सामग्री पर जाएँ

जयाख्यसंहिता/पटलः २१

विकिस्रोतः तः
← पटलः २० जयाख्यसंहिता
पटलः २१
[[लेखकः :|]]
पटलः २२ →
जयाख्यसंहितायाः पटलाः

पटलः - 21
अथ पवित्रविधानं नाम एकविंशः पटलः ।। 21-1
नारद :---
[अनुष्ठानलोपे निष्कृतिप्रकारप्रस्नः]
नियमस्थस्य भगवन्साधकस्याभियोगिनः।
मोहाद्वा देशभङ्गाच्च ज्वरादिव्याधिपीडितात् ।। 1 ।।
अनुष्ठानमसम्पन्नं कदाचित्कर्मदोषतः।
किं कार्यं तेन वै नाथ किंवा तस्य भवेद्वद ।। 2 ।।
श्रीभगवान् ---
[पवित्रारोपणस्य निष्कृतित्वविधानम्]
क्रियया जपहोमेन कृतेन ... ... ... ....।
क्रियाजपार्चनादीनां लुप्तानां साधकस्य च ।। 3 ।।
पवित्रारोपणाद्विप्र ऋते नान्या भवेद्गतिः।
नारद :---
[प्रवित्रारोपणविधानप्रकारप्रश्नः] 21-2
पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः ।। 4 ।।
येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि।
श्रीभगवान् ---
[पवित्रारोपमकालविधानम्]
कर्कटस्थे द्विजादित्ये सिह्मकन्यातुलास्थिते ।। 5 ।।
द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते।
जपहोमक्रियालोपशान्तये विधिपूर्वकम् ।। 6 ।।
यागं पवित्रकोद्देशे कृत्वा पूर्वोदितश्च(तं च?)यः।
[सूत्रादिद्रव्यांणामधिवासकालविधानम्] 21-3
दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् ।। 7 ।।
कुर्याच्चैव ससूत्राणां
[सूत्राणां कौसेयत्वादिविकल्पः] 21-4
तत्सूत्रं विद्धि पट्टजम्।
कार्पासम्थ वाक्षौमं श्लक्ष्णं दृढमकृत्रिमम् ।। 8 ।।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः ।। 9 ।।
[अथ सूत्रैः पवित्रनिर्माणविधानम्] 21-5
पुरा तत्र्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम्।
समतां सर्वभावानां द्विजोत्पादयते यतः ।। 10 ।।
अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत्।
तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः ।। 11 ।।
[मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या] 21-6
मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद।
त्राणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे ।। 12 ।।
पवित्रकं तु प्रत्येकमनुकल्पेषु नारद।
[तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम्] 21-7
व्यासादर्धसमैः(1)(?) कुर्याद्धाराकारं च तन्तुभिः ।। 13 ।।
शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम्।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ।। 14 ।।
षट्‌त्रिंशद्ग्रन्धिकं चाद्यं द्वितीयं द्विगुणं स्मृतम्।
तृतीयं त्रिगुणं विप्र
[प्रवित्रग्रन्धीनां रञ्जनादिविधानम्] 21-8
ग्रन्धिं वै कुङ्कुमेन तु ।। 15 ।।
रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः।
ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु ।। 16 ।।
पुरयेद्‌ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत्।
मण्डले मन्त्रमूर्तीनां पूजनार्थं तु नारद ।। 17 ।।
व्यासमानं तु कथितं पवित्राणां च सर्वदा।
[बिम्बस्य शिरःप्रभृत्यवयवभेदेन पवित्राणामाकृतिभेदमानभेदविधानम्] 21-9
प्रतिष्ठितस्य बिम्बस्य परादौ(?) धातुजस्य वा ।। 18 ।।
मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः।
द्वितीयमंसयोर्यावल्लम्वितं जानुमण्डले ।। 19 ।।
मूर्ध्नः पादावधिर्यावन्‌त्रितीयमतिविस्तृतम्।
[पीठपवित्रप्रमाणविधानम्] 21-10
पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ।। 20 ।।
[प्रतिसराणां व्यासानियमः] 21-11
बिम्बप्रतिसराणां च व्यासश्चानियतः स्मृतः।
सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति ।। 21 ।।
त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः।
त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः ।। 22 ।।
सङ्ख्यानेन विना सम्यङ्भातुलुङ्गोपमाः शुभाः।
[कुम्भादिपवित्रनिर्माणप्रकारविधानम्] 21-12
कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैवहि ।। 23 ।।
स्रुक्‌स्रुवाभ्यां च घण्डायामक्षसूत्रे च नारद।
अर्घ्यपात्रस्य चैककं सूत्रगर्भेर्यथेच्छया ।। 24 ।।
[गुर्वादीनां षण्णां यथाक्रमं पवित्रविधानप्रकारभेदः] 21-13
गुर्वादिसमयज्ञानां यतीनां भावितात्मनाम्।
कुडुम्बिनां क्रमात्कुर्यात्तन्तुभिर्मुनिसत्तम ।। 25 ।।
चतुर्विंशतिभिश्चैव सूत्रैः षोडशभिस्तथा।
ततो द्वादशभिर्ब्रह्मन्नष्टभिस्तदनन्तरम् ।। 26 ।।
षड्भिस्त्रिभिस्ततो देया ग्रन्धयः सूत्रसङ्ख्यया।
रञ्जयेत्पूर्वविधिना न कुर्याद्गर्भपूरणम् ।। 27 ।।
