अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णंकामाय तस्मै । |
अथेति ॥अथ शशधरमौलिवरप्रदानानन्तरं त्रिदशपतिपुरोगा इन्द्रादयो लोकपालाः शशधरमौले: शंभोरभ्यनुज्ञामवाप्य पूर्णकामाय तस्मै पाण्डवायावितथफल- ममोघफलमाशीर्वादमारोपयन्तः प्रयुञ्जाना विजयि जयशीलं विविधं नानाविधमस्त्रमैन्द्रादिकं वितेरुर्ददुः । मालिनीवृत्तम् ॥
असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वी वोढुं स्थितमनवसादाय जगतः । |
असंहार्योत्साहमिति ॥ तरसा बलेन वेगेन च जयिनं जयशीलमुदयमस्त्रलाभरूप- मभ्युदयम् । अन्यत्रोदयाद्रिं च । प्राप्यासंहार्योत्साहं संहर्तुमशक्यमुद्योगं जगतोऽनवसादाय क्षेत्राय गुर्वीं धुरं दुष्टनिग्रहभरं तमोपसंहाररूपं च भार बोढुं स्थितम् । स्वधाम्ना स्वतेजसा लोकानामुपरि कृतस्थानं कृतपदम् । अन्यत्रोपरिवर्तमानम् । तपोलक्ष्म्या दीप्तं तं पाण्डवममरां इन्द्रादयो दिनकृतं सूर्यमिवोच्चैरुपजगुः साधु महाभाग्योऽसीति तुष्टुवुः । शिखरिणीवृत्तम् ॥
व्रज जय रिपुलोकं पादपद्मानतः सन्ग[१]दित इति शि[२]वेन श्लाधितो देवसंघै:। |
इति भारविकृतौ महाकाव्ये किरातार्जुनीयेऽष्टादशः सर्गः।
व्रजेति ॥ शिवेन व्रज स्वपुरं गच्छारिलोकं जयेति गदित उक्तः। यतः पादपद्मानत: शिवपादपङ्कजानतः संस्तथा देवसंघै: श्लाधितः स्तुतोऽत एव धृता गुर्वी जयलक्ष्मीर्येन स पाण्डुपुत्रोऽर्जुनो निजगृहं स्वाश्रमं गत्वा प्राप्याथ सादरं यथा तथा धर्मसूनुं युधिष्ठिरं राजानं ननाम नमश्चक्रे ॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायामष्टादशः सर्गः ॥
समाप्तमिदं किरातार्जुनीयं नाम महाकाव्यम् ।