ।
सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ ३६ ॥

  स इति ॥ स वनेचरो महीपतेस्तनये राजपुत्रेऽर्जुन आत्मजातिसदृशीं किरातजात्यनुरूपां किल । किलेति जातेरलीकतां दर्शयति । यतः। परमार्थतः प्रथम एव सः । आनतिं प्रणतिं प्रयुज्य सान्त्वपूर्वं सामपूर्वकम् । 'साम सान्त्वमुभे समे' इत्यमरः। अभि- नीतिहेतुकं प्रिययुक्तिहेतुकं वचः। इत्थं वक्ष्यमाणप्रकारेण वक्तुमुपचक्रम उपक्रान्तवान्।

  तत्र तावश्चतुर्भिः सान्त्वमाह-

शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् ।
प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥३७॥

  शान्ततेति । शान्तता बहिरनौद्धत्यं ते तव विनययोग्यनौद्धत्ययुक्तं मानसं कर्म प्राह नु ब्रूते खलु । तथा भूरि बहु धाम तेजो यस्मिंस्तत्तपः कर्तृ विमलं संप्रदायशुद्धं श्रुतं प्राह । किं च । द्यौर्दिवं वौको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः। 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । सदृशी तुल्याकृतिर्मूर्तिरवदातं शुद्धमन्ववायं वंशं प्राह । 'वंशोऽन्ववायःसंतानः' इत्यमरः । शान्त्यादिभिर्लिङ्गैर्विनयादयोऽनुमीयन्ते। अन्यथा तदसंभवादिति भावः ॥

दीपितस्त्वमनुभावसंपदा गौरवेण लघयन्महीभृतः।
राजसे मुनिरपीह का[२८६]रयन्नाधिपत्यमिव शातमन्यवम् ॥३८॥

  दीपित इति ॥ मुनिरपि । ऐश्वर्यरहितोऽपीत्यर्थः । अनुभावसंपदा प्रभावातिशयेन दीपितः प्रकाशितः । 'अनुभावः प्रभावे च' इत्यमरः । गौरवेण महत्तया महीभृतो राज्ञो लघयंल्लघूकुर्वन् । त्वमिहाद्रौ । शतमन्योरिदं शातमन्यवमैन्द्रम् । 'तस्येदम्' इत्यण्प्रत्ययः। 'शतमन्युर्दिवस्पतिः' इत्यमरः । अधिपतेः कर्माधिपत्यं त्रैलोक्यरक्षाधिकारम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । कारयन्निव । इन्द्रेणेति शेषः । राजसे तस्याप्युपजीव्य इति प्रतीयसे । स्वमहिम्नेत्यर्थः ।

तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसंपदाम् ।
दृश्यते हि[२८७]भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः॥३९॥

  तापस इति । विभुतां प्रभावमुपेयिवानुपगतः । अतएव तापसोऽपि त्वं सर्वसंप- दामास्पदं स्थानमसि । 'आस्पदं प्रतिष्ठायाम्' इति निपातः। विभुतामेव समर्थयते- तथाहि भवतस्तव जनैर्विनापि । एकाकिनोऽपीत्यर्थः । सचिवैरन्वितस्येवामात्या- दियुक्तस्येव द्युतिस्तेजो दृश्यते । अतः सर्वसंपदामास्पदत्वं युक्तमित्यर्थः ।।

विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ ४० ॥


  विस्मय इति ॥ किंच । जयश्रिया हेतुना । प्राप्तयापीति शेषः । क इव वा विस्मयः किमाश्चर्यम् । न कश्चिदित्यर्थः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रम्' इत्यमरः । अतो मुक्ति- रपि ते तव दवीयसी दूरतरा दुर्लभा न भवत्येव 'स्थूलदूर-'इत्यादिना यणादिपरलोपः पूर्वगुणश्च । तथाहि निर्जितौ रजस्तमसी एव गुणौ येन स कस्येप्सितस्य वाञ्छि- तस्योपाश्रय आस्पदं न भवेदित्यर्थः ॥

  अथागमनप्रयोजनमुपालम्भमुखेनाह-

ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ ४१॥

  ह्रेपयन्निति ॥ त्विषा तेजसाहिमतेजसमुष्णतेजसं ह्रेपयंल्लज्जयन्नुपपन्नपौरुषः संभा- वितपराक्रमः स प्रसिद्धस्त्वं वराहभेदिनम् । कृतोपकारमित्यर्थः । एनं त्वत्करगतमस्म- दधिपस्य सायकं शरमित्थं साहसेन हर्तुं नार्हसि ॥

  अनर्हत्वमेवाह-----

स्मर्यते तनुभृतां सनातनं न्यायमा[२८८]चरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥४२॥

  स्मर्यत इति ॥ उत्तमैर्नृभिः सत्पुरुषैर्मन्वादिभिस्तनुभृतां शरीरिणां सनाननं नित्यं न्याय्यं न्यायादनपेतमाचरितमाचारः स्मर्यते।कर्तव्यतयेति शेषः।न त्वनाचार इत्यर्थः। अथाप्यनाचरणे दोषमाह--ध्वंसत इति । भवानिव दृश्यते भवादृशस्ततः सदाचाराद्ध्वम्सते भ्रश्यते यदि तदा तेन वर्त्मना न्यायमार्गेण क: प्रयातु गच्छतु वद कथय । न कोऽपीत्यर्थः । तथा च सन्मार्ग एव खिलः स्यादिति भावः ॥

आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति य[२८९]तयः सुशीलताम् ॥४३॥

  आकुमारमिति ॥ किं च । योगशत्त्यात्मज्ञानमहिम्ना जितौ जन्ममृत्यू यैस्ते यतयो योगिनः । आ कुमारेभ्य आकुमारम् । कुमारादारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्यो।' इत्यव्ययीभावः । महत्य आपदो यस्मिम्स्तस्मान्महापदः। महानर्थहेतोरित्यर्थः । अपथा- दमार्गात् । 'पथो विभाषा' इति निषेधविकल्पात्समासान्तः । 'अपथं नपुंसकम् । संनिवृत्तिमपगममुपदेष्टुमिच्छवः सन्तः सुशीलतां सद्वृत्तताम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । शीलयन्त्यभ्यस्यन्ति । अतो न त्याज्यं शीलमित्यर्थः ॥

  न केवलं सौशील्यादनर्थनिवृत्तिः । किं त्वर्थप्राप्तिरपीत्याह-

तिष्ठतां तपसि पुण्यमासजन्संपदोऽनुगुणयन्सुखैषिणाम् ।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः॥४४॥


  तिष्ठतामिति ॥ तपसि तिष्ठतां तपोनिष्ठानाम् । धर्मार्थनामित्यर्थः । पुण्यं धर्ममास- जन्संपादयन् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतानर्थाननुगुणयन्ननुकूलयन् । अर्थकामयोरपि हेतुभूत इत्यर्थः। तथा योगिनां विमुक्तयेऽपवर्गाय परिणमन्संपद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु। संभावनायां लोट् । सर्वथाविनय एव चतुर्वर्गसाधनमित्यर्थः। अतस्त्वया नास्मत्स्वामिशराशैर्ये कार्यमिति तात्पर्यम् ॥

  अथवा किं भवादृशेष्वन्यसंभावनया यतो भ्रान्तिरपि संभाव्यत इति मृदूक्तिमवलम्ब्याह-

नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः।
सोऽयमित्यनुपपन्नसंशयः कारितस्त्वम[२९०]पथे पदं यया ॥४५॥

  नूनमिति।अयमस्मदीयः सायकोऽत्रभवतः । पूज्यस्येत्यर्थः । 'पूज्यस्तत्रभवानत्रभवान्' इति सज्जनः । 'इतराभ्योऽपि दृश्यन्ते' इति सार्वविभक्तिकस्तसिल्प्रत्ययः। सुप्सुपेति समासः। शराकृतिं सर्वथा रूपेण रेखादिना सर्वप्रकारेणानुयात्यनुसरति । अत्यन्तमनुकरोतीत्यर्थः । नूनमिति वितर्के । ययाकृत्या कर्त्र्या त्वमनुपपन्नसंशयो- ऽत्यन्तसादृश्यादनुत्पन्नस्वान्यदीयत्वसंदेहः सन्। सोऽयमिति यः स्वकीयः स एवायमिति भ्रान्त्युत्पत्त्यैवेति शेषः। अपथेऽमार्गे शरापहरणरूपे पदं कारितः । निधापित इत्यर्थः। 'हक्रोरन्यतरस्याम्' इत्यणि कर्तुः कर्मता । ण्यन्ते कर्तुश्च कर्मणः' इति तत्रैवाभिहिते कर्मणि क्तः॥

  पुनरपि स्तेयमेव द्रढयन्दोषान्तरमापादयति-

अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ ४६॥

  अन्यदीयेति ॥ सह चेतसा वर्तत इति सचेतास्तस्य मनस्विनस्तेऽन्यदीयविशिखे विषये यदाहृतमाहरणम् । भावे क्तः। तस्मिन् । अन्यदीयविशिखस्याहरण इत्यर्थः । निःस्पृहस्य केवलं निःस्पृहेणैव न भवितव्यम् । किंतु परनिबर्हितं परेण प्रहृतं मृगं निघ्नतः प्रहरतस्ते । निघ्नता त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी। व्रीडितव्यं लज्जितव्यमपि । भावे तव्यप्रत्ययः। संप्रति तु त्वया परविद्धं मृगं विद्धवापि न व्रीड्यते प्रत्युत स्तेयमेव क्रियत इत्यहो महत्साहसमित्यर्थः । मृगमित्यत्रः शेषत्वाविवक्षणात् 'जासिनि- प्रहणनाटक्राथपिषां हिंसायाम्' इति षष्ठी न भवति शेषाधिकारात् । निप्रहणेत्यत्र निप्रयोः संघातव्यस्तविपर्यस्तानां ग्रहणात् ॥

  अथास्मिन्कृतघ्रताभियोगाय स्वीयोपकारकत्वं वर्णयितुं विकत्थनदोषं तावद्युग्मेन परिहरन्नाह---


संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥४७॥

  संततमित्यादि ॥ सूरयो विद्वांसोऽस्यात्मत्स्वामिनः संबन्धिभिर्यैश्चरितैः करणभूतैः संततं सततमुत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तश्चरितानि शृण्वन्तो मुदं प्रयान्ति । अत्र चरितानां मुत्प्राप्तौ शाब्दं करणत्वम् । अर्थान्निशमनकर्मत्वमिति विवेकः । तानि चरितानि हसितेऽपि परिहासेऽपि कीर्तितानि परैरुच्चारितानि सन्ति यं मानिनं व्रीडयन्ति। मानित्वाद्व्रीडा न तु चरितदोषात् । तेषामलंकाररूपत्वादिति भावः ॥

अन्यदोषमिव सः स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थिताम् ॥ ४८ ॥

  अन्येति । अधृष्टतया विकत्थनेन शालीनतया जडः स्तब्धः । अविकस्थन इत्यर्थः। सोऽस्मत्स्वाम्यन्यदोषं परावरगुणमिव स्वकं स्वकीयं गुणं कथं ख्यापयेत्प्रकटयेत् । 'आत्मप्रशंसां परगर्हामिव वर्जयेत्' इति स्मरणादिति भावः । तथापि कार्यवत्तया । कार्यार्थितयेत्यर्थः । स स्वगुण उच्यते खलु । कार्यार्थिनः कुतो गर्व इति भावः । निर्विण्ण इवाह-धिगिति । विभिन्नबुधसेतुमतिकान्तसुजनमर्यादामर्थितां याचनां धिक् । निन्दामीत्यर्थः । यदयमपीत्थं विकथयितुं प्रवृत्त इति भावः । 'धिङ्तिर्भर्त्सन- निन्दयोः' इत्यमरः । 'अभिसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इति द्वितीया ।।

  संप्रति स्वकृतोपकारं दर्शयति-

दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिःप्रत्यपत्स्यत शितेन पत्रिणा ॥४९॥

  दुर्वचमिति ॥ वाहिनीपतिः सेनापतिरस्मत्स्वामी शितेन पत्रिणा शरेणैनं मृगमाशु न प्रत्यपत्स्यत यदि नाभियुञ्जीत चेदसौ मृग ओजसा बलेन त्वयि विषये यदकरिष्यद्यदनिष्टं कुर्यात्तद्दुर्वचं दुर्वाच्यममङ्गलतया वक्तुं न शक्यते । तदनिष्टमथानन्तरमपि मा स्म भूदिति सौहार्दकथनम् । तदुपेक्षणे स मृगस्त्वां हन्यादिति भावः । 'लिङ्निमित्ते लृङ् क्रियातिपत्तौ' इति करोतेः पद्यतेश्च लृङ् ॥

  ननु मयैव हतो मृगो न तु सेनापतिना । तत्राह-

को न्विमं हरितुरङ्गमायुधस्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥५०॥

  क इति ॥हरितुरङ्गमायुधमिद्रायुधं तद्वत्स्थेयसीं स्थिरतराम् । वज्रकठिनामित्यर्थः । स्थिरशब्दादीयसुन् । 'प्रियस्थिर-' इत्यादिना स्थादेशः । अङ्गसंहतिमवयवसंघातं दधतं धारयन्तं वेगवत्तरं दुर्वारवेगमिमं दंष्ट्रिणं वराहं चमूपतेः किरातवाहिनीपतेरृते चमूपतिं विना । 'अन्यारात्-' इत्यादिना पञ्चमी । को नु को वा शरेण । एकेनेति भावः । हन्तुमर्हति । न कोऽपीत्यर्थः ।।   अस्तु स इव मृगस्य हन्ता । ततः किमित्यत आह-

मित्रमिष्टमुपकारि संशये मेदि[२९१]नीपतिरयं तथा च ते ।
तं वि[२९२]रोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥५१॥

  मित्रमिति ॥ तथा च । तस्यैव मृगहन्तृत्वे सतीत्यर्थः । अयं मेदिनीपतिः किरात- भूपतिस्ते तव संशये प्राणसंकट उपकार्युपकारकारकमिष्टं मित्रम्। ततोऽपि किं तत्राह- तमिति । तं मित्रभूतं विरोध्य सज्जनैकवसतिर्भवादृशसुजनमात्राधारा कृतज्ञतोपकारवेदित्वं मा निरासि न निराक्रियतां भवता । अन्यथा जगति कृतज्ञतास्तमियात्, कृतघ्नता च ते भवेदित्यर्थः । अत्यतेः कर्मण्याशिषि माङि लुङ् ॥

  ननु सर्वस्यार्थमूलत्वात्स एवास्तु । किं मित्रेणेत्याशङ्क्य मित्रस्य-सर्वाधिक्यं युग्मेनाह-

लभ्यमेकसुकृतेन दुर्लभा रक्षितारम[२९३]सुरक्ष्यभूतयः।
स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसंपदः ॥ ५२ ॥

  लभ्यमिति ॥ जिगीषतां जेतुमिच्छताम् । जयतेः सन्नन्ताच्छतृप्रत्ययः । दुर्लभाः कृच्छ्रेणापि लब्धुमशक्यास्तथाप्यसुरक्ष्यभूतयो रक्षितुमशक्यमहिमानः । तथापि नित्यं रक्षणादिक्लेशावहाश्चेति भावः । अन्तविरसाः। गत्वर्य इत्यर्थः । लभ्यन्त इति लाभा अर्थास्तेषां संपद:। एकसुकृतेनैकोपकारेण लभ्यं सुलभं न तु दुर्लभं रक्षितारं न तु रक्ष्यं स्वन्तं शुभावसानं न त्वन्तविरसं मित्रलाभमनु मित्रलाभाद्धीनाः । निकृष्टा इत्यर्थः।'हीने' इत्यनोः कर्मप्रवचनीयसंज्ञा । तद्योगे द्वितीया । अत्रोपमेयस्य मित्रलाभस्य लाभान्तरं प्रत्याधिक्याभिधानाद्व्यतिरेकालंकारः॥

चञ्चलं वसु नितान्तमु[२९४]न्नता मेदिनीम[२९५]पि हरन्त्यरातयः ।
भूधरस्थिरमुपेयमागतं मावमम्स्त सुहृदं म[२९६]हीपतिम् ॥५३ ॥

  चञ्चलमिति ॥ किं च । वसु धनं नितान्तं चञ्चलं मेदिनीमप्युन्नताः प्रबला अरातयो हरन्ति । मित्रं तु न तथेत्याह-भूधर इति । भूधरवत्स्थिरमुपेयमन्विष्य गन्तव्यमप्यागतं स्वतःप्राप्तमापि महीपतिम् । सर्वधुरीणमित्यर्थः । सुहृदं मित्रं मावमंस्त मावज्ञासीत्। भवानिति शेषः । अन्यश्लोकगतो वा भवच्छब्दो विभक्तिविपरिणामेनात्र द्रष्टव्यः। अन्यथा मध्यमपुरुषः स्यात् । मन्यतेः कर्तरि माङि लुङ्। अलंकारस्तु व्यतिरेक एव । भूधरस्थिरमित्युपमासंगतिसंकरः ॥

  ननु मुमुक्षोः किं मित्रसंग्रहेणेत्यत्राह-

जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।
प्रा[२९७]प्स्यते च सकलं म[२९८]हीभृता संगतेन तपसः फलं त्वया ॥ ५४॥


  जेतुमिति ॥ भस्वता जेतुं जयार्थमेव तपस्यते तपश्चर्यते।'कर्मणो रोमन्थ-'इत्यादिना चरणे क्यङ् । ततो भावे लट् । कुतः। मुमुक्षवो मोक्षार्थिन आयुधानि न दधते न धारयन्ति । अतो मित्रसंग्रहः कार्य इति भावः । तथापि किं भवत्स्वामिसख्येन । तत्राह-प्राप्स्यत इति । महीभृता सह संगतेन त्वया सकलं तपसः फलं प्राप्स्यते । अतस्ते सखास्मत्स्वामी युक्त इत्यर्थः ॥

  नन्वकिंचनः कुत्रोपयुज्यते । तत्राह-

वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः।
काञ्चनेन किमिवास्य पत्रिणा केवलं न सहते विलङ्घनम् ॥५५॥

  वाजीति ॥ तस्य भूपतेर्वाजिभूमिरश्वाकर इमराजानां काननं गजोत्पत्तिस्थानं भूरिशो रत्ननिचयाश्च । सन्तीति शेषः । नन्वीदृगाढ्यः किमेकस्मै काञ्चनपत्रकाण्डाय कलहायते । तत्राह--अस्य काञ्चनेन सौवर्णेन पत्रिणा शरेण किमिव । न किंचित्- प्रयोजनमस्तीत्यर्थः। परंतु केवलं विलङ्घनं व्यतिक्रमं न सहते । नायं शरलुब्धः। किं त्वधिक्षेपासहिष्णुरित्यर्थः । अत्र प्रथमार्धे समृद्धिमद्वस्तुवर्णनादुदात्तालंकारः॥

  नन्वीदृग्लुब्धः किमुपकर्ता । तत्राह-

सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि ।
[२९९]र्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुम् ॥५६॥

  सावलेपमिति ॥ महानयं रजस्यपि धूलावपि परैः सावलेपं सगर्वमुपलिप्सित उप- लब्धुमिष्टे जिघृक्षिते सति विकृतिमभ्युपैति । प्रकुप्यतीत्यर्थः । अर्थितो याचितस्तु जीवितं धनायितुं धनीकर्तुम् । क्यजन्तात्तुमुन् । न समीहते नोत्सहते । जीवितमप्या- त्मनो नेच्छति । किं त्वर्थितः प्रयच्छतीत्यर्थः । तर्हि धनं किम् । धनमात्मन एषितुं, धनायितुमिति विग्रहः। अत्र इच्छामात्रमर्थः । अन्यथा धनमित्यनेन पौनरुक्त्यं स्यात् । सुप आत्मनः क्यच् । 'अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु' इति निपातना- दाकारः॥

  उक्तमर्थं निगमयति-

तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् ।
राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ ५७ ॥

  तदिति ॥ तत्तस्मात्तदीयविशिखस्यातिसर्जनात्प्रत्यर्पणाद्वां युवयोः । 'षष्ठीचतुर्थी द्वितीयास्थयोर्वां नौ' इति वामादेशः । राघवप्लवगराजयो रामसुग्रीवयोरिव यदृच्छया दैवादागतं गुरु महद्युक्तमनुरूपमितरेतराश्रयमन्योन्यविषयं प्रेम सख्यमस्तु ॥


  ननु शरलोभान्मिथ्याभियुज्यस इत्याह-~

ना[३००]भियोक्तुमनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥५८॥

  नेति ॥ त्वमनृतं मिथ्याभियोक्तुमभ्याख्यातुम् । ब्रूञोऽर्थग्रहणाद्विकर्मकता । 'मिथ्याभियोगोऽभ्याख्यानम्' इत्यमरः । अस्माभिरिति शेषः । नेष्यसे नेष्टोऽसि । कुतः। तपस्वी मुनिः शोच्यश्च । 'मुनिशोच्यौ तपस्विनौ' इति शाश्वतः । तस्य विशिखेषु क आदरः कास्था । न काचिदित्यर्थः । हि यस्यान्नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति ये शरा वज्रिणः शक्रस्य पराक्रमवसूनि पराक्रमधनानि । शौर्यसर्वस्वभूता इत्यर्थः । वज्रिग्रहणाद्वज्रादप्यतिरिच्यन्त इति सूच्यते । अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते ॥

  अथ ते शरापेक्षा चेत्तर्हि तथोच्यतामित्याह-

मार्गणैरथ तव प्रयोजनं ना[३०१]थसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदमेत्य सोऽर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥५९॥

  मार्गणैरिति ॥ अथोते तव मार्गणैः शरैः प्रयोजनं कृत्यं तर्हि भूभृतो गिरेः पतिं प्रभुं किमु न नाथसे किमिति न याचसे। 'नाधृ नाथृ याच्ञोपतापैश्वर्याशीःयु' इति धातो- र्लट् । न च याच्ञाभङ्गशङ्काकार्येत्याह-त्वदिति। सोऽस्मत्स्वामी तवेव विधा प्रकारो यस्य तं त्वद्विधं त्वादृशम् । महानुभावमित्यर्थः । तथापि सुहृदं मित्राभूतमर्थिनमेत्य लब्ध्वा मेदिनीं विजित्य न यच्छति न ददाति किम् । किं तु दास्यत्येव । किं पुनः शरानिति भावः॥

  यदुक्तम् 'त्वद्विधम्' इत्यादि तत्रोपपत्तिमाह-

तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा ।
सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥६०॥

  तेनेति ॥ तेन कारणेन सूरिर्विद्वानत एवोपकारिताधन उपकारकत्वमात्रधनः स किरातभूपतिर्याचितं याच्ञां वृथा व्यर्थं कर्तुं नेच्छति । कुतः । यद्येन कारणेन सीदतां क्लिश्यतामर्थिनां प्रणयभङ्गवेदनां याच्ञाभङ्गदुःखं स्वयमनुभवन्निव वेद वेत्ति । अतो न वैफल्यशङ्का कार्येत्यर्थः ॥

  ननु स्वयं ग्राहिणः किं याच्ञादैन्यं तत्राह---

शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।
कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥६१ ॥


  शक्तिरिति ॥ अर्थपतिषु विषये शक्तिः सामर्थ्यं स्वयंग्रहं स्वाम्यनुज्ञां विना ग्रहणं कारयति । यद्वा निरत्ययमपराधेऽप्यविकारि निर्बाधं प्रेम कर्तृ स्वयंग्रहं कारयति । प्रबलः प्रियो वा परस्य धनं स्वयं गृह्णातीत्यर्थः। अन्यथा दोषमाह- इदं पूर्वोक्तं कारणद्वयं निरस्यतस्त्यजतः । पुंस इति शेषः । अधिकबले प्रबले विषये प्रार्थना तद्धन- जिघृक्षा विपत्फलानर्थफलका । अशक्तस्याप्रियस्य सतः प्रबलधनग्रहणाशा फणिशिरो- मणिग्रहणसाहसवदनर्थाय कल्पत इत्यर्थः ।।

  ननु शस्त्रार्थसंपत्त्या शक्तत्वाभिधानः । तत्राह-

अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥६२॥

  अस्त्रवेदमिति ॥ इह जगति तापसेषु तपस्विनां मध्ये । 'यतश्च निर्धारणम्' इति सप्तमी । जमदग्नेरपत्यं पुमाञ्जामदग्न्य: । 'गर्गादिभ्यो यञ्' । तमपहाय । परशुरामं विनेत्यर्थः । अस्त्रवेदं तत्त्वतोऽधिगम्य । भुजवीर्येण शालत इति भुजवीर्यशालिनः । उभयसंपन्नस्येत्यर्थः । शालनक्रियापेक्षया समानकर्तृकत्वात्क्त्वानिर्देशः। कस्य वायुधं चरितः प्राप्तोऽर्थो येन तच्चरितार्थं सार्थकं गीयते । न कस्यापीत्यर्थः । अतस्तवापि तापसत्वादकिंचित्करस्य तेन सह सख्यमेव मुख्यमिति भाव: ॥

  ननु युष्मन्मृगवधशरहरणाभ्यां द्रोहिणो मम तेन कथं सख्यं स्यादित्याशङ्क्य सत्यं तथापि तावन्मृगवधापराधः क्षमिष्यत इत्याह-

अभ्यघानि मु[३०२]निचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः।
अक्षमिष्ट तदयं प्र[३०३]माद्यतां संवृणोति खलु दोषमज्ञता ॥६३॥

  अभ्यघानीति ॥ त्वया मुनिचापलात्। ब्राह्मणचापल्यादित्यर्थः । क्षितिपतेरस्मत्स्वामिनः। परिगृह्यत इति परिग्रहः । तेन स्वीकृत इत्यर्थः । 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः' इति विश्वः । यन्मृगोऽभ्यघान्यभिहत हति । हन्तेः कर्मणि लुङ् । तद्धननमयमस्मत्स्वाम्यक्षमिष्ट सोढवानेव । तथा हि । प्रमाद्यताम् । अविमृष्यकारि- णामित्यर्थः । दोषमपराधमज्ञताज्ञानिता संवृणोत्याच्छादयति । नाज्ञस्यापराधो गण्यत इत्यर्थः ॥

  अथ सुहद्भावेन हितमुपदिशति--

जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् ।
आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥६४॥

  जन्मेति । जन्म सत्कुले प्रसूतिः, वेषो जटावल्कलादिः, तपो नियमः, तेषां वि-


विरोधिनीं विरुद्धाममूमेवंविधामपक्रियामपकारम् । पुनः । इतःपरमित्यर्थः । मा कृथा मा कुरु । करोतेः कर्तरि माङि लुङ् । 'वयोवृद्ध्यर्थवाग्वेषश्रुताभिनयकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्मामशठाम् तथा ॥ इति स्मरणात् । उक्तवैपरीत्ये दोषमाह- आपदिति । हि यस्मात् । अपथे वर्तमानं दुर्मतिम् । पुरुषमिति शेषः । उभौ लोकौ दूषयति हन्तीत्युभयलोकदूषणी । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः। आपदेति प्राप्नोति । समासविषय उभशब्दस्थाने उभयशब्दप्रयोग एव साधुः । यदाह कैयट:---- 'उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत् । उभयशब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति' इति ॥

  यदुक्तम् 'अभ्यधानि' इति तदेव स्फुटयति-

यष्टुमिच्छसि पितृन्न सां[३०४]प्रतं सं[३०५]वृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥६५॥

  यष्टुमिति ॥ सांप्रतं संप्रति । 'संप्रतीदानीमधुना सांप्रतं तथा' इत्यमरः । पितृन्कव्य- वाडादीन्यष्टुमर्चयितुं नेच्छसि । यतः संवृत एकान्ते स्थितः। तथा दिवौकसो देवा- नर्चिचयिषुरप्यर्चयितुमिच्छुरपि नासि । अतो न पित्रर्थेयं हिंसा, नापि देवतार्था । तदाराधने तद्विहितत्वादिति भावः। अथ 'सर्वत आत्मानं गोपायीत' इति श्रुतेरात्म- रक्षार्थमिति चेन्नेत्याह-दातुमिति । अङ्ग हे, पदवीं मार्गं दातुमेव । न तु हन्तुम् । मुनित्वादिति भावः । क्षभोऽपि योग्यः सन्नपि । किं किमर्थं मृगे विशिखं न्यवीविशो निवेशितवान् । विशतेर्ण्यन्ताल्लुङ् । अभिधावतो मृगादपसरणेनैवात्मरक्षणे कर्तव्ये यवधीस्तच्चापलमेव । 'न हिंस्यात्सर्वाभूतानि' इति श्रुतिनिषेधादिति भावः ॥

  किं बहुना परमार्थः श्रूयतामित्याह-

सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा[३०६]सहिष्यते ।
वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गु[३०७]रूनपि ॥ ६६ ॥

  सज्जन इति ॥ सज्जनोऽसि । अतएव चापलं चपलस्य कर्म विजहीहि त्यज । जहा- तेर्लोट् । 'आ च हौ' इतीकारः । सर्वदा कइव वा को वा सहिष्यते। इवशब्दो वाक्यालंकारे । वाशब्दोऽवधारणे । असहने कारणमाह-वारिधीनिति । अनिभृताश्चपलाः पुनः पुनरकार्यकारिणो गुरून्धैर्ययुक्तानपि । अन्यत्र विशालानपि । युगान्तवायवः प्रलयपवना वारिधीनिव समुद्रानिव क्षोभयन्ति । उपमानुप्राणितोऽयमर्थान्तरन्यासः॥

  नन्वयं किरातः क्षुभितः किं करिष्यति तत्राह-

अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः ।
गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः॥६७॥


  अस्त्रेति ॥ अयं महीपतिरस्त्रवेदवित् । निग्रहानुग्रहसमर्थ इति भावः। अतः पर्वते भवः पर्वतीयः । 'पर्वताच्च' इति छप्रत्ययः । इति हेतोर्मावजीगणः । वनेचरबुद्ध्या मावज्ञासीरित्यर्थः । गणयतेर्माङि लुङ् । 'ई च गणः' इतीकारः । नन्वीदशश्चेत्किमर्थमिह वने वसति तत्राह-~-गोपितुमिति । मरुत्वतेन्द्रेणेमां भुवं गोपितुं रक्षितुम् । 'आयादय आर्धधातुके वा' इति विकल्पात् 'गुपूधूप--' इत्यादिना नायप्रत्ययः। अनुनीय प्रार्थ्य शैलवासं लम्भितः प्रापितः । 'ण्यन्ते कर्तुश्च कर्मणः' इति वचनादणि कर्तृकर्मणि क्तः। 'गतिबुद्धि-' इत्यादिनाणि कर्तुः कर्मत्वम् ॥

  उपसंहरति-

तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः।
बाणमत्रभवते निजं दिशन्ना[३०८]प्नुहि त्वमपि सर्वसंपदः॥६८॥

  तदिति ॥ तत्तस्मान्मुनिचापलान्मुनेः संबन्धीदं मृगवधरूपमागो मया तितिक्षितं सोढमिति वचश्चमूपतिरवोचत । शरद्रोहस्य प्रत्यर्पणमेव प्रतीकार इत्याह-अत्रभवते पूज्याय स्वामिने । अत्रभवान्व्याख्यातः । निजं बाणं तदीयमेव शरं दिशन्प्रत्यर्पयं- स्त्वमपि सर्वसंपद आप्नुहि । सख्येनेति भावः ॥

  ननु मह्यमेतत्सख्यमेव न रोचते, किं पुनस्तन्मूलाः संपदस्तत्राह-

आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विर[३०९]मन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥६९॥

  आत्मनीनमिति ॥ आत्मने हितमात्मनीनम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः। उपतिष्ठते संगच्छते । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु' इति वक्तव्यादात्म- नेपदम् । गुणा विनयादयः संभवन्त्यापदश्च विरमन्ति । 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । इत्यनेकफलभाजि नानाफलोत्पादक आर्यसंगमे साधुसंगतावर्थितापेक्षा कथमिव मा स्म भूत् । सर्वदा भवत्येव ॥

  न चायं दूरे वर्तत इत्याह----

दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुहतो भूपतिः समयसेतुवारितः ॥७०॥

  दृश्यतामिति ॥ तिग्महेतिभिस्तीक्ष्णायुधाभिः । 'हेतिर्ज्वालास्त्रसूर्यांशुषु' इति हेमचन्द्रः। पृतनाभिर्वाहिनीभिः । 'वाहिनी पृतना चमूः' इत्यमरः। अन्वितो भूपतिः साहय: ससर्पा वीचयो यस्य स सिन्धुः समुद्र इवोद्धतः किंतु समयो मर्यादा सेतुरिव स समयसेतुस्तेन वारितः सन् । हस्तेन निर्दिशन्नाह-अयमनोकहान्तरे दुमान्तर्धाने। वर्तत इति शेषः। दृश्यताम् । 'अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः' इत्यमरः ॥


  अथास्य विज्ञापनमेवाह-

सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरंगमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्ननेन सरव्या सु[३१०]खं स[३११]मभियास्यसि चिन्तितानि ॥७१॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः।