[पवित्राधिवासाक्यकर्मविधानम्] (तत्र पवित्रासादन प्रकारः) 21-14
(1)संस्थाप्य वै दले भाण्डे पलाशपुटकेऽथवा।
आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु ।। 28 ।।
(1. `संस्थाप्य वै दले भाण्डे' इत्यादिना रात्रौ जागरणं कुर्यादित्यन्तोग्रन्धः (28-50) पवित्राधिवासाक्य कर्मविधानपरः। सात्त्वतसंहितां व्याचक्षाणैः प्राचीनैः पवित्रारोपणप्रकरणव्याख्या नावसरे `दशम्येकादश्यः कर्तव्यं पवित्राधिवासाख्यं कर्माह-`दशम्यामित्यारभ्य जागरेण निशां नयेत्' इत्यन्ते नेत्युक्तम्।)
मद्ये तु यागद्रव्याणां तद्भाण्डं विनिवेस्य च।
[नित्यार्चनपूर्वकविशेषयजनविधानम्]
स्नात्वा तु पूर्वविधिना कुर्यान्नित्यार्चनं हरेः ।। 29 ।।
ततो विशेषयजनं दीक्षाख्येन क्रमेण तु।
द्वारयागादिकं कृत्वा सर्वं कलशपूर्वकम् ।। 30 ।।
संविधानं मुनिश्रेष्ठ हवनेन समन्वितम्।
एवं हि पूजनं कृत्वा मन्त्रसन्तर्पणं पुरा ।। 31 ।।
मुद्राबन्धजपान्तं च दद्यात्पूर्णाहुतिं ततः।
पुरा यस्मिन्दिने विप्र अतीते वत्सरे कृतः ।। 32 ।।
पवित्रकोपसंहारस्तद्दिनादादितः स्मरेत्।
अर्घ्यपुष्पादिबलिभिः पूजयेत्सर्वमध्वरम् ।। 33 ।।
समाचम्य स्मरेत्सर्वं मन्त्रबृन्दं क्रमेण तु।
पुरा प्रतिष्ठितं बिम्बं स्वयमन्य(कृ)तंतु वा ।। 34 ।।
निर्गत्य स्नापयेद्भक्त्या पूर्वोक्तविधिना ततः।
पूजयित्वा विशेषेण दत्वाऽर्घ्यं पुनरेव च ।। 35 ।।
संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम्।
स्मरेत्कृताकृतं सर्वं पूर्ववद्वासरीयकम् ।। 36 ।।
कृत्वा प्रदक्षिणं यायाद्भूयो यागनिकेतनम्।
[चतुःस्थानार्चनविधानम्]
स्थलस्थस्य च वै तत्र मन्त्रमूर्त्तेर्निवेद्य च ।। 37 ।।
ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम्।
अग्रतो देवदेवस्य सिह्ममूर्त्तौ तु दक्षिणे ।। 38 ।।
प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम्।
पश्चिमे कापिले मूर्त्तौ हेमपात्रं तु नारद ।। 39 ।।
निवेद्य हविषा पूर्णं नाराहे चोत्तरे ततः।
माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च ।। 40 ।।
फलानि शालिबीजानि त्वन्येषां दन्तधावनम्।
ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने ।। 41 ।।
निवेद्य पात्रतः कृत्वा कुम्भेऽग्नावेवमेव हि।
बाह्यतः प्रतिमायां च सर्वं प्रतिसरान्तकमे ।। 42 ।।
[आमन्त्रणम्]
ततो निमन्त्रयेन्मन्त्रमिष्यं येन क्रमेण तु।
आमन्त्रितोऽसि देवेश कृतो यागो यथाविधि ।। 43 ।।
तमाहरस्व भगवन्सर्वकर्मप्रपूरणम्।
एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् ।। 44 ।।
[सूत्रेण यागसदनवेष्टनम्]
सर्वं सितेन सूत्रेण त्रिरावृत्तेन चान्तरा।
सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् ।। 45 ।।
पिधाय पात्रैः सुदृढैः पवित्राणि पृथक् पृथक्।
[पूर्वोक्तप्रकारेण प्रासादवेष्टनम्]
तथैव वेष्टयेद्विप्र प्रासादं बाह्यतस्ततः ।। 46 ।।
[भूतबलिः]
सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद।
[पञ्चगव्यप्राशनादिविधानम्]
पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् ।। 47 ।।
संचर्व्य दन्तकाष्ठं तु ताम्बूलं वा यथेच्छया।
आचम्य न्यासपूर्वंतु सकळीकृत्य विग्रहम् ।। 48 ।।
स्थलस्थमुद्धरेन्मन्त्रं कलशे न्यस्य वाऽऽत्मनि।
[रात्रौ जागरणस्य मण्डलकर्मणः समापनस्य च विधान]
रात्रौ जागरणं कुर्यान्मण्डलं च समापयेत् ।। 49 ।।
रात्रिक्षये ततः स्नायाद्विभवेनाच्युतं यजेत्।
[पवित्रारोपणप्रकारविधानम्--तत्र नित्यार्चनपूर्वक चतुस्स्थानार्चनम्] 21-15
नित्यकर्म पुरा कृत्वा कुंभस्थं तु यजेत्क्रमात् ।। 50 ।।
मण्डलस्थं ततः पश्चादग्निस्थं तदनन्तरम्।
स्नानपूर्वं तु बिम्बस्थं प्रासादाभ्यन्तरे द्विज ।। 51 ।।
[प्रथमं कलशस्थस्य पवित्रारोपणप्रकारः] 21-16
प्रविश्य यागसदनं गत्वा कलशसन्निधिम्।
पूजयित्वा समुद्घाट्य पात्रं प्रातिसरीयकम् ।। 52 ।।
अवलोक्य समादाय तस्मिन्ध्यायेद्द्विजाखिलम्।
संवत्सरं तु यत्कर्म आप्रभातान्निशान्तकम् ।। 53 ।।
ध्यानोत्थं निष्कळं सम्यगपवर्गपदं तु यत्।
संस्मृत्य निष्कळं मन्त्रं शुद्धोच्चारक्रमेण तु ।। 54 ।।
मन्त्रं सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च।
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ।। 55 ।।
समादाय परं सूत्रं तस्मिन्सकळनिष्कळम्।
ज्ञानकर्मस्वरूपं तु कर्म ध्यायेच्च वत्सरम् ।। 56 ।।
स्मृत्वा चोभयरूपं तु मन्त्रं (1)कलशपूजितम्।
पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ।। 57 ।।
(1. सकल A.)
