अन्त्येष्टिदीपिका/वृषोत्सर्गः

विकिस्रोतः तः
ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति।


अथ वृषोत्सर्गः । " बार्हस्पत्यस्मृतौ 'वृषलक्षणम्'- लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते " ॥ १ ॥ लक्षणान्तरम्- "चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारस. सवर्णश्च तं नील इति निर्दिशेत् ॥ २ ॥ ब्राह्मणादिवर्णानुसारेण लक्षणम्-"वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते । स्निग्धरक्तेन वर्णेन क्षत्रियस्य प्रशस्यते ॥ ३ काञ्चनाभेन वैश्यस्य कृष्णेनाप्यन्तजन्मन" इति कर्त्ताऽऽचम्य प्राङ्मुखः कुशेष्वासीनः कुशपवित्रपाणिः प्राणानायम्य, देशकालौ सङ्कीर्त्य, गोत्रस्य शर्म्मणः पितुः प्रेतत्वविमोचनद्वाराऽक्षप्यपुण्यलोकावाप्त्यर्थं सर्वोपकरणव- त्सतरीचतुष्टयसहितं वृषोत्सर्जनमहं करिष्ये इति सङ्कल्प्य, पञ्च भूसंस्कारान् कृत्वा स्थण्डिले लौकिकाग्निं विधिवत्स्थापयेत् । गोयज्ञवच्चरुं कुर्य्यात् । तस्य प्रयोगः प्रकृतिस्थालीपाकवत् । स्पष्टार्थं मन्दबोधाय पुनः किञ्चिल्लिख्यते । तूष्णीमग्नौ समिधमाधाय ब्रह्मोपवेशनं स्थालीपाकवत्पात्रासादनं पात्राणां वीक्षणं प्रोक्षणमिदम्भूमेरिति न्यञ्चकरणम् । इदम्भूमेरिति परमेष्ठीऋषिरनुष्टुप्छन्दोऽग्निर्देवता भूमिजपे विनियोगः । इदं भूमेर्भजामह इदं भद्रँ सुमङ्गलम्। परा सपत्नान्बाधस्वान्येषां विन्दते धनम् ॥ इमँ स्तोममर्हते इत्यादिभिः परिसमूहनम् । अस्य मन्त्रस्य कौत्सऋषिर्जगतीछन्दोऽग्निर्देवता परिसमूहने विनियोगः । [१]इमँ स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य सँसद्यग्ने सख्ये मारिषामा वयंतव ॥ १ ॥ भरामेध्मं कृष्णवामा हवीषि ते चितयन्तः पर्वणा पर्वणा वयम् । जीवातवे प्रतरांसावया धियोऽग्ने सख्ये मारिषामा वयं तव ॥ २ ॥ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम्। त्वमादित्याँ आवह तान् ह्युश्मस्यग्ने सख्ये मारिषामा वयं तव ॥ ३ ॥(साम १०६४)। हवि निर्वापः[२] । तत्र विशेषः । अग्नये त्वा जुष्टं निर्वपामि । पूष्णे त्वा जुष्टं निर्वपामि । इन्द्राय त्वा जुष्टं निर्वपामि । ईश्वराय त्वा जुष्टं निर्वपामि । तत अवहननम् । तुषविमोचनम् त्रिःफलीकरणम् । त्रिःप्रक्षालनम्। पवित्रकरणम् । तण्डुलनिर्वापः । गोपयसि चरुश्रपणम् । प्रादक्षिण्येन मेक्षणेन मिश्रीकरणम् । तत अग्निकुण्डस्यैशानभागे स्थण्डिलं कृत्वा तत्र रक्तपटमास्तीर्य्यं तण्डुलान्विकीर्य्य वत्सतरीचतुष्टयसहितं वृषभमावाहयेत् । नन्दामावाहयामि । सुमनामावाहयामि । सुभद्रामावाहयामि । सुशीलामावाहयामि । सुरभीमावाहयामि तस्यैशानभागे कलशं संस्थाप्य तत्र ॐ भूर्भुवः स्वः रुद्रमावाहयामीति रुद्रमावाह्य, नन्दादिरुद्रं षोडशोपचारैः सम्पूज्य, रुद्रसंहिताजपः कार्य्यः । "आवोराजा तद्वोवर्ग आज्यदोहानि देवव्रतानि चैषा रौद्रीनाम सहितैतां प्रयुञ्जन् रुद्रं प्रीणाति ॥ ततः श्रृते चरावभिघारणमुदगुद्वासनं प्रतिष्ठिताभिघारणमग्निप्रज्वलनं परिस्तरणमास्तृतबर्हिषिस्थालीपाकासादनमिध्माधानमाज्यसंस्कारः स्रुगादिसंस्कारो बर्हिष्याज्यासादनं त्रिरुदकाञ्जलिसेचनमनुपर्युक्षणं प्रपदविरूपाक्षजपश्[३]च । अस्य वसिष्ठऋषिः कालाग्निरुद्रो देवता प्रपदविरूपाक्षजपे विनियोगः । तपश्च तेजश्च श्रद्धा च ह्रीश्च सत्यञ्चाक्रोधश्च त्यागश्च धृतिश्च धर्मश्च सत्वञ्च वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्यते तानि मामवन्तु भुर्भुवः स्वरोम्महान्तमात्मानं प्रपद्ये । विरूपाक्षोऽसि दन्ताञ्जिस्तस्य ते शय्यापर्णे गृहा अन्तरिक्षे विमितँ हिरण्ययं तद्देवानाँ हृदयान्ययस्मये कुम्भे अन्तः सन्निहितानि तानि बलभृच्च बलसाच्च रक्षतो प्रमनी अनिमिषतः सत्यं यत्ते द्वादश पुत्रास्ते त्वा संवत्सरे संवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युप त्वा धावामि जपन्तं मा माप्रतिजापीर्जुह्वन्तं मा माप्रतिहौषीः कुर्वन्तं मा माप्रतिकार्षीस्त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे समृध्यतां तन्म उपपद्यताँ समुद्रो मा विश्वव्यचा ब्रह्मा ऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुत्रो ऽनुजानातु श्वात्रो मा प्रचेता मैत्रावरुणोऽनुजानातु तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्वव्यचसे तुथाय विश्ववेदसे श्वात्राय प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ आज्यभागहोमः । ततः प्रधानहोमः । अग्नये स्वाहा । इदं अग्नये न मम । पूष्णे स्वाहा । इदं पूष्णे न मम । इन्द्राय स्वाहा । इदं इन्द्राय न मम । ईश्वराय स्वाहा । इदं ईश्वराय न मम । ततश्चतुर्गृहीतेनाज्येन सोमोराजानमित्यादिभिश्चतसृभिश्चतस्र आहुतीः कुर्य्यात् । सोमः राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णु‍ं सूर्यं ब्रह्माणं च बृहस्पतिं स्वाहा। इदं सोमाय न मम। शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि। विश्वाहि माया अवसि स्वधावन् भद्रा ते पूषन्निह रातिरस्तु स्वाहा। इदं पूष्णे न मम॥ इन्द्रा पर्वता बृहता रथेन वामी ऋषआवहतँ सुवीराः। वीतँ हव्यान्यध्वरेषु देवा वर्द्धेथां गीर्भिरिडया मदन्ता स्वाहा। इदं इन्द्राय न नम॥ आवो राजानमध्वरस्य रुद्रँ होतारँ सत्ययजँ रोदस्योः। अग्निं पुरातनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं स्वाहा। इदं रुद्राय न मम। ततश्चरुणा स्विष्टकृद्धोमः व्याहृतित्रयहोमः। तूष्णीं समिदाधानम् अनुपर्य्युक्षणमुदकाञ्जलिसेचनं यज्ञवास्तुकरणं वस्वाहुतिः। ततश्चतसृभिर्वत्सतरीभिः सहितं वृषभमग्निसमीपमानीय प्राङ्मुखं संस्थाप्य न्यासं कुर्यात्। यथा वृषस्य मस्तके गायत्रीं न्यसेत्। गायत्र्या विश्वामित्रो गायत्री सविता वृषस्य मस्तके न्यासे विनियोगः। ॐ तत्सवितुर्वरेणियोम्। भार्गोदेवस्य धीमाही२। धियोयोनः प्रचो१२१२। हुम्। आ२। दायो। आ२३४५। नमस्तौ इति ललाटे। नमस्तौ इति अग्निर्गायत्र्यग्निर्ललाटे न्यासे विनियोगः नमस्तौ। होग्नायि। ओजसा३यि। गृणा२न्ता२३४यिदे। वा कृष्टया२ः। अमाये३ः। आ२मा२३४औहोवा। त्रमर्द्दया२३४५॥१॥ रौरवयौधाजये चक्षुषोः॥ रौरवयौधाजययोः साम्नोरग्नींद्रावृषी बृहतीछन्दः सोमो देवता चक्षुषोर्न्यासे विनियोगः। रौरवम्॥ पुनानस्सोमा३धाराऽ२३४या। आपोवसानो अर्षस्यारत्नधायोनिमृतस्य सा२यिदसायि। ओहा३उवा। उत्सोदेवोहिराऽ२३हायि। ओहा३उवा। ण्यया। औ३होवा॥१॥ ऊत्सोदेवोहा३यिरण्याऽ२३४याः। ऊत्सोदेवोहिरण्ययोदुहान ऊधर्द्दिविययम्मधूऽ२प्रियाम्। ओहा३उवा। प्रत्नं सधस्थमाऽ२३हायि। ओहा३उवा। सदात्। औ२३होवा॥२॥ प्रत्नंसधस्था३मासाऽ२३४दात्। प्रात्नंसधस्थमासददापृछ्यन्धरुणम्वाजिया२र्षसायि। ओहा३उवा। नृभिर्द्धौतोविचाऽ२३हायि। ओहा३उवा। क्षणा। औ३होवा। होऽ५यि। डा॥३॥ इति रौरवम्। दक्षिणनेत्रे यौधाजयम्। पुना३१। ना३स्सो। म । धारा२३४या। आपो३। वसा२। न आ३४५। षा२३४शी। आरात्नधाः। यो। निमृताऽ२। स्या३४५यि। दा३४२सी। उत्सा२ः। दायिवो२। हिरा३४५। ण्या२३४याः॥१॥ उत्सो३१। दे३वो। हि। रण्या२३४याः। ऊत्सो३। दायिवो२।हिरा३४५। ण्या२३४याः। दुहान ऊ। धः। दिविया२म्। मधू३४५। प्री२३४याम्। प्रत्ना२म्। साधा२। स्थमा३४५। सा२३४दात्॥२॥प्रत्ना३१म्। सा३ध। स्थम्। आसा२३४दात्। प्रात्ना३म्। सधा२। स्थमा३४५। सा२३४दात्। आपार्छियाम्। ध। रुणम्वा२। जिया३४५। षा२३४सी। नृभा२यिः। धौतो२। विचा३४५। क्षा२३४णाः॥३॥ इति यौधाजयं वामनेत्रे। बृहद्रथन्तरे कर्णयोः। बृहद्रथन्तरयोर्भरद्वाजवसिष्ठावृषी बृहतीछन्द इन्द्रो देवता कर्णयोर्न्यासे विनियोगः॥ आभित्वाशूरनोनुमोवा। आदुग्धाइवधेनव ईशानमस्य जगतः। सुवा२३र्दृशाम्। आइशानमा२३यिन्द्रा३। तास्थू२३४षा। ओवा६। हाउवा। अस्॥
रथन्तरम्

यूट्यूबोपरि रथन्तरसाम
वामकर्णे बृहत्साम्। औहोयित्वामिद्धिहवामहा३ए। सातौवाजा। स्याकारा२३४वाः। तुवा३४। औहोवा। वृत्रायिषुवायि। द्रासा३१त्। पतिन्ना२३४राः त्वां काष्ठा३४। औहोवा। सू२अर्वा२३४। ताः। उहुवा६हाउ। वा हस्। बृहत्साम दक्षिणकर्णे॥३॥ इति कर्णयोः॥ सेतुसाममुखे॥ सेतुसाम्नो विशोक ऋषिस्त्रिष्टुप्छन्दः परमात्मा देवता मुखे न्यासे विनियोगः। हाउ३। सेतूँस्तर।३। दुस्त। रान्।३। दानेनादानम्।३। हाउ।३। अह मस्मिप्रथमजाऋता२३स्या३४५। हाउ।३। सेतूँस्तर।३। दुस्त।रान्। ३। अक्रोधेन क्रोधम्। २। अक्रोधेन क्रोधम्। हाउ। ३ ।पूर्वं देवेभ्यो अमृतस्य ना२३मा३४५। हाउ। ३। सेतूँस्तर। ३।दुस्त। रान् ।३। श्रद्धयाश्रद्धाम्। ३। हाउ। ३। योमाददाति सइदेवमा२३वा३४५त्। हाउ३। सेतूँस्तर। ३। दुस्त। रान्। ३। सत्येनानृतम्। ३। हाउ।३। अहमन्नमन्नमदन्तमाऽ२३द्मी३४५। आउ२हाउवा। एषागतिः।३। एतदमृतम्।३। स्वर्गछ।३। ज्योतिर्गछ।३। सेतूँस्तीर्त्त्वाचतुराऽ२३४५ः। इति मुखे॥
यूट्यूबोपरि सेतुसाम

