पाविन्याः पापहारिण्या माहात्म्यं सामर्थ्यम् । 'न कस्या उन्नत्यै भवति शिरसस्त्वय्य- वनतिः' इति भावः। प्रहर्षिणीवृत्तम् ॥
अथाष्टमूर्तिषु काश्चित्स्तुवन्वायुमूर्त्तिं तावदाह-
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । |
तरसेति ॥ यः पवनस्तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । भुवनानि बिभर्ति प्राणात्मना धारयति । यतो यत्प्रेरणात्पवित्रं परं परमं ब्रह्म वर्णात्मकं ध्वनति नदति । 'सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयति' इति वचनात् । यः पवनः परितो दुरितानि पातकानि पुनीते शोधयति । नाशयतीति यावत् । हे शिव, तस्मै पावयतीति पवनो वायुः स एवात्मा यस्य तस्मै पवनात्मने ते तुभ्यं नमः । वृत्तमुक्तम् ।
अथाग्निमूर्त्तिं स्तौति-
भवत इति । जयिनि जयशीले सर्वोत्कृष्टे ब्रह्ममये ब्रह्मप्रधाने । तत्प्राप्त्युपायत्वात् । सदासने सम्यगासने। योगासन इत्यर्थः । निषेदुषामुपविष्टानां भवतः स्मरतां भवन्तं ध्यायताम् । 'अधीगर्थ-'इत्यादिना शेषे कर्मणि षष्ठी। भवबीजसंततिं संसारनिदानसमूहं भवनिदानकर्मसंघातं दहते भस्मीकुर्वतेऽनेकशिखाय बहुज्वालाय शिखिने वह्निमूर्तये ते तुभ्यं नमः॥
अथ जलमूर्त्तिं स्तौति-
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भ[३]व महता भवानलेन । |
आबाधेति ॥ हे भव बीजानां प्रभव कारणभूत । 'जीवानाम्' इति पाठे तेषां त्वत्प्रतिबिम्बत्वादिति भावः। आबाधाध्यात्मिकादिदुःखं मरणं पञ्चत्वं ताभ्यां भयं तदेवार्चिर्यस्य तेन महता भवानलेन संसाराग्निना चिराय चिरं प्लुष्टेभ्यो दग्धेभ्यः समुपगमेन संसेवया निर्वाणं संतापशान्तिं यच्छते ददते जीवयतीति जीवनं तस्मै जीवनाय जलात्मने ते तुभ्यं नमः ॥