ततः प्रितसरं विप्र तृतीयं च समाहरेत्।
बाह्यं सांवत्सरं कर्म सकलं चाखिलं स्मरेत् ।। 58 ।।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम्।
लयभोगाधिकाराख्यक्रमेण सकलात्मना ।। 59 ।।
सकलं मन्त्रनाथं तु लयभोगादिविग्रहम्।
स्मृत्वा कृत्वा च सन्धानं दद्यात्प्रतिसरं ततः ।। 60 ।।
अर्घ्यैः पुष्पैस्तथा माल्यैः धूपान्तैश्च विलेपनैः।
अन्तरान्तरयोगेन पृजां कुर्यात्र्रिधा तथा ।। 61 ।।
मूलमन्त्रस्य विप्रेन्द्र गायत्र्योपहृतात्मना।
(1)दत्वैवं कलशस्थस्य पुत्रा विप्र पवित्रकम् ।। 62 ।।
(1.गत्वै A.)
[मण्डलस्थस्य पवित्रारोपणम्] 21-17
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद ।। 63 ।।
दद्यात्समस्तमन्त्राणां त्रीण्येकं वा यथेच्छया।
[अग्निस्थस्य ततो बिम्बस्थस्य च पवित्रारोपणम्] 21-18
पूजयित्वा ततोऽग्निस्थं विभुं बिम्बगतं ततः ।। 64 ।।
कलशोक्तप्रयोगेण भूषणैस्तु त्रिभिस्त्रिभिः।
[अग्निस्थस्य समर्पणे विशेषनिरूपणम्] 21-19
अग्नौ निवेदयेद्विप्र भूषणं न तु होमयेत् ।। 65 ।।
यस्मात्सन्यासमूर्ध्वे तु विहितं भूषणस्य च।
नाहर्त्तुं युज्यते दग्धुं दोषमाहरणं विना ।। 66 ।।
पवित्रकावधेरूर्ध्वं साधकानां तु नारद।
[महामन्त्रजपविधानम्] 21-20
पश्चात्पद्मासनं बध्वा देवस्याभिमुखस्थितः ।। 67 ।।
सकृज्जपं महामन्त्रं सर्वकर्मप्रवर्धनम्।
नाशनं सामयानां च दोषाणां स्मरणादपि ।। 68 ।।
[अथ विज्ञापनम्] 21-21
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु।
कामतोऽकामतो वाऽपि न कृतं नियतार्चनम् ।। 69 ।।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर।
तेन मे मनसाऽतीव सन्तापो दहनात्मकः ।। 70 ।।
यतः समयदोषेण बाधितोऽस्मि जनार्दन।
त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ।। 71 ।।
दोषविध्वंसकृच्छुद्धं पवित्रं तत्कृतं मया।
प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम् ।। 72 ।।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च।
नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ।। 73 ।।
पाहि पाहि त्रिलोकेश केशवार्त्तिविनाशन।
त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञि(श्रि?)तः ।। 74 ।।
अद्यास्तु कर्मसंपत्तिर्नित्यनैमित्तिकी प्रभो।
श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट् ।। 75 ।।
पूर्णभावं नयच्छ्रीघ्रं हन्ति दोषांश्च सामयान्।
[अथ गुरोः पूजनम्] 21-22
एवं कृत्वा ततो भक्त्या पूजयेद्विष्णुवद्गुरुम् ।। 76 ।।
दक्षिणाभिर्यथाशक्ति विविधैः पानभोजनैः।
प्राप्ता नियन्त्रिताश्चान्ये भगवद्भाविनस्तु वै ।। 77 ।।
[पवित्रोत्सवान्ते कृतस्य यत्यादिभ्यो दानस्य फलाधिक्यकथनम्] 21-23
पञ्च वैखानसान्ताश्च यतिपूर्वाश्च नारद।
आप्तादिपञ्चभेदेन चत्वारो ब्राह्मणादयः ।। 78 ।।
पञ्च योगरताद्यास्तु शास्त्रसन्धारणान्तिमाः।
असंख्यं यतये दत्तं वैष्णवाय प्रकीर्तिम् ।। 79 ।।
विद्धि कोटिगुणञ्चैव दत्तमेकान्तिने तु यत्।
तस्माद्दशशतांशोनं दत्तं यच्छिखिने तु वै ।। 80 ।।
सात्वताय शतांशोनं दशांशोनं तु नारद।
विद्धि वैखानसे दत्तं दानं प्रतिसरावदौ ।। 81 ।।
चतुर्विधे द्विजाप्ते तु एवमेवमुदाहृतम्।
आकोटेर्दानहासस्तु अनाप्तानामतः श्रुणु ।। 82 ।।
अनाप्ते लक्षगुणितं ब्राह्मणे परिकीर्तितम्।
एवमेव तु दत्तं च बुहुशो बहुभोजनन् ।। 83 ।।
यो निरस्यति विप्रेन्द्र साधको (1)वाऽप्यसाधकः।
तस्याशु भवते सिद्धिरिह लोके परत्र च (?) ।। 84 ।।
(1. बाह्य A.)