देवव्रतानि त्रीणि कण्ठे। देवव्रतानां देवाउत्कृती रुद्रः कण्ठे न्यासे विनियोगः। अधिप। तायि। मित्रप तायि। क्षत्रप। तायि। स्वप्पतायि धनपता२यि। ना२माः। मन्न्युना वृत्रहा सूर्य्येण स्वराड्यज्ञेन मघवा दक्षिणास्य प्रियातनू राज्ञा विशं दाधार। वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन गयःपृथिव्यासृणिकोग्निना विश्वं भूतम। भ्य भवो वायुना विश्वाः प्रजाअभ्यपवथा वषट्कारेणार्द्धभाक्सोमेन सोमपास्समित्या परमेष्ठी। ये देवा देवाः। दिवि षदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। ये देवादेवाः। अन्तरिक्षसदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। ये देवा देवाः। पृथिवीषदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। ये देवादेवाः। अप्सुषदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। ये देवादेवाः। दिक्षुसदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। ये देवादेवाः। आशासदः। स्थ तेभ्यो वो देवा देवेभ्यो नमः। अव ज्यामिव धन्वनो वि ते मन्न्युन्नयामसि मृड तान्न इह अस्मभ्यम्। इडाऽ२३भा। य इदं विश्वं भूतम्। युयो३। आऊ। वाऽ२३। ना२३४माः॥६॥ अधिप। तायि। मित्रप। तायि। क्षत्रप। तायि। स्वप्प तायि। धनपता२यि। ना२माः। नम उततिभ्यश्चोत्तन्वानेभ्यश्च नमो निषङ्गिभ्यश्चोपवीतिभ्यश्च नमोस्यद्भ्यश्चप्र। तिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधिभ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रि। तेभ्यश्च श्रायिभ्यश्च नमस्तिष्ठद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते च वियते च नमः पथे च विपथाय च। अव ज्यामिव धन्वनो विते मन्न्युन्नयामसि मृडतान्न इह अस्मभ्यम्। इडा२३भा। य इदं विश्वं भूतम्। युयो३। आउ। वाऽ२३। ना२३४माः॥७॥ अधिप। तायि। मित्रप। तायि। क्षत्रप. तायि। स्वः पतायि। धनपता२यि। ना२माः। नमोन्नाय नमोन्नपतयएकाक्षाय चावपन्नादाय च नमोनमः। रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वने नमः प्रतिपदाय च पटरिणे च नमस्त्रियम्बकाय च क। पर्दिने च नम आश्रायेभ्यश्च प्रत्याश्रायेभ्यश्च नमः क्रव्येभ्यश्च विरिंफेभ्यश्च नमस्संवृते च विवृते च। अव ज्यामिव धन्वनो विते मन्न्युन्नयामसि मृडतान्न इह अस्मभ्यम्। इडाऽ२३भा। य इदं विश्वम्भूतं। युयो३। आउ। वाऽ२३। ना२३४माः॥३॥ इति कण्ठे।

वामदेव्यं लाङ्गले। वामदेव्यस्य वामदेवो गायत्रीन्द्रो लाङ्गूले न्यासे विनियोगः।काऽ५या। नश्चाऽ३यित्रा३आभुवात्। ऊ। तीसदावृधस्स। खा। औ३होहायि। कयाऽ२३शचायि। ष्ठयौहो३। हुम्मा२। वाऽ२र्त्तो३ऽ५हायि॥१॥ का५स्त्वा। सत्योऽ३मा३दानाम्। मा। हिष्ठोमात्सादन्ध। सा। औ३होहायि। दृढाऽ२३चिदा। रुजौहो३। हुम्मा२। वाऽ२सो३ऽ५हायि॥२॥ आऽ५भी। षुणा३स्सा३खीनाम्। आ। विताजरायितृ। णाम्। औऽ२३होहायि। शताऽ२३म्भवा। सियौहो३। हुम्मा२। ताऽ२यो३ऽ५हायि॥३॥ इति लाङ्गूले।
यूट्यूबोपरि वामदेव्यं साम

व्रतपक्षौ स्कन्धयोः। व्रतपक्षसाम्नोः प्रजापतिस्त्रिष्टुबिन्द्रः स्कन्धयोन्यासे विनियोगः॥ हाउ३। हँ हँ हँ हँ।३।हाउ३। इन्द्रन्नरो। ने३मधि। ताहवन्तायि। यत्पारियाः। युनज। तायिधियस्ताः। शूरोनृषा ता३श्रव। सश्चकामायि। आगोमतायि। व्रजेभ। जातुवन्नाः। हाउ३। हँहँहँहँ। ३। हाउ३। वा। ई२३४५॥ हाउ३ । इहा। हँहँहँ। ३। हाउ३। इन्द्रन्नरो। ने३मधि। ताहवन्तायि। यत्पारियाः। युनज। तायिधियस्ताः। शूरोनृषा। ता३श्रव। सश्चकामायि। आगोमतायि। व्रजेभ। जातुवन्नाः। हाउ३। इहा। हँहँहँ। ३। हाउ३। वा३। ई२३४५॥ इति स्कन्धयोः॥ ओग्नायीति ऊरुमध्ये। गौतमो गायत्र्यग्निः ऊरुमध्ये न्यासे विनियोगः। ओग्नाई। आयाहि३वियितोया२यि। तोया२यि गृणानोह। व्यदातोया२यि। तोया२यि। नायिहोतासा२३। तस्२यिवा२३४औहोवा। ही२३४षी॥ इति ऊरुमध्ये॥ मनोजयिदिति हृदये मनोजयीति दिश ऋषयोऽनुष्टुब् ब्रह्मा हृदये न्यासे विनियोगः। हाउ। ३।मनोजयित्। ३ । हृदयमजयित्। ३ । इन्द्रोजयित्। ३ । अहमजैषम् । ३। हाउ। ३। यद्वर्च्चोहिरण्य। स्या। यद्वा वर्च्चोगवामु। ता। सत्यस्य ब्रह्मणोव। चाः। तेनमासँसृजाम। सायि। हाउ। ३। मनोजयित्। ३। हृदयमजयित्। ३। इन्द्रोजयित्। ३। अहमजैषम्। ३। हाउ। ३। वा। ए। मनोजयतिद्धृदयमजयिदिन्द्रोजयिदहमजैषम्। ३। ए। अहँसुवर्ज्योती२३४५ः ॥ ६॥ इति हृदये। आजुहोता इति नाभौ। आजुहोतेति श्यावाश्वस्त्रिष्टुबग्निर्नाभौ न्यासे विनियोगः। आजुहोता। हविषामर्ज्जया२ध्वा उवाऽ२।निहोतारं गृहपति दधा२यिध्वा उवा२३४। इडा३४स्पदाइ। नमसारातहाव्या२म्। सापर्य्यता। याजतम्पाऽ२३। स्तियोवा। आ५नो६हाइ॥ ३४॥ इति नाभौ। तद्वौहोवा इत्यादि चत्वारि जान्वोः॥
तद्वोगा इति वर्गस्य रुद्रो गायत्री जान्वोर्न्यासे विनियोगः। तद्वौहोवा। गाया२। सुतायिसा२३४चा। पुरुहूता। यसात्वा१ना२यि। संयत्। हा। औ३होइ। गा२३४वाइ। ना२शा२३४औहोवा। ए३। किनेऽ२३४५॥१॥ तद्वोगाया। सुताइसचा३। पुरूऽ२३हूता३४। हाहो३। यासत्वा२३४नाइ। शंयद्गा२३वे। नशौ२। हौ२। हुवो२३४। वा। का५यिनो६हाइ॥२॥ तद्वोगायसुतेसचा६ए. पुरुहूतायसत्वने। पुरुहूता। यासत्वा२३ना३४यि। शंयत्॥ गौवा ओ२३४वा। ना२३शा३। का३४५यिनो६हाइ॥३॥ तद्वोगायसुतेसचा६ए। पुरुहूतायसत्वनाई। शंय्यद्गा२३वे। ऐ२हो१ऽआ२३यिही। नशा२३। का२यिना२३४औहोवा। ई२३४५॥४॥ इति जान्वोः। श्यावाश्वान्धीगवे इति ऊर्वोः। श्यावाश्वान्धीगवयोः श्यावाश्व आन्धीगवावृषी अऩुष्टुप्छन्द ऊर्वोर्न्यासे विनियोगः। पुरो३१। जी३ती। वोअ। धा३सः। एहिया। सू। तायामादा। यि। त्नवा२यि। एहिया२। अपश्वानाँश्ना३थी३। ष्टा२३४ना। ऐहा२यि। एहिया२। सखायोदायिर्घा३जी३। ह्वा३४५यो६हायि। पुरोजितीवो४धासाः। सुताय। मादा२३या। हुम्मा२१ऽ२। त्नवे अपश्वानँ श्नथिष्टन। साखा३उवा। यो२दीघा२३जी। ह्वियाम्। औ२३होवा। हो५ई। डा। इत्यूर्व्वोः॥९॥ उदुत्यमिति जङ्घयोः। उदुत्यमिति प्रस्कण्वो गायत्री सूर्य्यो जङ्घयोर्न्यासे विनियोगः। उदुत्यम्। ओ हाइ। जा। तवे२दा२३४साम्। देवं वहा। तीकेता२३४वाः। दाऽ२३४र्शेहाइ। वायिश्वायसू। र्य्याम्। औऽ२३होवा। हो५ऽयि। डा॥१६॥ इति जङ्घयोः। पावकान इति पुच्छे। पावकानो मधुच्छन्दा गायत्री सरस्वती पुच्छे न्यासे विनियोगः। पावकानईया। सरास्वा१ती२। वाजेभिर्वा। जिनाइवा१ती२। यज्ञा२३म्। वा२ष्टू२३४औहोवा। धियावसू२३४५ः॥१४॥ इति पुच्छे। हाउगावो।इति रोमकूपेषु। हाउ।३। गावोहाउ३। वृषभपत्नीर्हाउ३ वैराजपत्नीर्हाउ।३। विश्वरूपाहाउ। ३। अस्मासुरमध्वँहाउ३। तेमन्वतप्रथमन्नामगो२नाम्। त्रिस्सप्तपरमन्नामजा२नान्। ताजानतीरभ्यनूषता२क्षाः। आविर्भुवन्नरुणीर्य्यशसागा२वाः। हाउ। ३। गावोहाउ।३। वृषभपत्नीर्हाउ।