  सज्यमिति ॥ स्थेयान्स्थिरतरः । 'प्रियस्थिर-' इत्यादिना स्थादेशः । यश्चमूपति- र्हरितुरंगमकेतोरिन्द्रध्वजस्य लक्ष्मीं शोभां जयन्।अहिपतिः शेष इव स्थवीयः स्थूलतरम्। 'स्थूलदूर-' इत्यादिना पूर्वगुणयणादिपरलोपौ । सह ज्यया सज्यं धनुर्वहति । हे मतिमन्, अस्य चमूपतेर्मतिमनुकूलयानुकूलां कुरु । सख्यं कुर्वित्यर्थः । मतिमत्तायाः फलमेतदिति भावः । कुतः । सख्यानेन चमूपतिना हेतुना सुखमक्लेशेन चिन्तितानि मनोरथान्समभियास्यसि प्राप्स्यसि । वसन्ततिलकावृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां त्रयोदशः सर्गः समाप्तः ॥


चतुर्दशः सर्गः।


ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कु[३१२]पितोऽपि पाण्डवःसुदुर्ग्रहान्तःकरणा हि सा[३१३]धवः॥१॥

  तत इति ॥ ततः किरातवाक्यानन्तरमुद्धतै:प्रगल्भैः किरातस्य वचोभिः।अर्णवाम्बुभिः शैल इव पराहतोऽभिहतोऽत एव कुपितोऽपि पाण्डवो धैर्यं निर्विकारचित्तत्त्वं न जहौ न तत्याज। उत्पन्नमपि कोपं स्तम्भयामासेत्यर्थः । तथा हि । साधवः सजनाः सुदुर्ग्रहं सुष्ठु दुरासदमप्रकम्प्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि । अर्थान्तरन्यासः॥

[३१४]लेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।
[३१५]यं प्रमाणीकृतकालसाधनःप्रशान्तसंरम्भ इवाददे वचः ॥२॥

  सलेशमिति ॥ सह लेशैः सलेशं सकलं यथा तथोल्लिङ्गितमुद्भूतलिङ्गं कृतम् । लिङ्गैस्तद्वाक्यभङ्गिभिरेव सम्यगवगतमित्यर्थः । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययः ।


तस्येङ्गितमभिप्रायस्तदुल्लिङ्गितं येन सः । गिरां वाचां संबन्धिनि विस्तरे तत्त्वसंग्रहेऽर्थसंक्षेपे । वैभाषिको द्वन्द्वैकवद्भावः । कृती कुशलः प्रमाणीकृतं प्रधानीकृतं काल एव साधनं येन सः । अवसरोचितं विवक्षुरित्यर्थः । अयं पाण्डवः प्रशान्तसंरम्भः संक्षोभरहित इव वच आददे । उवाचेत्यर्थः ॥

  सान्त्वपूर्वकमेवाह-

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥३॥

  विविक्तेति ॥ विविक्ताः संयोगादिनाश्लिष्टाः स्फुटोच्चारिता वर्णा अक्षराण्येवाभरणानि यस्याः सा । अन्यत्र तु विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा। 'वर्णों द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे' इत्युभयत्राप्यमरः। सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः । श्राव्येत्यर्थः । अन्यत्र श्रूयत इति श्रुतिर्वाक् । सा सुखा यस्याः सा । मञ्जुभाषिणीत्यर्थः । द्विषामपि हृदयानि प्रसादयन्ती । किं पुनः सुहृदामिति भावः । प्रसन्नानि वाचकानि गम्भीराण्यर्थगुरूणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा । अन्यत्र तु प्रसन्ना विमला गम्भीरपदालसचरणा सरस्वती वाक् । स्त्रीरत्नं च । तथा चोक्तम्--'सरस्वतीसरिद्भेदे गोवाग्देवतयोरपि । स्त्रीरत्ने च' इति । न कृतं पुण्यकर्म यैस्तेषां न प्रवर्तते न प्रसरति । किं तु सुकृतिनामेवेत्यर्थः । भवद्वाणी चैवंविधेति धन्यो भवानिति भावः । अत्र काचिन्नायिका वाग्देवता च प्रतीयते । तत्रादौ समासोक्तिरलंकारः। विशेषणमात्रसाम्येनाप्रस्तुतप्रतीतेः । अत एव न श्लेषः ॥

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थ कतिचित्प्रकाशताम् ॥४॥

  भवन्तीति । ते पुरुषा विपश्चितां विदुषाम् । 'विद्वान्विपश्चिदोषज्ञः इत्यमरः । मध्ये सभ्यतमा सभायां साधुतमा निपुणतमाः। 'साधुः समर्थो निपुणश्च' इति काशिकायाम् । भवन्ति। ये मनोगतं मनसा गृहीतमर्थं वाचि निवेशयन्ति । वाचोद्भिरन्तीत्यर्थः । तेषु वक्तृष्वप्युपपन्ननैपुणाः संभावितकौशलाः कतिचिदेव गभीरं निगूढमर्थं प्रकाशतां स्फुटतमं नयन्ति । लोके तावज्ज्ञातार एव दुर्लभाः । तत्रापि वक्तारः। तप्रापि निगूढार्थप्रकाशकाः । त्वयि सर्वमस्तीति स्तुतिः । वनेचरवाक्यरहस्यं ज्ञातमिति स्वयमपि तादृश एवेति हृदयम् ॥

स्तुवन्ति गुर्वीमभिधेयसंपदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः॥५॥

  स्तुवन्तीति । किं च । केचिद्गुर्वी महतीमभिधेयसंपदमर्थसंपत्ति स्तुवन्ति । अपरे विपश्चित उक्तेः शब्दस्य विशुद्धिं सामर्थ्य स्तुवन्ति । इति प्रतिपुरुषं रुचौ प्रीतौ स्थि ताया व्यवस्थितायां सर्वमनोरमाः सर्वेषां शब्दार्थरुचीनां पुंसां मनोरमा गिरः सुदुर्लभाः। त्वद्गिरस्तु सर्वमनोरमा उक्तसर्वगुणसंपत्त्येति भावः ॥

समस्य संपादयता गुणैरिमां त्वया समारोपितभारं भारतीम् ।
प्रगल्भमात्मा धुरि धुर्य वाग्मिनां वनेचरेणापि सताधिरोपितः ॥६॥

  समस्येति ॥ धुरं वहतीति धुर्यस्तत्संबोधने हे धुर्य हे कार्यनिर्वाहक । इति यत्प्रत्ययः । अत एव समारोपितभार स्वामिना निहितसंध्यादिकार्यभार हे। तदाह मनुः–'दूते संधिविपर्ययौ' इति । इमां शान्तताविनययोगीत्यादिकां भारतीं वाचं गुणैर्विविक्तवर्णत्वादिभिः समस्य संयोज्य प्रगल्भं निर्भीकं यथा तथा संपादयता रचयता । व्याहरतेत्यर्थः । त्वया वनेचरेणापीत्यर्थः । सता । अपिशब्दो-विरोधद्योतनार्थम् । आत्मा स्वयं वाग्मिनां वाचोयुक्तिपटूनाम्।'वाचौयुक्तिपटुर्वाग्मी' इत्यमरः । 'वाचो ग्मिनिः' इति मत्वर्थीयो ग्मिनिप्रत्ययः । धुर्यग्नेऽधिरोपितः । स्थापित इत्यर्थः । 'रुहः पोऽन्यतरस्याम्' इति पकारः । अत्र मनु:-'वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञ: प्रशस्यते' इति ॥

  वाग्मितामेवाह--

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।
तथा[३१६]भियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥७॥

  प्रयुज्येति ॥ शान्तताविनययोगीत्यादिना सामसान्त्वम् ॥ 'सामसान्त्वमुभे समे' इत्यमरः । प्रयुज्य नियुज्य विलोभनं प्रलोभनम् 'मित्रमिष्टम्' इत्यादिनाचरितं संपादितम्। तथा धियो बुद्धेर्विभेदाय व्यामोहनार्थम् 'शक्तिरर्थपतिषु:' इत्यादिना भयं प्रदर्शितम्। किं च । शिलीमुखार्थिना । न तु न्यायार्थिनेति भावः । त्वयेति शेषः। 'नाभियोक्तुम् । इत्यादिना तथाभियुक्तं कथितं यथेतरन्न्यायादन्यत् । अन्याय्यमित्यर्थः । न्याय्यं न्याया- दनपेतमिवावभासत इत्युपमा । अनेन वाग्मिनामग्रसरोऽसीति भावः ॥

  ततः किमत आह-

विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिमिच्छता सहार्थनाशेन नृपोऽनुजीविना ॥८॥

  विरोधीति ॥ किंतु सिद्धेः फलस्य विरोधि विघातकमितीदमस्मदास्कन्दनरूपं कर्म कर्तुमुद्यतःस भूपतिर्महीपतिर्भवता । धुर्येणेति भावः । किं न वारितो निवर्तितः। निवारणे हेतुमाह-भूमिमिच्छतेहामुत्र च श्रेयोर्थिना सहचरितावर्थनाशौ स्वार्थानर्थौ यस्य तेन सहार्थनाशेन । समानसुखदुःखेनेत्यर्थः । अनुजीविना भृत्येन नृपः स्वामी हिते नियोज्यो नियम्यः खलु । अन्यथा स्वामिद्रोहपातकी श्रेयसो भ्रष्टः स्वादिति भाव:॥


  तर्हि नो बाणः क्व गतः, किमत्र वा न्याय्यं तत्राह-

ध्रुवं प्रणाशः प्रहितस्य पत्रिणः शिलोच्चये तस्य वि[३१७]मार्गणं नयः।
न युक्तमत्रार्यजनातिलङ्घनं दिशत्यपायं हि सतामतिक्रमः ॥९॥

  ध्रुवमिति ॥ प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम् । प्रहितश्चेदिति भावः। तस्य नष्टस्य पत्रिणः शिलोच्चये शैले। 'अद्रिगोत्रगिरिग्रावाचल- शैलशिलोच्चयाः' इत्यमरः। विमार्गणमन्वेषणं नयो न्याय्यः । 'अन्वेषणं विचयनं मार्गणं मृगणा मृगः' इत्यमरः । अत्र विषये आर्यजनातिलङ्घनं सज्जनव्यतिक्रमो न युक्तम् । हि यस्मात्कारणात्सतामतिक्रमोऽपायमनर्थं दिशति ददाति ॥

  यदुक्तम् 'हर्तुमर्हसि' इति तत्रोत्तरमाह-

अतीतसंख्या विहिता ममाग्निना शिलामुखाःखाण्डवमत्तुमिच्छता
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजना[३१८]शुगे धृतिः ॥१०॥

  अतीतेति ॥ खाण्डवमिन्द्रवनमत्तुं भक्षयितुमिच्छताग्निना ममातीतसंख्या असंख्याः शिलीमुखाः शरा विहिता दत्ताः । खाण्डवदाहेऽक्षयतूणीरपानमुक्तं भारते । अतो- ऽमरसायकेष्वप्यनादृतस्यादररहितस्य । भावे क्तः । ततो नञा बहुव्रीहिः । मम कथं शैलजनाशुगे किरातबाणे धृतिरास्था स्थिता । न कथंचिदित्यर्थः । अतो नापहारशङ्का कार्यत्यर्थः॥

  यदुक्तम् 'स्मर्यते तनुभृताम्' इत्यादिना समाचारः प्रमाणमिति तत्रोत्तरमाह-

यदि प्रमाणीकृतमार्यचेष्टितं किमि[३१९]त्यदोषेण तिरस्कृतां वयम् ।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥११॥

  यदीति ॥ आर्यचेष्टितं सच्चरितं प्रमाणीकृतं यदि । साधुत्वेनाङ्गीकृतं यदीत्यर्थः । तर्ह्यदोषेण दोषाभावेऽपि । 'क्वचित्प्रसज्य प्रतिषेधेऽपि नञ्समासः' इति भाष्यकारः । उपलक्षणे तृतीया। वयं किमिति तिरस्कृताः । न युक्तमित्यर्थः । हि यस्मात्परिवा- दगोचरं परनिन्दास्पदमायातपूर्वा सतां वाणी गुणमेव भाषते न दोषम् । अतस्ते मृषा- दोषभाषिणो न सदाचारप्रामाण्यवुद्धिरिति भावः । पूर्वं न यातेत्ययातपूर्वा। सुप्सुपेति समासः। परत्वात्सर्वनाम्नो निष्ठायाः पूर्वनिपातः। 'स्त्रियाः पुंवत्' इत्यादिना पुंवद्भावः पूर्वलिङ्गता च । अर्थान्तरन्यासः ।।

  नन्वप्रत्यक्षा परबुद्धिः कथं दुष्टेति निश्चीयते । तत्राह-

गुणापवादेन तदन्यरो[३२०]पणाद्भृशा[३२१]धिरूढस्य समञ्जसं जनम् ।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥१२॥


  गुणेति । गुणापवादेन विद्यमानगुणापह्नवेन तदन्यरोपणात्तस्माद्गुणादन्यस्य दोषस्याविद्यमानस्यैवारोपणाच्च समञ्जसं जनं सुजनं भृशाधिरूढस्यातिमात्रमाक्रम्य स्थितस्य अभिक्षिप्तस्येत्यर्थः । कर्तरि क्तः। निगृहतो हृदयं संवृण्वतोऽप्यसाधोरनार्यस्य हृदयं कर्म स्फुरन्विलसन्वागेवासिर्द्धिधा कृत्वा भित्त्वेव विवृणोति । अतिदुष्टया वाचै- वैतत्पूर्विकाया बुद्धेरपि दौष्टयमनुमीयत इति भावः । वागसिरित्यत्र रूपकं द्विधाकरण- रूपकसाधकम् ॥

  यदुक्तम् 'अभ्यधानि' इति, तत्रोत्तरमाह-


वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥१३॥

  वनेति ॥ वनाश्रया अत एव मृगाः कस्य परिग्रहाः । न कस्यापीत्यर्थः । किंतु यस्तान्मृगान्प्रसभेन बलात्कारेण शृणाति हिनस्ति । 'शॄ हिंसायाम्' इति धातोर्लट् । ते मृगास्तस्य हन्तुः परिग्रहाः परिग्राह्याः । हन्ता चाहमेवेति भावः । ननु ममायमित्य- भिमानान्नृपस्य स्वत्वमित्याशंक्याह:-अत्रेति । अत्र मृगे नृपेण मानिता ममेत्यभिमानः प्रहीयतां त्यज्यताम्। कुत इत्याशङ्ग्याभिमानमात्रेण स्वत्वाभावादित्याह-नेति। मानिता चास्ति । श्रियः स्वानि च भवन्तीति न । किंतु न भवन्त्येव । सत्यामभि- मानितायामित्यर्थः । अभिमानमात्रेण स्वत्वेऽतिप्रसङ्गादिति भावः ॥

  'यष्टुमिच्छसि पितॄन्' इत्यादिना यन्निष्कारणमवधीरित्युपालम्भि तत्रोत्तरमाह-

न वर्त्म कस्मैचिदपि प्रदीयतामिति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृ [३२२] गो व्रताभिरक्षा हि सतामलंक्रिया। ॥१४॥

  नेति ॥ कस्मैचिदपि वर्त्म न प्रदीयतामित्येवं व्रतं महर्षिणा व्यासेन मे मह्यं विहितम्। उपदिष्टमित्यर्थः। अस्मात्कारणाज्जिघांसुर्हन्तुमिच्छुरापतन्नभिधावन्नयं मृगो मया निहतः । हि यस्माद्व्रताभिरक्षा सतामलंक्रिया । न तु दोषः । अत आत्मरक्षणार्थमस्य वधः। न निष्कारणमित्यर्थः॥

  'दुर्वचं तत्' इत्यादिना यत्संजातं बन्धुत्वमुक्तं तत्राचष्टे--

मृगान्विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः।
कृ[३२३]पेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः॥१५॥

  मृगानिति ॥ स्वमात्मैव हेतुस्तेन स्वहेतुना । स्वार्थमित्यर्थः । 'सर्वनाम्नस्तृतीया च' इति तृतीया । मृगान्विनिघ्नन्प्रहरन् । मृगान्यातीति मृगयुर्व्याध:। 'मृगयुर्व्याधश्च' इत्यौणादिको युप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवी मृगयुर्लुब्धकोऽपि सः' इत्यमरः । तप इच्छतां तपस्विनां कथं कृतोपकारः । न कथंचिदित्यर्थः । अथ कृपेति


चेत् । व्याधस्यापीति शेषः । अस्तु । किं शुष्ककलहेनेति भावः। परंतु यदुक्तम् 'निघ्नतः परनिवर्हितम्' इत्यादिना तस्य प्रथमप्रहर्तृत्वं तदयुक्तमित्याह-मृगःक्षणात्क्षतः। आवाभ्यां युगपदेव विद्ध इत्यर्थः । एवं सत्यनेन नृपेणैव पूर्वं हतो मया तु नेत्यत्र का गतिः किं प्रमाणम् ।पौर्वापर्यस्य दुर्लक्ष्यत्वादिति भावः। तथा च यदुक्तम् 'व्रीडितव्यम्' इत्युपालम्भस्तस्यैव किं न स्यादिति भावः ॥

  'पूर्व कृपेति चेदस्तु' इत्युक्तम् । संप्रति तदप्यसहमान आह--

अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥१६॥

 अनायुध इति ॥ अनायुधे निरायुधे सत्त्वेन केनचित्प्राणिना जिघांसिते हन्तुमिष्टे। हन्तेः सन्न्तात्कर्मणि क्तः मुनौ विषये कृपेति वृत्तिर्व्यवहारो महतां महात्मनाम- कृत्रिमाकपटा । सह ज्यया सज्य: सायको यस्मिंस्तच्छरासनं धनुर्विभ्रति दधति भयि स नृपः कथं कृतानुकम्पो मया प्रतीयते ज्ञायते । इणः कर्मणि लट् । अक्षमे कृपा विहिता । न तु क्षम इत्यर्थः ॥

  अथ कृपामभ्युपगम्याह-

अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः॥१७॥

  अथो इति ॥ अथो प्रश्ने । 'मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ' इत्यमरः । तेन नृपेण मदर्थं यथा तथा । अर्थेन सह नित्यसमासः । शर उज्झितस्त्यक्तस्तस्योज्झितस्य फलं च प्रतिकायस्य प्रतिपक्षस्य साधनं वधः। 'साधनं निर्वृतौ मेढ़े सैन्ये सिद्धौ वधे गतौ' इति विश्वः । अविक्षतेऽखण्डिते तत्र तस्मिन्फले मयात्मसात्कृते स्वाधीनीकृते सति । 'तदधीनवचने' इति सातिप्रत्ययः । चमूपतेरधिका कृतार्थता साफल्यं ननु खलु । स्वायुधस्य परत्राणशत्रुवधपात्रप्रतिपादनायैकहेलया सिद्धेरित्यर्थः । तथाप्ययं शरलोभ इति कृपालुताया मूलान्यपि निकृन्ततीति भावः ॥

 'मार्गणैरथ तव प्रयोजनम्' इत्यादिना यदुक्तं तन्निराचष्टे-

यदात्थ कामं भवता स याच्यतामिति क्षमं नैतद[३२४]नल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः परावनत्या मलिनीकृताः श्रियः ॥१८॥

  यदिति ॥ स नृपः कामं भवता याच्यतामिति यदात्थ । मामिति शेषः। एतदनल्प- चेतसां मनस्विनां न क्षमं न युक्तम् । कुत्तः। प्रसह्य बलादाहरणैषिणामाहर्तुमिच्छूनाम्। 'क्षत्रियस्य विजितम्' इति स्मरणादिति भावः। परावनत्या याच्ञादैन्येन मलिनीकृताः श्रियः कथं प्रियाः। न कथंचिदित्यर्थः ॥


  अथ परेङ्गितमुद्धाट्य भयं दर्शयति-

अभूतमासज्य विरुद्ध[३२५]मीहितं बलादलभ्यं तव लिप्सते नृपः।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥१९॥

  अभूतमिति ॥ तव नृपोऽभूतमनृतमासज्य । मिथ्याभियुज्येत्यर्थः । 'युक्ते क्ष्मादावृते भूतम्' इत्यमरः।अलभ्यं लब्धुमशक्यं विरुद्धं विपरीतफलकमीहितं मनोरथं बलाल्लिप्सते लब्धुमिच्छति। न चैतच्चित्रमित्याह-हि यस्मादनयस्य दुर्नयस्य रौद्रतां भयंकरत्वं विजानतोऽपि पुरुषस्य मतिर्बुद्धिरपाये विनाशकाले परिमोहिनी भवति । परिमुह्यतीति परिमोहिनी । संपृचादिसूत्रेण ताच्छील्ये घिनुण्प्रत्ययः । प्रायेण विनाशकाले विपरीतबुद्धिर्भवतीति भावः ।।

  अथ सर्वथा लभ्यस्ते शरस्तर्हि किमनेन । सुष्ठु विश्रब्धं याच्यतां शरोऽन्यद्वेत्याह-

असिः शरा वर्म धनुश्च नोच्चकैर्विवि[३२६]च्य किं प्रार्थितमीश्वरेण ते ।
अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥२०॥

  असिरिति । असिः खड्ग: शरा वर्म कवचमुच्चकैरुत्कृष्टं धनुश्च धनुर्वा ते तवेश्वरेण स्वामिना विविच्यैकैकशो विभज्य किं न प्रार्थितं न याचितम् । येन प्रयोजनं तद्दास्यामीति भावः । नपुंसकैकशेषः । अथास्य वीराभिमानिनो नृपस्य शक्तिरस्ति । चेदिति शेषः। याच्ञया कृतमेवालमेव । साध्याभावान्न याचितव्यमेवेत्यर्थः । गम्यमानक्रियापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । कृतमिति निषेधार्थमव्ययम् । यतः शक्तिमतां स्वयंग्रहो बलाद्ग्रहणं न दूषितः । किंतु भूषणमेव वीराणामिति भावः ॥

  'राघवप्लवगराजयोरिव' इत्यादिनोपदिष्टं सख्यं प्रत्याचष्टे---

सखा स युक्तः क[३२७]थितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥२१॥

  सखेति ॥ स नृपः कथं त्वया युक्तो योग्यः सखा कथितः । न कथंचित्कथनीय इत्यर्थः।कुतः। यो नृपस्तपस्यते तपश्चरते । अनपराधिन इत्यर्थः।'क्रुधद्रुह-' इत्यादिना संप्रदानत्वाच्चतुर्थी । यदृच्छया स्वैरवृत्त्या । 'यदृच्छा स्वैरिता' इत्यमरः । अस्यत्यसूयां करोति । 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरः । प्रत्युत शत्रुरेवायमित्या- ह-हि यस्माद्गुणानामर्जने य उच्छ्राय उत्कर्षस्तस्य विरुद्धा विमुखा बुद्धिर्येषां ते तथा साधवो दुष्टाः सतां सज्जनानां प्रकृत्यमित्राः प्रकृत्या शत्रवः 'द्विड्विपक्षाहितामित्रदस्यु- शात्रवशत्रवः' इत्यमरः॥


  हीनजातिवृत्तित्वात्सख्यानर्हः स इत्याह-

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥२२॥

  वयमिति ॥ वर्णाश्रमरक्षणोचिता विशुद्धवृत्तयो वयं राजानः क्व । जातिहीना मृग- जीवितच्छिदो हिंसाजीविनो व्याधाः क्व । फलितमाह-अपकृष्टैरुक्तरीत्या जात्या वृत्त्या च निकृष्टैः सह महतां ताभ्यामेवोत्कृष्टानां संगतं सख्यं न । घटत इति शेषः । तथा हि । दन्तिनो गजा गोमायूनां शृगालानां सखायो गोमायुसखा न भवन्ति । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥' इत्यमरः । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥

  नीचसख्यं कथमधिक्षिप्यत इति चेत्तत्राह-

परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥२३॥

  पर इति ॥ अज्ञताजडो मोहान्धः परोऽवजानाति यत्तदवज्ञानमुन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । विकारं जनयतीत्यर्थः । क्रोष्टेव सिंहस्येति भावः । किं तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः । कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेदसौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥

  तर्हि नीचे कीदृशी वृत्तिरित्याशङ्क्य सोपपत्तिकमाह--

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥२४॥

  यदेति ॥ यदा विगृह्णाति विरुणद्धि ! पृथग्जनेनेति शेषः। तदा यशो हतं नाशितं भवेत् । अथ मैत्रीं करोति तदा गुणा दूषिताः।भवेयुरिति शेषः। इत्युभयथा स्थितिं समीक्ष्य प्रतर्क्य विमृष्य परीक्षको विवेचकः पृथग्जनं नीचजनमवज्ञयानादरेणोपहतं तिरस्कृतं करोति । उपेक्षत इत्यर्थः ॥

  उपसंहरन्नाह-

मया मृगान्हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥२५॥

  मयेति ॥ अनेन हेतुना संधिविग्रहानर्हत्वेन कारणेन मया मृगान्हन्तुर्व्याधस्य संबन्धि। हन्तेस्तन्प्रत्ययः । अतएव 'न लोक-'इत्यादिना षष्ठीप्रतिषेधः। विरुद्धमतिपरु षमाक्षेपवचस्तिरस्कारवचनं तितिक्षितं सोढम् । ननु सख्यानङ्गीकारे बलाच्छरं ग्रहीष्यती- त्याशंक्याह-शरेति । अथ शरार्थमेष्यति दृष्टौ विषं यस्य तस्माद्दृष्टिविषात्सर्प- विशेषाच्छिरोमणिं जिघृक्षतो ग्रहीतुमिच्छतो गतिं दशां लप्स्यते प्राप्स्यति ।।

इतीरिताकूतमनीलवाजिनं जयाय दूतः प्र[३२८]तितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ २६ ॥

  इतीति ॥ इतीत्थमीरिताकूतमुक्ताभिप्रायमनीलवाजिनं श्वेताश्वमर्जुनं दूतो जयाय तेजसा प्रतापेन प्रतितर्ज्य । अस्मानजित्वा क्व गमिष्यसीति भीषयित्वेत्यर्थः । ध्वजि- नीमुपेयुषः सेनासंगतस्य प्रसन्नरूपस्य । अर्जुनं प्रतीति शेषः । विरूपचक्षुषस्त्र्यम्बकस्य समीपं ययौ ।

ततोऽपवादेन पताकिनीपतेश्वचाल निर्हादवती महाचमूः।
युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधिवीचिसंहतिः ॥२७॥

  तत इति ॥ ततः पताकिनीपतेः सेनापतेरपवादेनादेशेन ! 'अपवादोऽप्यथादेशः' इति सज्जनः । निर्हादवती शब्दवती महाचमूः सेना युगान्तवातैरभिहता आन्दोलिता अत एव निनादं कुर्वत्यम्भोनिधिवीचिसंहतिरर्णवोर्मिसमूह इव चचाल ॥

रणाय जै[३२९]त्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितके[३३०]तुसंततिः।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥२८॥

  रणायेति ॥ जेतैव जैत्रो जयनशीलः । अनुकूल इत्यर्थः । जयतेस्तृन्नन्तात्मज्ञादि- स्वात्स्वार्थेऽण्प्रत्ययः। तरङ्गितं संजाततरङ्गं यथा तथालम्बिता अवस्थिताः केतुसंततयो येन सः। सह धनैः सान्द्रैरम्बुशीकरैः सघनाम्बुशीकरः सुरभिः सुगन्धः समीरणो वायू रणाय त्वरां प्रदिशन्निव स्वरयन्निव बलानां सैन्यानां पुरोऽग्रे शनैः प्रतस्थे प्रस्थितः । ववावित्यर्थः ॥

जयारवक्ष्वेडितनादमूर्च्छितः शरासनज्यातलवारणध्वनिः ।
असंभवन्भूधरराजकुक्षिषु प्रकम्पयन्गामवतस्तरे दिशः ॥ २९ ॥

  जयेति॥जयारवैर्बन्दिनां जयजयेतिशब्दैः क्ष्वेडितनादैः सिंहनादैश्च भूर्च्छितो वर्घितः शरासनज्यानां धनुर्गुणानां तलवारणानां ज्याघातवारणानां च ध्वनिर्भूधरराजकुक्षिषु, गिरिगुहास्वसंभवन्नमान्।अवकाशमलभमान इत्यर्थः।अत एव गां भुवं प्रकम्पयन्। एतेन बलानां बाहुल्यमुक्तम् । दिशोऽवतस्तरे व्यानशे । 'ऋतश्च संयोगादेर्गुणः। अत्र मूर्च्छापदार्थस्य विशेषणगत्वासंभवनहेतुत्वात्काव्यलिङ्गरूपम्। गिरिकुक्षि- रूपापेक्षया ध्वनेराधेयस्याधिक्योक्तेरधिकालंकारश्च । तेभ्यश्चेयमसंभवन्निति व्यञ्जकं विनोत्थाप्यमानोपात्तमूर्च्छागुणनिमित्ता प्रतीयमाना क्रियोत्प्रेक्षा। तैरङ्गाङ्गि- भावेन संकीर्यत इति संकरः ॥


निशातरौद्रेषु वि[३३१]कासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् ।
वनेसदा हेतिषु भिन्नवि[३३२]ग्रहैर्विपुस्फुरे र [३३३] श्मिमतो मरीचिभिः ॥३०॥

  निशातेति ॥ निशातास्तीक्ष्णा अतएव रौद्रा भीषणांश्च ये तेषु निशातरौद्रेषु । विशेष्यविशेषणयोरन्यतरविशेष्यत्वविवक्षायामिष्टत्वाद्विशेषणसमासः । वने सीदन्तीति वनेसदां वनेचराणाम् । 'सत्सूद्विष-'इत्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्य- लुक् । हेतिष्वायुधेषु।'हेतिः शस्त्रेऽपि पुंस्त्रियोः' इति केशवः । भिन्नविग्रहै: संक्रान्त- मूर्तिभिरतं एव विकासतां विसृत्वरतां गतैरत एव ककुभां दिशामन्तरमवकाशं प्रदी- पयद्भिः प्रज्वालयद्भिरिव स्थितैरित्युत्प्रेक्षा । रश्मिमतः सूर्यस्य । 'मादुपधायाश्च मतो- र्वोऽयवादिभ्यः' इति मतुपो मकारस्य न वकारः। मरीचिभिः करैः । 'भानुः करो- मरीचिः स्त्रीपुंसयोः' इत्यमरः । विपुस्फुरे बभासे । स्फुरतेर्भावे लिट् ॥

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयमायतं बभौ विभुर्गुणानामुपरीव मध्यगः ॥३१॥

  उदूढेति ॥ उदूढेनोन्नतेन वक्षसा स्थगितमाच्छादितमेकमेकतरं दिङ्मुखं येन सः। विकृष्टमाकृष्टमत एव विस्फारितं निघर्वेषितं चापमण्डलं येन स विभुः शिवः। आयतं विस्तृतं पक्षद्वयं पार्श्वद्वयं वितत्य स्वमहिम्ना व्याप्य । 'पक्षः साध्यगरुत्पार्श्वसहाय- बलभित्तिषु' इति वैजयन्ती । गुणानां मध्यगो मध्यस्थोऽप्युपरि स्थित इव बभौ । सर्वोन्नतत्वात्तथा लक्षित इत्यर्थः ॥

सु[३३४]गेषु दुर्गेषु च तुल्यविकमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥३२॥

  सुगेष्विति ॥ सुखेन दुःखेन च गच्छन्त्येष्विति सुगेषु सुगमेषु दुर्गेषु दुर्गमेषु च । समविषमदेशेष्वित्यर्थः । सुदुरोरधिकरणार्थे डो वक्तव्यः। अत एव टिलोपः । तुल्य- विक्रमैर्लाघवात्समसंचारैर्जवाद्वेगादहंपूर्विकयाहमहमिकया । अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम्' इत्यमरः । यियासुभिर्यातुमिच्छुभिः । यातेः सन्नन्तादुप्रत्ययः । गणैः प्रमथैः । मनोज्ञादित्वाद्बुञ्प्रत्ययः । पृषोदरादित्वाद्वृद्ध्यभावः । अविच्छेदेन निरुद्धमत एवाकुलाकुलमाकुलसकारम् । 'प्रकारे गुणवचनस्य' इति द्विर्भावः । वनं निरुच्छ्वासं निरुद्धप्राणमिवाबभावित्युत्प्रेक्षा ॥

तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसातिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥३३॥

  तिरोहितेति ॥ किरातसैन्यैस्तिरोहितानि च्छन्नानि श्वभ्रनिकुञ्जरोधांसि गर्तकुञ्जतटानि यासां ताः। अतएच भुवः प्रदेशाः सहसातिरिक्ततामुत्तानतां समश्नुवाना आप्नु-


वत्यः। तथा अपिधायाच्छाद्य रेचिता रिक्तीकृता मुक्ताः क्षणं निम्नतया गाम्भीर्येण भे- जिर इव प्राप्ता इवेत्युत्प्रेक्षा । सैन्यैर्या भुवो व्याप्तास्ता उत्तानाः प्रतीयन्ते । तैर्मुक्तास्ता एव निम्नाः प्रतीयन्त इत्यर्थः ।।

पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितःप्रसारिणी वनान्यवाञ्चीव चकार संहतिः॥३४॥