इत्येतत्साधकानां च क्रियासंपूरणं मया।
कथितं मुनिशार्दूल तत्सहस्रशतांशतः ।। 85 ।।
शतांशोनं तदंशेन दत्तमेव नृपादितः।
लक्षार्धत्रिगुणं दानं ततस्तामेति नारद ।। 86 ।।
अञ्जलीयकविप्राय यद्दत्तं विधिपूर्वकम्।
सहस्रांशशतांशेन ... ... ... ह्रसेच्च तत् ।। 87 ।।
नृपादिशूद्रपर्यन्तं वक्ष्ये त्वारम्भिणामतः।
लक्षपादगुणं दानं विप्रायारंभिणे मतम् ।। 88 ।।
सहस्रांशाद्दशांशोनं विद्धि क्षत्रादिपूर्वकम्।
अथायुतगुणं दानं ब्राह्मणे संप्रवर्तिनि ।। 89 ।।
नृपे सहस्रगुणितं वाऽपि तच्छतसंज्ञकम्।
अतो दशगुणं विद्धि योगज्ञादिष्वतः शृणु ।। 90 ।।
कोटिकोटिगुणं दानं भगवद्योगवेदिनि।
विप्रे वेदविदां श्रेष्ठे तत्सहस्रांशवर्जितम् ।। 91 ।।
क्षत्रिये वैश्यजातौ तु शतांशोनं तदेव तु।
दशांशहीनं तच्छूद्रे भगवद्योगसेविनि ।। 92 ।।
कोटिलक्षगुणं चैव जपनिष्ठे द्विजोत्तमे।
सहस्रांशशतांशोनं दशांशोनं नृपादिषु ।। 93 ।।
कोटिसाहस्रगुणितं ब्राह्मणे विष्णुतापसे।
प्राग्वदूनं सहस्रादेस्तत्क्षत्रादिषु नारद ।। 94 ।।
नारायणागमज्ञे तु दानं द्विजवरे तु यत्।
दत्तं काले पवित्रे तु कोटीशतगुणं स्मृतम् ।। 95 ।।
राजन्यवैश्यशूद्राणां पूर्ववत्कल्पयेच्च तत्।
धत्ता(धृता?)गमानां यो विप्रो वैष्णवानां च भक्तितः ।। 96 ।।
कोटीदशगुणं दानं तद्दत्तं भवतीति च।
क्षत्रादिष्वेव विहितं तत्सहस्रादितो भवेत् ।। 97 ।।
[वैष्णवमात्रस्य पूज्यता] 21-24
यः कश्चिद्वैष्णवस्तस्मिन्काले तत्रावतिष्ठते।
स पूजनीयो विप्रेन्द्र यथाशक्ति च भक्तितः ।। 98 ।।
स्वभाववैष्णवो जन्तुरास्तां तावन्महामुने।
[वैष्णवलिङ्गधारिमात्रस्य पूज्यता] 21-25
गृहीत्वा वैष्णवं लिङ्गं भक्तो यः कश्चिदागतः ।। 99 ।।
अर्थ्यहं वैष्णवो देहि ब्रूते ह्येवमभीक्ष्णशः।
सोऽपि यत्नाद्यथाशक्ति पूज्योऽज्ञातोऽपि नारद ।। 100 ।।
[आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ संस्थाप्यता] 21-26
एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज।
पवित्रकं स्थापनीयं मण्डलेऽर्चागतं तथा ।। 101 ।।
अथवाऽर्च्चागतं विप्र तद्वत्संस्थाप्य भूषणम्।
यावदेकादशी शुक्ला संप्राप्ता कार्तिकस्य तु ।। 102 ।।
[पुष्पमात्रस्य प्रत्यहमपनीयता]
पुष्पपूजापनयनं कृत्वा वै प्रत्यहं पुनः।
पवित्रकं योजनीयं संप्राप्ते कालवासरे ।। 103 ।।
[पवित्रविसर्जनप्रकारविधानम्] 21-27
अपनीय गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा।
पञ्चकालप्रसक्तस्य तदभावात्तु नारद ।। 104 ।।
षट्‌कर्मसंप्रसक्तस्य विष्णुभक्तस्य तत्त्वतः।
विशेषयागं होमान्तं कृत्वाऽऽचार्यप्रपूजनम् ।। 105 ।।
वैष्णवाः पूर्ववत्पूज्या दद्यादाच्चादनं ततः।
तेषां चैव यथाशक्ति अभावादथ नारद ।। 106 ।।
युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि।
उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् ।। 107 ।।
[यतीनां सन्निधौ प्रार्थना]
प्रार्थना च ततः कार्या यतीनां संयतात्मनाम्।
युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ।। 108 ।।
क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः।