३। वैराजपत्नीर्हाउ। ३। विश्वरूपाहाउ।३। अस्मासुरमध्वँहाउ।२।अस्मासुरमध्वा३ँहाउ। वा। ए। गावो वृषभपत्नीर्वैराजपत्नीर्विश्वरूपा अस्मासुरमध्वम्२। ए। गावो वृषभपत्नीर्वैराजपत्नीर्विश्वरूपा अस्मासुरमध्वा२३४५म्॥१५॥ इति रोमकूपेषु॥ आतूनआ इति गुदे। आतूनइति वर्गस्य गौरीवित्यपालवैणवावृषी गायत्री छन्दो गुदे न्यासे विनियोगः। आतूनआ। द्रक्षुमाऽ२३न्ताम्। चायित्रंग्राभा२३ँहाइ। संगृ२भाया। महाहस्ती२३४हाइ। दक्षा२यिणायिना। महा२३। हा२स्ता२३४औहोवा। दक्षिणे३नाऽ२३४५॥१६॥ आतूनइन्द्रक्षुमाताम्। चित्राऽ२ग्रा२३४भाम्। संगृभा२३४या। मा२३हा३। हा२स्ता२३४औहोवा। दक्षिणेनाऽ२३३५॥१७॥ आतूनईं। द्रक्षुमा६न्ताम्। चित्रङ्ग्राभँसङ्गृभा२याचित्रङ्ग्राभँसम्। गृ। औ३होयि। भा२३४या। ऐहोई। महाहस्तीदक्षाऽ२३होइ। औहो। वाहो२३४वा। णाऽ५यिनो६हाइ॥१८॥ आतूनइन्द्रक्षुमा६न्ताम्। चित्रं ग्राभँसङ्गृभाया। चित्रंग्राभँसम्।गृऽ२३।ई२३४हा। भा२३४या। ऐहोइ। महाहस्तीदक्षाऽ२३होइ। औहो। वाहो२३४वा। णा५यिनो६हाइ॥१९॥ इदि गुदे। राक्षोघ्नम् पादेषु। यद्वाउऽ२३विश्पतिश्शिताः। सुप्रीतोमनुषोविशे। विश्वाइदाऽ२३ग्नीः। प्रतिरक्षा सिषेधता। औ३होवा। होऽ५ई।डा ॥ इति पादेषु॥ आवोराजेति हृदये। आवोराजेति रुद्रस्त्रिष्टुप् रुद्रो हृदये न्यासे विनियोगः। आवोराजा। नमध्व। रस्यरुद्राम्। हो। ता। राम्। स त्ययजा३म्। रोदसीयोः। अग्निम्पु। रा। तनयि। त्नोरचित्तात्। हिरण्यरू। पा३मव। सा३४ऽ३यि। का३र्णु५ध्वा६५६म्॥ इति हृदये। तद्वोहोइतिशिरसि। तद्वोहोईतिवर्गस्य रुद्रो गायत्रीछन्दः शिरसि न्यासे विनियोगः। तद्वौहोवा। गाया२। सुतायिसा२३४चा। पुरुहूता। यसात्वा१ना२। शंयत्। हा। औ३होइ। गा२३४वाइ। ना२शा२३४औहोवा। ए३। किने२३४५॥१॥ तद्वोगाया। सुताइसचा३। पूरु२३हूता३४। हाहो३। यासत्वा२३४नाइ। संयद्गा२३वे। न शौ२। हौ२। हुवोऽ२३४। वा। का५यिनो६हाइ॥२॥ तद्वोगायसुतेसचा६ए। पुरुहूतायसत्वने। पुरुहूता। यासत्वाऽ२३ना३४यि। शंयत्। गौवा ओ २३४वा। नाऽ२३शा३। का३४ऽ५यिनो६हाइ॥३॥ तद्वोगायसुतेसचा६ए। पुरुहूतायसत्वनाइ। शंयद्गा२३वे। ए२हो१ऽआऽ२३यिही।नशाऽ२३। का२यिना२३४औहोवा। ई२३४५॥४॥इति शिरसि। आज्यदोहं शिखायाम्। आज्यदोहानामग्निर्वैश्वानरस्त्रिष्टुप् वैश्वानरो देवताशिखायां न्यासे विनियोगः। हाउ।३। आज्यदोहम्।३। मूर्द्धानंदायि। वा३अर। तिम्पृथिव्याः। वैश्वानराम्। ऋतआ। जातमग्नीम्। कविँ सम्म्रा। ऽजा३मति। थिञ्जनानाम्। आसन्नःपा। त्रां३जन। यन्तदेवाः। हाउ।३। आज्यदोहम्।२। ए। आज्यदोहा२३४५म्॥१६॥ इति शिखायाम्। प्रथमं देवव्रतेन कवचम्मध्यमेन नेत्रं तृतीयेनास्त्रमेवं विन्यस्तशरीरो वृषभो रुद्ररूपो भवति। ततो वत्सतरीणां देहेषु विन्यासं कुर्य्यात्। ब्रह्मणे नमः शिरसि। विष्णवे नम उदरे। महादेवाय नमः ललाटे। अश्विभ्यां नमः कर्णयोः। चन्द्रसूर्य्याभ्यां नमः नेत्रयोः। वैवस्वताय नमः पृष्ठे। सप्तसागरेभ्यो नमः पादेषु। सप्तर्षिभ्यो नमः रोमकूपेषु। सर्वाभ्यो देवताभ्यो नमः सर्वाङ्गे। तत ईशानभागस्थितकलशोदकेन एकवृषभसाम्ना वृषभं स्नापयित्वा शेषोदकेन वत्सतरीः स्नापयेत्। हाहूम्।