  पृथ्विति ॥ पृथुभिर्विशालैरूरुभिः सक्थिभिः पर्यस्ताः क्षिप्ता बृहत्यो लताततयो यया सा जवानिलेन वेगमारुतेनाघूर्णिता भ्रमिता शाला: सर्जतरवश्चन्दनानि च यया सा। 'प्राकारवृक्षयोः शाल: शालः सर्जतरुः स्मृतः' इति शाश्वतः। परितः सर्वत्र प्रसारिणी प्रसरणशीला गणाधिपानां संहतिः समूहो वनान्यवाञ्चि-- नीव चकारेत्युत्प्रेक्षा । अवाञ्चत्यधोभवति । अवपूर्वादञ्चते: क्विप् । स्यादवाङप्यधोमुखः' इत्यमरः॥

  अथाष्टभिः श्लोकैरर्जुनं विशेषयन्गणानां तदभियोगमाह-तत इत्यादिना ।

ततः सदर्पं प्रतनुं तपस्यया मदस्त्रुतिक्षाममिवैकवारणम् ।
परिज्वलन्तं निधनाय भू[३३५]भृतां दहन्तमाशा इव जातवेदसम्॥३५॥

  ततः सदर्पं सगर्वं सौन्तःसारं तपस्यया तपश्चर्यया । तपस्यतेः क्यजन्तात्त्रियाम- प्रत्यये टाप् । प्रतनं कृशमत एव मदस्रुत्या मदक्षरणेन क्षामं कृशम् । 'क्षायो मः' इति निष्ठातकारस्य मकारः । एकवारणमेकाकिनं गजमिव स्थितमित्युपमा । पुनः । भूभृतां राज्ञां निधनाय नाशाय परिज्वलन्तं तेजस्विनमत एवाशा दिशो दहन्तं जातवेदसम- ग्निमिव स्थितमित्युपमालंकारः । 'कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्' इत्यमरः ।।

अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् ।
'शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ ३६ ।।

  अनादरेति ॥ पुनश्च । अनादरेणावगणनयोपात्तो निषङ्गादुद्धृतो धृतश्चैकः सायको येन तं तथानुकूले सुहृदीव जये सस्पृहं जयमिच्छन्तमित्यर्थः । पुनश्च । अपूर्णो न्यूनः प्रतिकारो बाणाहरणप्रत्यर्पणरूपो यस्य सः । अत एव पेलेवो लघुस्तस्मिन्नपूर्णप्रति- कारपेलवे बलोदधौ सेनासमुद्रे शनैरसंभ्रमेण नयने दृष्टी निवेशयन्तमिति वीरस्वभावोक्तिः । बलमुदधिरिवेत्युपमितसमासः। 'पेषवासवाहूनधिषु च' इत्युदकस्यो- दादेशः ॥

निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकतावपि स्थितं निवातनिष्कम्पमिवापगापतिम्॥३७॥

  निषण्णमिति ॥ पुनश्च । आपदां प्रतिकारस्य कारणे साधनेऽनपायिनि स्थिरे शरा-


सन् एवंभूते धैर्य इव निषण्णं स्थितं प्रकृतौ स्वभावे स्थितमपि । निर्विकारमपीत्यर्थः। अत एवालङ्घनीयमनतिक्रमणीयमत एव निवातनिष्कम्पं वाताभावान्निश्चलम् । 'निवातावाश्रयावातौ' इत्यमरः । आपगापतिं समुद्रमिव स्थितम् ॥

उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दं[३३६]ष्ट्रिणः ।
पुरः स[३३७]मावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥३८॥

  उपेयुषीमिति ॥ पुनश्च । अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य । ब्रीह्यादित्वादि- निप्रत्ययः । बधाद्धेतोरुपेयुषीं प्राप्तामन्तकस्येव यमस्येव द्युतिस्तां विभ्रतं धारयन्तम् । तथा च द्विजैर्ब्राह्मणैरध्वरे यज्ञे । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । हूतमाहूतं पुरोऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तं पशूनां पतिं रुद्रमिव स्थितम् ॥

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव धनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥३९॥

  निजेनेति॥पुनश्च।निजेन नैसर्गिकेण भूयसा बहुलेन धैर्यमेव गुणस्तेन विजितमन्येषां गौरवं गाम्भीर्यं यस्मिन्कर्मणि तथा गभीरतां दुरवगाहत्वं नीतम् । अत एव घनाः सान्द्रा उरवश्च महत्यो वीरुधो लताश्च यस्मिम्स्तेन घनोर्रुवीरुधा वनोदयेनारण्यप्रादुर्भावेन समन्धकारीकृतं दुरवगाहीकृतमुत्तमाचलमिव स्थितम् । समन्ततोऽन्धकारो यस्य स इति विग्रहः ॥

महर्षभस्कन्धमनूनकंधरं बृ[३३८]हच्छिलावप्रघनेन यक्षसा।
समुज्जिहीर्षुम् जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥४०॥

  महर्षभेति ॥ महर्षभस्य महावृषभस्य स्कन्ध दव स्कन्धावंसौ यस्य तम् । उपमानपूर्वपदत्वादुत्तरस्कन्धलोपः । 'ऋषभो वृषभो वृषः' इत्यमरः । 'स्कन्धो भुजशिरोंऽसोऽस्त्री' इत्यमरः । अनूनकंधरं स्थूलग्रीवम् । 'अथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः। बृहच्छिलावप्रं महाशिलातटं तद्वद्धनेन कठिनेन वक्षसोपलक्षितम् । महाभरां दुष्टैरतिभारवतीं जगतीं महीं समुज्जिहीर्षुम् दुष्टराजकार्णवात्समुद्धर्तुमिच्छुम् । अत एव महत्तोऽर्णवाज्जगतीं समुज्जिहीर्षमुक्तविशेषणविशिष्टं च महावराहमिव स्थितम् । अर्थ- साधर्म्यादियमुपमा, न श्लेषः । शब्दमात्रसाधर्म्येण तस्य विधानादिति रहस्यम् ॥

हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥४१॥

  हरिदिति ॥ पुनश्च । हरिन्मणिश्यामं मरकतमणिश्यामलमुदग्रविग्रहमुदारमूर्ति देहिनः सत्त्वान्परिभूय तिरस्कृत्य प्रकाशमानम् । जलमेवादर्शो मुकुरस्तसिन्नंशुमालिनं


सूर्यमिव । मनुष्यभावे मनुष्यरूपे स्थितं पुरातनं पुरुषम् । यो बदरीतपोवननिवासी नारायणसहचरो नरो नाम स एवायमित्यर्थः ।।

गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं त[३३९] पात्यये तोयघना घना इव ॥ ४२ ॥

  गुर्विति ॥ गुरुभिः क्रियारम्भाणां फलैरलंकृतम् । सफलकर्मारम्भमित्यर्थः । जगत्प्र- माथिनो जगद्विजयिनः प्रतापस्य तेजसो गतिं स्थानम् । अतोऽस्य बहूनामेकलक्ष्यत्वं च युज्यत इति संदर्भाभिप्रायः । पूर्वोक्तविशेषणविशिष्टमनीलवाजिनं श्वेताश्वमर्जुनं गणाः प्रमथास्तपात्यये तोयघनास्तोयभरिताः । वार्षिका इत्यर्थः। घना मेघा इव । महाचलमिति शेषः । समासेदुः । अवापुरित्यर्थः ।।

यथास्वमाशंसितविक्रमाः पुरा मुनिप्र[३४०]भावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमू[३४१]ढतां महानुभावः प्र[३४२]तिहन्ति पौरुषम् ॥४३॥

  यथास्वमिति ॥ पुरा पूर्वं स्वं स्वमनतिक्रम्य यथास्वमहमेवैनं जेष्यामीत्याशंसिताः काङ्क्षिताः कथिता वा विक्रमा यैस्ते परे शत्रवो मुनिप्रभावात्क्षततेजसो हतप्रभावाः सन्तः क्षणात्प्रतिपत्तिमूढतामज्ञानमोहान्धतां ययुः । तथा हि । महानुभावोऽतिप्रतापः पौरुषं पुरुषस्य चेष्टितं प्रतिहन्ति नाशयति ॥

ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
[३४३]होदयानामपि संघवृत्तितांसहायसाध्याः प्रदिशन्ति सिद्धयः॥४४॥

  तत इति ॥ तत एकैकस्याशक्तावपेक्षिता वाञ्छितान्योन्यबलोपपत्तिरन्योन्यशक्त्य- वष्टम्भो यैस्तैः प्रमथैस्तत्रार्जुने । क्रियाधारत्वात्सप्तमी । समं युगपदेव प्रजह्रे प्रहृतम्। भावे लिट् । तथा हि । सहायसाध्याः सिद्धयः कार्यसिद्धयो महोदयानां महानुभा- वानामपि संघेन वृत्तिर्व्यापारो येषां तेषां भावस्तत्ता तां संघवृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं न दोष इति भावः ॥

किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः।
महावनादुन्मनसः खगा इव प्रवृत्तपत्रध्वनयः शिलीमुखाः ॥४५॥

  किरातेति ॥ उरुभिर्बृहद्भिश्चापैर्नोदिताः प्रक्षिप्ता उपात्तरंहसः प्राप्तवेगाः प्रवृत्तपत्रध्वनयः संजातपक्षस्वनाः शिलीमुखा बाणाः। महावनादुन्मनसः क्वापि गन्तुमुत्सुकास्तथोक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव । किरातसैन्यात्समं समन्ततः समुत्पेतुः।

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरु[३४४]न्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभि[३४५] द्यमाना इव दध्वनुर्दिशः ॥४६॥


  गभीरेति ॥ गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रतिस्वनास्तैर्भृशमुन्न- मितेनोत्थापितेन दीर्घीकृतेन जवादुपेयुषा प्राप्तवता धनुषां निनादेन दिशो विभिद्यमाना विदीर्यमाणा इव दध्वनुर्ध्वनिं चक्रुः॥

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥४७॥

  विधूनयन्तीति ॥ भूरुहां गहनानि वनानि । 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । विधूनयन्ती कम्पयन्ती तिरोहितानि च्छादितान्युपान्तानि प्रान्तानि नभोऽन्तरीक्षं दिगन्तराणि च यया सा गणमार्गणावलिः प्रमथशरसंहतिरनिलेन वायुनेरिता प्रेरिता महीयसी दृष्टिरिव रवं वितेने विस्तारयामास ॥

त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥४८॥

  त्रयीमिति ॥ ऋतूनां त्रयीं षण्मासान् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । अनिलाशिनो वायुभक्षकस्य । कृशस्येत्यर्थः। सतस्तथापि रणाय रणं कर्तुं प्रहृष्यत उत्सहमानस्य। 'क्रियार्थो-' इत्यादिना चतुर्थी । जिष्णोरर्जुनस्य वपुषि पोषमुपचयं प्रयाति गच्छति सति शिथिलेन । प्रथममिति शेषः। वर्मणा कवचेन विदुषेवानन्तरकरणीयं जावतेवेत्युत्प्रेक्षा । सत्वरं शीघ्रं घनत्वं दृढत्वमीये प्राप्तम् । अन्यथानुपयोगादिति भावः । इणः कर्मणि लिट् ।।

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिविनिपातशं[३४६]सिनी ॥४९॥

  पतस्विति ॥ शस्त्रेषु रोदसी द्यावापृथिव्यौ । 'द्यावापृथिव्यौ रोदस्यौ' इत्यमरः । समन्ततो वितत्य व्याप्य पतत्सु सत्सु धनुर्दुधूषतः कम्पितुमिच्छतः। आस्फालयत इत्यर्थः । धूञ: सन्नन्ताच्छतृप्रत्ययः । 'स्वरतिसूतिसूयतिधूञूदितो वा' इति विकल्पा- दिडभावः । तस्यार्जुनस्य संबन्धिनी । भीषयत इति भीषणा । नन्द्यादित्वाल्ल्यु:। विनिपातशंसिनी विनाशसूचिका दृष्टिरुक्तविशेषणोल्केव बलेषु सरोषं यथा तथा पपात ॥

दिशः समूहन्निव विक्षिपन्निव प्रभां रवेरा[३४७]कुलयन्निवानिलम् ।
मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ॥५०॥

  दिश इति ॥ क्षयकालः कल्पान्तकाल इव । 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त- इत्यपि' इत्यमरः । दारुणो रौद्रो मुनिरर्जुन इषुभिर्बाणैर्दिशः समूहन्निवैकत्र समाहरन्निव। अन्यथा तासां पारदर्शनं न स्यादिति भावः । रवेः प्रभा विक्षिपन्निवाधःप्रक्षिप-


न्निव।अन्यथा सा कथं न दृश्यत इति भावः। तथानिलं वायुमाकुलयन्निषुभिरन्तराल आघूर्णयन्निव । तस्य तथा गतिविधातादिति भावः । सशैलां क्षितिं चलयन्निव कम्पयन्निव । तथा संक्षोभादिति भावः । चचाल गतिमकरोत् । सर्वत्रेवशब्द उत्प्रेक्षायाम् ॥

विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः ।
[३४८]निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥५१॥

  विमुक्तमिति ॥ आशंसितः काङ्क्षितः शत्रुनिर्जयो यैस्तैः । अहमहमिकया शत्रुं विजिगीषद्भिरित्यर्थः । वनेचरैरेकावसरं समकालम् । अत्यन्तसंयोगे द्वितीया । विमुक्तं प्रयुक्तमनेकं बहु आयुधम् । जातावेकवचनम् । सोऽर्जुनः क्रियाफलमतिपा- तितोऽतिक्रान्तः काल इव । अतिक्रान्तकालस्य कर्मणो निष्फलत्वादिति भावः । अन्तरा मध्ये शरैर्निजघान ॥

गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः।
भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥५२॥

  गतैरिति ॥ पाण्डुनन्दनोऽर्जुनः परेषामविभावनीयतां लघुप्रयोगादन्यत्र गूढप्रयोगा- च्चादृश्यतामप्रकाश्यतां च गतैर्विपदमनर्थं निवारयद्भिर्विदूरगैर्दूरलक्ष्यगैः परमण्डल- प्रविष्टैश्च बृहत्फलैरायताग्रैर्महालाभैश्च । 'फलं बाणाग्रलाभयोः इति शाश्वतः। शरैरुपायैः सामादिभिरिव भृशमुपचितः प्रवृद्धो बभूव । अत्र शब्दमात्रसाधर्म्यात्- प्रकृतात्प्रकृतश्लेषः । उपमेति केचित् ॥

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादु[३४९]त तिग्मतेजसः।
सकृद्विकृष्टादथकार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥५३॥

  दिव इति ॥ शरा दिवोऽन्तरिक्षात्पृथिव्या भूगोलाद्वा ककुभां मण्डलान्नु दिशां मण्डलाद्वोत तिग्मतेजसोऽर्कस्य बिम्बान्मण्डलाद्वाथवा सकृद्विकृष्टात्कार्मुकाद्वा मुनेः शरीराद्वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः।अन्यथा कथममी विश्वमन्तर्धाय शराः संभाव्यन्त इति भावः । अत्र सर्वतः शरसंपातदर्शनात्संभावनया पृथिव्यादीनामन्यतमस्यापादानत्वोत्प्रेक्षा । सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । नुशब्दादयस्तु संशये ॥

गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ॥५४॥

  गणेति ॥ मर्मविदारणैरपि । मर्मस्थानान्येव विदारयद्भिरपीत्यर्थः। गणाधिपानां


परासुतां मरणमविधायाकृत्वा निर्गतैः। तेषाममर्त्यत्वादिति भावः । तस्य मुनेः पत्रिभिः शरैः कृतापराधैरिव स्वामिकार्याकरणात्सापराधैरिवेत्युत्प्रेक्षा। अधोमुखैः सद्भिर्जवाद्धिमवानतीयेऽतिचक्रमे । तत्र प्रविष्टमित्यर्थः । लज्जितस्य क्वचिन्निलयनमु- चितमिति भावः॥

द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं म[३५०]हतां ह्यगोचरः ॥५५॥

  द्विषामिति ॥ प्रथमे । प्रथममुक्ता इत्यर्थः । शिलीमुखा मुनिशरा द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीः प्रहारांश्चक्रिरे । तासु क्षतिषु पुनः पश्चात्प्रयुक्तैर्मु- नेर्विशिखैर्न पेते न पतितम् । पिष्टपेषणदोषापातादिति भावः । तथा हि । अरुंतु- दत्वं पीडितपीडनं सतामगोचरोऽविषयं हि । सन्तः पीडितपीडां न कुर्वन्तीत्यर्थः । 'न हन्याद्व्यसनप्राप्तं नार्तं नातिपरिक्षतम्' इति निषेधस्मरणादिति भावः। अरुर्व्रणं तुदतीति अरुंतुदः।'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः ॥

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुमापतेश्चमूम् ॥५६॥

  समुज्झितेति ॥ यावन्तोऽरातयो यावदराति । 'यावदवधारणे' इत्यव्ययीभावः । यावदराति यथा तथा समुज्झितारातिसमसंख्यया भुक्ता मुनिचापात्सह संभूयैव निर्यती निष्क्रामन्ती । तादृक्तस्य कौशलमिति भावः । यातेः शतरि ङीप् । मुनिबाण- संहतिरुमापतेश्चमूं हिमांशोः प्रभा पङ्कजावलिमिव संकोचं निनाय प्रापयामास । दुहादिपाठान्नयतिर्द्विकर्मकः ॥

अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥५७॥

  अजिह्ममिति ॥ अजिह्मं स्वरूपतो गत्या वावक्रम् । अन्यत्र तु जिह्मस्थानप्रवृत्तो न भवतीत्यजिह्मस्तम् । ओजिष्ठमोजस्विनं सारवत्तमं तेजिष्ठं च । उभयत्राप्योजस्विशब्दा- द्विन्यन्तादिष्ठन् । 'विन्मतोर्लुक्' इति लुक् । टिलोपश्च । अमोधमवर्न्ध्यमक्लमं निरन्तरव्यापारेऽप्यश्रान्तं बह्वीषु क्रियासु च्छेदनभेदनपातनादिकर्मसु पृथग्भेदेन नियोजितम्। कर्मानुगुण्येन विनियुक्तमित्यर्थः । अस्य मुनेः शरौघमुत्साहमौत्सुक्यमिव । वीररसस्य स्थायिभूतं प्रयत्नविशेषमिवेत्यर्थः । सादिताः कर्षिता विद्विषः शत्रवः सादयितुं प्रतिकर्तुं न प्रसेहिरे न शेकुः । तस्योत्साहवदेव शरवर्षं दुर्धर्षमभूदिति भावः ॥


शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रेषुमयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥५८॥

  शिवेति ॥ अनेकदेशगा नानादेशस्थाः शिवध्वजिन्यो हरसेनाः। उग्रेषवो मयूखा इवेत्युपमितसमासः।अन्यत्र तूग्रेषव इव मयूखा इति मयूरव्यंसकादित्वात्समासः। तेषां मालास्यास्तीति तमुग्रेषुमयूखमालिनम् । वीह्यादित्वादिनिः । एकदेशस्थमेकत्रैव स्थितं तं मुनिमर्कं प्रजा इव युगपत्प्रतियोधं योधस्य योधस्य । 'अव्ययं विभक्ति-' इत्यादिना प्रत्यर्थे वीप्सायामव्ययीभावः । अग्रतः स्फुरन्तं निदध्युर्ददृशुः। यथैकोऽर्क एकत्रैव स्थितोऽपि नानादेशस्थानामपि प्रतिपुरुषं ममैवाग्रे वर्तत इति युगपत्प्रतीयते तद्वद्बाणवर्षी मुनिरपि प्रतियोधं तथैव प्रत्यभादित्यर्थः ॥

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता।
विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥५९॥

  मुनेरिति ॥ प्रकोपादमर्षादिव विष्वक्समन्तादायतागच्छतोग्ररंहसा तीव्रवेगेन मुनेः शरौघेणोक्तविशेषणेन । महानिलेन वात्यया निदाघजं ग्रीष्मोत्थं रज इव । विधूनितं व्याहतं तद्वलं प्रमथानां सैन्यं सङ्गिनीमनुबन्धिनीम् । अविच्छिन्नामिति यावत् । भ्रान्तिमनवस्थानमियाय प्राप ।।

  अथ त्रिभिर्विशेषकमाह -तप इत्यादिना ॥

तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥६०॥

  एष मुनिस्तपोबलेन तप:सामर्थ्येन भूयसीर्बह्वीरदृश्यास्तनूरात्मनः शरीराणि विधाय सृष्ट्वेषून्निरस्यति स्वित्क्षिपति किम् । अथवामुष्यास्य मुनेर्मायया विहृतं प्रतिहतं स्वं स्वकीयमिवायुधं प्रतीपं प्रतिकूलमागत्य । प्रत्यावृत्येत्यर्थः । नोऽस्माकं निहन्ति किमु। 'जासिनिप्रहण--' इत्यादिसूत्रेण कर्मणि षष्ठी। शेषाविवक्षायां तु द्वितीया॥

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः।
कथं न्व[३५१]मी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥६१॥

  हृता इति ॥ यद्वा । अस्य मुनेर्गुणैः शान्त्यादिभिर्हृता आकृष्टाः । वशीकृता इति यावत् । भयेन दरेण चा। भयाद्विभ्यत्य एवेत्यर्थः । देवतास्तिरोहिताः सत्यः प्रहरन्ति स्वित् । तत्कुतः । अन्यथा अस्य मुनेरमी सायका जलधेरूर्मय इव कथं नु संततमनेकेऽसंख्या भवन्ति । एतच्चोक्तान्यतम पक्षासंभवे न संभवतीत्यर्थः ॥


जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ॥६२॥

  जयेनेति ॥ कच्चिदयं रणाज्जयेन विरमेत् । अस्माञ्जित्वा कच्चिदयं युद्धमुपसंहरेदित्यर्थः । अपि चराचराय स्वस्ति भवेत्कच्चित् । अपि स्थावरजङ्गमं जगन्न विनश्येदित्यर्थः । अपिशब्दः संभावनायाम्। प्रार्थनायां लिङ् । इति प्रतर्का: पूर्वोक्ता ये वितर्कास्तैराकुलिता विह्वला । अत्र सहेतुकं विशेषणमाह--नृपसूनुमार्गणैरर्जुनबाणैः कीर्णा क्षिप्तां पताकिनी सेना। किरातपतेरिति शेषः। तताप तापं प्राप॥

अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥६३॥

  अमर्षिणेति ॥ अमर्षिणा क्रोधवता क्षमाश्रयं शान्तिसाध्यं कृत्यमिव । यथा मदो- द्धतेन पुंसा हितं प्रियं वचो निरस्तं तिरस्कृतमिव । यथा बलीयसा बलवत्तरेण विधिना दैवेन निरस्तं पौरुषमिव ! बलिष्ठदैवप्रतिहतपुरुषव्यापारस्य निष्फलत्वादिति भावः। तथा जिष्णुनार्जुनेन निरस्तं क्षिप्तं बलं किरातसैन्यं न रराज। मालोपमा।।

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शि[३५२]वबलैः परिमण्डलता द[३५३]धे ॥६४॥

  प्रतिदिशमिति ॥ प्लवगानामधिपोऽधीशो लक्ष्म यस्य तेन वानरचिहेन । 'कपिप्लव- ङ्गप्लवग-' इति, 'चिह्नं लक्ष्म च लक्षणम्' इति चामरः । अर्जुनेन विशिखसंहति- तापितमूर्तिभिरिति विशिखा बाणास्तेषां संहृतयः समूहाः। 'स्त्रियां तु संहृतिवृन्दम्' इत्यमरः । ताभिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथाभूतैः । शरनिकरकर्ति- तकलेवरैरित्यर्थः। शिवबलैः प्रथमसैन्यैः कर्तृभिः रविकरेण ग्लपितैः सूर्यकिरणशोषि- तैर्वारिभिरुदकैरिव प्रतिदिशं दिक्षु परिमण्डलता । परितश्चक्राकारमण्डलतेति यावत् ।" दधेऽधारि।प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः।धाञ: कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः- 'द्रुतविलम्बितम्ग्रह नभौ भरौ' इति लक्षणात् ॥

प्र[३५४]विततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्मीतभी[३५५]ता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥६५॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।


  प्रविततेति ॥ प्रविततानि विस्तृतानि यानि शरजालानि तैश्च्छिन्नमाच्छादित विश्वान्तरालं येन तस्मिञ्छरसमूहपूरितब्रह्माण्डोदरे पाण्डुसूनावत पवाविर्मण्डल- माविर्भूतमण्डलं धनुः । आविर्भूतमिति वृत्तौ भूतार्थस्यानुप्रवेशाद्भूतशब्दस्याप्रयोगः । विधुवति कम्पयत्यास्फालयति सति भीतभीतेव भीतप्रकारेव जयलक्ष्मीर्विजयश्रीः कथमपि केनचित्प्रकारेण। महता कष्टेन वा। विषमनयनसेनापक्षपातं शिवसैन्यानुरागं विहातुं त्यक्तुं विषेहे । शशाकेत्यर्थः । मालिनीवृत्तम् । लक्षणं तूक्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय- काव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्दशः सर्गः समाप्तः ॥


पञ्चदशः सर्गः।


अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः॥१॥

  अथेति ॥ अथानन्तरं तत्र रणे भूतानि सर्वप्राणिनः । वृत्रं हतवानिति वृत्रहेन्द्रः । 'ब्रह्मभ्रूणवृत्रेषु क्विप्'। तस्यापत्यं पुमान्वार्त्रघ्नोऽर्जुनः।'तस्यापत्यम्'इत्यण्प्रत्ययः। तस्य शरेभ्यस्तत्रसुर्बिभ्युः । 'वा जृभ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । सा चमूश्च । इषवोऽस्यन्त एभिरितीष्वासा धनूंषि । 'धनुश्चापोऽस्त्रमिष्वासः' इति हेमचन्द्रः। 'अकर्तरि च कारके संज्ञायाम्' इति करणे घञ् । परित्यक्ता महान्त इष्वासा यया सा। परित्यक्तायुधेत्यर्थः। दिशो भेजे । पलायांचक्र इत्यर्थः । अत्र भूतत्राससेनापलायनयोः समुञ्चयकथनाद्भिन्नविषयः क्रियासमुच्चयोऽलंकारः ।'गुण- क्रियायौगपद्यं 'समुच्चयः' इति सामान्यलक्षणम् । तस्य यमकेन संसृष्टिः॥

अपश्यद्भिरिवेशानं रणान्निववृते गणैः।
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥२॥

  अपश्यद्भिरिति ॥ गणैः प्रमथैरीशानं स्वामिनं शिवम् । पुरोवर्तिनमिति भावः । अपश्यद्भिरिव रणान्निववृते निवृत्तम्। भावे लिट्। तथा हि। कृच्छ्रेष्वापत्सु संभ्रमेण साध्वसेन ज्वलितं तप्तम् ।'संभ्रमः साध्वसेऽपि स्यात्' इति विश्वः । मनो मुह्यत्येवः । अतः पुरोवर्तिनोऽप्यदर्शनमुपपद्यत इति भावः ।।

खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ ३॥

  खण्डितेति ॥खण्डिता ध्वस्ताशंसा जयाशा यस्यास्तया तेषां गणानां संबन्धिन्या तया । अतिसंनिकृष्टयेत्यर्थः । पराङ्मुखतया रणवैमुख्येन । पलायनेनेत्यर्थः। केतौ ध्वजे कृत आरोपित उच्चैरुन्नतो वानरो हनूमान्येन तं नरं पुरुषम् । कपिध्वजमित्यर्थः। कृपा करुणाविवेश । तदीयदुर्दशां दृष्ट्वा स कृपाविष्टोऽभूदित्यर्थः । यमकालंकारः ॥

  ननु शत्रुघु कथं करुणा तत्राह-

आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥४॥

  आस्थामिति ॥ आस्थां यत्नमालम्ब्य। 'आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते' इति विश्वः । वशं नीतेषु क्षुद्रेषु दुष्टेष्वरातिषु शत्रुषु विषयेऽनुकम्पया कृपया महतां वीराणां माहात्म्यं महानुभावत्वं व्यक्तिं स्फुटतामायाति प्राप्नोति । स्वपौरुषनिर्जिते- ष्वरातिष्वपि करुणा भूषणमेव महतामिति भावः ॥

स सासि: सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन ॥५॥

  स सासिरिति ॥ सहासिना वर्तमानः सासिः सखङ्गः असून्सुवन्ति प्रेरयन्तीत्यसुसुवो बाणाः । 'वु प्रेरणे' इति धातोः 'सत्सूद्विष-' इत्यादिना क्विप् । असुसूभि: सह वर्तत इति सासुसूः सबाणः । अस्यन्ते क्षिप्यन्ते शरा अनेनेत्यासो धनुः ।'अकर्तरि च कारके संज्ञायाम्' इति घञ् । आसेन सह वर्तत इति सासः सचापः । सर्वत्र 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। येया यातव्या यानसाध्या:। अयेया अयातव्या यानं विनैव साध्याः। 'अचो यत्' इति यत्प्रत्ययः। येयाश्चायेयाश्च येयायेयास्तेषां द्वयानामाये स्वर्णगजादिलाभे याति प्राप्नोतीति येयायेयाययः । अयः शुभावहदैवं याती- त्यययः । येयायेयाययश्चासावययश्चेति येयायेयाययाययः । याधातोरुभयत्रापि 'आतो- ऽनुपसर्गे कः' इति कप्रत्ययः। अतोललति विलसतीति ललः।'लल विलासे'।पचाद्यच्। अलोलोऽचपलः शशिन ईशः शिवस्तस्य शिशुः स्कन्दस्तं शृणाति हिनस्तीति शशीशशिशुशीः। क्विप् । शशन्प्लुतगतिं कुर्वन् । 'शश प्लुतगतौ' इति धातोः शतृप्रत्ययः । सोऽर्जुनो लीलां शोभां ललौ प्राप । 'ला आदाने' कर्तरि लिट् । एकाक्षरपादः ॥

त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः।
नातिपीडयितुं भन्नानिच्छन्ति हि महौजसः ॥६॥

  त्रासेति ॥ सोऽर्जुनस्त्रासजिह्मं भयक्लिष्टं यथा तथा यतो गच्छतः। पलायमानानित्यर्थः । एतान्गणान्मन्दमेवान्वियायानुजगाम । तथा हि । महौजसो महानुभावा भन्नानतिपीडयितुं नेच्छन्ति ॥

अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥७॥

  अथेति ॥ अथाग्रे। बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्स्मयमानेन साचिस्थितेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः' इत्यमरः। स्थिरकीर्तिना। स्वयमभङ्गत्वादिति भावः । किंचिदीषदायस्तं खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गा- दीषत्खिन्नचित्तेन सेनान्या स्कन्देन । 'पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिर उक्ताः । ओष्ट्यवर्णाभावान्निरौष्ट्यमेतत् ॥

  अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह---मा विहासिष्टेत्यादिना ।।

मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥८॥

  रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः' इत्यमरः । समे रन्तव्यसंयती येषां ते समरन्तव्य- संयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् । यूयं समरं सङ्ग्रामं मा विहासिष्ट न त्यजत । जहातेर्माङि लुङ् । मध्यमबहुवचनम् । क्षुण्णाः पराजिता असुरगणा यैस्तैः। भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यैरिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ॥

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः।
अमी वो मोघमुद्भूर्णा हसन्तीव महासयः ॥९॥

  विवस्वदिति ॥ विवस्वदंशुसंश्लेषेण सूर्यकिरणसंपर्केण द्विगुणीकृतान्युत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थमुद्भूर्णा उद्यताः । 'गुरी उद्यमने' इति धातोः कर्मणि क्तः । वो युष्माकममी महासयः खङ्गा हसन्तीवेत्युत्प्रेक्षा । किं पलायमानानां खङ्गैरिति हासः॥

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् ।
बाणैर्बाणैः स[३५६]मासक्तं शङ्केऽशं केन शाम्यति ॥१०॥

  वन इति ॥ वनसदां वनेचराणामवने रक्षके वने मार्गं मृगसंबन्धिनं मार्गं पन्था- नमुपेयुषाम् । पलायमानानामित्यर्थः । युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः । 'वण संशब्दने' इति धातोर्घञ् । ततो 'अर्शआदिभ्यः' इत्यच्प्रत्ययः । यमकत्वाद्ववयोरभेदः । उक्तं च—'रलयोर्डलयोस्तद्वज्जययोर्बवयोरपि । शसयोर्मनयोश्चान्ते सविसर्गाविसर्गयोः। सबिन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम् ॥' इति । बाणैः शरैः समासक्तं समासञ्जितमशं दुःखं तत्केन शाम्यतीति शङ्के । केनोपायेन शाम्येदिति विचारयामीत्यर्थः ।

पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥११॥


  पातितेति । पातितं भ्रंशितमुत्तुङ्गमाहात्म्यमुन्नतभावो यैस्तैः संहृता आहृता आयता विस्तृताः कीर्ततो यैस्तैः। युष्माभिरिति शेषः । कां गुर्वीमापदं हन्तुम् । न कांचिदपीत्यर्थः । आवृत्तिर्युद्धान्निवृत्तिः। सैव साहसं कृतम् । अतः पापादन्यन्न किंचित्फलमस्तीति भावः । तदुक्तं मनुना---'यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ यञ्चास्य सुकृतं किंचिदमुत्रार्थमुपा- र्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति ।

