पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
किरातार्जुनीये

  अविग्रहस्येति ॥ अविग्रहस्य वस्तुतोऽशरीरस्यापि सतोऽतुलेन दुर्बोधत्वादसदृशेन हेतुना । केनापि कारणेनेत्यर्थः। समेता संगता भिन्ना विलक्षणा च द्वयी द्विविधा स्त्रीपुं- सात्मिका मूर्तिर्यस्मिन्कर्मणि तत्समेतभिन्नद्वयमूर्ति यथा तथा तिष्ठतः। अशरीरस्य शरीरमेव विरुद्धम् । तदपि नारीनरात्मकमिति किमतश्चित्रमस्तीति भावः। एवंविधस्य तवैव जगत्सु विरुद्धे वेषाभरणे पूर्वोक्ते यस्य तस्य विरुद्धवेषाभरणस्यापि सतः कान्तता रमणीयता दृश्यते । अन्यस्य न दृश्यते । तस्मादचिन्त्योऽसौ तव महिमेति भावः।।

आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वमुपेतः ।
तेन सर्वभुवनातिग लोके नोपमानम[१]सि नाप्युपमेयः॥३४॥

  आत्मेति ॥ हे देव, त्वं भूतसंघ इव शरीरादिसंघात इव । आत्मलाभपरिणामनिरो- धैर्जन्मजरामरणैरुपेतो युक्तो नासि । तेन कारणेन हे सर्वभुवनातिग सर्वलोकोत्तर, उपमीयतेऽनेनेत्युपमानं नासि । उपमीयते यत्तदुपमेयमपि नासि । न कश्चित्वादृशोऽस्ति। त्वमपि नान्यसदृशः । अनन्यसाधारणत्वादित्यर्थः । वृत्तमुक्तम् ॥

त्वमन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव[२]वि[३]श्वम् ।
त्वं योगिनां हेतुफले रुणसि त्वं कारणं कारणकारणानाम् ॥३५॥

  त्वमिति ॥ हे देव, त्वं स्थावरजङ्गमानामन्तकः संहर्ता । त्वया हेतुना विश्वं सर्वं जगत्प्राणिति जीवति । त्वं योगिनां हेतुः प्रवर्तकं कर्म फलं भोगश्च ते हेतुफले रुणत्सि निवर्तयसि । तेषां त्वमेव बन्धविमोचक इत्यर्थः। किं च । स्वं कारणानि भूतानि तेषां कारणानि भूतसूक्ष्माणि परमाणवो वा तेषां कारणकारणानां कारणं प्रकृत्यादिद्वारोत्पत्तिस्थानम् । अत्र सर्वत्र 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति' इतिः श्रुतिः प्रमाणमिति भावः ॥

रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा य[४]ल्लोकेष्वविकलमाप्तमाधिपत्यम् ।
पा[५]विन्याः शरणगतार्तिहारिणे त[६]न्माहात्म्यं भ[७]व भवते नमस्क्रियायाः ॥३६॥

  रक्षोभिरिति॥ रक्षोभी राक्षसैः सुरमनुजैः सुराश्च मनुजाश्च तैर्देवमनुष्यैर्दितेः सुतैर्दैत्यैर्वा लोकेषु यदविकलं संपूर्णमाधिपत्यमाप्तं प्राप्तं तद्धे भव, शरणगतानामार्तिहारिणे दुश्वनाशकाय भवते तुभ्यं नमस्क्रियायाः।'नमःस्वस्ति-' इत्यादिना चतुर्थी।


  1. 'अपि' इति पाठः
  2. 'नाथ' इति पाठः
  3. 'सर्वम् इति पाठ:
  4. यम् इति पाठः
  5. 'पावन्याः' इति पाठः
  6. 'ते' इति पाठः
  7. 'तव भव तत्' इति पाठः