[अथ यत्यादीनां प्रतिवचनम्]
एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ।। 109 ।।
सांवत्सरः क(त?)दाऽकृत्यदोषः समयपूर्वकः।
नाशमायाति वै क्षिप्रं पवित्रारोहणान्मुने ।। 110 ।।
[पवित्रशब्दनिर्वचनम्] 21-28
पाति यस्मात्सदोषं हि पतनात्परिरक्षति।
विशेषेण द्विजां स्त्राति पूर्णं कर्म करोति च ।। 111 ।।
साधके च क्रियाहीने तस्मादुक्तो मया महान्।
याग एव पवित्राख्य उक्तलक्षणलक्षितः ।। 112 ।।
[पवित्रकर्मविधानानन्तरं पालनीया विशेषनियमाः] 21-29
कृते पवित्रके विप् भक्तैर्मन्त्रक्रियापरैः।
कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ।। 113 ।।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा।
भूयस्तदादि विप्रेन्द्र प्रयत्नाद्दिनपञ्चकम् ।। 114 ।।
कुर्याद्व्रतपरं किञ्चिद्दानपूजनपूर्वकम्।
समस्तदोषशमनं समस्तसुखवर्धनम् ।। 115 ।।
मधुमांसमसत्यं च मैथुनं मृगयान्वितम्।
तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् ।। 116 ।।
यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः।
तथाऽस्य भवते सिद्धिरिह लोके परत्र च ।। 117 ।।
इत्येतत्साधकानां च क्रियासंपूरणं मया।
कथितं मुनिशार्दूल पवित्रं पापनाशनम् ।। 118 ।।
मन्त्राराधनसक्तानामचिरात्सिद्धिदं महत्।
मन्त्रतन्त्रविहीनानां भक्तानां भुवनत्रये ।। 119 ।।
पवित्रस्य फलं शश्वत्प्रददाति समापनात्।
नारद :---
कोऽसौ मन्त्रो जगत्कर्त्तर्यो जप्तव्यः क्रियापरैः ।। 120 ।।
पूजावसानकाले तु यथावत्कथयस्व मे।
श्रीभगवान् ---
[पवित्रकर्मावसाने जप्तव्यतया पूर्वमुक्तो महामन्त्रः] 21-30
ओङ्कारत्रितयं पूर्वं प्रथमं केवलस्ततः ।। 121 ।।
पवित्र ऋतधामाऽथ परा प्रकृतिरेव च।
ताललक्ष्मा तदन्ते तु बुद्धिरानन्दचिह्निता ।। 122 ।।
आकारेणाङ्कितं दद्याद्रेफं च तदनन्तरम्।
केवलोऽथ यकारश्च शास्ता तद्वद्द्विजोत्तम ।। 123 ।।
त्वां प्रपन्नोऽस्मि तदनु रक्षरक्ष पदान्वितम्।
ततो मकारमादाय व्योमेशानन्दभूषितम् ।। 124 ।।
(1)स(श?)र्ववज्रद्वयञ्चान्ते दमनो विक्रमीयुतः।
नृसिह्मः सिद्धिदश्चान्तो यकारस्त्र्यश्रभूषितः ।। 125 ।।
(1. नृद्वयं A.)
इलायुधोऽप्यकारस्थो विसर्गेण विभूषितः।
ततः (2)सकारमादाय वरुणस्थस्ततोऽनलः ।। 126 ।।
(2. मकार CL.)
(3)सकारश्च मकारश्च सुसूक्ष्मस्तदनन्तरम्।
ओंयुक्तो विबुधाद्यस्तु बकारो विग्रहान्वितः ।। 127 ।।
(3. सतार Y.)
गकारोऽथ यकारस्थ आकारेण विभूषितः।
तृप्तिं च वरुणारूढमुद्धरेत्कालपावकम् ।। 128 ।।
सकारः केवलश्चाथं परा संवित्ततोऽनलः।
गकारोऽथ सकारश्च पारूढश्चानलः स्मृतः ।। 129 ।।
एकारेणाङ्कितश्चैव शान्तोऽथ वरुणः स्थितः।
रेफं च केवलं दद्यात्सर्वशक्तपदं ततः ।। 130 ।।
सर्वाधारपदोपेतं सर्वान्तर्बहिरेव च।
स्थितेवर्णद्वयं दद्यात्सर्ववर्णद्वयं ततः ।। 131 ।।
परां प्रकृतिमादाय रेफं च तदधो न्यसेत्।
इष्टेनाप्यङ्कयेत्तच्च यकारं चोद्धरेत्ततः ।। 132 ।।
आकारेण समायुक्तमेकदंष्ट्रमथोद्धरेत्।
(4)गकारं तदधो दद्यादाकारं च ततो मुने ।। 133 ।।
(4. दकारं A.)
