पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
अष्टादशः सर्गः।

पेतस्य शरणं प्राप्तस्य प्रपन्नस्य संबन्धीनि दुरुत्तराणि सुदुस्तराणि कर्माणि बन्धकानि पुण्यपापानि समुच्छिनत्सि नाशयसि । ते त्वत्रासमर्था एवेति भावः ॥

संनिबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् ।
[१]द्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् ॥३०॥

  संनिबद्धमिति ॥अतिक्रान्तो मायां बन्धरूपामतिमायः। 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः। हे करुणामय हे कृपालो, संनिबद्धं स्वकर्मणा दृढबद्धमत एवा- हार्यमन्यैरनुच्छेद्यं भूरि प्रभूतं भुवनानां दुर्गतिभयं नरकभयम्। 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । अपहर्तुमद्भुताकृतिं विचित्ररूपामिमां मायां दृश्यमानां लीलाविग्रहरूपां बिभर्षि । अन्येषां कर्मानुबन्धी विग्रहपरिग्रहः। भवतस्तु परोपकारार्थ इत्यर्थः॥

न रागि चेतः परमा विलासिता वधूःश[२]रीरेऽस्ति[३]न चास्ति मन्मथः।
नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥३१॥

  न रागीति॥ हे देव, चेतस्तव चित्तं रागि रागयुक्तं न । परमयोगित्वादिति भावः । तथापि परमा निरतिशया विलासिता शृङ्गारादिचेष्टाशीलता।भिक्षाटनादिषु विहरणेन तौर्यत्रिकव्यसनितया चेति भावः।किंच।शरीरेऽर्धाङ्गे वधूरस्ति । प्रसिद्धं चैतदिति भावः। तथापि मन्मथः कामश्च नास्ति । तस्य भस्मीकरणादिति भावः। किंच । उषसि प्रातः संध्यायां धातुर्ब्रह्मणो नमस्क्रियां वन्दनम् । स्वयं जगद्वन्द्यस्यापीत्यर्थः। इतीत्थं विरुद्धमिदमुक्तं तवेहितं चेष्टितं निसर्गतो दुर्बोधं दुराकलनीयम् । दुर्ग्रहमित्यर्थः । अदृष्टपूर्वत्वादिति भावः । वंशस्थं वृत्तम् ॥

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः।
स्रगास्यपङ्क्ति:शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥३२॥

  तवेति ॥ हे देव, तव साङ्गजं सलोमकं करिचर्मोत्तरीयं संव्यानम् । दुःस्पर्शमिति भावः। 'संव्यानमुत्तरीयं च' इत्यमर । ज्वलन्मणिर्ज्वलद्रत्नो महानहिःसारशनं कटिभूषा- विशेषः। योऽन्येषां प्राणहर इत्यर्थः । 'क्लीबे सारशनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु' इत्यमरः।आस्यपङ्क्तिः कपालमाला स्त्रङ्माल्यम् । शवभस्म चन्दनम् । उभयत्राप्यस्पृश्यम- मङ्गलं चेति भावः। किंच। एतानि वस्तूनि हिमांशोः कला च समं तुल्यतया चकासति दीप्यन्ते । त्वदाश्रयवशादरम्यस्यापि रम्यतेति किमशक्यं तवेति भावः ॥

अविग्रहस्याप्यतुलेन हेतुना स[४]मेतभिन्नद्वयमूर्ति तिष्ठतः।
तवैव नान्यस्य ज[५]गत्सु दृ[६]श्यते विरुद्धवेषाभरणस्य कान्तता ॥३३॥


  1. 'अद्भुताकृतिमयीमतिचित्राम्' इति पाठः
  2. 'शरीरेण तवास्ति' इति पाठः
  3. 'च' इति पाठः
  4. 'समेत्य' इति पाठः
  5. 'जनस्य' इति पाठः
  6. 'विद्यते' इति पाठः