३। योवा।३। योवाहायि। ३। यएकइद्विदयते। एकँ समैरयद्वृधे। वसुमर्तायदाशुषे। एकँसमैरयन्महे। ईशानोअप्रतिष्कुतः। एकोवृषाविराजति। इन्द्रोअङ्ग। हाहूम्। ३। योवा। ३। योवाहायि।२। योवा३हाउ। वा३। ई२३४५। ततो नूतनवस्त्रेण वृषभमाछाद्य तिलकाकृति पटं सत्यमित्था वृषासोमाभ्यामिति शिरसि स्थापयेत्। सत्यमित्थावृ। षा५यिदसायि। वृषजूतिर्नोविता२। वृषाह्युग्राशृण्विषा२यि। परावतायि। वृषो२३र्वा। वतायिश्रू२३ता३४३ः। ओ२३४५ई। डा। वृषासोमा। द्युमा२ँआसा२यि। वृषादेवा३हा३यि। वार्षव्रा२३४ताः। वृषाधर्म्मा३। ई३या। णायिदध्रिषे। इडा२३भा३४३। ओ२३४५ई। डा॥२॥ इति स्थापनं॥ ततो वृषं वत्सतरींश्च यथासम्भवमलङ्कुर्य्यात्। ततो वृषभस्य दक्षिणे पार्श्वे मा नस्तोक इति मन्त्रेण चन्दनेन शलाकया चिह्नं कुर्य्यात्॥ मा नस्तोके तनये मा न आयौ मा नौ गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नो रुद्र भामि नो वधीर्हविष्मन्तः सदमित्वा हवामहे॥(ऋ १.११४.८) वामपार्श्वे वृषाह्यसीति(९.६५.४) मन्त्रेण चक्राकारेण चिह्नं कुर्यात्॥ वृषाहिया। सिभानू२३ना। द्युमतंत्वाहावा१माहा२३४यि। पवा३। मानसुवो२३४वा। दृ२३४शाम्॥ इति कर्मसमाप्तेः परं तप्तलोहशलाकया त्रिशूलं चक्रञ्च चिह्नमन्येन कारयेत्॥ ततो वृषभेण वत्सतरीमनुक्राम्य तामनामिकया स्पृष्ट्वा ऽनुमन्त्रयेत् काम्यासीति मन्त्रेण। काम्यासि प्रियासि हव्यासि इडे रन्ते सरस्वति महि विश्रुति॥ ततो वृषभवत्सतरीणां पुच्छेषु तर्प्पणम्। अग्नेः पश्चात्प्राङ्मुखं वृषं वत्सतरींश्च संस्थाप्य देशकालौ सङ्कीर्त्त्य, प्राचीनावीत्ती, अमुकगोत्रस्यामुकशर्मणः पितुः प्रेतस्य प्रेतत्वविमोचनद्वाराऽक्षय्यपुण्यलोकावाप्त्यर्थं वृषभवत्सतरीपुच्छे तर्प्पणं करिष्ये। ताम्रपात्रस्थं तिलजलमादाय पुरुषसूक्तेनोपवीतिना तर्पणं कुर्य्यात्। उहु वा हाउ।३। सहस्रशीर्षाः पुरू२३षाः। सहस्राक्षः सहस्रा२३पात्। सभूमिँसर्वतोवा२३र्त्त्वा। अत्यतिष्ठद्दशांगू२३लाम्। उहु वा हाउ।२। उहु वा३हाउ | वा३ । इट्इडा२३४५ ॥ १ ॥ उहुवौहोवा२ । ३ । त्रिपादूर्ध्वउदैत्पुरू२३षाः । पादोस्येहाभवत्पू२३नाः । तथाविष्वꣳवियक्रा२३मात् । अशनानशने आ२३भी । उहुवौहोवा२ । २ । उहुवौ । हो२ । वा२३४ । औहोवा । ई२३४डा । उहुवौहोवा२ । २। उहुवौ । हो२ । वा२३४ । औहोवा । सू२३४वाः । उहुवौहोवा२। २ । उहुवौ । हो२ । वा२३४ | औहोवा | ऊ२३४५ ॥ २ ॥ इयौहोवा२ । ३ । पुरुष एवेदꣳसा२३र्वाम् । यद्भूतं यच्चभावा२३याम् । पादोस्यसर्वाभूता२३नी । त्रिपादस्यामृतंदा२३इवी । इयौहोवा२ । २ । इयौ । हो२ । वा२३४ | औहोवा | ईं२३४डा | इयौहोवा२ । २ । इयौ । हो२ । वा२३४ औहोवा । ज्यो२३४तीः । ईयौहोवा२ । २ । इयौ । हो२ । वा२३४ । औहोवा । ई२३४५ || ३ || हाउ३ । तावानस्य । महा२३यिमा३ । हाउ३ । ततोज्यायाꣳश्चपूरू२३षा३: । हाउ । ३ । उतामृतत्वस्येशा२३ना३: । हाउ । ३ । यदन्नेनातिरोहा२३ती३ । हाऽउ३ | वा३ । इट्इडा२३४५ || ४ || हाउवा । ततोविराडजायत । हाउ३वा । विराजोअधिपूरुषः । हाऽउ३वा । सजातोअत्यरिच्यत । हाऽउ३वा । पश्चाद्भूमिमथोपुरः । हाऽउ३वा३ ई२३४५ ॥ ५ ॥ ततो दक्षिणाभिमुखः पातितवामजानुः प्राचीनावीती गोत्रं शर्म्माणं प्रेतं पितरं तर्प्पयामि । तत उपवीती वत्सतरीणाम्मध्ये वृषमुत्सृजेत् । तद्यथा पाद्याद्युपचारैर्वृषं सम्पूज्य, अद्येत्याद्यमुकगोत्रस्यामुकप्रेतस्य पितुः प्रेतत्वविमोचनद्वाराऽक्षय्यपुण्यलोकावाप्तिकामो यथाशक्त्यलङ्कृतं त्रिशूलचक्राङ्कितं रुद्रदैवतमिमं वृषभं वत्सरीभिः सहोत्सृजामीति सङ्कल्प्यैतं युवानं परिवो ददामीतिमन्त्रपठनपूर्वकमुत्सृजेत् । मन्त्रश्च । एतं युवानं परि वो ददामि तेन क्रीडन्ति चरथ प्रियेण । मा नः साप्तजनुषा सुभगा रायस्पोषेण समिषा मदेम ॥ कर्णे सामानि श्रावयेत् । तद्यथा । उपत्वाजा | मयो२गि । र ओ यिययू२ः । दायिदिशतीर्हविष्कृ । त । ओ यिययू२ः । वायोराऽ२३नी । कया३स्थाऽ५यिरा६५६न् । अश्वा३गावाऽ२३४५ः ॥ १ ॥ उपत्वाजामा६योगिराः । दायिदिश । तायिः | हवीऽ२ष्का२३४र्त्ताः । वायोरनाहाइकायास्थायिरा। औहो२३४वा । ईंडा ॥ २ ॥ ३ ॥ १ ॥ प्रसम्राजोहायि । चार्षाणी३नाम् | आयिंद्राꣳस्तो३ता३ | नव्या२गा२३४यिर्भीः । नाऽरमोयि । नृ । षाहमो३यि । मꣳहा५यिष्ठां ।
हो५ई । डा ॥ २ ॥ सोमप्पूषा । च चाइलतूः । आयायो२३४वा । वायिश्वासाꣳसुक्षिती । नाम् । अयावो२३४वा । दाइवत्राराऽ२३ । थियो३र्हाऽ५ईता५६५ । गावो२अश्वा२३४५: । हाउ३ । गावोहा०४ | हाऽउ३वा । सहर्षभास्सहेवत्साउदेत । हाउ३वा । विश्वारूपाणिबिभ्रतीर्द्व्यूध्नीः । हाउ३वा । उरुप्पृथुरयं वो अस्तुलोकः । हाउ३वा । इमा आपस्सुप्रपाणा इहस्त । हाउ३वा । अश्वमिष्टये३हस् ॥ ३९ ॥ आवोराजानं० ॥ तद्दौहासामचतुष्टयम्० ॥ हाउ३ । आज्यदोहम् । ३ । मूर्द्धानं दायि । वा३अर । तिम्पृथिव्याः । वैश्वानराम् । ऋतआ । जातमग्नीम् । कविꣳसम्रा । जा३मति | थिंजनानाम् । आसन्नप्पा । त्रा३जन | यन्तदेवाः । हाउ३ । आज्यदोहम् । २ । आज्यदोऽ५हाउ । वा । ए । आज्यदोहम् । २ । ए । आज्यदोहा२३४५म् ॥ १६ ॥ हाउ । ३ । हुम् चिदोहम् । ३ । मूर्द्धानंदायिपूर्ववत्। हाउ । ३ । हुम् चिदोहम् । २ । चिदो३हाउ | वा३ । ई२३४५ ॥ १७ ॥ हाउ । ३ । च्योहम् । ३ । मूर्द्धानंदायिपूर्ववत् । हाउ । ३ । च्योहम् । २ । च्यो३हाउ | वा३ । ए३ । ऋतम् ॥ १८ ॥ अधिपत इत्यादित्रीणि वामदेव्यञ्चान्ते ॥ ततो यथेष्टं यूथंयूथं पर्यटेतिमन्त्रेण वृषभं चालयेत् । ततो ब्रह्मदक्षिणा, चमसनिनयनम्, वामदेव्यगानम् । तदङ्गं ब्राह्मणभोजनमितिवृषोत्सर्गप्रयोगः ॥



[सम्पाद्यताम्]

  1. समन्तम्
  2. गार्हपत्यस्य पश्चात् शकटं स्थापितं भवति। तत्र विद्यमानस्य व्रीह्यादिद्रव्यस्य सपवित्रायामग्निहोत्रहवण्यां मुष्टिमात्रं निधाय तया मन्त्रेण कांचिद् देवतामुद्दिश्य शूर्पे प्रक्षेपो अथवा शकटाभावपक्षे गार्हपत्यस्य पश्चाददगग्रं स्फ्यं निधाय तदुपरि दारुपात्रीं प्रागग्रां निधाय तस्यां पुरोडाशीयानोप्य तस्याः सकाशात् गृहीत्वा अग्निहोत्रहवण्यां निधाय पूर्ववत् शूर्पे प्रक्षेपणं निर्वाप इत्युच्यते। - श्रौतपदार्थनिर्वचनम्
  3. जैमिनिगृह्यसूत्रम्