इकारेणाङिकतं दद्यान्नरं तदनु नारद।
द्विधा मकारं तदनु पूरयेति पदं ततः ।। 134 ।।
सर्वाणि पदमादाय (5)ङकारस्तदनन्तरम्।
उत्तमं तदधो न्यस्याद्द्विधा नारायणं ततः ।। 135 ।।
(5. दकार A.)
आकारेणाङ्कयेत्पूर्वमिकारेण परं द्विज।
द्विधा मकारस्तदनु प्रकाशय पदं द्विधा ।। 136 ।।
सर्वाणि करणानीति पदं कालं ततो द्विधा।
स्वात्मलाभे पदं चाथ नियोजय पदं द्विधा ।। 137 ।।
भगवंस्त्र्यक्षरमिति त्र्यक्षरं भवहेति च।
भूतात्मानमथादाय तदधस्थं गदाधरम् ।। 138 ।।
गोपनेनाङ्कितं मूर्ध्नो रेफं वै योजयेत्ततः।
वैराजोपरिसंस्थं च ओंकारेणाङ्कयेच्च तम् ।। 139 ।।
व्योमेशाढ्यो हकारश्च शङ्खश्चानन्दभूषितः।
आदाय चढ्चलं विप् ईश्वरं तदधो न्यसेत् ।। 140 ।।
आनन्देनाङ्कितं कुर्याज्जिते पाणिपदं ततः।
चतुरर्णं तु संयोज्य मकारं च ततो न्यसेत् ।। 141 ।।
व्योमेशाकारसंभिन्नं सत्यं तदनु चोद्धरेत्।
तदन्तेऽभयदं न्यस्य गकारं तदनन्तरम् ।। 142 ।।
व्योमेशभिन्नो वैकुण्ठो वाराहस्त्विनभूषितः।
शार्ङ्गभृद्वरुणारूढो न्यस्यो व्योमेशचिह्नितः ।। 143 ।।
संस्कारोऽथ(?)यकारश्च लिप्तोऽस्मि त्र्यक्षरं पदम्।
सकारोऽथ मकारश्च यकारस्तदनन्तरम् ।। 144 ।।
ततो धरेशमादाय ओंकारेण विभूषितम्।
पकारश्च वकारश्च लक्षणं केबलास्त्वमी ।।145 ।।
विश्वभावकमादाय कमलोपरिसंस्थितम्।
शिरसाऽविग्रहाख्येन वर्णेन परिभूषितम् ।। 146 ।।
नकारं केवलं चाथ पदं निर्मलमित्यथ।
मापादय पदं दद्यात्सकलेति पदं द्विज ।। 147 ।।
उद्दामस्थं गकारं तु लकारं केवलं ततः।
आदिदेवान्वितः पन्था रामोपेतश्च माधवः ।। 148 ।।
पकारश्च तकारश्च यकारोऽविग्रहान्वितः।
द्विधा जहि पदं देयं कालं त्र्यश्रेन चाङ्कितम् ।। 149 ।।
चतुर्गतिसमारूढं वैराजमथ योजयेत्।
आनन्दाख्येन चाक्रान्तं न्यसेद्रेफमतो द्विज ।। 150 ।।
वैराजोपरिसंस्थं तु (1)सोमेशाख्यं स्थितं पुनः।
पदं तु मानसं तेदं(दोषं?) दद्यात्पञ्चाक्षरं द्विज ।। 151 ।।
(1. सोम शङ्‌ख A.)
वाचिकांस्त्र्यक्षरं चातो दुरुक्तान् कायिकांस्ततः।
षडक्षरं कुवृत्तीन्वै त्र्यक्षरं तदनु न्यसेत् ।। 152 ।।
परमेश्वरशब्दं तु दद्यात्पञ्चाक्षरं मुने।
ततः परममूर्तौ(र्ते?)च प्रसीद पदमेव च ।। 153 ।।
मे प्रपन्नस्य च पदं न्यसेत्पञ्चाक्षरं मुने।
आदेशाच्छलविध्वंसी इकारेण विभूषितः ।। 154 ।।
रामोपेतं नरं दद्यान्माधवं तदधो न्यसेत्।
भिन्धि संसारमिति च दद्यात्पञ्चाक्षरं मुने ।। 155 ।।
(1)दकारं भुवनारूढं विसर्गेण समन्वितम्।
विश्वभावनमादाय केवलं च तदन्तगम् ।। 156 ।।
(1. इकारं A)
उद्धरेद्द्विजशार्दूल शाश्वतं तदनन्तरम्।
व्योमेशानन्तसंभिन्नं वामनं प्रोद्धरेत्ततः ।। 157 ।।
पन्थानं माधवारूढं व्योमेशानन्तभूषितम्।
(2)ककारश्चैव रेफश्च द्वावेतौ भुवनोपरि ।। 158 ।।
(2. अकार A)
एकारेणाङ्कितः कालो वैराजो रामभूषितः।
सर्वेभ्योऽनुग्रहं चैव पदं सप्ताक्षरं ततः ।। 159 ।।
ज्ञानात्मनो पदं दद्यात्पुरुषोत्तमसंयुतम्।
महातमः प्रविष्टस्य पदमष्टाक्षरं त्विदम् ।। 160 ।।
... ... ... मादाय जगद्योनिविभूषितम्।
विज्ञानालोकशब्दं तु (3)प्रदाने त्र्यक्षरं पदम् ।। 161 ।।
(3. प्रधाने A)
हकारञ्च मकारं च सर्वदेहमथोद्धरेत्।
क्रमात् त्रयाणां योक्तव्या ना(रा?)मोद्दामोऽपि विक्रमी ।। 162 ।।
(4)भकारश्च वकारश्च व्यापकः केवलास्त्वमी।
(5)रारूढः पद्मनाभस्य(श्च?)स्रग्धरो रामभूषितः ।। 163 ।।
(4. हकार A.)