नासुरोऽयं न वा नागो ध[३५७]रसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो ध[३५८]रणिस्थो हि राजसः ॥ १२ ॥

  नेति ॥ किं च अयमसुरो दैत्यो न । नागो गजो वा पन्नगश्च न । धर इव संस्था यस्य स धरसंस्थः पर्वताकारः। 'अहार्यधरपर्वताः' इत्यमरः। 'संस्था व्यवस्थाप्र- णिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किं त्वयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः। महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नराः' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः-'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः। गोभूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः॥' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरवि- निमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥

मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशुनिव ॥ १३॥

  मन्दामिति ॥ एष मुनिर्घृणया कृपयेषुम् लतां शाखामिव मन्दमस्यन्क्षिपन्यो युष्मान्प' शूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः।।

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥

  नेति ॥ पदच्छेदस्तावत्-न ना ऊननुन्नः नुन्नोनः ना अना नानाननाः ननु । नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत् ॥ अथ योजना--हे नानानना नानाप्रकारा- ण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुन्नो विद्ध ऊननुन्नो,य: स ना न पुरुषो न । तथा नुन्न ऊनो येन स नुन्नोनो ना पुरुषोऽना नन्वपुरुषः खलु । ऊनाद्भीत: पलायमानस्तु किं वक्तव्यमिति भावः। किं च । नुन्न इनः स्वामी यस्य स नुन्नेतः स न भवतीति ननुन्नेनः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। स नुन्नो वि-


द्धोऽप्यनुन्नोऽविद्ध एव । यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः । तथा नुन्ननुन्न- नुदतिशयेन नुन्ना नुन्ननुन्नास्तान्नुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति। किंतु सदोष एवेति । 'नार्तं नातिपरिक्षतम्।' इति निषेधादित्यर्थः। अयं तु नैतादृश इति न पलायितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥

वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान्नालंकारश्च्युतोपलः ॥१५॥

  वरमिति ॥ कृताः पूर्वमुत्पादिताः पश्चाद्ध्वस्ता नष्टास्ते कृतध्वस्ताः । 'पूर्वकाल-' इत्यादिना समासः । कृतध्वस्ता गुणा यस्य तस्मात्पुंसोऽत्यन्तमतिशयेनागुणो निर्गुणः पुमान्वरं मनाक्प्रियः । किंचित्प्रिय इत्यर्थः । 'वरं क्लीबे मनाक्प्रिये' इत्यमरः । तथा हि । प्रकृत्या स्वभावेनामणिर्मणिरहितोऽलंकारः श्रेयान् । च्युतोपलो भ्रष्टरत्नो न श्रेयान् । 'उपलः प्रस्तरे रत्ने' इति विश्वः । पलायितुः समरादसमर एव वरमिति भावः । अत्र समानविषयारोपयोः प्रतिबिम्बकरणाद्दृष्टान्तालंकारः॥

स्यन्दना नो चतुरगाः सुरेभावाविपत्तयः।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥१६॥

  स्यन्दना इति ॥ स्यन्दन्ते प्रद्रवन्तीति स्यन्दना जघनाः । स्यन्दना रथा नो सन्ति। नन्द्यादित्वाल्ल्युः । चतुरं गच्छन्तीति चतुरगाः । तुरगाश्चाश्वा नो सन्ति । सुरेभा शोभनबृंहणाः सुरेभा । वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः। विपत्तयो वा विशिष्टाः पदातयो नो सन्ति । अतो न भेतव्यमिति भावः । अत्र पूर्वोत्तरार्धगतानां विशेषणानां चोद्देशोद्देश्यीभूतानां यथासंख्यसंबन्धानुक्रमाद्यथासंख्यालंकारो यमकेन संसृष्टः॥

भवद्भिरधुनारातिपरिहापितपौरुषैः।
हृदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः ॥१७॥

  भवद्भिरिति ॥ अधुनारातिभिः परिहापितानि त्याजितानि पौरुषाणि यैस्तैर्भवद्भिः। अर्कनिष्पीतैरर्केण संशोषितैर्हृदैरिव । दुरुत्तरो दुस्तरः पङ्क इव पङ्को दुष्कीर्तिः प्राप्तः ।।

वेंत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥१८॥

  वेत्रेति ॥ वेत्राणि वंशाः फलिन्यो वा शाका बर्बराश्च कुजा वृक्षा यस्मिम्स्तस्मिन्वेत्रशाककुजे। शत्रुणा दुःप्रवेश्य इत्यर्थः । 'वेत्रं वंशफलिन्योश्च' इति विश्वः । 'शाकबर्बरवर्धका:' इत्यमरः । लेशेन स्तोकेनाप्येजते कम्पत इति लेशैजः स न भवतीत्यलेशैजस्त स्मिन् । अत्यन्ताकम्पन इत्यर्थः । 'एजृ कम्पने' । पचाद्यच् । न कोकते नादत्त इत्यकुको ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन्नकुकशात्रवे। 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किंता कुत्सितता तयोपलक्षिताः सन्तः। 'कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते' इति शाश्वतः। विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्त इति तुञ्जा हिंसका दैत्याः । 'तुजि हिंसायाम्।। पचाद्यच्। तेभ्यो दैत्येभ्य ईशत इति तुञ्जेशः। ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्गस्थले क्षुद्रशत्रौ पलायनमनुचितमिति भावः। प्रतिलोमानुलोमपादः॥

  नन्वनाथा वयं पलायामह इति तच्च न युक्तमित्याह-

अयं वः क्लैब्यमापन्नान्दृष्टपृष्ठानरातिना।
[३५९]च्छतीशश्च्युताचारान्दारानिव निगो[३६०]पितुम् ॥१९॥

  अयमिति ॥ अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वमापन्नान्प्राप्तांस्तथारातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः। वो युष्मांश्च्युताचारान्स्खलितव्रतान्दारान्कलत्राणीव। 'अथ पूंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्त्वादिङ्विकल्पः। दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवरितुमिच्छति। अतः कुत्रो युष्माकमनर्थ इत्यर्थः॥

ननु हो मथना राघो घोरा नाथमहो नु न।
तयदातवदा भीमा माभीदा बत दायत ॥२०॥

  नन्विति॥नन्वित्यामन्त्रणे। हो इत्याह्वाने।'हे है व्यस्तौ समस्तौ च हतिसंबोधनार्थयोः। हो हौ चैवंविधौ ज्ञेयौ संबुद्ध्याह्वानयोरपि' इति विश्व:। मथ्नन्तीति मथनाः । 'मन्थ विलोडने' । कर्तरि ल्युट् । राघन्ति समर्था भवन्तीति राघः। 'राघृ सामर्थ्ये' क्विप् । घोराः क्रूराः । शत्रूणामिति भावः । नाथं महयन्ति पूजयन्तीति नाथमहः। दृशिग्रहणात्कर्मण्युपपदे क्विप् । तयन्ति रक्षन्तीति तया रक्षकाः। पचाद्यच् । दायन्तीति दाताः शुद्धाः । 'दैप् शोधने' । कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वस्तयदातवदाः। भीमा भयंकरा माभीः । नञर्थमाशब्दस्य सुप्सुपेति समासः। तान्ददतीति माभीदा अभयप्रदाः । एवंविधा यूयमिति शेषः। बतेति खेदे । बवयोरभेदः। न दायत नु न शुद्धाः किम् । नु पृच्छायाम् । किंतु शुद्धा एव । काकुरत्रानुसंधेयः । 'दैपु शोधने' । लोट् । मध्यमपुरुषबहुवचनम् । प्रतिलोमानुलोमपादः ॥

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहै: ।
ज्वलितान्यगुणैर्वी स्थिता तेजसि मानिता ॥२१॥

  किमिति ॥ अपास्तोऽवधीरितो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो यैस्तैः । अ-


२४५
पञ्चदशः सर्गः।

तिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम्। योपधाद्गुरूपोत्तमाहुञ्। ज्वलिता उज्ज्वलिताः। प्रकाशिता इति यावत् । अन्यगुणा असदृशगुणा यैस्तैः । 'अन्यौ विभिन्नासदृशौ' इति वैजयन्ती । ईदृशैः। भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा मानिता शूरत्वाभिमानिता किमिति त्यक्ता। किमिति निर्लज्जैः पलायत इति भावः॥

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥२२॥

निशितेति ॥ हे अमरणा मरणरहिताः, निशितासिरतोऽतितीक्ष्णखड्गरतोऽभीको निर्भीको रुचा तेजसोपलक्षितः सुष्ट्वाभासत इति स्वाभासो रमणीयः। पचाद्यच् । उतात्यर्थमतिशयेन भरवान्। रणभरसहिष्णुरित्यर्थः । 'उत्तात्यर्थविकल्पयोः' इति विश्वः। ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । न प्रचलतीत्यर्थः। 'एज कम्पने'। लट्। अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ।।

नन्वयं न चलतीति कथं ज्ञायते । तत्राह-

तनुवारभसो भास्वानधीरोऽविनतोरसा।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥२३॥

तन्विति ॥ तनुमावृणोत्याच्छादयतीति तनुवारं वर्म । कर्मण्यण् । तेन बभस्ति भासत इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वांस्तेजस्वी चारुणा भास्वताविनतेनोन्नतेनोरसा वक्षःस्थलेनोपलक्षितः। एवंविधोऽप्यधीरो धैर्यरहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रवेणैव विश्वप्राणहारिणीत्यर्थः। आभीक्ष्ण्ये णिनिः। जन्ये युद्धे । 'युद्धमायोधनं जन्यम्' इत्यमरः । अभीतो निर्भीक: सन्को रमते कः क्रीडति । यदि रमते तर्ह्ययमेवेति भावः। निर्भयसंचारादेवास्य निश्चलत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥

अथ पञ्चभिः कुलकमाह-विभिन्नेत्यादिमिः ॥

विभि[३६१]न्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्वि[३६२]पनगष्ठ्यूतरुधिराम्बुनदाकुले ॥२४॥

आहवं विशिनष्टि-विभिन्नानि विदारितान्यत एव पातितान्यश्वीयान्यश्वसमूहाश्च ते तथा । 'पूर्वकाल-' इति समासः । तैरश्वसमूहैर्निरुद्धानि रथानां वर्त्मानि यस्मिम्स्तथोक्ते । 'वृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः। हतास्ताडिता द्विपा गजा एव नगाः शैलाः । 'शैलवृक्षौ नगावगौ' इत्यमरः । तैः ष्ठ्यूतान्युज्झितानि। ष्ठीवतः कर्मणि क्तः। छ्वो: 'शूडनुनासिके च' इत्यू- ठादेशः । तानि रुधिराण्येवाम्बूनि तेषां नदैःप्रवाहैराकुले व्याप्ते ॥


२४६
किरातार्जुनीये

देवाकानिनि कावादे वाहिकास्वस्वकाहि वा।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥२५॥

  देवेति ॥ पुनश्च । देवानाकनयत्युद्दीपयत्युत्साहयंतीति देवाकानी तस्मिन्देवाकानिनि। 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । कावाद ईषद्वादो वाक्कलहः। ईषदर्थे' इति कुशब्दस्य कादेशः। तद्वति कावादे । 'अर्शआदिभ्योऽच्'। वाहिका पर्यायेन रणभारोद्वहनम् । वहेः पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः । वाहिकया क्रमप्राप्त- रणक्रियया सुष्ठु शोभनं यथा तथास्वकान्परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते। 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। सोमपाशब्दवत्प्रक्रिया । वाशब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण् । एवंविधा इभभरा गजघटा यत्र यस्मिन्काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम्। निस्वा निरुत्साहा भव्याः सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वभव्यव्याः।'व्येञ संवरणे'। 'आतोऽनुपसर्गे कः । तैर्बभस्ति भासत इति निस्वभव्यव्यभस्वांस्तस्मिन् । 'अन्येभ्योऽपि दृश्यते' इति क्वनिप्। सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । यथाह दण्डी-'तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ।

प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥२६॥

  प्रनृत्तेति ॥ प्रवृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैस्तुरगैराक्षिप्ता अवधूताः सारथयो यत्र तस्मिन् । तथा मारुतेनापूर्णैर्व्याप्तैस्तूणीरैर्निषङ्गैर्विक्रुष्टाः शब्दायमाना हतास्ताडिताः सादिनस्तरैरङ्गिका यत्र तस्मिन् । पाठान्तरे मारुतापूर्णतूणीरैर्विकृष्टा आकर्षिता अत एव हता मारिता; सादिनोऽश्ववारा यत्र तस्मिन् ।

ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥२७॥

  ससत्वेति ॥ ससत्त्वानां सत्त्ववतां रतिदे रागप्रदे नित्यं सदराणां सभयानाममर्षनाशिनि क्रोधहारिणि त्वरयोत्साहेनाधिकं कसन्तो विकसन्तो नादा यत्र तस्मिन् रमयतीति रकमः। रमधातोर्वुञ्। तस्याकादेशः । तद्भावो रमकत्वम् । रणकर्मणा पररञ्जकत्वमकर्षत्यनुदति । वीराणां परस्परमुत्साहं रणकर्मणा स्फोरयतीत्यर्थः । अर्धभ्रमकः ॥

आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥२८॥

२४७
पञ्चदशः सर्गः।

  आसुर इति ॥ एवंविध आसुरेऽसुरसंबन्धिनि लोकवित्रासविधायिनि लोकभयंकरे महाहवे महायुद्धे युष्माभिरुन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं नाशितमिह सङ्ग्रामे ॥

इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा ॥२९॥

  इतीति ॥ इतीत्थं सेनान्यां स्कन्दे शासत्याज्ञापयत्यनेकधा गच्छतः पलायमानांस्तान्- गणान्निषिध्य निवार्यान्धकारिणा हरेण किंचिद्धसता तस्थे स्थितम् । भावे लिट् । निरौष्ठ्यः ॥

मुनीषुदहनातप्ताँल्लज्जया निविवृत्स्यतः ।
शिवः प्रह्लादयामास तान्निषेधहि[३६३]माम्बुना ॥३०॥

  मुनीति ॥ मुनेरिषव एव दहनस्तेनातप्तान्पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्स्यतो निवर्तिष्यमाणान्।'वृद्भयः स्यसनोः' इति विकल्यात्परस्मैपदम् । तान्गणाञ्शिवो निषेधो मा भैष्ट मा पलायतेति निवारणवचनं स एव हिमाम्बु शीतोदकं तेन प्रह्लादयामास । रूपकालंकारः ॥

दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे ।
भीताःशितशराभीताः शंकरं तत्र शंकरम् ॥३१॥

  दूना इति॥दूनाः शरतप्ताः।'ल्वादिभ्यः'इति निष्ठानत्वम्। अरिबलाच्छत्रुबलादूना ऊनबलाः।'पञ्चमी विभक्ते'इति पञ्चमी।निरेभा निःशब्दाः।कुतः। भीतास्त्रस्ता: । कुतः।यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः। इणः कर्मणि क्तः। ते गणास्तत्र रणे शंकरमभयवचनेन सुखकरं शंकरं शिवं बहु यथा तथा मेनिरेऽमन्यन्त । पादाद्यन्तयमकम् ॥

महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥३२॥

  महेष्विति ॥ दुरुत्तरे दुस्तरे शत्रोः संबन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी सेनेशानं शिवं पारं परतीरमिव ! 'पारावारे परार्वाची' इत्यमरः । प्राप्याशश्वास प्राणिति स्म ।

स बभार रणापेतां चमूं पश्चादवस्थिताम्
पुरः सूर्यादपावृत्तां छायामिव महातरुः ॥३३॥

  स इति ॥ स शिवोरणापेतां रणादपवृत्तां पराङ्मुखीभूतामत एव पश्चात्पृष्ठभागेऽव-


२४८
किरातार्जुनीये

स्थितां चमूं पुरोऽग्रे स्थितः सूर्यः पुरःसूर्यः । रणोपमानमेषः। तस्मादपावृत्तां परावृत्तां छायां महातरुरिव बभार । छायां तरुरिवात्मैकशरणां तां चमूं न' मुमोचेत्यर्थः ॥

मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः॥३४॥

  मुञ्चतीति ॥ ईशे हरे कर्तरि जिष्णावर्जुने विषये शरान्मुञ्चति सति पिनाकस्य शिवकार्मुकस्य स्वनेन ध्वनिना पूरितो धराधर इन्द्रकीलः स्फुटन्निव विदीर्यमाण इवेत्युत्प्रेक्षा । आशा दिशो ध्वनयञ्शब्दयुक्ताः कुर्वन्दध्वान शब्दमकरोत् । 'दिशस्तु ककुभः काष्ठा आशाश्व हरितश्च ताः' इत्यमरः ॥

तद्गणां ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥३५॥

  तदिति॥भीमं तयोर्हरपाण्डवयोस्तत्प्रसिद्धं युद्धं गणाः प्रमथाश्चित्रसंस्थाश्चित्राकारा अचलाः शैला इव । तथा चित्र आलेख्ये संस्था स्थितिर्येषां ते चित्रसंस्थाश्चित्रलिखिता इवाचला आश्चर्यवशान्निश्चलाः सन्तो विस्मयेन ददृशुः ॥

परिमोहयमाणेन शिक्षालाघवलीलया।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥३६॥

  परीति ॥ शिक्षालाघवलीलयाभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता। 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदेप्राप्ते 'न पादमि--' इत्यादिना तत्प्रतिषेधादात्मनेपदं शानच् । 'णेर्विभाषा' इति कृत्स्थस्य नस्य वा णत्वम् । पिनाकिना हरेण जिष्णोरर्जुनस्येयं जैष्णवी विशिखश्रेणी बाणसंघातः परिजह्रे निरस्ता ॥

अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥३७ ॥

  अवद्यन्निति ॥ पाण्डवोऽर्जुनोऽवसायकैरवसानकरैः। स्यतेर्ण्यन्ताण्ण्वुल्प्रत्ययः । सायकैर्बाणै: शंभोः पत्रिणः शरानवद्यन्खण्डयन् । द्यतेः शतृप्रत्ययः । 'ओतः श्यनि' इत्योकारलोपः। शिक्षया शक्तुं प्रभवितुमिच्छया । उत्साहेनेत्यर्थः । रणे शिक्षयाभ्यासेन च परिचक्राम । उत्साहनैपुण्याभ्यां चचारेत्यर्थः ॥

चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥३८॥

  चारैरिति ॥ चारैर्गतिविशेषैर्वित्त इति चारचुञ्चु: । 'तेन वित्तश्चुञ्चुण्चणपौ' इति

चुञ्चुप्प्रत्ययः । चिरमारेचयति रिक्तीकरोति शत्रूनिति चिरारेची । चञ्चतश्चलतश्चीरस्य
२४९
पञ्चदशः सर्गः।

वल्कलस्य रुचा प्रभया। रोचत इति रुचः शोभमानः।'इगुपध-'इति कः। रुचिरः सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चुरः। चरतेर्यङन्तात्पचाद्यच्। 'चरफलोश्च' इति नुमागमः । 'यङोऽचि च' इति यङो लुक् । आचारस्य युद्धव्यवहारस्य चञ्चुरो भृशमाचरितः स मुनिश्चारु यथा तथा चारैश्चक्रादिबन्धैर्गतिविशेषैश्चचार । 'चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः' इति विश्वः । द्व्यक्षरः ॥

स्फुरत्पि[३६४]शङ्गमौर्वीकं धु[३६५]नानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥३९॥

स्फुरदिति। स मुनिरर्जुनः स्फुरन्ती पिशङ्गी पिशङ्गवर्णा मौर्वी ज्या यस्य तत्तथोक्तम्। 'नधृतश्च' इति कण्प्रत्ययः । बृहद्धनुर्गाण्डीवं धुनानः कम्पयन् । उल्कैवानलस्तेन धृतो योगो येन तेनांशुमतार्केण सूर्येण तुल्यं बभौ । उपमा ॥

पार्थबाणाः पशुपतेरावव्रुर्विशिखावलीम् ।
पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥४०॥

पार्थेति ॥ पार्थबाणा अर्जुनशराः पशुपतेर्विशिखावलीं शरसंघातम् । सवितुरियं सावित्री तामंशुसंहतिं किरणसमूहमरन्ध्रा निबिडाः पयोमुचो मेघा इव । आवव्रु- स्तिरोदधुः ॥

शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥४१॥

शरेति ॥ त्रिलोचनः शिवः। सव्येन सचते समवैतीति तेन सव्यसाचिनार्जुनेनोद्- स्तांक्षिप्तामुर्वीं महतीं शरवृष्टिं मार्गणैः शरैर्विधूय निरस्य तपनस्य रवेर्मार्गं रुरोधावव्रे॥

तेन व्यातेनिरे भीमा भीमार्जनफलाननाः।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥४२॥

तेनेति ॥ तेन शिवेन भीमा भयंकरास्तथा भियो भयस्य मार्जनं निरासस्तदेव फलं प्रयोजनं येषां तान्याननान्यग्राणि येषां ते भीमार्जनफलाननाः । तथा शिखाधरा मयूरास्तेषु जातानि शिखाधरजानि बर्हाणि तानि वासांसीव वासांसि पक्षा येषां ते शिखाधरजवाससः । मयूरपक्षिण इत्यर्थः । विशिखा बाणा अनुकम्प्य कृपां कृत्वा न व्यांतेनिर इति न । किं त्वनुकम्प्यैवेत्यर्थः । अनुजिघृक्षुत्वादिति भावः । संभाव्यनिषेधने द्वौ प्रतिषेधावित्युक्तम् । शृङ्खलायमकम् ॥

द्युवियद्गामिनी तारसंरा[३६६]वविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥४३॥


२५०
किरातार्जुनीये

  घुवियदिति ॥ द्यां स्वर्गं वियदन्तरिक्षं च गामिनी व्यापिनी द्युवियद्गामिनी । द्वितीया- प्रकरणे श्रितादिषु गम्यादीनामुपसंख्यानात्समासः । तारेणोच्चैस्तरेण संरावेण नादेन विहता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता। हैमी हेममयीषुमाला शिवशरावलिर्विद्युतां संहतिरिवोक्तविशेषणा विद्युन्मालेव । शुशुभे । चतुर्थपावर्णानां त्रिपाद्यां संभवाद्गूढचतुर्थपादमाहुः ॥

विलङ्घ्य पत्रिणां प[३६७]ङ्क्तिं भिन्नः शिवशिलीमुखैः ।
‘ज्यायो वीर्यमु[३६८]पाश्रित्य न चकम्पे कपिध्वजः ॥४४॥

  विलङ्घ्येति ॥ शिवशिलीमुखैः पत्रिणां पङ्क्तिं निजशरावलिं विलङ्घ्यातिक्रम्य भिन्नो विद्धः कपिध्वजोऽर्जुनो ज्यायः प्रशस्तम् । 'वृद्धप्रशस्ययोर्ज्यायान्' इत्यमरः । वीर्यं सत्त्वमुपाश्रित्यावस्थाय न चकम्पे न चचाल । किं तु तान्सहन्नवतस्थावित्यर्थः ।

जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ॥४५॥

  जगतीति ॥ अर्थत्रयवाची श्लोकोऽयम् । तत्रादावगराज इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते-ईशस्य रणे युक्तः शक्तः। अन्यत्रजगतीशरणे भूरक्षणे युक्तःस्थितः। विधिनेति शेषः। हरिः सिंह इव कान्तो मनोहरः । अन्यत्र हरीणां सिंहानां कान्त आवासदानात्प्रियः । सुष्टु दधाति पालयति प्रजा इति सुधा । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र सुधा लेपद्रव्यविशेषस्तद्वत्सितो धवलः। दानवर्षी बहुप्रदः कृताशंसः कृतजयाभिलाषः । अन्यत्र दानवैर्दैत्यैर्ऋषिभिः इना कामेन च कृताशंसा नानाफलाभिलाषो यस्मिन्स ना नरोऽर्जुनः। अगराजो हिमवानिव जगत्याबभावित्येकोऽर्थः । अथैरावतसाम्यमुच्यते-जगतीं भुवं श्यन्ति तनूकुर्वन्तीति ते जगदीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितः समर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतस्वच्छः । एकत्र शीलतः । अन्यत्र वर्णत इति विवेकः । दानवर्षी धनप्रदो मदस्रावी च। कृताशंस उभयत्र कृतजिगीषः। पार्थो नागराज इव ऐरावत इवाबभाविति द्वितीयोऽर्थः। अथ शेषौपम्यमुच्यते-जगतीशरणे भूरक्षणे युक्तो नियुक्तः। दैवेनेति शेषः । 'शरणं गृहरक्षित्रोः' इत्यमरः । हरिकान्तः कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रह- णात्समुदायग्रहणम्। तत्र सितो बद्धः। 'षिञ् बन्धने' । क्तः। अन्यत्र सुधयामृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च ऋषयश्च ईर्लक्ष्मीश्च तैः कृताशंसो विहित- प्रशंसः। उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः शेष इवाबभाविति तृतीयोऽर्थः ।

विफलीकृतयत्नस्य क्षतबाणस्य शंभुना ।
गाण्डीवध[३६९]न्वनः खेभ्यो नि[३७०]श्र्वक्राम हुताशनः ॥४६॥


२५१
पञ्चदशः सर्गः।

  विफलीति ।। शंभुना क्षतबाणस्यातएव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य । 'वा संज्ञायाम्' इत्यनङादेशः । खेभ्य इन्द्रियरन्ध्रेभ्यः । 'खमिन्द्रिये सुखे स्वर्ग' इति विश्वः । हुताशनोऽग्निर्निश्चक्राम निष्क्रान्तः। क्रोधादिति भावः ॥

स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥४७॥

  स इति॥पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेणोत्कृष्टेन मनुना क्रोधेनोरु महत्तेजः किरन्विक्षिपन्सोऽर्जुनो ज्वलिता ओषधयस्तृणज्योतींषि जातवेदा दवाग्निश्च यस्मिम्स्तेन हिमशैलेन समं तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवच्छुशुभ इति बिम्बप्रतिबिम्बभावोपमा ।।

शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां प्रजिघायेषुमघातुकं शिवः ॥४८॥

  शतश इति ॥ शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने रणसंरम्भ- शोभिनेऽस्मै पार्थाय भृशमत्यर्थमनिवार्यवीर्यताम् । निजामिति शेषः। तस्मै प्रथयन्दर्शयन्। किं त्वधातुकममारकम् । 'लषपत-' इत्यादिना हन्तेरुकञ् । इषुम् । जातावेकवचनम्। प्रजिघाय प्रयुयुजे । 'हि गतौ' इति धातोर्लिट् । 'हेरचङि' इति कुत्वम् ।।

शंभोर्धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥४९॥

  शंभोरिति ॥ सितांश्वोऽर्जुनः शंभोर्धनुर्मण्डलतो धनुर्वलयात्प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात्प्रवृत्तमंशुमिव । अत्रापीषुवज्जातावेकवचनम् । निवारयिष्यन्निवारयितुकामः । क्रियार्थक्रियायां लृटि तस्य शत्रादेशः । धरित्रीं भुवं शिलीमुखानां छाया शिलीमुखच्छायम् । 'छाया बाहुल्ये' इति नपुंसकत्वम् । तेन वृतां व्याप्तां विदधे कृतवान् । शरजालच्छायावृतां धरित्रीमकरोदित्यर्थः । उपमालंकारः ॥

घनं विदार्यार्जुनबाणपूगं ससारवाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥५०॥

  घनमिति ॥ अयुगलोचनस्य विषमनेत्रस्येशस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्यालोचनस्याचाक्षुषज्ञानविषयस्य संबन्धी सारो बलं वाणः शब्दस्ताभ्यां सारवाणाभ्यां स्थिरशब्दाभ्यां सह वर्तते इति ससारवाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापीत्ययुक्सङ्गरहितः। क्विप् । बाणः शरः । जाता- वेकवचनम् । घनं सान्द्रमर्जुनस्य बाणपूगं शरव्रातं विदार्य विभिद्य घनं निबिडं विदार्यो

भूमिकूष्माण्ड्यो लताविशेषा अर्जुनाः ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्र
२५२
किरातार्जुनीये

मुकास्तेषाम् । 'विभाषा वृक्ष-'इत्यादिना द्वन्द्वैकवद्भावः। विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः। 'सृ गतौ । यद्वा तदानीमेव युगलोचनस्यार्जुनस्य बाणः ससारेत्यर्थः ॥

रुजन्महेषू[३७१]न्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः॥५१॥

  रुजन्नित्यादि ॥ बहुधाशुपातिनः शीघ्रमापततो महेषून्मुहुः शरौघै रुजन्मञ्जयन् । तथा दिशश्चापवारयन्नाच्छादयन्क्रियावशात्तत्तद्गतिवशाच्चलाचलोऽतिचञ्चलो धनंजयोऽर्जुनो महर्षिसंघैरनेको बहुविध इव बुबुधे ददृशे ॥

विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥५२॥

  विकाशमिति ॥ जगतीशस्य पृथिवीपतेरर्जुनस्य मार्गणा बाणा विकासं विस्तारमीयुः। तथा जगति लोक ईशमार्गणाः शंभुशरा विकासं विषमगतिमीयुः। भङ्गभीयुरित्यर्थः। तथा जगतीं पृथ्वीं श्यन्ति तनूकुर्वन्तीति जगतीशा दानवाः।'आतोऽनुपसर्गे क:'। तान्मारयन्तीति जगतीशमारः। म्रियतेर्ण्यन्तात्क्विप् । ते च ते गणाः प्रमथाश्च जगतीशमार्गणा विकासमुल्लासमीयुः। हर्षं प्रापुरित्यर्थः । अहो देवेऽप्यस्य पराक्रमप्रसर इति विस्मयादिति भावः । तदानीं मार्गयन्तीति मार्गणा अन्वेषकाः । कर्तरि ल्युटू । जगतीशस्य त्रैलोक्यनाथस्य मार्गणा अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वीनां पक्षिणां कासो गतिरत्रेति विकासमाकाशमीयुः। दिदृक्षयेति भावः ॥

संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् ।
अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभरांबभूवुः ॥ ५३॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः।

  संपश्यतामिति ॥ इतीत्थं शिवेन वितायमानं विस्तार्यमाणम् । 'तनोतेर्यकि' इति वैकल्पिक आकारादेशः । लक्ष्मीवतो जयश्रीमतः । 'मादुपधाया:-'इत्यादिना मतुपो मस्य वकारः। क्षितिपतेस्तनयस्यार्जुनस्य वीर्यं शौर्यं संपश्यतां तत्त्वविदामपि हरेरंशा- वतारोऽयमिति विदुषामपि । किमुतान्येषामिति भावः । मुनीनामङ्गानि गात्राण्य- भिन्नमविरलमञ्चिततरमतिरुचिरं रोमाञ्चं रोमहर्षं विभरांबभूवुर्बभ्रुः । 'भीह्री-' इत्यादिना विकल्पादाम्प्रत्ययः॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां पञ्चदशः सर्गः समाप्त: ॥


२५३
षोडशः सर्गः।

षोडशः सर्गः।


ततः किराताधिपतेरलध्वींमाजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्त[३७२]तर्कश्चिरं विचिन्वन्निति कारणानि ॥१॥

  तत इति । ततोऽनन्तरं किराताधिपतेः संबन्धिनीमलध्वीं गुर्वीमाजिक्रियां रण- कर्म वीक्ष्य विवृद्धमन्युर्विवृद्धकोपो विविक्तो निष्कलङ्कस्तर्क ऊहो ज्ञानं वा यस्य सोऽर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन्विमृशन्नितीत्थं वक्ष्यमाणप्रकारेण तर्कयामासाभ्यूहितवान् ॥

  अथ त्रयोविंशतिश्लोकैर्वितर्कमेवाह-

मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥२॥

  मदेत्यादि ॥ इहास्मिन्युद्धे मदस्रुतिभिर्मदप्रवाहैः श्यामाः कृताः श्यामिता गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः । कर्तरि क्तः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । तैर्नरैरधिरूढाः सहिष्णवो रणभरक्षमा युधां युद्धानामभिज्ञाः । शिक्षितां इत्यर्थः । कृद्योगात्कर्मणि षष्ठी। किं च। नगानामुच्छ्रायं पर्वतानामौन्नत्यम् । धञन्तेनोपसर्गस्य समासो नोपसृष्टाद्धञ्प्रत्ययः । 'त्रिणीभुवोऽनुपसर्गे' इत्यत्रानुपसर्ग इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः। तथोन्नता इत्यर्थः । नागा गजा इह सङ्ग्रामे न क्रामन्ति न चरन्ति । यथा युद्धान्तरेष्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽयमिति सर्वत्र तात्पर्थार्थः ।

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धा पयोदमन्द्रध्वनिना धरित्री ॥३॥

  विचित्रेति ॥ विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवे रुचं कान्तिं चित्रयता विचित्रवर्णां कुर्वतेव स्थितेनेति केतनौन्नत्य- निमित्तेयमुत्प्रेक्षा । पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न संनिरुद्धा नावृता ॥

समुल्लसत्प्रासमहोर्मिमालं प[३७३]रिस्फुरच्चामरफेनपङ्क्ति।
विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥४॥

