संप्राप्नुयां विजयमीश यया समृद्ध्या तां भू[१]तनाथ विभुतां वितराहवेषु ॥४३॥ |
आस्तिक्येति ॥ हे प्रियो धर्मो यस्येति प्रियधर्म । 'समासान्तो विधिरनित्यः' इति न समासान्तोऽनिच्प्रत्ययः। परलोके मतिरस्तीत्यास्तिकः पारलौकिकः।'अस्तिनास्तिदिष्टम्-' इति ठक् । तस्य भाव आस्तिक्यं विश्वासस्तेन शुद्धं विमलं धर्मं वैदिकाचारमवतः पालयतो धर्मात्मजस्य युधिष्ठिरस्य विहितागसि कृतापराधे शत्रुवर्गे विषये । हे ईश, यया समृद्ध्यास्त्रवैभवेन विजयं संप्राप्नुयां भजेयम् । हे भूतनाथ, आहवेषु तां विभुतां विभूतिमस्त्रविद्यां वितर देहि ॥
इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । |
इतीति ॥ इत्युच्चैर्निगदितवन्तं प्रणतशिरसं मघोनं इन्द्रस्य सूनुमर्जुनमीशो महादेवः सादरं यथा तथा सान्त्वयित्वोपसान्त्व्यास्मा अर्जुनाय ज्वलतानलेन तेजसा परीतं व्याप्तं रौद्रं रुद्रदेवताकं पाशुपतमस्त्रं दधानं धनुरुपपदं धनुःशब्दोपपदं वेदम् । धनुर्वेदमित्यर्थः। अभ्यादिदेश ददौ । अध्यापयामासेत्यर्थः।'धनुरुपपदं वेदम्' इत्यत्र धनुरुपपदत्वं वेदशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञिगतत्वाभावादवाच्य- वचनदोषमाहुरालंकारिकाः । तदुक्तम्—'यदेवावाच्यवचनमवाच्यवचनं हि तत्' इति । समाधानं तु धनुःशब्दविशेषितेन वेदशब्देन । शब्दपरेणेत्यर्थः । परोपदेश- योग्यो धनुर्वेदो लक्ष्यत इति कथंचित्संपाद्यम् ।।
स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्रिगुणपरिवारप्रहरणः। |
स इति ॥ पिङ्गाक्षः पिङ्गलाक्षः श्रीमाञ्शोभावान्भुवनमहनीयेन लोकपूज्येन महसा तेजसा भीमां तनुं बिभ्रत् । त्रिगुणस्त्रिशिखः परिवार आकारो यस्य तत्रिगुणपरिवारं त्रिशूलं तदेव प्रहरणमायुधं यस्य स तथोक्तः । सूर्यपक्षे तु गुणत्रयपरिवारस्त्रय्यात्मक इति योज्यम् । स धनुर्वेदः सुरगणैः स्तुतिभिरुपगीतः सन् । ईशानं शिवं त्रिस्त्रिवारम् । 'द्वित्रिचतुर्भ्य: सुच्' इति सुच्प्रत्ययः । परीत्य प्रदक्षिणीकृत्य वीरं पाण्डोः सुतमर्जुनम् । भास्वान्सूर्यो जलदमिव । अभिययौ। शिखरिणीवृत्तम् ।