गतिं तीव्रं नरकमेति प्राप्नोति। न चैतावता तव रागद्वेषकलङ्कपङ्क इत्याह--इयमिति । हे अनघ निष्कलङ्क, इयम्। भक्ताभक्तयोरिति, शेषः। विधेयप्राधान्यात्स्त्रीलिङ्गता । परा दुस्तरा निमित्तशक्तिर्निमित्तभूता शक्तिः स्वचेष्टितमहिमा । तव क्वचिद्भक्ते द्वेषिणिवा कुत्रापि चित्तभेदो बुद्धिवैषम्यं नास्ति । स्वकर्मणैव जन्तुस्तरति पतति वा। त्वं साक्षितया सर्वत्र सम इत्यर्थः ।
दक्षिणां प्रणतदक्षिण मूर्त्तिं तत्त्वतः शिवकरीमविदित्वा । |
दक्षिणामिति ॥ हे भव हे प्रणतदक्षिण प्रणतेषु दाक्षिण्यसंपन्न ! दाक्षिण्यं परच्छन्दानुवर्तित्वम्।'दक्षिणः सरलावामपरच्छन्दानुवर्तिषु'इति विश्वः।शिवकरीं श्रेयस्करीम्। 'कृञो हेतु--' इत्यादिना टप्रत्यये ङीप् । तव दक्षिणां मूर्त्तिं तत्त्वतो याथार्थ्ये- नाविदित्वापि रागिणा रागद्वेषवतापि भक्त्या विहिता तव संस्मृतिः सम्यक्स्मरणमभवाय संसारनिवृत्तये। प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । भवति । तत्त्वज्ञानं विनापि भक्तिपूर्विका तव संस्मृतिरेव मुक्तिनिदानमित्यर्थः। स्वागतावृत्तम् ॥
दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः। |
दृष्ट्वेति ॥ प्रेक्षया बुद्ध्या करोतीति प्रेक्षाकारी विमृष्यकारी दृश्यानि द्रष्टव्यानि दृष्ट्वा ज्ञात्वाचरणीयानि कर्तव्यानि च विधाय कृत्वापायैर्मुक्तं नाशवर्जितं पदं याति।'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति श्रुतेः । ज्ञानकर्मभ्यां मुक्तिरित्यर्थः । किंतु ते अपि ज्ञानकर्मणी त्वद्विषय एव मुक्तिसाधनं नान्यविषय इत्याशयेनाह-सम्यगिति। यः पुमान्परं पुरुषोत्तमत्वेन सर्वोत्कृष्टं त्वां पश्यति तस्य सम्यग्दृष्टिः सम्यग्ज्ञानम् । थश्च त्वामुपास्ते सेवते स एव साधु विधेयं विधत्ते । साधुकारीत्यर्थः । मत्तमयूरं वृत्तम् । लक्षणं तूक्तम् ॥
यु [१] क्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः । |
युक्ता इति ॥ मुनयो व्यासादयः स्वशत्तया निजयोगमहिम्ना युक्ताः । तथा हितोप- देशैर्विधिनिषेधवाक्यैः स्मृतीतिहासपुराणमुखेन प्रजानामुपकारवन्तः कृतोपकाराश्च । मोक्षप्रदस्तु तेषामन्येषां च त्वमेवेत्याह-समिति । अचिन्त्यधामाचिन्त्यमहिमा त्वमेवो-