  समुल्लसदिति॥इह युद्धे प्रासाः कुन्ताः।'प्रासस्तु कुन्तः'इत्यमरः। ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत्समुल्लसत्प्रासमहोर्मिमालम् । चामराणि


२५४
किरातार्जुनीये

फेना इव चामरफेनास्तेषां पङ्क्तयः परिस्फुरन्त्यश्चामरफेनपङ्क्तयो यत्र तत्तथोक्तम् । अश्वीयमश्वसमूहः । 'वृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । जलधेरम्भ इव विभिन्नमर्याद- मुच्छृङ्खलं यथा तथाशा दिशो नातनोति नावृणोति ॥

हताहतेत्युद्धतभीमघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥५॥

  हतेति ॥ हत प्रहरताहत विध्यत । हन्तेर्लोट् । मध्यमपुरुषबहुवचनम् । 'अनुदा- त्तोपदेश--' इत्यादिनानुनासिकलोपः आहतेत्यत्र कर्मणःप्रयोगासंभवेऽपि हन्ते: स्वाभाविकसकर्मत्वस्यानपायात्।अकर्मकत्वस्य चात्र विवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः 'आङो यमहंनः' इत्यात्मनेपदम् । इत्येवमुद्धताः प्रगल्भा भीमाश्च घोषा येषां तैर्योद्घृभिर्योधैरभ्यमित्रममित्रानभि समुज्झिता मुक्ता विवस्वतोम्ऽशुभिः । प्रतिफलितैरिति भावः । ज्वलिता दीपिता अतएव प्राप्तास्तडितां त्विष इव त्विषो याभिस्ता हेतयः शस्त्राणि खे न पतन्ति । समुल्लसन्तो न दृश्यन्त इत्यर्थः। 'हेतिः स्यादायुधे' इति विश्वः।।

अभ्यायतः सं[३७४]ततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य ।
रजःप्रतूर्णाश्वरथाङ्गनु [३७५] न्नं तनोति न व्योमनि मातरिश्वा ॥६॥

  अभीति ॥ अभ्यायतो वीरान्हन्तुमभ्यागच्छतः । इणः शतृप्रत्ययः । अन्तकस्य कालस्य संबन्धि संततं सततं धूमवद्धूम्रं व्यापि व्यापकं प्रभाजालमिव स्थितं प्रतूर्णै- र्वेगवद्भिरश्वै रथाङ्गै रथचक्रैश्च नुन्नं प्रेरितं रजो मातरिश्वा मरुद्व्योमन्यन्तरिक्षे न तनोति न विस्तारयति ॥

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् ।
नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥७॥

  भूरेणुनेति । अत्राहवे रासभो गर्दभस्तद्वद्धूसरेणेषत्पाण्डुना । 'रासभो गर्दभः खरः' इत्यमरः । 'ईषत्पाण्डुस्तु धूसरः' इति च । भूरेणुना रजसा लोचनानां वर्त्मनि चक्षुर्मार्गे तिरोहिते सति तेजस्विभिस्तेजस्विषु वीरेषत्सुकानाम् । वीरवरणार्थमागतानामित्यर्थः । 'प्रसितोत्सुकाभ्यां तृतीया च' इति विकल्पात्तृतीया । सुरसुन्दरीणामह्नि दिवस एव प्रदोषो रात्रिमुखं नास्ति । अन्धकारवत्त्वाद्दृष्टेस्तिरोधानाद्रात्रिभ्रमः स्यादिति भावः ॥

रथाङ्गसंक्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।
संघर्षयोगादिव मूर्ञ्छितानि ह्रा [३७६] दं निगृह्णन्ति न दुन्दुभीनाम् ॥८॥

  रथाङ्गेति ॥ रथाङ्गसंक्रीडितं रथचक्रकूजितमश्वानां च हेषा ह्रेषितानि शब्दितानि । 'अश्वानां हेषा ह्रेषा च निःस्वनः' इत्यमरः । बृहन्ति महान्ति मत्तद्विपानां बृंहि-


२५५
षोडशः सर्गः।

तानि । 'इंहितं करिगर्जितम्' इत्यमरः । संघर्षयोगादिव परस्परस्पर्धासंबन्धादिव मूर्च्छितानि वृद्धिं गतानि सन्ति । 'नपुंसकमनपुंसक-'इत्यादिना नपुंसकैकशेषः । दुन्दुभीनां भेरीणां ह्रादं निर्घोषम् । 'स्वाननिर्घोषनिर्ह्राद-' इत्यमरः । न निगृह्णन्ति न तिरस्कुर्वन्ति ॥

अस्मिन्यशःपौरुषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम् ।
मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥९॥

  अस्मिन्निति ॥ अस्मिन् रणे यशःपौरुषयोर्लोलुपानां गृध्नूनामतएवारातिभिः प्रत्युरसमुरसि । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तः । क्षतानां विद्धानां संबन्धिनं मूर्च्छैवान्तरायो रणविघ्नस्तमासारशीतं वर्षधाराशीतलम् । 'धारासंपात आसारः' इत्यमरः । करिणां शीकर एवाम्भः कर्तॄ मुहुर्नोच्छिनत्ति न नाशयति ॥

असृङ्गदीनामुपचीयमानैर्विदा [३७७] रयद्भिः पदवीं ध्वजिन्याः।
उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥१०॥

  असृगिति ॥असृङ्गदीनां तटान्युपचीयमानैरुपचयं नीयमानैस्तथा ध्वजिन्याः पदवीं विदारयद्भिर्दुःसंचारां कुर्वद्भिः। 'विदूरयद्भिः' इति पाठे विदूरां दूरसंचारां कुर्वद्भिः। आश्याना ईषच्छुष्काः । संयोगादेरातो धातोर्यण्यतः' इति श्यायतेर्निष्ठानत्वम् । घनाः सान्द्रास्तैराश्यानघनैः शोणितौघै: पङ्कैरिवोच्छ्रायं वृद्धिं नायान्ति न प्राप्नुवन्ति ॥

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥११॥

  परीति ॥ इह रणे दन्तिदन्तैर्गजदन्तैः परिक्षते ताडिते वक्षसि नमसः पतन्ती प्रियाया अङ्क इव शीता शीतला सुखकरी मन्दारमाला । सुरैर्मुक्तेति शेषः । प्रियं साहसं येषां तेषां प्रियसाहसानाम् । यतो गजाभियायिनामिति भावः। प्रमोहं प्रहारमूर्च्छां न विरलीकरोति न मन्दीकरोति । नापनयतीति, यावत् ॥

निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरण ।
अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥१२॥

  निषादीति ॥ करिणां शीकरेण पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनो हस्त्यारोहाः। 'हस्त्यारोहा निषादिनः' इत्यमरः । तेषां संनाहाः कवचानि तेषां मणिप्रभौघे रत्नांशुजालेऽर्कस्य त्विषा तेजसोन्मीलितमुत्पादितमाखण्डलकार्मुकस्येन्द्रधनुषः। 'आखण्डलः सहस्राक्षः' इत्यमरः । खण्डं नाभ्युदेति ।।

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
ना[३७८]वर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥१३॥


२५६
किरातार्जुनीये

  महीति॥पक्षवता सपक्षेण महीभृता मैनाकेनेव परवारणेन शत्रुगजेन मध्यं विगाह्य प्रविश्य भिन्नाः क्षोभिता ध्वजिन्यः सेनाः। 'ध्वजिनी वाहिनी सेना' इत्यमरः। अपां निधेः सागरस्याप इव । आवर्तमाना भ्रमन्त्यः सत्यः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भीमं न निनदन्ति ॥

महारथानां प्रतिदन्त्यनीकमधिस्यदस्यन्दनमुत्थितानाम् ।
आमूललूनैर[३७९]तिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥ १४ ॥

  महारथानामिति ॥ प्रतिदन्त्यनीकं दन्तिसैन्यं प्रति । 'अनीकं तु रणे सैन्ये' इति विश्वः । अधिस्यदा महारया: स्यन्दना रथा यत्र तत्तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः। उत्थितानां प्रस्थितानां महारथानां रथिकविशेषाणाम्।'आत्मानं सारथिं चाश्वान् रक्षन्युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः' इति लक्षणात् । पन्था मार्ग आमूलं लूनैश्छिन्नैर्मातङ्गहस्तैर्नागकरैरतिमन्युनातिक्रोधेनेव न व्रियते न निरुध्यते ।

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥१५॥

  धृतेति । पतितस्य वक्षसि मग्नस्य शङ्कोस्तोमरस्य संबन्धी । 'वा पुंसि शल्यं शङ्कुर्नां सर्वला तोमरोऽस्त्रियाम्' इत्यमरः । बर्हभारस्तन्मूलबद्धो लाञ्छनपिच्छकलापो धृत उत्पलापीडः कुवलयशेखरो यस्मिन्स प्रियायाः संबन्धी शिथिलः स्रस्तः शिरोरुहाणां कलापः केशपाश इव निषादिनो हस्त्यारोहस्य वक्षःस्थलं नातनोतिन व्याप्नोति ॥

उज्झत्सु संहार इवास्तसंरख्यमह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः॥१६॥

  उज्झस्विति ॥ अत्राहवे संहारे कल्पान्त इव तेजस्विषु वीरेश्वस्तसंख्यमसंख्यं यथा तथाह्नाय झटिति । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । जीवितान्युज्झत्सु त्यजत्सु सत्सु मृत्युर्लोकत्रयस्यास्वादने भक्षणे लोला गृध्रुर्जिह्वा यस्मिंस्तदाननं न व्याददाति न विवृणोति । 'आङो दोऽनास्यविहरणे' इत्यत्रानास्यविहरण इति निषेधादात्मनेपदम् ॥

  सत्यमेवम् । तथापि किमेतत्कुत्सितम् । तत्राह----

इयं च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिम[३८०]मावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दी[३८१]प्तिः ॥१७॥

  इयमिति ॥ इयं मम शक्तिश्च दुर्वारा: पराक्रमिणो महारथा येषु तेषां महतां बालानां वीर्यमाक्षिप्य निरस्य ताराधिपधाम्नि चन्द्रतेजसि । सूर्यस्येयं सौरी । 'सूर्यति-


२५७
षोडशः सर्गः।

ष्यागस्त्यमत्स्यानां य उपधायाः' इति स्त्रियां ङीप् । यकारस्य लोपः । दीप्तिरिव हीनयुद्धे किरातरणेऽवस्यत्यवसीदति । एतच्च विरुद्धमत्यद्भुतं चेति भावः । षोऽन्त- कर्मणि' इति धातोर्लट् ॥

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि य[३८२]था पुरा मे पराक्रमन्ते न शराः किराते॥ ॥१८॥

  मायेति ॥ एषा शक्तिह्रासरूपा माया स्विद्देवताक्षोभणं नाम । मतिविभ्रमो बुद्धिविपर्ययो वा । अथवा मे वीर्यं ध्वस्तं नष्टं नु । उताहमन्योऽर्जुनो न वा । कुतः। हि यस्माद्गाण्डीवमुक्ता मे शराः पुरा यथापूर्वम् । परिपन्थिष्विवेत्यर्थः । किराते न पराक्रमन्तेऽप्रतिबन्धेन न प्रवर्तन्ते । 'उपपराभ्याम्' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः॥

पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैष यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥१९॥

  पुंस इति॥ किं च। उत्तमस्य पुंसः पुरुषोत्तमस्य मध्यमं पदमाकाशं धनुषः प्रणादैः। 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । द्विधा कुर्वन्निव विदारयन्निव स्थित एष किरातो नूनं तथा तथाभूतो न । कीदृशस्तत्राह-अस्य पुरुषस्य यथा यथाभूतो वेषः । वर्तत इति शेषः । वेषत एवायं किरातो न स्वरूपत इत्यर्थः । कुतः। हि यस्माच्चेष्टा व्यापारः प्रच्छन्नमपि निगूढमपि स्वरूपमूहयते तर्कयते । तस्याः स्वभावादव्यभिचारादिति भावः ॥

  अथ चतुर्भिश्चेष्टामेवाचष्टे-

धनुः प्रबन्धध्वनितं रु[३८३]षेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानमुत्कर्षमिव व्युदस्य मुष्टेरसंभेद इवापवर्गे ॥२०॥

  धनुरिति । धनू रुषेव प्रबन्धेनाविच्छेदेन ध्वनितम् । ध्वनतेः कर्तरि क्तः । मौर्वी च सकृद्विकृष्टा विततेवैकवाराकर्षणादेव विततेव स्थिता । संधानं बाणसंधानमुत्कर्षं तूणादुद्धरणं व्युदस्येव वर्जयित्वा । किमु कृतमिति शेषः । अपवर्गे बाणमोक्षेऽपि मुष्टेरसंभेदोऽसंघटनमिव । मुष्टिबन्धं विनैव बाणमोक्षः कृत इवेति हस्तलाघवोक्तिः॥

अंसाव[३८४]वष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृत्तां वि[३८५]कारांस्त्यजता मुखेन प्रसादलक्ष्मीःशशलाञ्छनस्य ॥२१॥

  अंसाविति ॥ किं च । अंसाववष्टब्धौ स्थिराववस्थापितौ च तौ नतौ चावष्टन्धनतौ


२५८
किरातार्जुनीये

शिरोधरायाः कंधरायाः समाधिः संस्थानविशेषै रहितः प्रयासो यस्य स तथोक्तः । निःप्रयास इत्यर्थः । तथा विकारांस्त्यजता । जितश्रमत्वान्निर्विकारणेत्यर्थः । मुखेन शशलाञ्छनस्येन्दोः प्रसादलक्ष्मीर्धृता । असंभवत्संबन्धो निदर्शनालंकारः ॥

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थि[३८६]तप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशःशराणाम् ॥२२॥

  प्रहीयत इति ॥ कार्यवशेन प्रयोजनवशेनागतेषु स्थानेष्वालीढादिस्थानकेषु देहो विष्टब्धतया स्थिरतया कर्त्र्या न प्रहीयते न त्यज्यते।किंतु स्थिर एव तिष्ठतीत्यर्थः। सुष्टु भावः सौष्ठवं लाघवम् । उद्गात्रादित्वादञ्प्रत्ययः । तेन सह वर्तमानः ससौष्ठवः शराणां पातश्च स्थितान्यचलानि प्रयातानि चलानि तेषु स्थितप्रयातेषु चलाचलेषु लक्ष्येषु विषये सदृश एकरूपः ॥

परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसंभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु ॥२३॥

  परस्येति॥ किं च। परस्य विवरे रन्ध्रे। अल्पेऽपीति शेषः। भूयान्भूयिष्ठोऽभियोगो ज्ञातृत्वम् । परस्य रन्ध्रज्ञातृत्वात्प्रहार उद्योग इत्यर्थः । आत्मनो रन्ध्रे विवरे । अनल्पेऽपीति शेषः। प्रसह्य झटिति संरक्षणं गोपनं च। भूयिष्ठमिति शेष:। इदं द्वयं भीष्मेऽपि गुरौ वा द्रोणे चाप्यसंभाव्यं दुर्वितर्क्यम् । वनेचरेषु न संभवत्येव । अतो नायं किरातः। किं त्वेष तिरोहितवेषः कोऽप्यमानुषः पुरुष इति भावः ।।

अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥२४॥

  अप्राकृतस्येति॥अप्राकृतस्योक्तरीत्यासाधारणस्याहवदुर्मदस्य रणमत्तस्यास्य किरातस्य वीर्यं तेजोऽस्त्रबलेन दिव्यास्त्रमहिम्ना निवार्यं निवारणीयम्। अन्यथानिवार्यत्वमस्येति भावः । तथा हि । अल्पीयसोऽप्यत्यल्पस्याप्यामयतुल्यवृत्ते रोगसमानक्रियस्य । 'रोगव्याधिगदामयाः' इत्यमरः।रिपोर्विवृद्धिर्महापकाराय । किं त्वयं महानुभाव इति भावः ॥

स संप्रधार्यैव [३८७] महार्यसारः सारं विनेष्यन्सगणस्य शत्रोः।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घ[३८८]नानद्ध इवार्धरात्रः ॥२५॥

  स इति ॥ अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं संप्रधार्य निश्चित्य सगणस्य सानुगस्य शत्रोः सारं सत्त्वं विनेष्यन्नपनेष्यन् । प्रस्वाप्यन्ते शाय्यन्तेऽनेनेति प्रस्वापनं तदेवास्त्रम् । घनानद्धो मेघव्याप्तोऽर्धरात्रो निशीथः । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः।


२५९
षोडशः सर्गः।

'अर्धं नपुंसकम्' इति समासः। 'अहःसर्वैकदेश-' इत्यादिना समासान्तः 'रात्राह्राहाः पुंसि' इति पुंलिङ्गता। ध्वान्तमिव द्रुतमाजहाराचकर्ष ॥

प्रसक्तदावानलधूमधूम्रा नि[३८९]रुन्धती धाम सवस्त्ररश्मे:।
महावनानीव म[३९०]हातमिस्रा छाया ततानेशबलानि काली ॥२६॥

  प्रसक्तेति ॥ प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा धूसरा सहस्ररश्मेर्धाम तेजो निरुन्धत्यावृण्वती काली कृष्णवर्णा । 'जानपद-'इत्यादिना ङीप् । छाया कान्तिः। ईशबलानि महातमिस्रा महती तमःसंततिः। 'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव । ततान व्यानशे ।

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥२७॥

  आसादितेति॥तदेवासादनं प्रथमं तत्प्रथमं यथा तथा प्रसह्यासादिता प्राप्ता प्रगल्भताया व्यवहारधार्ष्ट्यस्य पदवीं हरन्ती भीमा भयंकरी निद्रा। उक्तविशेषणा सभा संसदिव। गणानां प्रतिभा प्रज्ञा शक्तिः सैव गुणस्तस्य निरासं प्रतिभाक्षयं विदधे चक्रे॥

गुरुस्थिराण्युत्तमवंशंजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गु[३९१]णान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥२८॥

  गुर्वीति॥ केचिदुत्तमवंशजत्वाद्वंशो वेणुः कुलं च।'वंशो वेणौ कुले च' इति विश्वः। गुरूणि महान्ति स्थिराणि दृढानि च गुरुस्थिराण्यनुशीलनेन परिचयबलेन विज्ञातः सारो बलं येषां तानि गुणैर्मौर्वीभिः शौर्यादिभिश्चान्वितानि धनूंषि सुहृत्कुलानि मित्रकुलानीव समाश्रित्य तस्थुः । धनूंष्यवष्टभ्य निदध्युरित्यर्थः॥

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥२९॥

  कृतान्तेति ॥ कृतान्तदुर्वृत्ते दैवदुश्चेष्टित इव । 'कृतान्तो यमसिद्धान्तदैवाकुशल- कर्मसु' इति विश्वः । पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि प्रतिकुलवर्तिनि सति तदा तस्मिन्कालेऽपरेषामायुधानि क्रियाफलानि कृष्यादिफलानीव । अतर्कितमविचारितमेव पाणितलान्निपेतुः॥

अंसस्थलैः केचिदभिन्नधै[३९२]र्याः स्कन्धेषु संश्लेषवतां तरूणाम्
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ ३०॥


२६०
किरातार्जुनीये

  अंसेति॥ अभिन्नधैर्यास्तदानीमप्यक्षतधैर्याः केचिदंसस्थलैरंसभागैः सह संश्लेषवतां संगच्छतां तरूणां स्कन्धेषु प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागा गजा इव स्रस्तकराः स्रस्तहस्ताः सन्तः सलीलं निषेत्दुर्निषण्णा ॥

तिरोहितेन्दोरथ शंभुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृ[३९३]ङ्गादिव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥३१॥

  तिरोहितेति ॥ अथ तिरोहितेन्दोः किरातमायया छन्नचन्द्राच्छंभुमूर्घ्न: सकाशात्। सुमेरुशृङ्गादर्कसंबन्धि बिम्वमिव । तपसां निवासैस्तापसैः प्रणम्यमानमभिवन्द्यमानं पिशङ्गं तेज उच्चैरूर्ध्वमुदियाय प्रकटीबभूव । तच्च न चान्द्रमिति भावः ॥

छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकम[३९४]भ्यादिशती गणेभ्यः ॥३२॥

  छायामिति ॥ इन्दुमौलेर्द्युतिः कान्तिः । तत्त्वस्य संवित्तिस्तत्त्वज्ञानमपविद्यामिव तां तमोययीं छायां निद्रां विनिर्धूय निरस्य गणेभ्य आलोकं वस्तुप्रकाशमभ्यादिशती चितरन्ती विकासं विस्तारं ययौ ॥

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥३३॥

  त्विषामिति ॥ सर्वतः पाटलिताः पाटलीकृता अम्बुवाहा यया सा तथोक्ता त्विषां तेजसां ततिः।पूर्वां सरतीति पूर्वसरी।'पूर्वे कर्तरि' इति टप्रत्यये ङीप्।'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पूर्वाशब्दस्य पुंवद्भावः । संध्या प्रातःसंध्येवोल्लसन्ती प्रसरन्ती तेषां गणानां लोचनपङ्कजानि द्रुतं विनिद्रतां विकासं निनाय ॥

पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥३४॥

  पृथगिति । अस्त्रविरामेण प्रस्वापनास्त्रोपरमेण बुद्धा विनिद्गास्ते गणा बलाहकानां वितानेन मेघपटलेन मुक्ता अत एव रम्या दिग्विभागा दिगन्ता ज्योतींषि नक्षत्राणीव। ज्योतिस्ताराग्निभाज्वालादृक्प्रकाशरमात्मसु'इति वैजयन्ती। पृथग्विधानि नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे । जगृहुरित्यर्थः ॥

द्यौरुन्ननामेव दिशः प्रसेदुः स्फु[३९५]टं विसस्रे सवितुर्मयूखैः।
क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥३५॥

  द्यौरिति ॥ तदा यामवत्यां रात्रौ क्षयं गतायां विभातायामिव द्यौरन्तरिक्षमुन्ननामे-


२६१
षोडशः सर्गः।

वोर्ध्वमुत्पपातेवेत्युत्प्रेक्षा। दिशः प्रसेदुः। सवितुर्मयूखैः स्फुटं स्पष्टं विसस्त्रे विस्तृतम्। भावे लिट् । दिनश्रीर्घस्रकान्तिः पुनर्दिनं समीयाय संजगाम । अत्र वैयधिकरण्येन गुणक्रिययोः समुञ्चयेन समुच्चयोऽलंकारः। तस्य च समुन्नमनोत्प्रेक्षयैवशब्दवाच्यया- नुप्रवेशलक्षणः संकरः। दिक्प्रसादो गुणः । शेषाः क्रियाः ॥

महास्त्रदुर्गे शिथिलप्रययत्नं दिग्वारणेनेव परेण रु[३९६]ग्णे।
भु[३९७]जङ्गपाशान्भुजवीर्यशाली प्र[३९८]बन्धनाय प्रजिघाय जिष्णुः ॥३६॥

महास्रेति ॥ भुजवीर्यशाली जिष्णुरर्जुनो महास्त्रं प्रस्वापनास्त्रं तद्दुर्गमिव तस्सिन्महास्त्रदुर्गे दिग्वारणेन दिग्गजेनेव परेण शत्रुणा शिथिलप्रयत्नमल्पप्रयासं यथा तथा रुग्णे भग्ने सति।'रुजो भङ्गे'। कर्मणि क्तः । 'ओदितश्च' इति निष्ठांतकारस्य नत्वम्। प्रबन्धनाय प्रकर्षेण बन्धनाय भुजङ्गा एव पाशास्तान्प्रजिघाय प्रहितवान् ॥

जिह्वाशतान्युल्लसयन्त्य[३९९]जस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं वि[४००]वव्रे ॥३७॥

जिह्वेति ॥ लसन्तस्तडिल्लोला विद्युच्चञ्चला विषानला विषाग्नयो येषु तानि जिह्वाश- तान्यजस्रमुल्लसयन्ती चलयन्ती भुजगेन्द्रसेना त्रासाद्भयान्नभश्चरैर्निरस्तां त्यक्तां तेषां नभश्चराणां पदवीं मार्गं विवव्रे विशेषेण रुरोध ॥

दिङ्नागहस्ताकृतिमुद्वहद्भिर्भौगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥३८॥

दिङ्नागेति ॥ दिङ्नागहस्ताकृतिमुद्वहद्भिर्दिक्करिकराकारैस्तथा प्रशस्तानि समी- चीनान्यसितरत्नानीन्द्रनीलमणयस्तद्वन्नीलौंर्भागैः कार्यरुपलक्षिता सर्पावलिरुल्लसन्ती प्रक्षुभ्यन्ती नभ एवार्णवस्तस्य तरङ्गमालेव रराज । रूपकोत्थापितेयमुत्प्रेक्षा ॥

निःश्वासधूमैः स्थगितांशुजा[४०१]लं फणावतामुत्फणमण्डलानाम् ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥३९॥

निःश्वासेति । उष्णरश्मिरस्तं गच्छन्निवोन्नमितानि फणामण्डलानि येषां तेषां फणावतां सर्पाणां निःश्वासेषु ये धूमास्तैः स्थगितमाच्छादितमंशुजालं यस्य तत्तथोक्तम् । अतएव विलोचनानां सुखं सुखकरं वपुरभ्युवाह ॥

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गन्यन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इवलोच[४०२]नेभ्यः ॥४०॥


२६२
किरातार्जुनीये

  प्रतप्तेति ॥प्राणहराणीक्षणानि येषां तेषां प्राणहरेक्षणानां दृष्टिविषाणां सर्पविशेषाणां लोचनेभ्यो नेत्रेभ्यः। प्रतप्तं यच्चामीकरं सुवर्णं तद्वद्भासुरेण । 'भञ्जभासमिदो घुरच्' इति घुरच्प्रत्ययः । प्रकाशेन तेजसा दिशा: पिशङ्ग्यन्त्यो ज्वाला महोल्का इव निश्चक्रमुर्निर्जग्मुः ॥

आक्षिप्तसंपातमपेतशोभमुद्वह्नि धूमाकुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥४१॥

  आक्षिप्तेति ॥ आक्षिप्तः प्रतिषिद्धः संपातः संचारो यस्मिंस्तत् । सिद्धानां पक्षिणां चेति शेषः । अपेता गता शोभा यस्मात्तदपेतशोभं गतश्रीकम् । उद्गतः प्रदीप्तो वह्निर्यस्मिंस्तदुद्वह्नि सर्वत उद्भूतदहनम् । धूमैराकुला व्याप्ता दिग्विभागा यस्य तत् । भोगिकुलैः सर्पकुलैर्वृतमावृतं नभः परोपरुद्धस्य शत्रुवेष्टितस्य पुरस्यावस्थामिवावस्थां दशां भेजे । उक्तरीत्या तत्साधर्म्यं प्राप्तमित्यर्थः । निदर्शनालंकारः ।।

तमाशु चक्षुःश्रवसां समूहं म[४०३]न्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ ४२ ॥

  तमिति ॥ पशूनां पतिः शिवस्तं चक्षुःश्रवसां सर्पाणां समूहं तार्क्ष्योदयकारणेन गरुडाविर्भावहेतुना मन्त्रेण नेता नायको नयेन नीत्या परेषामुपजापं परोपर्जापं पर:कृतं स्वमण्डलभेदमिव । 'भेदोपजापावुपधा' इत्यमरः । आशु निवारयामास ॥

प्रतिघ्नतीभिः कृ[४०४]तमीलितानि द्युलोकभाजामपि लोचनानि ।
गरुत्मतां सं[४०५]हतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥४३॥

  प्रतीति॥द्युलोकभाजामप्यनिमेषाणामपि कृतं मीलनं निमेषो येषां तानि लोचनानि दृष्टीः प्रतिघ्नतीभिः प्रतिबध्नतीभिः । हन्तेः शतरि ङीप् । गरुत्मतां तार्क्ष्याणां संहतिभिः समूहै: क्षणप्रकाशाभिर्विद्युद्भिरिव । तासां सौवर्णत्वादिति भावः । विहायोऽन्तरिक्षमवतेने व्यानशे ॥

ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः॥४४ ॥

  तत इति ॥ ततः सुपर्णव्रजानां तार्क्ष्यकुलानां पक्षेभ्यो जन्म यस्य स नानागति- र्विचित्रगतिर्वायुर्वनस्पतीनां वृक्षाणां गहनानि जरत्तृणानि जीर्णतृणानीव जवेन मण्डलयन्भ्रमयन्वियदन्तरिक्षं निनाय ।

मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासाम् ।
व्यूढेरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥४५॥


२६३
षोडशः सर्गः।

  मनःशिलेति ॥ मनःशिला धातुविशेषस्तस्या भङ्गश्छेदस्तन्निभेन तत्सदृशेन भासां निकरेण कान्तिपुञ्जेन पश्चाद्भागे निरुद्ध्यमानमाव्रियमाणं व्यूढैर्विशालैरुरोभिर्वक्षोभिश्च । 'उरो वत्सश्च वक्षश्च' इत्यमरः । विनुद्यमानं प्रेर्यमाणं नभ: खगानां गरुडानां पुरः ससर्पेव ससारेव । उत्तरोत्तरदेशतिरोधानेन गच्छतां खगानामपूर्वोऽपि पुरोभागः सादृश्यात्पूर्ववदुपलभ्यमानतया नभस एव छेदनात्पुरः ससर्पेवेत्युत्प्रेक्षा ॥

दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हि[४०६]माचलः क्षीब इवाचकम्पे ॥ ४६॥

  दरीति॥जवानिलेनाघूर्णितानि भ्रमितानि सानुजालानि यस्य स हिमाचलः।आसवस्य रागो रक्तता तद्वत्ताम्राम् । गुणयोरेवोपमानोपमेयभावः । विकासि विकस्वरं रुक्मच्छदाः सुवर्णपक्षास्तार्क्ष्यास्तेषां धाम तेजो दरीभिर्मुखैरिव दरीमुखैः पीत्वा क्षीबो मत्त इवाचकम्प आचचाल । उपमाव्यापितेयमुत्प्रेक्षा ॥

प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभ [४०७] स्तलं गां च पिशङ्गयद्भिः।
अन्तर्हितार्कै: परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानाम् ॥४७॥

  प्रवृत्तेति ॥ नक्तं च दिवा च नक्तंदिवम् । 'अचतुर-' इत्यादिना सप्तम्यर्थवृत्त्यो- रप्यव्यव्योर्द्वन्द्वैकवद्भावनिपाते समासान्तः । लक्षणया त्वहोरात्रमात्रवाची । प्रवृत्तः प्रादुर्भूतो यो नक्तंदिवस्य संधिः संध्या तद्वद्दीप्तै: शोभितैर्नभस्तलं गां भुवं च पिशङ्गयद्भिः पिशङ्गीकुर्वद्भिरन्तर्हित आच्छादितोऽर्को यैस्तैः पतद्भिः पक्षिभिः परितः सर्वतो वनाना छायाः समाचिक्षिपिरे समाक्षिप्ताः । अन्तर्बहिश्च तेजःप्रवेशात्क्वाप्यन्तर्हिता इत्यर्थः ॥

स भोगिसंघः श[४०८]ममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् ।
महाध्वरे विध्यपचारदोषः क[४०९]र्मान्तरेणेव महोदयेन ॥४८॥

  स इति ॥ स भोगिसंघः सर्पसमूह उग्रधाम्नां तेजस्विनां विनतासुतानां तार्क्ष्याणां सैन्येन महाध्वरे महाक्रतौ विध्यपचारदोषः कर्मस्खलनदोषो महोदयेन महासामर्थ्येनाथवा महता फलेन । तन्मूलेन प्रकृतक्रियासिद्धेरिति । कर्मान्तरेण प्रायश्चित्तेनेव शमं शान्तिं निन्ये प्रापितः ॥

साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः॥४९॥

  साफल्यमिति ॥ अस्त्रे सर्पास्त्रे । भाग्ये प्राम्भवीये शुभे कर्मणीव । रिपुपौरुषस्य रिपु-


२६४
किरातार्जुनीये

पराक्रमस्य साफल्यं कृत्वापवर्गमवसानं समाप्तिं गते सति । स्वनिवृत्त्या परसाफल्यात्- सफलीकरणोपचारः।समन्युः सक्रोधो जिष्णुरर्जुनोऽनिन्धनस्येन्धनं विनैवोत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकमस्त्रमाग्नेयास्त्रं प्रसभं शीघ्रं समाददे जग्राह ॥

ऊर्ध्वं तिरश्चीनमधश्च कीर्णैार्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्निव जातवेदाः॥५०॥

  ऊर्ध्वमिति ॥ ऊर्ध्वं तिरश्चीनं तिर्यक् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खप्रत्ययः । अधश्च कीर्णैर्विसृतैर्ज्वाला एव सटाः केसराः। 'सटा जटाकेसरयोः' इति विश्वः । तैर्लङ्घितमेघपङ्क्तिरतिक्रान्तजलदालिरायस्तस्य लङ्घनोद्यतस्य सिंहस्येवाकृतिर्यस्य स जातवेदा अग्निः प्राण्यन्तं प्राणिनां संहारमिच्छन्निवोत्पपात ॥

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विस्तृतस्फुलिङ्गः।
वि[४१०]दीर्यमाणाश्मनिनाद[४११]धीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥ ५१॥