(5. आरूढ A)
(6)हकारश्च तकारश्च पुण्डरीकश्च केवलः।
वैराजस्थोऽथ कमलश्शङ्खस्त्र्यश्रेण चाङ्कितः ।। 164 ।।
(6. ककार A.)
परमात्माऽथ सूक्ष्मस्थः पुण्डरीकश्च केवलः।
रामस्ततस्तकारस्थः सूक्ष्मस्थश्चामृतस्ततः ।। 165 ।।
कालश्चैकारसंभिन्नस्समुद्धरपदं ततः।
अजितस्तु पदं त्र्यर्णं मम जन्मपदं द्विज ।। 166 ।।
केवलश्च ततो हस्वो (1)नकारस्त्रासनस्थितः।
त्र्यैलोक्यैश्वर्यदोपेतो घातयेति पदं द्विधा ।। 167 ।।
(1. नकरो CL.)
ज्ञानैश्वर्यपदं दद्याल्लीलासक्तपदं त्वनु।
पद्मनाभश्च रारूढः कमलो[ऋ]तथात्म(धाम?)गः ।। 168 ।।
इष्टोपेतस्तु कमलो वैराजं भुवनोर्ध्वगम्।
केवलः पद्मनाभस्तु धन्वी चानङ्गभूषितः ।। 169 ।।
हकारश्च नकारश्च वकारो रामभूषितः।
आह्लादस्थं ततो भानुं मदनेन समन्वितम् ।। 170 ।।
त्र्यैलोक्यैश्वर्यदोपेतं परमात्मानमुद्धरेत्।
स्रग्धरं वरुणारूढं त्र्यैलोक्यैश्वर्यदान्वितम् ।। 171 ।।
मम त्राता पदं योज्यं सकलेति पदं ततः।
जकारश्च नकारश्च शरणेति पदं ततः ।। 172 ।।
शरणागतोऽक्षरं(?)दद्यात्पदं वि प्र षडक्षरम्।
त्र्यश्रान्वितं च वैराजं कुरुवीप्सापदं ततः ।। 173 ।।
दकारं केवलं शङ्खं गोपनेनाङ्कितं न्यसेत्।
नकारं च द्विधा दद्यादन्त्यं वै गोपनाङ्कितम् ।। 174 ।।
देयो भुवनपालस्च सकारः शङ्खसंस्थितः।
पन्था गोपनसंभिन्नः केवलः सर्वरोधकः ।। 175 ।।
पुण्डरीकाक्षशब्दं तु परमं त्र्यक्षरं पदम्।
पदं कराणि(रारुणि?)केत्युक्त्वा ततो भक्तजनेन(ति?) च ।। 176 ।।
पदं वत्सलमादाय पिण्डभावनसंयुतम्।
विश्वात्मा च(2) ततः शब्दं विश्वेश्वरपदं ततः ।। 177 ।।
(2. नं A.)
हृषीकेशपदं दद्यान्मोक्षलक्ष्मीपदं ततः।
पद्मनाभश्च रेफस्थो दकारः केवलस्ततः ।। 178 ।।
भगवन्सर्वमन्त्रात्मन् पदमष्टाक्षरं शुभम्।
नरस्त्र्यश्रेण संभिन्नस्सर्वमन्त्रपदं ततः ।। 179 ।।
केवलं पुण्डरीकं च रेफं वै विष्णुनाऽङ्कितम्।
भूयस्तं विक्रमीयुक्तं त्र्यैलोक्यैश्वर्यदान्वितम् ।। 180 ।।
नमो नमःपदोपेतं पञ्चधाऽथ त्रिकं न्यसेत्।
क्रमेण द्विजशार्दूल कूट(?)सूर्यामृताभिधाम् ।। 181 ।।
विसर्गेणाङ्कयेत्पूर्वं व्योमेशेन पदं ततः।
तृतीयमौर्वसंज्ञेन चतुर्थं-छादनेन तु ।। 182 ।।
पञ्चमं योगधात्रा तु योज्यः षष्ठेन नारद।
अविग्रहः सप्तमे तु देवदत्तं नियोजयेत् ।। 183 ।।
तारकं त्वष्टमे विप्र विष्टरं नवमे ततः।
दशमे ऋतधामानमूर्जमेकादशं मुने ।। 184 ।।
द्वादशेऽभ्युदयं विद्धि न्यसेद्विष्णुं त्रयोदशे।
रामं द्विसप्तमे विप्र विन्यसेत्तदनन्तरम् ।। 185 ।।
आनन्दं पञ्चदशमे बीजे तदनु नारद।
प्रणवस्सनमस्कोऽन्ते तदन्ते प्रणवः पुनः ।। 186 ।।
भूयः प्रणवमादाय भगवत्पदमेव च।
ममेति द्व्यक्षरं शब्दे विवेकपदमेव च ।। 187 ।।
पकारं केवलं दद्याद्दकारं गोपनाङ्कितम्।
