इदानी नभोमूर्त्तिं स्तौति--
यः सर्वेषामावरीता वरीयान्स[१]र्वैर्भावैर्नावृतोऽनादिनिष्ठ:। |
य इति ॥ भवेत्यनुवर्तते । भवत्यस्मादयं प्रपञ्च इति भवस्तत्संबुद्धौ । सकलजगज्जनकेति यावत् । वरीयानुरुतरः। विभुरित्यर्थः । 'प्रियस्थिर-' इत्यादिनोरुशब्दस्य वरादेशः। यस्त्वं सर्वेषां वस्तूनामावरीताच्छादयिता । वृणोतेस्तृच्प्रत्ययः । सर्वैर्भावैः पदार्थैर्नावृतः केनापि कदाचिदप्यनावृतः। स्वयं व्यापकत्वादिति भावः । अविद्यमाने आदिनिष्ठे उत्पत्तिनाशौ यस्यासावनादिनिष्ठो नित्यः। 'निष्ठानिष्पत्तिनाशान्ताः' इत्यमरः । इन्द्रियाणां चक्षुरादीनां मार्गातीतायातीन्द्रियाय । अत एवाविज्ञेयायापरिच्छेद्याय तस्मै व्योमरूपाय ते तुभ्यं नमः ॥
अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । |
अणीयस इति ॥ भवेत्यनुवर्तते । हे भव, अणीयसे सूक्ष्मतराय तथापि विश्ववि- धारिणे जगद्धारकाय ते तुभ्यं नसः। अन्तिकस्थायान्तर्यामितया संनिकृष्टाय सते। तथापि दवीयसे दुर्ग्रहत्वाद्दूरतराय ते तुभ्यं नमः।वाचां मनसां च गोचरं विषयमतीत्य स्थितायावाङ्मनसगोचराय । तत्पतये तेषां वाङमनसामध्यक्षाय । तर्दध्यक्षस्तैरेव न दृश्यत इति विरोधः। ते तुभ्यं नमो नमः। 'चापले द्वे भवत इति वक्तव्यम्' इति द्विरुक्तिः । 'संभ्रमेण प्रवृत्तिश्चापलम्' इति काशिका । भक्त्युद्रेकाच्च संभ्रमः । विरोधाभासोऽलंकारः ॥
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । |
असंविदानस्येति ॥ संविदां ज्ञानानामीश । 'ईशानः सर्वविद्यानाम्' इति श्रुतेरिति भावः। 'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । असंविदानस्याज्ञानस्य । 'समो गम्यृच्छि--' इत्यादिना विदेः संपूवार्दकृमर्काच्छानच्प्रत्ययः । मम दुश्चरितं शस्त्रप्रयोगरूपं दुश्चेष्टितं तितिक्षितुं सोढुम् । तिजेः सन्नन्तात्तुमुन्प्रत्ययः । त्वमर्हसि योग्योऽसि । ननु तव महानपराधः कथं सोढव्यस्तत्राह-विरोध्येति । मोहादज्ञानाद्विरोध्या वैरमुत्पाद्य पुनरभ्युपेयुषां पश्चाच्छरणागतानां दुरात्मनामपि भवानेव गतिः । त्वं हि शरणाग- तानामपराधं न गणयसीत्यर्थः ॥
संप्रति वरं याचते-
आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहि[३]तागसि शत्रुवर्गे । |