  मित्वेति ॥ भाभिस्तेजोभिः सवितुर्मयूखान्किरणान् । 'किरणोस्रमयूखांशु-'इत्यमरः। भित्त्वेवाभिहत्येव विष्वक्समन्ताद्विसृताःस्फुलिङ्गायस्य सः। स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वमुत्प्रेक्षते। 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः। अकृशोऽतनुः कृशानुर्वह्निर्विदीर्यमाणस्य विदलतोऽश्मनो निनादमिव धीरमुद्धतं ध्वनिं वितन्वञ्जज्वाल ।

चयानिवांद्रीनिव तुङ्गशृङ्गान्क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानां ततान वह्निः पवनानुवृत्त्या ॥ ५२ ॥

  चयानिति ॥ वह्निः पवनानुवृत्त्या वायुवशेन चयानिव हिरण्मयान्प्राकारानिव । 'चयः समूहे प्राकारे' इति विश्वः । तुङ्गशृङ्गानन्द्रीनिव क्वचिद्धिरण्मयानीति 'दाण्डि- नायन--'इत्यादिना निपातनात्साधुः । पुराणि नगराणीव तथा किंशुकानां पलाश-- तरूणाम् । 'पलाशे किंशुकः पर्णः' इत्यमरः । महावनानीव । पुष्पितानीति शेषः । ततान वितस्तार । तदाकारेण जज्वालेत्यर्थः ॥

मुहुश्चलत्पल्लवलोहि[४१२]नीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जनश्यामरुचः पयोदाः ॥ ५३॥

  मुहुरिति ॥ सान्द्राञ्जनश्यामरुचो घनकज्जलश्यामरुचः पयोदा मुहुश्चलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताभिश्चलत्पल्लवलोहिनीभिः। 'वर्णानुदात्तात्तोपधात्तो नः' इति ङीप् । तकारस्य नकारः । शिखिनोऽग्नेरुच्चैरुन्नताभिः शिखाभिर्ज्वालाभिरवलीढाः । दग्धा इत्यर्थः । अतएव तलेष्वधोभाग्रेषु मुक्ताविशदा मौक्तिकधवला बभूवुः । जलसंशोषणादिति भावः । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः ॥


२६५
षोडशः सर्गः।

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिता[४१३]श्वे ।
पिनाकिनाहूतमहाम्बुवाहमस्त्रं पु[४१४]नः पाशभृतः प्रणिन्ये ॥५४॥

  लिलिक्षतीति ॥ क्षयकालरौद्रे कल्पान्तकालवद्भयावहे विलोलार्चिषि चलज्ज्वाले रोहिताश्वे ज्वलने । 'रोहिताश्वो वायुसखः' इत्यमरः। लोकं लिलिक्षति लेढुमिच्छति जिघत्सति सतीव । लिहेः सन्नन्ताच्छतृप्रत्ययः । पिनाकिना पुनर्हृता आहूता आकारिता महाम्बुवाहा येन तत्पाशभृतो वरुणस्यास्त्रं प्रणिन्ये प्रयुक्तम् ॥

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः॥५५॥

  तत इति ॥ ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः पर्वतसमप्रान्ताः । 'रोधः स्यात्प्रान्तकूलयोः' इति विश्वः। तडिल्लताभिरालिङ्गिता नीलमूर्तयो नीलाङ्गानि येषां ते पयोमुचो मेघा अधोमुखा आकाशसरिदिव निपतन्तीत्यधोमुखाकाशसरिन्निपातिनीः। 'कर्तर्युपमाने' इनि णिनिः । अपो जलानि प्रसक्तमनुबन्धमविच्छिन्नं यथा तथा मुमुचुः । इतः प्रभृति वंशस्थवृत्तम् ॥

पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेतिरे ॥५६॥

  पराहतेति ॥ पराहता आसाराभिहता अतो ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन्पराहतध्वस्तशिखे । अधिक्षिप्तं प्रहारितं नाशितम् । ताडितमिति यावत् । अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिञ्छिखावतोऽग्नेर्वपुषि स्वरूपे । तप्तेऽयसि लोह इव कृतास्पदाः कृतस्थियंयः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः। प्रथमे पयोनिपाता जलपाता ध्वनिं वितेनिरे विस्तारयामासुः ॥

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्व[४१५]थनेन फेनताम् ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं ज[४१६]लैर्वितेने दिवि धूमसंततिः ॥५७॥

  महानल इति ॥ महानलेऽग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पन्ततीति भिन्नसिताभ्रपातिभि:। 'कर्तर्युपमाने' इति णिनिप्रत्ययः। अतएव सद्यः क्वथनेन पाकेन फेनतां समेत्य प्राप्य परिक्षयं नाशं व्रजद्भिर्जलैरार्द्रेन्धनवदार्द्रकाष्ठैस्तुल्यम्।'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । दिवि गगने धूमसंततिर्वितेने विस्तारिता। फेनादिकमार्द्रेन्धनेऽपि तुल्यम् ॥

स्वकेतुभिः पाण्डुर [४१७] नीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥५८॥


२६६
किरातार्जुनीये

  स्वकेतुभिरिति ॥ पाण्डुरैर्नीलैः पाटलैश्च पाण्डुरनीलपाटलैर्विचित्रैः स्वकेतुभिर्धूमै: समागताः संगताः। अतएव शक्रधनुषः प्रभाभिद इन्द्रधनुर्द्युतिभाजो विभावसोरग्ने- स्त्विषोऽसंस्थितामस्थिरां विचित्रस्य चीनांशुकस्य पट्टवस्त्रविशेषस्य चारुतामादधिरे दधु:॥

जलौघसंमूर्छनमूर्छितस्व[४१८] नः प्रसक्तविद्युल्लसितैधितद्युतिः।
प्रशान्तिमेष्यन्धृ[४१९]तधूममण्डलो बभूव भूयानिव तत्र पावकः॥५९॥

  जलौघेति ॥ जलौघानामुदकप्रवाहाणां संमूर्छनेन मेलनेन मूर्छितस्वनःप्रवृद्धघोषः। 'मूर्छनं मेलने प्रोक्तं वृद्धौ मूर्छितमेव वा' इति सज्जनः । प्रसक्तैः संगतैर्विद्युतां तडिल्लतानां लसितैः स्फुरणैरेधिता वर्धिता द्युतिर्यस्य स धृतधूममण्डलो जलाघातात्संभूत- धूमपटलः पावकःप्रशान्तिमेनामिप्यंस्तत्र देशे भूयानिव बभूव । भूयस्त्वस्यास्थायित्वादिवेत्युक्तम् ॥

प्र[४२०]वृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥६०॥

  प्रवृद्धेति॥प्रवृद्धानां सिन्धोःसमुद्रस्योर्मीणांचयाराशय इव स्थवीयसांस्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवा: शकलास्तैः सरूपतां समानरूपतां प्रपेदिर इत्युपमा ॥

उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥

  उपैतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो नष्टमूलोऽसंशयं यथा तथानुदयाय पुनरनुत्थानाय संक्षयं नाशमुपैति । तथा हि । तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः स हव्यवाहोऽग्निः पराभवं नाशं प्रययौ । विशेषेण सामान्यसमर्थ- नरूपोऽर्थान्तरन्यासः ॥

अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम्।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥६२॥

  अथेति॥अथाग्निनिर्वाणानन्तरंविहितविधेयैः कृतकृत्यैरसितनगस्याञ्जनानितम्बः कटकस्तद्वच्छ्यामभासां घनानां वितानैः पटलैर्मुक्ता द्यौराकाशो वह्निदाहादिवेत्यु-


२६७
षोडशः सर्गः।

त्प्रेक्षा । विकसन्ति च तान्यमलधामानि स्वच्छकान्तीनि च तेषां नीलोत्पलानामधिक- विशुद्धामत्युज्वलां श्रियं प्राप । निदर्शनालंकारः ॥

इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरन[४२१]यज्ञः सादयिष्यन्नरातिम्।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥६३॥

  इतीति ॥ बहुसमरनयाननेकरणोपायाञ्जानातीति वहुसमरनवज्ञ:। 'आतोऽनुपसर्गे कः' इति कप्रत्ययः। न तु 'इगुपध-' इत्यादिनाकारान्तादनुपपदात्कर्मोपपदो भवति। 'विप्रतिषेधेन' इति वार्तिकव्याख्याने भाष्यकारेणार्थज्ञशब्दमुदाहृत्यास्यार्थज्ञशब्दस्य कर्मोपपदत्वं दर्शितम् । सव्यसाच्यर्जुनोऽरातिं किरातपतिं सादयिष्यन् । अवसादयितु- कामः सन्नित्यर्थः । क्रियार्थक्रियायां लृटि तस्य शत्रादेशः । इति पूर्वोक्तप्रकारेण विविधं यदस्त्रमुदासे। प्रयुक्तवानित्यर्थः । 'उपसर्गादस्यत्यूह्योर्वेति वाच्यम्' इत्यात्मनेपदम् । विपरीतो विधिः प्रतिकूलं दैवम्।'विधिर्विधाने दैवेऽपि इत्यमरः। न्यायेन नीत्या वृत्तिर्वर्तनं यस्य तस्य नीतिनिष्ठस्य पौरूषमिव नीलकण्ठः शिवः सपदि तदस्त्रं रिक्ततां व्यर्थतामुपनिन्ये । संहृतवानित्यर्थः । मालिनीवृत्तम् ॥

वीतप्रभावतनुरप्यत्तनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम्।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥६४॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः।

  वीतेति ॥ भूतपतिना शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वपहृतेषु सत्सु वर्षिष्यतोत्तरत्र सहस्रगुणं वितरिष्यता दिनकृता सूर्येण जलेष्वपहृतेषु सत्सु लोक इव वीतप्रभावो गतास्त्रमहिमा । अन्यत्र गतशक्तिः। अतएव तनुः क्षीणो वीतप्रभावतनुस्तथा- प्यतनुप्रभावो निसर्गतः सामर्थ्यादधिकः । अन्यत्रोद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं जयनशीलाम् । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं भुजपराक्रमसंपदम् । उभयत्रापि पुरुषकारमिति यावत् । तत्कालकुण्ठितामिति शेषः। प्रत्याचकाङ्क्ष । प्रत्याहर्तुमियेषेत्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलकावृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां षोडशः सर्गः समाप्तः ॥


२६८
किरातार्जुनीये

सप्तदशः सर्गः।


  अथ पञ्चभिः पार्थं विशेषयन्षड्भि: कुलकमाह-अथेत्यादिभिः ॥

अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्स्वपौरुषेणेव शरासनेन ॥१॥

  अथजललक्ष्मीप्रत्याकाङ्क्षानन्तरमापदामुद्धरणक्षमेष्वापन्निवारणसमर्थेष्वस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं धैर्यमभिपुष्यन्वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यभवलम्बमान इत्यर्थः । अतएव गुरुश्रीः प्रवृद्धशोभासंपत्तिः । 'पद्मा मा लक्ष्मीः श्रीर्निगद्यते' इति शाश्वतः ॥

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥२॥

  भूरीति ॥ पुनश्च । भूरिप्रभावेण महानुभावेन सह रणाभियोगाद्युद्धलाभात्प्रीतस्तदीयवृद्ध्या शत्रुवृद्ध्या विजिह्यो विच्छायश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः। कुतः। सर्पन्प्रसरन्महान्धूमो यस्य सोऽद्रिवह्निरिव स्थितः ॥

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् ।
आसादयन्नस्खलितस्व[४२२] भावं भीमे भुजालम्बमिवारिदुर्गे ॥३॥

  तेज इति ॥ पुनश्च । परैररिभिरहार्यमभेद्यं निजं स्वकीयं महत्तेजो वीर्यं मित्रमिव समाश्रित्य । अतएव भीमे भयानकेऽरिरेव दुर्गं तस्मिन्नरिदुर्गे शत्रुसंकटेऽस्खलितस्व- भावमचलशीलमुरु महद्धैर्यं भुजालम्बमिव हस्तावष्टम्भमिवासादयन्प्राप्नुवन् । ईदृशे संकटेऽपि महावीरत्वाद्धैर्यमत्यजन्नित्यर्थः ॥

वंशोचितत्वादभिमानवत्या संप्राप्तया सं[४२३] प्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥४॥

  वंशेति ॥ पुनश्च। अभिमानो ममताबुद्धिस्तद्वत्या । विषयतया कर्मणि कर्तृधर्मोपचारः। अभिमानास्पदेनेत्यर्थः । अन्यत्र कुलशीलाद्यभिमानवत्या । वंशोचितत्वात्स्वकुलानुरूपत्वादसुभ्यः प्राणेभ्योऽपि संप्रियतां संप्राप्तया परेण शत्रुणाक्ष्णो: समीपे समक्षसक्ष्यग्रतः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। आदातुं ग्रहीतुमिष्टयादित्सितया । आजिहीर्षितयेत्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्त:।


२६९
सप्तदशः सर्गः।

वध्वेव कीर्त्या हेतुना परितप्यमानः । कर्तरि शानच् । 'हेतौ' इति तृतीया । कन्यया शोक इतिवत् ।।

पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥५॥

  पतिमिति ।। पुनश्च । नगानां पतिं हिमवन्तमिव बद्धमूलं विपक्षं शत्रुं तरसा वलेनो- न्मूलयिष्यन्नुत्पादयिष्यन्। किं च। त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव । ईश्वरेण लघुप्रयत्नमल्पप्रयासं यथा तथा निगृहीतवीर्यः प्रतिवद्धशक्तिः। हतास्त्रशक्तिरिति यावत्। पुरा किल हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरो निजजटाजूटेन निजग्राहेति पौराणी कथा । तद्वदित्यर्थः ।।

संस्कारवत्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं य[४२४]थार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥६॥

  संस्कारेति ॥ एवंभूतः पार्थः संस्कारवत्त्वात्संस्कारश्चित्तवासना। अन्यत्र साधुत्वम्। असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो व्युत्पत्तिस्तद्वत्त्वात् । चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः शिक्षाभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा । अन्यत्र तु प्रयोगोऽभियुक्तव्यवहारः शिक्षाभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेष- प्रसादादयो वा। ते भूषणं येषां तेषु यथा यथाभूता अर्था येषां तेषु यथार्थेषु । अन्यत्र नियतार्थेषु । शृण्वन्ति हिंसन्तीति शरास्तेषु जयम्। तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी। शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एवार्थस्तमिव । आशशंस आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेषेत्यर्थः ।।

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
[४२५]निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥७॥

  भूय इति ॥ भूयः पुनरपि समाधानेन युद्धाय मनोव्यवस्थापनेन विवृद्धतेजाः प्रवृद्ध- प्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं न भवतीति हेतोर्व्यथावान्परितापवान्सोऽर्जुन ईक्षणाभ्यां दृष्टिभ्यां महानागो महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितमस्त्रमश्रु निर्धवाम निर्जगार । सात्त्विकानां रससाधारण्याद्रौद्रेऽश्रूदयोक्तिः॥

तस्याहवायासविलोलमौले: संरम्भताम्रायतंलोचनस्य ।
नि[४२६]र्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥८॥

  तस्येति ॥ आहवायासेन युद्धायासेन विलोलमौले: स्रस्तकेशबन्धस्य । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्ने कोपारुणे आयते विस्तृते लोचने


२७०
किरातार्जुनीये

यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य रोषतप्तं मुखं निदाघो घर्मों निर्वापयिष्यञ्शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा। प्रस्रापयामास सिषेच । स्वेदं जनयामासेत्यर्थः। स्नातेर्मित्वविकल्पत्वाद्ध्रस्वविकल्पः ॥

क्रोधान्धकारान्तरितो रणाय भ्रू[४२७]भेदरेखाः स बभार तिस्रः।
[४२८]नोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाम्शुराजीरिव ति[४२९]ग्मरश्मिः ॥९॥

  क्रोधेति ॥क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृत- स्तिग्मरश्मी रविर्वृष्टेः प्रभवाय वर्षणाय तिस्र ऊर्ध्वाम्शूनां राजीरिव । अर्कस्योर्ध्वाम्शु- रेखोदयो वृष्टिलिङ्गमित्यागमः । रणाय रणप्रवृत्तये तिस्त्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥

[४३०]प्रध्वनय्यम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥१०॥

  स इति ॥ सोऽर्जुनोऽम्बुदवन्नदतीत्यम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन करेण प्रध्वनय्य ध्वनयित्वा शंभोर्बलानि सैन्या- न्यशरीरोऽनङ्गःकामश्चेतांसि युवमनांसि चिन्ताभिः प्रेयोजनध्यानैरिवेषुभिस्तताप तापयामास । तपतिः सकर्मकः । अत्रेषुशब्दः स्त्रीलिङ्गः। अन्यथोपमानोपमेययोर्भिन्न- लिङ्गतादोषात् । 'पत्री रोष इषुर्द्वयोः' इत्यमरः ।।

सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥११॥

  सद्वादितेति ॥ अभिनिविष्टा शास्त्रनिश्चिता बुद्धिर्यस्य स तस्मिन्नभिनिविष्टबुद्धौ- शास्त्रनिष्टितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकतेव। न हि सम्यगभ्यस्तशास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित्। अन्ये त्वभिनिविष्टबुद्धावाग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टुत्वमिव । न ह्याग्रही हितं गृह्णातीति भावः। विपक्षपाते वीतरागे विषये गुणाभ्यसूया गुणासहिष्णुतेव ।स हि समदर्शी द्विपन्तमपि न द्वेष्टीति भावः।अगोचरेऽवाङ्मनसगोचरे ब्रह्मणि वागिव । 'यतो वाचो निवर्तन्ते अप्राप्य- मनसा सह' इति श्रुतेरिति भावः। शराणां शक्तिः शितिकण्टकाये शिवशरीरे विषये उपरेम उपरता । तस्याक्षोभ्यमहिमत्वादिति भावः । 'विभाषाकर्मकात्' इत्यस्य वैक- ल्पिकत्वात्पक्ष आत्मनेपदम् । मालोपमा ।

उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः।
[४३१]भ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥१२॥


२७१
सप्तदशः सर्गः।

  उमेति ॥ पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखा बाणा उमापतिं शिवमभ्युत्थितस्याभ्युन्नतस्याद्रिपतेर्नितम्वं कटकम् । हेमन्ते भवस्य हैमनस्य। 'सर्वत्राण्च तलोपश्च' इत्यण्प्रत्ययः। तकारलोपश्च । अर्कस्य पादा रश्मय इव । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न व्यथयांबुभूवः । 'मध्ये स्थितस्यासुमतां समूहमर्कस्य' इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां प्राणिनां समूहमिवेति न दुःखमुत्पादयामासुरिति योजना ॥

संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥१३॥

  समिति ॥ गणानां पतिः शिवस्तीव्रं तस्यार्जुनस्य पराक्रमं वप्रे रोधस्यानतस्य परिणतस्य । तटप्रहारिण इत्यर्थः । सुरद्विपस्यासह्यं विषाणभेदं दन्तप्रहारं हिमवानिव संप्रीयमाणः संहृष्यन्ननुबभूवानुभवति स्म । तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्चेति भावः ।।

तस्मै हि भा[४३२]रोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् ।
चिरं वि[४३३]षेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥१४॥

  तस्मै हीति ॥ तस्मै पार्थाय भारस्य भूभारस्योद्धरण उद्वहने समर्थं प्रतापं बाहुमिव । अवष्टम्मतयेति शेषः । अन्यथा भारोद्वहनस्य दुष्करत्वादिति भावः । 'स प्रतापःप्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन देवेन सोऽभिभवोऽर्जुनपरिभवस्तदानीं चिरं विषेहे सोढः । वात्सल्यादिति भावः ॥

  अथ त्रिभिर्भगवदभिप्रायमाविष्कुर्वम्श्चतुर्भिः कालापकमाह-

प्रत्याहतौजाः कृ[४३४]तसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥१५॥

  प्रत्याहतेति ॥ प्रत्याहृतौजाः परेण प्रतिहतबलः सन्नपि कृतसत्त्ववेगः कृतोत्साहा- तिशयः सन्यः पुमाञ्ज्यायसि स्वस्मादप्यधिके पराक्रमं तनोति तस्य पुंसो भानोरर्कस्य तेजांसीव वीर्येण शौर्येण ज्वलितानि प्रकाशितानि यशांसि निष्पतन्ति । उद्भवन्तीत्यर्थः। हीनस्याधिकाभियोगो यशस्कर इति भावः ।।

  ततः किमित्यत आह-

दृष्टावदानाद्व्यथतेऽरिलो[४३५]कः प्रध्वंसमेति व्यथिताच्च तेजः।
तेजोविहीनं वि[४३६]जहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥१६॥

  दृष्टेति ॥ दृष्टमवदानं महत्कर्म यस्य तस्मादृष्टावदानाद्दृष्टपौरुषादरिलोकः शत्रुजनो


२७२
किरातार्जुनीये

व्यथते बिभेति । व्यथिताद्भीतात्तेजः प्रध्वंसं नाशमेति । तेजोविहीनं दर्प उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति त्यजति ।

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्र[४३७]तिद्विपस्येव मतङ्गजौघः ॥१७॥

  तत इति ॥ ततो दर्पहान्यनन्तरमस्तौ क्षयं गतौ मदावलेपौ मदगर्वौ यस्य सोऽरि- लोको गन्धेन मदगन्धेनैव जेतुर्जयनशीलस्य । शीलार्थे तृच्प्रत्ययः । प्रमुखागतस्याभि- मुखागतस्य प्रतिद्विपस्यान्यो मतङ्गजौघो मत्तगजसमूह इव जिगीषोर्नायकस्य जय्यतायाः पदवीं प्रयाति प्राप्नोति । विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः । 'क्षय्यजय्यौ शक्यार्थे' इति निपातः । अत्र श्लोकद्वये ज्यायसि पराक्रमकरणादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वकथनात्कारणमालाख्योऽलंकारः । लक्षणं तूक्तम् ।

एवं प्रतिद्धन्द्विषु तस्य कीर्ति मौ[४३८]लीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शंभुरनुक्रमेण ॥१८॥

  एवमिति ॥ एवमुक्तरीत्या प्रतिद्वन्द्विषु प्रत्यर्थिषु मध्ये तस्यार्जुनस्य मौलीन्दुलेखाविशदां कीर्ति विधास्यन्करिष्यन्ननुक्रमेणाविपर्यासेन पर्यायेण त्रयोऽवसादो भङ्गश्च तौ जयावसदौ यस्यां तां पर्यायजयावसादां रणक्रियामियेषेच्छति स्म । जयानन्तरं भङ्गो भङ्गानन्तरं जय इति पयोयार्थः । तस्य विपर्यासोऽन्यतरनैरन्तर्यं तदभावोऽनुक्रम इत्यपौनरुक्त्यम् ॥

मुनेर्विचित्रैरिषुभिः स भूयान्निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥१९॥

  मुनेरिति ॥मुनर्विचित्रैरिषुभिः स भूयानसंख्यो भूतपतेर्बलौघ आत्मलाभेन जन्मना सह समुत्पतद्भिराविर्भवद्भिः। आजन्मसिद्धैरित्यर्थः । जातयो गोत्वमनुष्यत्वादयः । स्वभावा जातिनियता धर्मास्तैर्जातिस्वभावैर्जीवलोकः प्राणिजातमिव वशं निन्ये नीतः। कर्मणि लिट् । प्राणिनो जातिधर्मानिव गणा मुनिशरान्नातिक्रमितुं शेकुरित्यर्थः॥

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥२०॥

  वितन्वत इति ॥ त्रस्तानि सैन्यानि संततवेपथूनि निरन्तरकम्पानि गवां कुलानि वृन्दानि प्रवर्षतो वृष्टिं कुर्वतः क्षपाघनस्य रात्रिमेघस्येव शरैर्योऽन्धकारस्तं वितन्वतो विस्तारयतस्तस्य मुनेः संबन्धिनं रवं शरवर्षघोषं निशेमुःशुश्रुवु:। न तु किंचिद्ददृशुः। चेष्टा तु दूरापास्तेति भावः ॥


२७३
सप्तदशः सर्गः।

स सायकान्साध्वसविप्लुतानां क्षिपन्परेषामतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥२१॥

  स इति ॥ अतिसौष्ठवेनातिलाघवेन सायकाञ्शरान्क्षिपन्सोऽर्जुनः साध्वसेन विप्लुतानां भ्रान्तानां परेषां द्विषां दोषेण काचकामलादिरोगेणावृतलोचनानां दुष्टचक्षुषां शशीव पृथग्विभिद्यमान आवभासे । यथा सदोषचक्षुषैकश्चन्द्रो नानेव लक्ष्यते तद्वदेकोऽप्यनेक इव दृष्ट इति भावः ॥

क्षोभेण तेनाथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य ।
तरंगकम्पेन महाह्रदानां छायामयस्येव दिनस्य क[४३९]र्तुः ॥२२॥

  क्षोभेणेति ॥ अथ गणाधिपानां संबन्धिना तेन क्षोभेण कम्पेनेश्वरस्याकृतिराकारो मूर्तिर्महाहृदानां तरंगकम्पेन छायामयस्य प्रतिबिम्बरूपस्य दिनस्य कर्तुर्दिवाकरस्या- कृतिरिव भेदं विकारं ययौ प्राप । स्वयं निर्विकारोऽपि प्रतिमासूर्यवत्परसंसर्गात्तथा प्रतीयत इत्यर्थः ॥

  यदि देवोऽपि विकृतस्तर्हि कोपः किं न कृतः। तत्राह-

प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन्पुरुषे वि[४४०]कारः ।
आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥२३॥

  प्रसेदिवांसमिति ॥प्रसेदिवांसमर्जुनं प्रति प्रसन्नचित्तं तं देवं कोपो नाप न प्राप। तत्राप्यनुग्रहं ययाविति भावः । तत्र हेतुः-परस्मिन्पुरुषे परात्मनि देवे । स्वतो निर्विकार इत्यर्थः । विकार: कोपरूपः कुतः। न कुतश्चिदित्यर्थः । ननु तस्य निर्विकारस्य कथं बहिराकारभेदः कारणाभावादिति चेत्तन्न विद्म इत्याह-इदं पूर्वोत्तमाकारवैषम्यं च भेजे । किंतु केनापि कारणेन न कुप्यतीत्यर्थः । ननु निर्विकारे कुत आकारभेदस्तत्राह- महतां वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका हि ॥

  वैषम्यमेवाह-

विस्फार्यमाणस्य त[४४१]तो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य ॥२४॥

  विस्फार्यमाणस्येति ॥ ततोऽनन्तरं भूतानि भर्त्रा भूतपतिनां । भृञस्तृच्प्रत्ययः। अत एव 'न लोक--' इत्यादिना षष्ठीप्रतिषेधः । भुजाभ्याम् । कर्तृकरणयोस्तृतीया । विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य संबन्धिनीं स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाकृतिर्यस्यास्तां ज्यां धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव ददृशुः। द्विधाभावाद्भयंकरत्वाच्चेति भावः ।


२७४
किरातार्जुनीये

सव्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के ।
[४४२]र्यायसंपादितकर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥२५॥

  सव्येति ॥ पार्थः सव्यापसव्याभ्यां वामदक्षिणगतिभ्यां ध्वनितं नादितमुग्रचापं येन तं किराताधिपम् । अपराद्धः प्रमत्तो यन्ता पर्यायेणायौगपद्येन संपादितः कर्णयोस्ताल आस्फालनं येन तं व्यालं दुष्टम् । 'भेद्यलिङ्गःशठे व्यालः' इत्यमरः । गजमिवाशशङ्के । तच्चापचातुर्यदर्शनाद्दुर्जयः कोऽप्ययमनर्थकरश्चेति शङ्कित्तवानित्यर्थः ॥

निजघ्निरे त[४४३]स्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
[४४४]र्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवा[४४५]म्बुराशेः॥२६॥

  निजघ्निर इति ॥ हरेषुजालैस्तस्यार्जुनस्य पतन्त्यागच्छन्ति शिलीमुखानां शराणां वृन्दानि । ऊर्जस्विभिः प्रबलैरम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेनागतानि यादांसीव निजघ्निरे हतानि ॥

विभेद[४४६]मन्तः पदवीनिरोधं वि[४४७]ध्वंसनं चाविदितप्रयोगः।
ने[४४८]तारिलोकेषु करोति यद्यत्ततच्चकारास्य शरेषु,शंभुः ॥२७॥

  विभेदमिति ॥ अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एवं प्रतिय- न्धनमन्यत्र त्वासारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गलुण्ठनदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुरविदितप्रयोगःसंवृतमन्त्रत्वादविज्ञातोपायप्रयोगः सन्नरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽज्ञातबाणसंधानमोक्षादिकः सन्नस्यार्जुनस्य शरेषु चकार कृतवान् । कर्तरि लिट् । श्लेषालंकारः ॥

सोढावगीतप्र[४४९]थमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥२८॥

  सोढेति ॥ सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वोत्सृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः । अतएव वेम्गितया वेगेन पतद्भिर्गतिं कुर्वद्भिः। अतएव छिन्नैरपि त्रासिता वाहिन्यो यैस्तैरत एव कृताथैरिव बाणैः पेते । भावे लिट् । वस्तुतस्त्वकृतार्था एवेत्यर्थः ॥

अलंकृतानामृजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥२९॥


२७५
सप्तदशः सर्गः।

  अलमिति ॥ ऋजुतावक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेनालंकृतानां गुरुभिर्धनुर्विद्या- गुरुभिर्धर्मशास्त्रगुरुभिश्चोपदिष्ठां दर्शितां गतिं गमनमाचारं चास्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिवापर्वण्यग्रन्थौ । अन्यत्राप्रस्तावे। अकाण्ड इत्यर्थः । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिजित्वरस्य च । 'जिष्णुः शक्रे धनंजये। जित्वरे' इति विश्वः। धृतिं धैर्यमुन्ममाथ ।जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ।।

बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥३०॥

  बाणेति॥ बाणच्छिदः पार्थशरच्छेदिनस्ते स्मरारेर्विशिखा अवाङ्मुखीभूतफला विमुखाग्रा विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः क्रियाग्रहणाच्चतुर्थी । पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारमापुः । अत्युत्कटं कर्म सद्यः फलं दर्शयतीति भावः ॥

  पुनरर्जुनस्य जयमाह---

चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान्भवमार्गणानाम् ।
[४५०]माकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्व[४५१]रातिः ॥३१॥

  चित्रीयमाणानिति ॥ अरातिरर्जुनोऽतिलाघवेनातिशीघ्रत्वाच्चित्रीयमाणांश्चित्रमाश्चर्यं कुर्वाणान्। 'नमोवरिवश्चित्रङः क्यच्' । भवमार्गणानां प्रमाथिनः खण्डयतस्तान्बाणान्। समाकुलायाः संक्षुभिताया ध्वजिन्या: सेनाया हृदयेषु दूरं गाढं निचखान निखातवान् ॥

तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदा[४५२]ध इवाम्बु मेघः ॥३२॥

  तस्येति । तस्यार्जुनस्य पराक्रमेऽतियत्नाद्धेतोरन्योन्यस्य विशेषणेनातिशयकरणेना- तिरिच्यमान उत्कृष्यमाणे सति पुरां हन्ता त्रिपुरविजयी हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम् । 'पृषत्कबाणविशिखाः' इत्यमरः । निदाघे भवो नैदाघो मेघोऽम्वुवाहोऽम्बु जलमिव निरास मुमोच। अस्यतेर्लिट् । निदाघग्रहणं वर्षणस्यातितीव्रत्वद्योतनार्थम् ॥

अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥३३॥

  अनामृशन्त इति ॥ प्रियैषिणा प्रियचिकीर्षुणा शिवेनानुप्रहिताः प्रयुक्ता अत एव क्व-


२७६
किरातार्जुनीये

चिदेव मर्मानामृशन्तोऽस्पृशन्तः शराः सुहृन्मित्रं सोऽपि प्रियैषी तेन प्रयुक्ता उच्चारिता नर्मवादाः प्रियवादा इव मुनेरर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः ॥

अस्त्रैः समानामतिरेकिणीं वा पश्यन्नि[४५३]षूणाम[४५४]पि तस्य शक्तिम् ।
विषादवक्तव्यबलः प्रमाथी स्वमाललम्बे बलमिन्दुमौलिः ॥३४॥

  अस्त्रैरिति ॥ अस्त्रैः स्वायुधैः समानां तुल्यामतिरेकिणीं ततोऽधिकां वा तस्य मुनेरिषूणामपि शक्तिं पश्यन्विषादेनोत्साहभङ्गेन वक्तव्यानि निवाच्यानि बलानि सैन्यानि यस्य स प्रमाथी शत्रुमर्दन इन्दुमौलिर्महादेवः स्वं बलमात्मीयं महिमानमाललम्बे स्वसामर्थ्यमवलम्बितवान् ।

ततस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥३५॥

  तत इति ॥ ततो महिमप्रादुर्भावानन्तरं देवस्तपोवीर्याभ्यां समुद्धतस्य प्रगल्भस्य समर एवार्णवस्तस्य पारमन्तं यियासोर्जिगमिषोर्जिष्णोरर्जुनस्याखिलानि महेषुजालानि समग्रबाणसमूहानर्क: सूर्यः पयाम्सीव जलानीव समाचचाम संजहार ।

रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपपात पाणिः।
[४५५]न्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥३६॥

  रिक्त इति ॥अथ बाणान्तर्धानानन्तरमर्जुनस्य पाणिः करो रिक्ते बाणशुन्ये निषङ्गचक्रे तूणीरमुखेऽन्यद्विपेन गजान्तरेणापीतजले पीततोये नगस्याचलस्याश्मरन्ध्रे शिलागर्ते। प्रदर इत्यर्थः । सतर्षं सतृष्णं यथा स्यात्तथा मतङ्गजस्य पाणिर्लक्षणयां कर इव सविस्त्रम्भं सन्त्येव बाणा इति सविश्वासं निपपात ॥

च्युते स तस्मिन्निषुधौ शरार्थाद्धस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥३७॥

  च्युत इति ॥शरा एवार्थो धनं तस्माच्च्युते भ्रष्टे तस्मिन्निषुधौ निषङ्गे सहसा झटिति ध्वस्तार्थसारेऽकाण्डे नष्टधनसारे बन्धाविव तत्काले मोघो वितथःप्रणयः प्रीतिर्यस्य सः। तत्कालकृतव्यर्थप्रार्थनः । पूर्वं कृतार्थ एवेति भावः । स पाणिः । निर्वाच्यतां कृतज्ञत्वादपवादाहित्यं कामयत इति निर्वाच्यताकामः । शीलिकामिभक्ष्याचरिभ्यो णः। स इवेत्युत्प्रेक्षा । आभिमुख्यं प्रयेदे । यथा कश्चित्कृतज्ञस्तत्कालेऽकृतोपकारमपि बन्धुं पूर्वोपकारस्मरणात्पुनः पुनरनुबध्नाति तद्वदित्यर्थः ।

आघट्टयामास गतागताभ्यां सा[४५६]वेगमग्राङ्गुलिरस्य तुणौ ।
विधेयमार्गे मति[४५७]रुत्सुकस्य नयप्रयोगाविव गां जिगीषोः॥३८॥


२७७
सप्तदशः सर्गः।

  आघट्टयामासेति ॥ अस्य मुनेरग्रं चासावङ्गुलिश्चेत्यग्राङ्गुलिः । 'हस्ताग्राग्रहस्तयोर्गुण- गुणिनोर्भेदाभेदात्' इति वामनः। विधेयमार्गे कर्तव्यान्वेषण उत्सुकस्य प्रवृत्तस्य गां भुवं जिगीषोर्नायकस्य मतिर्बुद्धिर्नयः षाड्गुण्यं प्रयोग उपायस्तौ नयप्रयोगाविव तूणौ निषङ्गौ सावेगं ससंभ्रमम् । 'इष्टानिष्टागमाज्ञाने आवेगश्चित्तसंभ्रमः' इति शाश्वतः। गतागताभ्यां यातायाताभ्यामावापोद्वापाभ्यां चाघट्टयामास । अन्यत्र तु वितर्कयामास । शरग्रहणाय पुनः पुनस्तूणयोः पाणिं व्यापारयामासेत्यर्थः ॥

बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥३९॥

  बभारेति ॥ शून्याकृतिरिष्टनाशान्निस्तेजस्करूपोऽर्जुनस्तौ वीतमहेषुजालौ वीतानि गतानि महेषुजालानि ययोस्तौ महेषुधी महानिषङ्गौ । बिजिह्म: शून्यो लोको युगान्ते संशुष्कजलौ। 'शुषः कः' इति निष्ठातकारस्य ककारः। पूर्वापरावम्बुराशी समुद्राविव । बभार॥

तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततया[४५८]नुतेपे ।
खामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिप[४५९]क्षम् ॥४०॥

  तेनेति ॥ पार्थस्तयोस्तूणयो रिक्ततया हेतुना यथानुतेपे शुशोच तथा तेनानिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच । तथा हि । सन्तः स्वमापदं प्रोज्झ्य विसृज्य विपत्तिमग्नमुपकारिणां पक्षं वर्गं शोचन्ति । स्वव्यसनापेक्षया परकीयव्यसनमेव सतामनुतापकमित्यर्थः॥

प्रतिक्रियायै विधुर: स तस्मात्कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारातूणीमुखान्मित्रकुलादिवार्यः ॥४१॥

  प्रतीति। प्रतिक्रियायै विधुरः प्रतिकर्तुमसमर्थः। 'तुमर्थाच्च भाववचनात्'इति चतुर्थी। अर्जुनस्य स हस्तः पाणिः । पराङ्मुखत्वेऽपि तत्कालवैमुख्येऽपि कृतोपकारात्तस्मात्तूणी- मुखान्मित्रकुलादार्य: साधुः कृतज्ञ इव । 'आर्यः साधुकुलीनयोः' इति विश्वः। कृच्छ्रेण महाकष्टेन विश्लेषमियाय । गौरादित्वात्तूणशब्दान्ङीप् ॥

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव ।
संभावनायाम[४६०]धरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥४२॥

  पश्चादिति ॥ तदानीं भर्तुः स्वामिनः । कर्तरि षष्ठी । पश्चात्क्रिया पृष्ठतः करणं तूण- युगस्योपकारिणीवोपकारिकेव जज्ञे जाता। तथा हि । संभावनायां स्वयोग्यतायामध- रीकृतायामफलीकृतायां पत्युः स्वामिनः पुरोऽग्र आसितव्यमासितं स्थितिः । बहुल-


२७८
किरातार्जुनीये

ग्रहणाद्भावे तव्यप्रत्ययः । साहसं न क्षमं न योग्यम् । भर्त्रा संभावितस्यावसरेऽनुपकर्तु- रनुजीविनस्तत्सांमुख्यमनुचितमित्यर्थः ॥

तं शंभुराक्षिप्तमहेषुजालं लौहैः शरैर्मर्मसु निस्तुतोद।
हृतोत्तरं तत्त्ववि [४६१] चारमध्ये व[४६२]क्तेव दोषैर्गुरुभिर्विपक्षम् ॥४३॥

  तमिति ॥ शंभुराक्षिप्तान्याहतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हृतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता वादी गुरुभिर्दोषैर्निग्रहस्थानैरिव लौहैर्लॊहमयैः शरैर्मर्मसु निस्तुतोद व्यथयामास ॥

जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहै[४६३]मलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥४४॥

  जहारेति । किं च । असान्मुनेरचिरेण शीघ्रं ज्वलद्भिर्मणिभिर्द्योतिता हैम्यः सौवर्ण्यो लेखा यस्य तत्तथोक्तं वर्म कवचम् । चण्डो मरुत्पवनः पतङ्गात्सूर्यादेकनीलं केवलं कृष्णवर्णम्। 'एके मुख्यान्यकेवलाः'इत्यमरः। तडित्वतस्तडिद्युक्तस्याम्बुदस्य खण्डमिव। जहार। तदा भगवन्मायया मुक्तकञ्चुको मुनिर्मेघनिर्मुक्तः सूर्य इव दिदीप इति भावः॥

  अथ युग्मेनाह-

विकोशनि[४६४]र्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विषाबद्धरुषः स[४६५]मक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥४५॥

  विकोशेति ॥ सोऽर्जुनः । तनुं त्रायत इति तनुत्रं वर्म।'आतोऽनुपसर्गे कः' इति कप्रत्ययः ॥ तेन विना । विकोशः कोशादुद्धृतो निर्धौततनुः शाणोल्लीढमूर्तिः । ततो विशेषणसमासः ॥ तस्य विकोशनिर्धौततनोर्महासेर्महाखड्गस्य तथा त्वचि विच्युतायां सत्यां फणावतश्च मुक्तकञ्चुकस्याहेश्च प्रतिद्विपे प्रतिगज आबद्धरुषो बद्धकोपस्य समक्षं प्रतिगजस्याग्र आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च ॥

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रु[४६६]चिं स भेजे[४६७]॥४६॥

  विबोधितस्येति ॥ धनानां ध्वनिना गर्जितेन विवोधितस्य । शैलरन्ध्रात्कंदादपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च । तथा निरस्तधूमस्य गतधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे। एतेनास्य तीक्ष्णत्ववैरनिर्यातनत्वरणदुर्मदत्वमनस्वित्वतेजस्वित्वान्युक्तानि ।अत्र रुचिमिवरुचिमितिसादृश्याक्षेपादसंभवद्वस्तुसंबन्धी निदर्शनालंकारोमालया संसृष्टः॥


२७९
सप्तदशः सर्गः।

अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगम् ॥४७॥

  अचित्ततायामिति ॥ तदानीं कवचपतनसमये महीं गताविषुधी निषङ्गावचित्तता- यामप्यचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्तां योग्याम् । नाम किल । अर्किचित्करत्वादिति भावः । अनूर्ध्वतामवाङ्मुखत्वं प्राप्यं चेतनया प्राणिसाधारणज्ञानेनेव योगं संबन्धं विवव्रतुरिवेत्युत्प्रेक्षा । अचेतनत्वेऽप्यवाङ्मुखत्वादिचेतनधर्मयोगादिति भावः॥

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥४८॥

  स्थितमिति ॥ विशुद्धे निर्मले नभसीव सत्त्वे सत्त्वगुणे स्थितं तपोवीर्यमयेन तपोवीर्याभ्यामागतेन धाम्ना तेजसा युक्तं तमर्जुनमीशस्त्वष्टा विश्वकर्मा विवस्वन्तं सूर्यमिवाजस्रं निरन्तरं शस्त्राभिघातैः शस्त्रकर्षणैरुल्लिलेख ततक्ष ॥

संरम्भवेगोज्झितवेद[४६८]नेषु गात्रेषु बा[४६९]धिर्यमुपागतेषु ।
मु[४७०]नेर्बभूवा[४७१]गणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ॥४९॥

  संरम्भेति ॥ संरम्भवेगेन संभ्रमातिशयेनोज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यं स्तैमित्यमुपागतेषु सत्सु न गणिता इषुराशयो येन तस्यागणितेषुराशेर्मुनेरर्जुनस्यात्ममन्युः स्वकोपो लोहस्य विकारो लौहः कार्ष्णायसः तिरस्क्रियत आच्छाद्यतेऽनेनेति तिरस्कार: कञ्चुक इव बभूव । रोषवशान्न किंचित्प्रहारंदुःखमज्ञासीदित्यर्थः । क्रोधैकवर्मणां वीराणां किमन्यैर्लोहभारैरिति भावः ॥

  अथ युग्मेनाह----

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदि[४७२]ग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पा[४७३]र्ष्णिघातैः ॥५०॥

  तत इति ॥ ततोऽनन्तरमनुपूर्वौ पूर्वमनुगतौ गोपुच्छाकारावायतौ दीर्घौ वृत्तौ वर्तुलौ च बाहू यस्य स श्रीमाञ्शोभावान्क्षरल्लोहितदिग्धदेहः स्त्रवद्रुधिरलिप्तगात्रः पार्ष्णिघातैश्चरणतलाघातैः। 'तन्द्रन्थी घुटिके गुल्फौ स्त्रियां पार्ष्णिरधस्तयोः' इत्यमरः । क्षितिं विधुन्वन्प्रकम्पयन्निव वेगेनास्कन्द्याभिद्रुत्य विमुक्तनादः सोऽर्जुनः ॥


२८०
किरातार्जुनीये

साम्यं गतेनाशनिना मघोनः श[४७४]शाङ्कखण्डाकृतिपाण्डुरेण ।
शंभुं बिभित्सुर्धनुषां जघान स्त[४७५]म्बं विषाणेन महानिवेभः॥५१॥

  साम्यमिति ॥ मघोन इन्द्रस्याशनिना वज्रेण सह साम्यं गतेन वज्रकल्पेन शशाङ्कस्य खण्डं शकलं तस्येवाकृतिर्यस्य । तद्वद्वक्रमित्यर्थः। पाण्डुरं च। तद्वदेवेति भावः । तेन शशाङ्कखण्डाकृतिपाण्डुरेण धनुषा शंभुं बिभित्सुर्भेत्तुमिच्छुः सन् । महानिभो गजो विषाणेन दन्तेन स्तम्बमिव । जघान ॥

रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः।
समुद्धता सिन्धुरनेकमार्गा प[४७६]रे स्थितेनौजसि जह्नुनेव ॥५२॥

  रयेणेति ॥रयेण वेगेन पतन्ती सा चापयष्टिर्भवस्य संसारस्योद्भव उत्पत्तिर्यस्मा- त्तेनभवोद्भवेनेश्वरेण पर ओजसि परमे ज्योतिषि स्थितेन जह्नुना राजर्षिणा समुद्ध- तात्युत्कटानेकमार्गा त्रिस्रोताः सिन्धुर्गङ्गेवात्मनि संनिदधे सम्यङ्निहिता । श्रन्तर्निलायितेत्यर्थः॥

विकार्मुकः कर्मसु शोच[४७७]नीयः परिच्युतौदार्य इवोपचारः।
विविक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥५३॥

  विकार्मुक इति ॥ विकार्मुको भग्नचापोऽत एव परिच्युतौदार्यो दानवर्जित उपचारः सत्कार इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्योऽपूज्यश्च सत्त्वावष्ट- म्भेनाभग्नचित्तत्वाच्च सोऽर्जुनः शुलभृता शिवेन सलीलं सहेलं यथा तथादूरपातैर- तिगाढप्रहारैः पत्रिभिः शरैर्दूरमत्यन्तं विचिक्षिपे नुन्नः ॥

उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः।
[४७८]पोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥५४॥

  उपोढेति ॥ उपोढमासन्नं कल्याणफलमस्त्रलाभरूपं स्वर्गादिकं च यस्य स वीरव्रतमा- हवादनिवृत्तिरूपं तीव्रं तपश्चाभिरक्षन्पालयन्पुण्यो यो रण एवाश्रमस्तत्र तिष्ठतीति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तो मुनिरर्जुनः कश्चित्तपस्वी च तैः शिवस्य महादेवस्येषुभिः शरैर्जगोपवासैरिव तेपे तप्तः । तपतेः कर्मणि लिट् ॥

ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः।
तेजःश्रियामाश्रयमुत्तमासिं साक्षादहंकारमिवाललम्बे ॥५५॥

  तत इति ॥ ततश्चापान्तर्धानानन्तरं सोऽर्जुनोऽग्रभूमिं विपदि गन्तव्यस्थानम् । शर-


२८१
सप्तदशः सर्गः।

ण्यमित्यर्थः। कुतः। व्यवसायसिद्धेर्युद्धोद्योगसिद्धे: सीमानमवधिम्। साधकतममित्यर्थः। अन्यैः परैरतिदुस्तरं दुरतिक्रमं तेजःश्रियां प्रतापसंपदामाश्रयम् । हेतुमित्यर्थः । उत्तमासिं महाखड्गम् । 'सन्महत्-' इत्यादिना समासः । साक्षादहंकारं सविग्रहमभिमानमिवाललम्बे जग्राह ॥

शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्र[४७९]विचारमार्गै: ।
हस्तेन निस्त्रिंशभृता स[४८०]दीप्तः साकांशुना वारिधिरूर्मिणेव ॥५६॥

  शरानिति ॥ अनवकर्मागर्ह्यकर्मा । 'अवद्यपण्य-' इत्यादिना निपातः । शरानवद्यन्खण्डयन्वीरो निस्त्रिंशभृता खड्गयुक्तेन हस्तेन सार्काम्शुनार्काम्शुसहितेनोर्मिणा तरङ्गेण वारिधिरिव दीप्तो दीपितः सोऽर्जुनः प्रविचारमार्गै: स्वङ्गिनां गतिभेदैश्चित्रं यथा तथा चचार॥

यथा निजे वर्त्मनि भाति भाभिश्छायामयश्चाप्सु सहस्ररश्मिः ।
तथा न[४८१]भस्याशु र[४८२]णस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥५७॥

  यथेति ॥ भामिर्दीप्तिभिरुपलक्षितः । 'स्युः प्रभारुग्रुचिस्त्विइभाभाश्छविद्युतिदीप्तयः' इत्यमरः । सहस्ररश्मिरर्को यथा निजे वर्त्मनि नभसि च्छायामयः प्रतिबिम्बरूपः सन्नप्सु स्पष्टद्विमूर्तिर्भाति तथा सोऽर्जुनो नमस्याकाशे रणस्थलीषु च स्पष्टे द्वे मूर्ती यस्य स स्पष्टद्विमूर्तिः सन् भूतैर्गणैर्ददृशे दृष्टः । यथैकोऽर्को नभस्यप्सु चानेक इव दृश्यते तथा सोऽपि दिवि भुवि चाशुसंचाराद्यौगपद्यभ्रमादेवैकोऽप्यनेक इव गणैर्दष्ट इत्युत्प्रेक्षा ।।

शि[४८३]वप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपातं पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥५८॥

  शिवेति ॥ शिवेन प्रणुन्नः क्षिप्तस्तेन शिलीमुखेन त्सरप्रदेशान्मुष्टिप्रदेशमवधिं कृत्वा । 'त्सरुः खङ्गादिमुष्टौ स्यात्' इत्यमरः । अपवर्जिताङ्गो लूनविग्रहोऽसिः खड्गस्तस्यार्जुनस्य पाणेः कराद्धनस्य मेघस्य वप्रात्तटाद्वैद्युतो विद्युत्संबन्ध्यग्निरिव ज्वलन्पपात॥

आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽव[४८४]धूतः।
रिक्तः प्रकाशश्च बभूव भूमेरु[४८५]त्सादितोद्यान इवं प्रदेशः ॥५९॥

  आक्षिप्तेति ॥ आक्षिप्तान्यपहृतानि चापावरणेषुजालानि धनुर्वर्मबाणसमूहा यस्य स छिन्नोत्तमासिर्लूनमहाखड्गो मृधे रणे। 'मृधमास्कन्दनं संख्यम्' इत्यमरः । अवधूतो


२८२
किरातार्जुनीये

निरस्तः सोऽर्जुन उत्सादितमुत्पाटितमुद्यानं यस्य स भूमेः प्रदेशो भूमिभाग इव रिक्तः शून्यः प्रकाशो निःसंबाधश्च । दृश्य इति यावत् । बभूव ॥

स ख[४८६]ण्डनं प्राप्य पराद[४८७]मर्षवान्भुजद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्र[४८८]वेतरेषां पयसामिवाश्मनाम् ॥६०॥

  स इति॥परात्परस्माच्छत्रो:।'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न स्मादादेशः। खण्डनं अङ्गं प्राप्यामर्षवान्सोऽर्जुनो भुजद्वितीयो भुजमात्रसहायः सन्नपि विजेतुमिच्छया द्रवेभ्य इतराणि तेषां द्रवेतरेषां कठिनानां पयसामिव । करकाणामिवेत्यर्थः। अश्मनां संबन्धिनीं परिरुग्णा भग्ना: पादपा यया सा तां वृष्टिं ससर्ज । अश्मभिर्जघानेत्यर्थः ॥

नी[४८९]रन्ध्रं परिगमितें क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥६१॥

  नीरन्ध्रमिति ॥ शिलाविताने शिलाजाले भूतानामधिपतिना शिवेन पृषत्कैर्बाणैः क्षयं परिगमिते नीते सतीन्द्रसूनुरर्जुन उच्छ्रायेणोत्सेधेन स्थगितमाच्छादितं नभोदिशामन्तरालं च येन तन्नीरन्ध्रं सान्द्रम् । रोहन्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः। क्षितौ रुहा वृक्षास्तेषां जालं चिक्षेप प्रेरयामास ।'उच्छ्रायं गमितवति' इति प्रामादिकः पाठः॥

निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम्।
ईशानः सकुसुमपल्लवैर्नगैस्तै[४९०]रातेने बलिमिव रङ्गदेवताभ्यः ॥६२॥

  निःशेषमिति ॥ ईशानः शिवः । शानच्प्रत्ययः। निःशेषं यथा तथा शकलितानि वल्कलानि त्वचोऽङ्गानि शाखाः सारो मज्जा च येषां तैर्भुवमभितः कषायो यो रागः। स्वरसेन रञ्जनमिति यावत् । 'रागे क्वाथे कषायोऽस्त्री' इति वैजयन्ती । तेन चित्रां विचित्रवर्णां कुर्वद्भिः सकुसुमपल्लवैस्तैर्नगैर्वृक्षै रङ्गे रणरङ्गे या देवतास्ताभ्यो बलिं पूजामिवातेने ॥

उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभंभुजाभ्यामाजघ्ने विषमविलोचनस्यवक्षः ॥६३॥

  उन्मज्जन्निति ॥ गाण्डीव्यर्जुन उन्मज्जन्नुत्तरन्मकरो जलग्राहविशेषोऽमरापगाया गङ्गाया इव बाणनद्या बाणप्रवाहाद्वेगेन प्रतिमुखमभिमुखमेत्यागत्य कनकशिलानिभम् । कनकग्रहणं काठिन्यातिशयद्योतनार्थम् । विषमविलोचनस्य त्र्यम्बकस्य वक्षो हृदयं


२८३
अष्टादशः सर्गः।

भुजाभ्यामाजघ्ने ताडितवान् । अत्रात्मनेपदं विचार्यम् । 'आङो यमहनः' इत्यत्राकर्म- काधिकारात् 'स्वाङ्गकर्मकाच्च' इति वक्तव्यत्वात् । न च शिवस्य प्रतिमुखमित्यन्व- यात्कनकशिलानिभं कनकनिकष्रतुल्यं श्यामं स्ववक्ष आजघ्न इत्यर्थ इतिवाच्यमनौचित्याचरणात् । न हि युद्धाय संनद्धा निपुणा अपि मल्लाः स्ववक्षस्ताडनमाचरन्ति । किं तु स्वभुजास्फालनम् । किं च । अनन्तरं वक्ष्यमाणभवकर्तृकाविनयसहनविरोधाद्वक्ष एवेत्यन्वयस्याव्यवधानाच्च पूर्वैरेव दूषितत्वात् । अतो व्याकरणान्तराद्द्रष्टव्यम् । केचित्तु 'त्र्यम्बकस्य वक्षः प्राप्य' इत्यध्याहारं स्वीकृत्याकर्मकत्वादात्मनेपदमाहुः ॥

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर[४९१]सुगममरिसैन्यैरङ्कमभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः॥६४॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तदशः सर्गः ।

  अभिलषत इति॥कीर्तिलक्ष्म्योरुपायं साधनभूतमरिसैन्यैरसुगमं दुरासदं विक्रममभिलषतः। सूनुपक्षे यत्किचिन्महत्फलं प्रार्थयमानस्येत्यर्थः । अतएवाङ्कमन्तिकमभ्यागतस्योत्सङ्गमारूढस्य च पाण्डवस्याविनयं स्मरारिः। अनेन भक्तवात्सल्यमेव सहनकारणमिति सूच्यते । शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य । कुतः । एक एव सुनुस्तस्यैकसूनोविनयं जनक इव सेहे सोढवान् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां सप्तदशः सर्गः समाप्तः ॥


अष्टादशः सर्गः।


तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घ[४९२]नैरिव मुष्टिभिः॥१॥

  तत इति ॥ ततो मुष्टिनियुद्धानन्तरमुदग्रे महति द्विरदे गज इव भीमे भुजावेवायुधे यस्य तथाभूते रणमुपेयुषि मुनौ शंकरः स्वयमपि सबाणधि सतूर्ण धनुरपास्य त्यक्त्वा मुष्टिभिर्घनैर्लौहमुद्गरैरिव प्रतिजघान । प्राङ्मुनिकृताघातस्य प्रतिघातं कृतवानित्यर्थः। 'घनाः कठिनसंघातमैघकाठिन्यमुद्गराः' इति वैजयन्ती। घनस्तु लोहमुद्गरे' इति विश्वः । यद्यपि मुष्टिशब्दः 'मुष्ट्या तु बद्धया । स रत्निः स्यादरत्निस्तु निष्कनि-


२८४
किरातार्जुनीये

ष्ठेन मुष्टिना' इत्यमर उभयथा प्रयोगाद्विलिङ्गस्तथाप्यत्रोपमानसारूप्यात्पुंलिङ्गो ग्राह्यः । द्रुतविलम्बितं वृत्तम् ॥

हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु द[४९३]रीभृतः॥२॥

  हरेति ॥ हरपृथासुतयोः शिवार्जुनयोरमृदु निबिडं यथा तथा संवलिताः संघटिता अङ्गुलयो येषां ते । मुष्टीकृता इत्यर्थः । तेषु पाणिषु जातस्तथोक्तः । स्फुटन्तीनां विदलन्तीनामनल्पशिलानामारव इव दारुणो भीषणो ध्वनिरुत्पतन्नुद्गच्छन् दरीभृतो गिरेर्दरीषु गुहासु प्रतिननाद प्रतिद्ध्वान ॥

शिवभुजाहृतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः॥३॥

  शिवेति ॥ कपिध्वजः शिवस्य भुजाहतिभिर्मुष्टिघातैर्भिन्ना विदीर्णा याः पृथवो महत्यः क्षतयः प्रहारा व्रणास्ताः सुखमिवानुबभूव । दुःखकरीरपीति भावः ।क्षतिदुःखं नाजीगणदित्यर्थः । ननु दुःसहदुःखवेगेषु कथमगणनेत्यत्राह -क इति । क इव नाम को नु खलु सत्त्ववतां सत्त्वाधिकानां बृहन्मनसां तेजस्वीनामनुकृतेरनुकरणस्यापि क्षमो भवेत् । मनस्विनां चरितं नटवदनुकर्तुमपि न कश्चिदीष्टे तस्याचरणं तु दूरापास्तमिति भावः। रौद्ररसाविष्टमनसां मनस्विनां कुतः सुखदुःखगणनेति भावः ॥

व्रणमुखच्युतशोणितशीक[४९४]रस्थगितशैलतटाभभुजान्तरः।
अभिनवौषसरागभृता बभौ जळधरेण समानमुमापतिः ॥४॥

  व्रणेति॥ व्रणमुखेभ्यश्च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलासदृशं भुजान्तरं वक्षो यस्य स तथोक्त उमापतिरभिनवमौपसरागं संध्या- रागंविभर्तीति तथोक्तेन जलधरेण समानं तुल्यं यथा तथा बभावित्युपमा ॥

उरसिशूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनवृष्टयः ।
भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥५॥

  उरसीति ॥ शूलभृतः शिवस्योरसि प्रहिताः प्रयुक्ता अर्जुनस्य मुष्टयः । पृथुनि विशाले सह्यमहीभृतः सह्याद्रे रोधसि तटे भृशरयास्तीव्रवेगाः सिन्धोः समुद्रस्थ महोर्मय इव मुहुः प्रतिहतिं ययुः॥

निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥६॥


२८५
अष्टादशः सर्गः।

  निपतित इति ॥ अयुगानि चक्षूंषि यस्य तस्यायुगचक्षुषस्त्रिलोचनस्यायते दीर्धे अरत्नियुगे अरत्न्योर्बद्धमुष्ट्योर्हस्तयोर्युगे युग्मे । 'हस्तो मुष्ट्या तु बद्धया। स रत्नि: स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' इत्यमरः। प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः । शिरोधरायामधीत्यधिशिरोधरमधिकंधरं समं युगपन्निपतिते सति किरीटिनार्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि।'संख्ययाव्ययासन्न-'इत्यादिना बहुव्रीहिः। 'चतुरोऽच्प्रकरणेञ्युपाभ्यामुपसंख्यानम्' इति समासान्तोऽच्प्रत्ययः । तेषु त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम् । भावे लिट् ॥

अभिभवो[४९५]दितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा ।
भु[४९६]जयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥७॥

  अभिभवेति॥ अभिभवेनोक्तरूपेण परिभवेनोदित उत्पन्नो यो मन्युः क्रोधस्तेन विदीपितः प्रज्वलितः सोऽर्जुनो भृशं जवं समभिसृत्य समभिद्रुत्यौजसा बलेन शशिकलाभरणस्येन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह ॥

प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजा[४९७]युधंगर्वितयोस्तयोः॥८॥

  प्रववृत इति ॥ अथ महाहवे महारणे मल्लयोर्बलीयसो: । 'मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि' इति विश्वः। गुरू भुजान्नेवायुधं तेन गर्वितयोस्तयोः शिवार्जुनयोः करणानि करचरणबन्धनान्येव शृङ्खलानि तेषां संकलना संघटना तया गुरुर्दुस्तरस्तथाचलस्य हिमाद्रेः संचलनं कम्पस्तस्याहरण आरोपकः। कर्तरि ल्युट् । रणःप्रववृते प्रवृत्तः॥

अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना ।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥९॥

  अयमिति ॥ अयं पुरोवर्ती पुमानसौ भगवान्प्रसिद्धो देवः तदुक्तम्--'इदमः समक्षरूपं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥' इति । उत पाण्डवः । अयं हि तिष्ठदवस्थायां भ्रम इति वेदितव्यम् । अथ पतनावस्थायामाह- मुनिनावागधः स्थितमुत शशिमौलिना । अजेन देवेन नु समधिरूढमुपरि स्थितमथ जिष्णुना स्विदर्जुनेन वा समधिरूढमित्येवं गणैः प्रमथैर्वेगवशान्मुमुहे भ्रान्तम् । 'मुह वैचित्ये' । भावे लिट् ॥

प्र[४९८]चलिते चलितं स्थितमास्थिते वि[४९९]नमिते नतमुन्नतमुन्नतौ।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥१०॥


२८६
किरातार्जुनीये

  प्रचलिते इति ॥ असहिष्णुना तयोर्भारमसहमानेन भूभृता शैलेनाभावभयाद्विनाशभयादिव मुहुर्वृषश्च कपिश्च ध्वजे ययोस्तयोर्वृषकपिध्वजयोः प्रचलिते चलने सति चलितं प्रचेले । आस्थिते तूष्णीमवस्थाने स्थितं तथैव तस्थे । विनमिते सम्यगाक्रमणे सति नतं नम्रीभूतम् । अनामीति यावत् । उन्नतावुन्नमने सत्युन्नतमुदनामि। सर्वत्र भावे क्तः।

करणशृ[५००]ङ्खलनिःसृतयोस्तयोः कृतभुज[५०१]ध्वनि वल्गु विवल्गतोः।
चरणपातनिपातितरोधसः प्रससृपुः सरितः परितः स्थलीः॥११॥

  करणेति ॥ करणानि करचरणवन्धविशेषास्तान्येव शृङ्खलानि तेभ्यो निःसृतयोः। मुहुस्त्यक्तबन्धयोरित्यर्थः। कृतो भुजध्वनिर्भुजास्फोटनशब्दो यस्मिन्कर्मणि तत्तथा वल्गु सुन्दरं च यथा तथा विवल्गतोरुत्प्लवमानयोस्तयोर्हरपार्थयोश्चरणपातैः पाद- क्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः परितः स्थलीषु प्रससृपु प्रसृताः । 'अभितःपरितः-' इत्यादिना द्वितीया । 'जानपद-' इत्यादिनाकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः स्थलानि प्रामज्जयन्नित्यर्थः। एतेन तयोर्भार उक्तः ॥

वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः।
चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुराम् ॥१२॥

  वियतीति ॥ वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां जयिनं त्रिपुरान्तकम् । 'जिदृक्षि-'इत्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणाभ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्यान्तरा मध्येमार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरवभ्यां जग्राहेत्यर्थः ॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ त[५०२]मक्लमं निष्पिपेष परिरभ्य वक्षसा ॥१३॥

  विस्मित इति ॥ तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः सविस्मयः कर्मणां क्षयकरः । मोक्षप्रद इत्यर्थः। परः पुमान्हरोऽवनौ क्षितौ क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः। अक्लममक्लान्तं तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिलिङ्गेत्यर्थः । रथोद्धतावृत्तम् ॥

तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥१४॥

  तपसेति ॥भगवान्देवोऽस्यार्जुनस्य विपुलसत्त्वतया बहुसत्त्वसंपदा । धैर्यसंपत्त्येति


२८७
अष्टादशः सर्गः।

यावत् । यथा मुदं ययौ तथा तपसा मुदं न ययौ । तथा हि सतां गुणसंहतेस्तपः सेवादिगुणसंघातात्समतिरिक्तमतिशयितं निजं सत्त्वमेवोपकार्युपकारकमहो । प्रमिताक्षरावृत्तम् ॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥१५॥

  अथेति ॥ अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसीन्दुलेखया विराजितं शोभितमतिमनोहरं सुन्दरं स्ववपुर्दधतं किरातरूपं विहाय निजविंग्रहं दधानं हरमुदीक्ष्य पाण्डवो ननाम प्रणतवान् । अपरवक्रं वृत्तम् --'अयुजि ननरला गुरुः समे तदपरवक्रमिदं नजौ जरौ' इति लक्षणात् ॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि त[५०३]थैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥१६॥

  सहेति ॥ वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सह शरधिभ्यां वर्तत इति सहशरथि सनिषङ्गम् । 'वोपसर्जनस्य' इति विकल्पांत्सहशब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमसिमपि खङ्गं च तथैव पश्यन्विस्मयमुपाययौ । क्वचित्तु 'वृषभगतिम्' इति पाठ: । तत्र वृषभगतिं शिवं च पश्यन्विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्--'प्रमुदितवदना भवेन्नौ ररौ' इति लक्षणात् ॥

सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥१७॥

  सिषिचुरिति ॥ अम्बुवाहाः शनैरवनिं सिषिचुरुक्षांचक्रु: । दिवोऽन्तरिक्षाच्चित्रं विचित्रं सुरकुसुमं मन्दारकुसुमानि। जातावेकवचनम् । इयायाजगाम । अनाहतस्या- ताडितस्य दुन्दुभे: । जातावेकवचनम् । ध्वनिः शब्दोविमलरुचि प्रसन्नमखिलं नभो भृशमानशे व्याप । अंताडिता एव दुन्दुभयो नेदुरित्यर्थः। सर्वमिदमस्य सर्वलोकहितार्थि- त्वादिति वेदितव्यम् ॥

आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥१८॥

  आसेदुषामिति ॥ गोत्रभिद इन्द्रस्यानुवृत्त्यानुसरणेनासेदुषामासन्नानां भुवनत्रयस्य गोपायकानां रक्षकाणां लोकपालादीनाम्। 'गुपूधूप-' इत्यादिनायप्रत्ययः। तद्- न्ताण्ण्वुल्।रोचिष्णवः प्रकाशनशीला रत्नावलयो येषां तैः। 'अलंकृञ्--' इत्यादिनेष्णु-


२८८
किरातार्जुनीये

च्प्रत्ययः । विमानैः पुष्पकैराचिता व्याप्ता द्यौस्तारकिता संजाततारकेव रेजे । उत्प्रेक्षालंकारः॥

हंसा बृहन्तः सुरसद्मवाहाः संह्रदिकण्ठाभरणाः पतन्तः।
चक्रु: प्रयत्नेन विकीर्यमाणैोर्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥१९॥

  हंसा इति ॥ बृहन्तो महान्तः सुरसद्मानि विमानानि वहन्तीति सुरसद्मवाहाः। कर्मण्यण् । संह्रादीनि निह्रादीनि मुखराणि कण्ठाभरणानि किङ्किण्यो येषां ते । पतन्तो धावन्तो हंसाः प्रयत्नेन चिकीर्यमाणैर्विक्षिप्यमाणैरग्रपक्षै: पक्षाग्रैर्व्योम्नः परिष्वङ्गमालिङ्गनं चक्रुरिवेत्युत्प्रेक्षा ॥

मुदितमधुलिहो वि[५०४]तानीकृताः स्रज उपरि वितत्य सातानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥२०॥

  मुदितेति॥ अथ मरुद्वायुर्जलदे मेघ इव वृषे निषेदिवांसमुपविष्टमीश्वरं मुदिता मधुलिहो भृङ्गा याभिस्ता वितानीकृता उल्लोचाकाराः कृताः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । सांतानिकी: संतानुकुसुमविकाराः स्रजः । मन्दारमाला इत्यर्थः । संतानशब्दाद्विकारार्थे ठक् । 'संतानः कल्पवृक्षश्च' इत्यमरः । उपरि वितत्य विस्तार्योपसुखयांबभूव प्रह्लादयामास ॥

कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥२१॥

  कृतेति ॥ अभिन्नरोमोद्गमैरविरलरोमाञ्चैर्गणपतिभिः प्रमथमुख्यैरुच्चकैः परिवन्दितेन साधु साध्विति संस्तुतेन।'वदि अभिवादनस्तुत्योः। कर्मणि क्तः। हरेः सूनुनार्जुनेन तपसि । कृतं फलं भगवत्साक्षात्कारलक्षणं येन तस्मिन् । कृतफले सतीत्यर्थः । कृतधृति कृतसंतोषं यथा तथा फलज्यायसी फलाधिकेति वक्ष्यमाणा स्तुतिर्जगदे कथिता।

शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः।
जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥२२॥

  शरणमिति ॥ हे अजित अपराजित हे भव, अतिकारुणिकमतिदयालुम् । 'तदस्य प्रयोजनम्' इति ठक् । भक्तिगम्यं भक्तिमात्रसुलभं भवन्तं शरणं रक्षकमधिगम्य जितमृत्यवो विगतमरणाः ।अमरा भूत्वेत्यर्थः । जनाः ससुरासुरस्य जगतो भय आपदि शरणं स्वयं रक्षितारो भवन्ति । 'शरणं गृहरक्षित्रोः' इति विश्वः । प्रमिताक्षरावृत्तम् ॥


२८९
अष्टादशः सर्गः।

विपदेति तावदवसादकरी न च कामसंपदभिकामयते।
न नमन्ति चैकंपुरुषं पुरुषास्तवं यावदीश न नतिः क्रियते ॥२३॥

  विपदिति ॥ हे ईश, यावत्तव नतिः प्रणामो न क्रियते । पुरुषेणेति शेषः । तावदेवैकं पुरुषमेकाकिनं सन्तमवसादकरी क्षयकरी विपदेति प्राप्नोति । कामसंपन्मनो- रथसंपच्च नाभिकामयते नेच्छति। पुरुषाश्चान्ये लोकास्तमेकं पुरुषं तव स्तुतिमकुर्वाणं न नमन्ति न वशे वर्तन्ते। नानिष्टनिवृत्तिर्नापीष्टप्राप्तिरित्यर्थः । यदा तु त्वां प्रणमन्ति तदैव सर्वं लभ्यत इति भावः ॥

संसेवन्ते दानशीला विमुक्त्यै सं[५०५]पश्यन्तो जन्मदुःखं पुमांसः।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥२४॥

  संसेवन्त इति ॥ दानं शीलं स्वभावो निजधर्मो येषां ते दानशीला: त्वामेवोद्दिश्य दानं कुर्वन्त इत्यर्थः । 'तस्माद्दानं परमं वदन्ति' इति श्रुतेरिति भावः। कुतः । यतो जन्मदुःखं संपश्यन्तोऽनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय संसेवन्ते । भवन्तमिति शेषः। न च तच्चित्रम् । किंत्वानतेभ्यः प्रणम्रेभ्यो निःसङ्गो निस्पृहस्त्वं यत्फलसि फलं ददासि । तेषां फलार्थित्वादिति भावः । तत्केवलं निरुपाधिकं कारुण्यं करुणा। स्वार्थे ष्यञ् । 'कारुण्यं करुणा धृणा' इत्यमरः । न स्वकार्यम् । एतदेव चित्रम् । केवलं परार्थत्वादिति भावः। शालिनीवृत्तम् ॥

प्राप्यते यदिहं दूरमगत्वा यत्फलत्य[५०६]परलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥२५॥

  प्राप्यत इति ॥ यत्तीर्थमिहास्मिंल्लोके दूरमगत्वा प्राप्यते। स्मृतिमात्रसुलभमित्यर्थः । गङ्गादिकं तु न तथेति भावः । यत्तीर्थमपरलोकगताय फलति फलं प्रयच्छति । अत्रापि स्मरणमात्रादेवेति भावः। भवः संसारः स एवार्णवस्ततो बाह्यं बहिर्भवं संसारातीतम्। मोक्षपदमित्यर्थः।'बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्'इति ञ्यप्रत्ययः।सर्वे कामाःप्रयोजनमस्येति सार्वकामिकम् । 'तदस्य प्रयोजनम्' इति ठक् । तत्तादृक्तरन्त्य- नेनेति तीर्थं तारकं भवतस्त्वदृते। 'अन्यारात्- इत्यादिना पञ्चमी ।अन्यन्नास्ति। औपच्छन्दसिकं वृत्तम् ।

व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम्।
इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥२६॥

  व्रजतीति ॥ हे वरद, त्वयि प्रीतिमान्नरः शुचि निर्मलं पदं कैवल्यं मुक्तिं व्रजति। 'मुक्तिः कैवल्यनिर्वाण-' इत्यमरः । प्रतिहतमतिरुपहतंबुद्धिः । त्वद्द्वेषीत्यर्थः । घोरां


पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९९ पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०६

}}

  1. कुमारस्वामी ।
  2. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।
  3. 'भूभुजः' इति पाठः,
  4. 'एश्वः' इति पाठ:
  5. ‘विभज्य' इति पाठ:,
  6. ‘चकासते' इति पाठः,
  7. 'उपस्कृत्वा' इति पठः,
  8. निम्नन्ति' इति पाठ:
  9. चन्दनान्वितः' इति पाठः,
  10. ‘उद्दीपमानम्' इति पाठः,
  11. ‘विवृद्धये' इति पाठः,
  12. ‘उर्च्छृितम्' इति पाठः,
  13. मूर्तिना' इति पाठः,
  14. 'भूर्तिना'इति पाठः
  15. ‘अवेक्ष्य' इति पाठः,
  16. ‘एवम्” इति पाठः
  17. व्यवसाययितुम्” इति पाठः,
  18. 'वृणुते' इति पाठः.
  19. अदूषितायतिम्' इति पादः
  20. 'अदूषितायतिम्' इति पाठ:,
  21. 'तापिनी' इति पाठः,
  22. 'प्रेम' इति पाठः
  23. 'क्षतावधेः' इति पाद:
  24. अनाविलं' इति पाठः,
  25. 'समीक्षितैः' इति पाठः,
  26. 'एनसाम्' इति पाठः,
  27. 'सुधौतारुण' इति पाठः,
  28. 'घर्मरश्मि:' इति पाठः,
  29. 'पूजां ' इति पाठः,
  30. 'विकासितोष्ठ:'इति पाठ:
  31. 'मृगाङ्कमूर्तेः'इति पाठ:
  32. 'परिस्तौति' इति पाठ:
  33. 'परिभ्रमत्' इति पाठः
  34. 'समृद्धतेजाः' इति पाठः
  35. 'सुदुष्कराणि' इति पाठः
  36. 'नरेन्द्रसूनुम्' इति पाठः,
  37. 'सधः' इति पाठ:
  38. 'अभिपेदे' इति पाठः
  39. 'भीता' इति पाठः
  40. 'कृताभिमर्श:' इति पाठ:
  41. 'वक्तुम्' इति पाठः
  42. 'प्रभाघ' इति पाठः
  43. 'क्षयात्' इति पाठ:
  44. 'अपि' इति पाठः
  45. 'अवेक्ष्यमाणा' इति पाठः
  46. 'सामान्यदुःखाः' इति पाठः
  47. 'समन्तात्' इति पाठः
  48. 'धर्मरश्मिम्' इति पाठ:
  49. 'सर्वजन' इति पाठः
  50. 'उपपत्त्या' इति पाठः
  51. 'भुजोपपीडम्' इति पाठः
  52. 'संततिः' इति पाठः
  53. 'नादिनीम् इति पाठः
  54. 'लेखम्' इति पाठः
  55. 'तरङ्गितम्' इति पाठः
  56. 'प्रवृद्ध' इति पाठः
  57. 'परिणामरम्यताम्' इति पाठः
  58. 'लता' इति पाठः
  59. 'निहितः' इति पाठः
  60. 'प्लुतं;' 'च्युतं' इति पाठः
  61. 'नीरसनैः' इति पाठः
  62. 'संततिम्' इति पाठः
  63. 'कुलैः' इति पाठः
  64. 'जगतः' इति पाठः
  65. 'मृदूनि' इति पाठ:
  66. 'जितश्च' इति पाठः
  67. 'भुजम्' इति पाठ:
  68. 'कम्पितेषु' इति पाठः
  69. 'उद्भूतः' इति पाठः
  70. 'लेखा' इति पाठः
  71. 'विवर्तितेषु' इति पाठ:
  72. 'धवलयति' इति पाठः
  73. 'द्युतिम्' इति पाठः
  74. 'हरा:' इति पाठः
  75. 'प्रवृत्तिम्','प्रसत्तिम्
  76. 'विबभूव' इति पाठः
  77. 'तरङ्गभङ्गि' इति पाठः
  78. 'च्युतिभिः' इति पाठः
  79. 'हृतं' इति पाठः
  80. 'पुष्पफल-' इति पाठः
  81. 'जन्मनस्त्र्यभिषवेण' इति पाठः
  82. 'गुरून्' इति पाठः
  83. 'गुरुभिः' इति पाठः
  84. 'अनुलोम'इति पाठ:
  85. 'हि हन्ति' इति पाठः
  86. 'आहित' इति पाठः
  87. 'वपु' इति पाठः
  88. 'भृत' इति पाठः
  89. 'भूमिभुजाम्' इति पाठ:
  90. 'उपलभ्य' इति पाठः.
  91. 'मनसः' इति पाठः
  92. 'अविलक्ष्यम्' इति पाठः
  93. 'समुपहृत्य' इति पाठः
  94. 'विजितिः' इति पाठः
  95. 'विजयातिशयम्' इति पाठः
  96. 'पत्युः' इति पाठः
  97. 'कीर्तिम्' इति पाठः
  98. 'नभसि' इति पाठः
  99. 'अप्याकृत' इति पाठः
  100. 'आनदन्ती' इति पाठ:
  101. 'सामग्र्यम्' इति पाठः
  102. 'धूतम्' इति पाठः
  103. 'हि या' इति पाठः
  104. 'श्वसन' इति पाठः
  105. 'निलीनम्' इति पाठः
  106. 'अतिरोषात्' इति पाठः
  107. 'कौसुम्भम्','कौशेयम्'इति पाठौ
  108. 'विस्तृत' इति पाठः
  109. 'गन्धम्' इति पाठः
  110. 'सदातनम्' इति पाठ:
  111. 'उद्दीपित' इति पाठः
  112. 'करप्रचेयान्' इति पाठः
  113. 'कान्ताजनम्' इति पाठः
  114. 'विकासिभिः' इति पाठः
  115. 'भूरुहः' इति पाठः
  116. 'परिखेद' इति पाठः
  117. 'विभ्रमम्' इति पाठ:
  118. 'पुरोऽवगाढाः' इति पाठः
  119. 'तटान्तनीतेन' इति पाठ:
  120. 'लोडित' इति पाठः
  121. 'अवलुप्त' इति पाठ:
  122. 'परिलीन' इति पाठः
  123. 'विशाल' इति पाठ:
  124. 'विकचं तु' इति पाठः
  125. 'असंशयन्यस्त' इति पाठः
  126. 'हताञ्जनाक्षीः' इति पाठ:
  127. 'श्रियः' इति पाठ:
  128. 'प्रतिपक्षयोषिताम्' इति पाठः
  129. 'विहारात्' इति पाठः
  130. 'विकम्पिताधर' इति पाठः
  131. 'चेतसि' इति पाठः
  132. 'उत्सङ्गितोर्मि' इति पाठ:
  133. 'तीरान्तरेषु' इति पाठः
  134. 'अवाप' इति पाठः
  135. 'मिथुनानि' इति पाठ:
  136. 'विभङ्गैः' इति पाठः
  137. 'अथ' इति पाठः
  138. 'अन्तिके' इति पाठः
  139. 'तारकनाथे इति पाठः
  140. 'अभिनील' इति पाठः
  141. 'गजचर्म' इति पाठः
  142. 'त्यजति' इति पाठः
  143. 'भङ्ग' इति पाठः
  144. 'च' इति पाठः
  145. 'अतितया' इति पाठः
  146. 'पुष्प' इति पाठः
  147. 'तेजसा' इति पाठः
  148. 'सत्सहायम्' इति पाठः
  149. 'अभियाति' इति पाठः
  150. 'भूषणम्' इति पाठः
  151. 'अधिबाष्प' इति पाठः
  152. 'स्थित' इति पाठः
  153. 'वनितायाः' इति पाठः
  154. 'अभिपेदे' इति पाठः
  155. 'लम्भित', 'संवृत' इति पाठौ
  156. 'आर्द्र' इति पाठः
  157. 'लम्भित' इति पाठः
  158. 'स्फुटमदो' इति पाठः
  159. 'हृदयेभ्यः' इति पाठः
  160. 'सुरसखा' इति पाठः
  161. 'मदस्य शेषः' इति पाठः
  162. 'दृश्यतां' इति पाठः
  163. 'बिम्बाधरोष्ठ्याः' इति पाठः
  164. 'अङ्गनायाः'इति पाठ:
  165. 'वसन्' इति पाठः
  166. 'यमनियम' इति पाठः
  167. 'विहृतिम्' इति पाठ:
  168. 'अनुगच्छता' इति पाठः
  169. 'विचक्रे' इति पाठः
  170. 'विदधति' इति पाठः
  171. 'नूपुर' इति पाठः
  172. 'बहन्तीम्' इति पाठः
  173. 'पल्लवापरौष्ठी' इति पाठः
  174. 'पुष्पचापः' इति पाठः
  175. 'कुन्द' इति पाठः
  176. 'तासु' इति पाठः
  177. 'अभिससार' इति पाठः
  178. 'वर्तनातिताम्रम्' इति पाठः
  179. 'कथयति' इति पाठ:
  180. 'विधाय' इति पाठ:
  181. 'अभिरूषित' इति पाठः
  182. 'अतिकलितानि' इति पाठः
  183. 'वचांसि' इति पाठः
  184. 'उपनतं' इति पाठः
  185. 'सकुसुमम्' इति पाठः
  186. 'संयत' इति पाठः
  187. 'सः' इति पाठः
  188. 'अभिनेतुम्' इति पाठः
  189. 'स्तना' इति पाठः
  190. 'वा' इति पाठः
  191. 'ईशम्' इति पाठः
  192. 'हरिः' इति पाठः
  193. 'परिश्रान्त इवाध्वना' इति पाठः
  194. 'मण्डलच्छन्नमण्डल:' इति पाठः
  195. 'अप्राकृताकृतिम्' इति पाठः
  196. 'लक्ष्मीकम्' इति पाठः
  197. 'न्यायाधीनाः' इति पाठ:
  198. 'नीचैवृत्तिः' इति पाठः
  199. 'पुरोगमाम्' इति पाठः
  200. 'निरीक्षितैः' इति पाठः
  201. 'तटच्छायेव' इति पाठः
  202. 'दुर्विभाव्यम्' इति पाठः
  203. 'तुल्यरूपताम्' इति पाठः
  204. 'यदेवोच्चैः' इति पाठः
  205. 'शुक्लानि' इति पाठः
  206. 'न चानित्याशनेः' इति पाठः
  207. 'इच्छामि' इति पाठः
  208. 'मतम्' इति पाठः
  209. 'अवहस्ये' इति पाठः
  210. 'तु' इति पाठः
  211. 'मतः' इति पाठः
  212. 'मामेव' इति पाठः
  213. 'जलाञ्जलिम्' इति पाठः
  214. 'तस्मै भवा' इति पाठः
  215. 'प्राप' इति पाठः
  216. 'अविचिन्त्य' इति पाठः
  217. 'पेशले' इति पाठः
  218. 'न तदस्ति' इति पाठः
  219. 'महात्मभिः' इति पाठा
  220. 'विराजति' इति पाठः
  221. 'पुर' इति पाठः
  222. 'अर्थ' इति पाठः
  223. 'भूधर' इति पाठः
  224. 'नियायितुम्': 'निरीक्षितुम्' इति पाठौ
  225. 'अभिवेष्टितम्' इति पाठः
  226. 'पयसः' इति पाठः
  227. 'विकाशि' इति पाठः
  228. 'अतनुभिः' इति पाठः
  229. 'अतिचित्रम्' इति पाठ:
  230. 'अमलायत:,'धवलायतै; इति पाठौ
  231. 'यन्न बत तेन दुष्करम्'; 'तेन खलु यत्र दुष्करम्'; यन्न सुकरं खलु तेन' इति पाठाः
  232. 'तवन' इति पाठः
  233. 'सुरकार्यम्' इति पाठ:
  234. 'तुलयोः' इति पाठः
  235. 'आवलियुतेन' इति पाठः
  236. 'शिवबलस्य' इति पाठः
  237. 'विषक्तभृश' इति पाठः
  238. 'वितत' इति पाठः
  239. 'अतिसौकरम्' इति पाठः
  240. 'विलोकयांबभूव' इति पाठः
  241. 'आदधे' इति पाठः
  242. 'विकीर्ण' इति पाठः
  243. 'असौ' इति पाठ:
  244. 'तथाविधम्' इति पाठः
  245. 'उद्गतेन' इति पाठः
  246. 'कृतवैरः' इति पाठः
  247. 'च' इति पाठः
  248. 'भयंकरः' इति पाठः
  249. 'आतत' इति पाठः
  250. 'वनस्थैः' इति पाठः
  251. 'मुखः' इति पाठः
  252. 'दीर्घतरं तम: प्रतिक्षन्' इति पाठ:
  253. 'शोणितार्द्राम्' इति पाठः
  254. 'अधोमुखः' इति पाठः
  255. 'उन्नताम्' इति पाठः
  256. 'कुसुमकेतु; 'मकरकेतु' इति पाठौ
  257. 'धारयन्' इति पाठ:
  258. 'अपि' इति पाठः
  259. 'आचरणम्' इति पाठ:
  260. 'मुनयः' इति पाठः
  261. 'अपदे' इति पाठः
  262. 'वाहिनीपतिः' इति पाठः
  263. 'विराध्य' इति पाठः
  264. 'असुरक्ष' इति पाठः
  265. 'उद्धता' इति पाठः
  266. 'अपहरन्ति' इति पाठः
  267. 'चमूपतिम्' इति पाठ:
  268. 'प्राप्यते' इति पाठः
  269. 'चभूभृता' इति पाठ:
  270. 'प्रार्थितः' इति पाठः
  271. 'नानुयोक्तुं' इति पाठः
  272. 'याचसे' इति पाठः
  273. 'मुनिना त्वया बलात्' इति पाठः
  274. 'प्रमार्ज्यताम्' इति पाठः
  275. 'संप्रति' इति पाठः
  276. 'न त्वमर्चि' इति पाठः
  277. 'यः' इति पाठः
  278. 'गुरूनिव' इति पाठः
  279. 'प्राप्नुहि' इति पाठः
  280. 'उपरमन्ति' इति पाठः
  281. 'समं' इति पाठः
  282. 'समुपयास्यसि' इति पाठः
  283. 'रुषितोऽपि' इति पाठः
  284. 'सूरयः' इति पाठः
  285. 'अशेष' इति पाठः
  286. 'इदम्' इति पाठः
  287. 'प्रयुक्तम्' इति पाठः
  288. 'विमर्शनम्' इति पाठः
  289. 'आयुधे' इति पाठः
  290. 'अदोषेऽपि' इति पाठः
  291. 'रोपणै' इति पाठः
  292. 'विरुढस्य' इति पाठः
  293. 'अप्ययम्','तपन्' इति पाठौ
  294. 'तथेति' इति पाठः
  295. 'अनन्यचेतसाम्' इति पाठः
  296. 'ईदृशम्' इति पाठः
  297. 'विवृत्व' इति पाठः
  298. 'सखितः' इति पाठः
  299. 'प्रतिभर्त्स्य' इति पाठः
  300. 'जेतु' इति पाठः
  301. 'चिह्नसंहतिः' इति पाठः
  302. 'विकासितां' इति पाठ:
  303. 'संग्रहै:' इति पाठः
  304. 'रश्मिवत्तः' इति पाठः
  305. 'समेषु' इति पाठः
  306. 'विद्विषाम्' इति पाठः
  307. 'पोत्रिणः' इति पाठः
  308. 'समादेदित' इति पाठः
  309. 'महच्छिला' इति पाठः
  310. 'महाचलम्' इति पाठः
  311. 'प्रभावात्' इति पाठः
  312. 'दीनताम्' इति पाठः
  313. 'प्रविहन्ति'
    इति पाठ:
  314. 'महोदयेभ्योऽपि हिं' इति पाठः
  315. 'उन्नदितेषु' इति पाठ:
  316. 'विभज्यमाना' इति पाठः
  317. 'शङ्किनी' इति पाठः
  318. 'व्याकुलयन्' इति पाठः
  319. 'मुनिर्जघान' इति पाठः
  320. 'इव' इति पाठः
  321. 'महतामगोचरः' इति पाठः
  322. 'त्वमी' इति पाठः
  323. 'शिवगणैः' इति पाठः
  324. 'आददे' इति पाठ:
  325. 'प्रमहसि शर' इति पाठः
  326. 'भीतेव हातुं' इति पाठः
  327. 'सहासक्तं' इति पाठः
  328. 'धरासंस्थः' इति पाठः
  329. 'धरासंस्थः' इति पाठः
  330. 'वाञ्छति' इति पाठः
  331. 'विगोपितुम्' इति पाठः
  332. 'निर्भिन्न' इति पाठ:
  333. 'पाङ्गनिष्ठ्यूत' इति पाठ:
  334. 'हिमांशुना' इति पाठः
  335. 'पिङ्गल' इति पाठः
  336. 'धुन्वानः' इति पाठः
  337. 'विराव' इति पाठः
  338. 'पङ्क्ती:' इति पाठः
  339. 'समाश्रित्य' इति पाठः
  340. 'धनुषः' इति पाठः
  341. 'निश्चचार'; 'निःससार' इति पाठौ
  342. 'हरेषून्' इति पाठः
  343. 'विवृत्त' इति पाठः
  344. 'अभिस्फुरत्'; 'अतिस्फुरत्' इति पाठौ
  345. 'संप्रति इति पाठः
  346. 'धूतं' इति पाठः
  347. 'नादं' इति पाठः
  348. 'मिवारयद्भिः;'विष्टम्भयद्भिः' इति पाठौ
  349. 'निवर्त्यमाना निनदन्ति';'आवर्तमाना न नदन्ति' इति पाठौ
  350. 'इह' इति पाठः
  351. 'कीर्तिम्' इति पाठः
  352. 'दीपः' इति पाठः
  353. 'तथा पुरेव'; 'तया पुरैव' इति पाठौ
  354. 'रुषैव' इति पाठः
  355. 'अवष्टम्भ' इति पाठः
  356. 'विकारं' इति पाठः
  357. 'स्थिर' इति पाठः
  358. 'इदम्'; 'इत्थम्' इति पाठौ
  359. 'धनारब्ध' इति पाठः
  360. 'संरुन्धती' इति पाठः
  361. 'निशातभिस्रा' इति पाठः
  362. 'गुणानतानि' इति पाठः
  363. 'वीर्या'इति पाठः
  364. 'वप्रादिव' इति पाठः
  365. 'अत्यादिशती' इति पाठः
  366. 'स्पष्टं' इति पाठः
  367. 'भग्ने'इति पाठः
  368. 'मुजङ्गमास्त्रम्' इति पाठः
  369. 'निबन्धनाय' इति पाठः
  370. 'असक्तम्' इति पाठः
  371. 'विसस्रे' इति पाठः
  372. 'जालः' इति पाठः
  373. 'लोचनस्य' इति पाठः
  374. 'अस्त्रेण' इति पाठः
  375. 'क्षण' इति पाठः
  376. 'संततिभि:' इति पाठः
  377. 'महाचल' इति पाठः
  378. 'नभःस्थलम्' इति पाठः
  379. 'क्षयम्' इति पाठः
  380. 'कार्यान्तरेण' इति पाठः
  381. 'विशीर्य' इति पाठ:
  382. 'भीमम्' इति पाठ:
  383. 'लोहिताभिः' इति पाठः
  384. 'लोहिताश्वे' इति पाठः
  385. 'पुरः' इति पाठ:
  386. 'कथनेन' इति पाठः
  387. 'घनैः' इति पाठः
  388. 'विनील' इति पाठः
  389. 'ध्वनिः' इति पाठ:
  390. 'कृश' इति पाठः
  391. 'विवृद्ध' इति पाठः
  392. 'विधिज्ञः' इति पाठः
  393. 'प्रभावो;'प्रभावे;'प्रभावम्' इति पाठाः
  394. 'सुप्रियतां' इति पाठः
  395. 'जयार्थेषु' इति पाठः
  396. 'शनैः.'इति पाठः
  397. 'निवापयिष्यन्' इति पाठः
  398. 'भूभङ्ग' इति पाठ:
  399. 'घनावरुद्धः' इति पाठः
  400. 'धर्मरश्मिः' इति पाठः
  401. 'प्रध्यानयन,'‘स ध्वानयन्' इति पाठौ
  402. 'अभ्युच्छ्रितस्य' इति पाठः
  403. 'भारोद्वहने' इति पाठः
  404. 'प्रसेहे' इति पाठः
  405. 'क्षत' इति पाठः
  406. 'विलोकः' इति पाठः
  407. 'प्रजहाति' इति पाठ:
  408. 'गन्धद्विपस्य' इति पाठः
  409. 'बालेन्दु' इति पाठः
  410. 'भर्तुः' इति पाठः
  411. 'रजो वा' इति पाठः
  412. 'रजोभुजाभ्याम्' इति पाठः
  413. 'वैषम्य' इति पाठः
  414. 'चास्य' इति पाठः
  415. 'तेजस्विमिः' इति पाठः
  416. 'अर्णवस्य' इति
    पाठः
  417. 'विच्छेदम्' इति पाठः
  418. 'प्रध्वंसनम् इति पाठः
  419. 'जेता' इति पाठः
  420. 'प्रमथायुधस्य'इति पाठः
  421. 'शङ्काकुलाया' इति पाठः
  422. 'जिष्णुः' इति पाठः
  423. 'नैदाधम्' इति पाठः
  424. 'रिपूणाम्', इति पाठः
  425. 'अथ' इति पाठः
  426. 'वन्य' इति पाठः
  427. 'सावेशम्' इति पाठः
  428. 'उन्मुखस्य' इति पाठः
  429. 'शुशोच' इति पाठः
  430. 'वर्गम्' इति पाठः
  431. 'विफलीकृतायाम् ;'ह्यधरीकृतायाम्' इति पाठौ
  432. 'विचारमार्गे, 'विचारणायाम्' इति पाठौ
  433. 'वादीन' इति पाठः
  434. 'हेमलेखम्' इति पाठ:
  435. 'निर्धूत' इति पाठ:
  436. 'सरोषम्' इति पाठः
  437. 'रुचम्' इति पाठः
  438. 'लेभे' इति पाठः
  439. 'चेतनेषु' इति पाठः
  440. 'चाधैर्यम्' इति पाठः
  441. 'बभूव तस्य' इति पाठः
  442. अगणिताहितेषोः' इति पाठः
  443. 'धातुदिग्धः; 'पङ्कदिग्धः इति पाठौ
  444. 'पार्ष्णिभागैः इति पाठः
  445. 'शशाङ्कलेखा' इति पाठः
  446. 'स्तम्भम्' इति पाठः
  447. 'परिस्थितेन' इति पाठः
  448. 'शोच्यपूज्य'
    इति पाठः
  449. 'महोपवासैः; 'व्रतोपवासैः' इति पाठौ
  450. 'प्रतिचार' इति पाठः
  451. 'अतिदीप्तः' इति पाठः
  452. 'भ्रमन्नाशु' इति पाठः
  453. 'वनस्थलीषु' इति पाठः
  454. पुस्तकान्तरे प्रथमद्वितीयपादयोर्व्यत्ययः
  455. 'अभिभूतः' इति पाठः
  456. उत्पाटित,; उत्सारित' इति पाठौ
  457. 'खण्डनां' इति पाठः
  458. 'अमर्षात्' इति पाठः
  459. 'जवने मेघः' इति पाठः
  460. 'नीरन्ध्रे परिगमिते;'नीरन्ध्रैरुपगमिते' इति पाठौ
  461. 'वनौघै:' इति पाठः
  462. 'असुकरम्' इति पाठः
  463. 'शरैः' इति पाठः
  464. 'महीभृतः' इति पाठः
  465. 'शीकरैः' इति पाठः
  466. 'उस्थित' इति पाठः
  467. 'करयुगेन' इति पाठः
  468. 'आयुधयोरुभयोः' इति पाठः
  469. 'प्रचलितं चलिते; 'प्रचलने चलितम्प्रचलितं चलने' इति पाठाः
  470. 'विनमने' इति पाठ:
  471. 'विभ्रम' इति पाठः
  472. 'आहति' इति पाठः
  473. 'गतक्लमम्' इति पाठः
  474. 'तथा स' इति पाठः
  475. 'वितानाकृतीः' इति पाठः
  476. 'संपत्स्यन्तः' इति पाठः
  477. 'अमरलोक' इति पाठः
  478. 'मुक्ताः' इति पाठः
  479. 'सुदुस्तराणि' इति पाठः
  480. 'अद्भुताकृतिमयीमतिचित्राम्' इति पाठः
  481. 'शरीरेण तवास्ति' इति पाठः
  482. 'च' इति पाठः
  483. 'समेत्य' इति पाठः
  484. 'जनस्य' इति पाठः
  485. 'विद्यते' इति पाठः
  486. 'अपि' इति पाठः
  487. 'नाथ' इति पाठः
  488. 'सर्वम् इति पाठ:
  489. यम् इति पाठः
  490. 'पावन्याः' इति पाठः
  491. 'ते' इति पाठः
  492. 'तव भव तत्' इति पाठः
  493. 'ब्रह्मपदे' इति पाठः
  494. 'संहतिम्' इति पाठः
  495. 'शिव' इति पाठ:
  496. 'जीवानां प्रसव' इति पाठः
  497. 'सर्वैश्च त्वम्;' 'सर्वैः शश्वत्' इति पाठौ
  498. 'विरुध्य' इति पाठ:
  499. 'विहितापदि' इति पाठः
  500. 'लोकनाथ' इति पाठः
  501. 'करालम्' इति पाठः
  502. 'उपगीतम्' इति पाठः
  503. 'उदित' इति पाठः
  504. 'भवेन' इति पाठः