ताललक्ष्माणमन्ते तु अप्रमेयोज्झितं मुने ।। 188 ।।
समयोत्थानतः शब्दं दोषं ज्ञानाङ्कुशेन वै।
पदं सप्ताक्षरं दद्यात्कमलं केवंल ततः ।। 189 ।।
विश्वरूपसमारूढं दण्डधारं न्यसेत्ततः।
तदन्ते कमलं दद्याद्दण्डधारमथोद्धरेत् ।। 190 ।।
वृषकर्मा च तदधः अकराळस्ततो द्विज।
अखण्डविक्रमी देयस्तदधस्थः प्रतर्दनः ।। 191 ।।
शश्वच्छब्दस्ततो विप्र चन्द्रांशुश्चन्दपृष्ठतः।
आनन्देनाङ्कितः कार्यो व्योमेशेनाङ्कितेन तु ।। 192 ।।
रामाङ्कं स्रग्धरं चाधो मापादय पदं ततः।
कालत्र्यश्राङ्कितं दद्यान्नरं रामाङ्कितं ततः ।। 193 ।।
अनलं वरुणं चैव केवलं योजयेत्क्रमात्।
पुण्डरीकोऽग्निरूपश्च वैकुण्ठस्तु तृतीयकः ।। 194 ।।
छन्दस्त्र्यश्राङ्कितो (तं?) योज्यश्च(ज्यंच ?)न्द्रांशुं प्रोद्धरेत्ततः।
छन्दःपतिसमारूढमानन्देनाथ चाङ्कयेत् ।। 195 ।।
गकारं केवलं दद्याद्वैकुण्ठं व्योमराड्‌युतम्।
पूजयेति वदेद्वीप्सां सूर्यं तदनु चोद्धरेत् ।। 196 ।।
सामदाम(फाठ?)कमस्यान्ते दीप्तिमन्तमनन्तरम्।
उत्फुल्लनयनस्चान्ते चतुर्णां योजयेत्क्रमात् ।। 197 ।।
त्र्यैलोक्यैश्वर्यदं मूर्ध्नि प्रज्ञादारमथासने।
ततो झषं समादाय ज्वालारूढं तु नारद ।। 198 ।।
व्योमेशेन समायुक्तं घर्मांशुं प्रोद्धरेत्ततः।
तस्यासने तु लिङ्गात्मा योजनीयोऽवसानतः ।। 199 ।।
अप्रमेयोज्झितः स्रग्वी आधेयश्चाथ लाङ्गली।
आसने भगवानस्य वैराजस्तस्य पूर्वकम् ।। 200 ।।
द्विधाऽनलं समुद्धृत्य न्यस्यस्ताभ्यामथ क्रमात्।
लाङ्गली विश्वरूपश्च व्यापी बाह्यात्तु मस्तके ।। 201 ।।
प्रथमस्यासने योज्यं नाम्ना वर्णं प्रसारणम्।
दीर्घघोणं द्वितीयस्य योजयेत्तदनन्तरम् ।। 202 ।।
अथानलं द्विजादाय तदधः सामफाठकम्।
अशेषभुवनाधाररूढं कृत्वाऽस्य मूर्धनि ।। 203 ।।
ऐश्वर्यसंवृतं व्योम न्यसेदेकं द्विधा मुने।
ततोऽनलं समादाय सूर्यं न्यस्येदधस्ततः ।। 204 ।।
अस्य चाधोऽनलं चोर्ध्वे व्योमचैरावमस्थितम्।
ततस्तु रेफमादाय झषोपरि गतं मुने ।। 205 ।।
तदधोपरि तेजस्वी तदधो ह्यनलं पुनः।
लोकेशोपरिसंस्थं तु अंकारश्चास्य मूर्धनि ।। 206 ।।
पट्‌कारद्वितयं चान्ते केवलो लाङ्गली ततः।
रामाङ्कितो दण्डधर स्रग्वी तेनैव चाङ्कितः ।। 207 ।।
महामन्त्रेति च पदं शब्देनेति पदं ततः।
विघ्नोऽयमिति वै देयं समयेति पदं ततः ।। 208 ।।
दोषहृद्दन्त(वृन्दं न?)दन्ते तु अविद्यानिचयं ततः।
बधरीभूतामिति वै शीघ्रं कुरु कुरु द्विज ।। 209 ।।
ततः प्रणवमादाय सूर्यो योज्यस्ततो मुने।
सूपर्णं च तदन्ते तु प्राणस्तदनु नारद ।। 210 ।।
कूटस्तदवसाने तु सर्वलोकेशसंस्थितः।
व्योमेशभूषितश्चैव भगवन्मे पदं ततः ।। 211 ।।
संपूर्णे च पदं दद्याद्दानवर्णयुतं(1) ततः।
कर्मणिशब्दमथ च संपादय पदं द्विधा ।। 212 ।।
(1. द्वयं A.)
तदन्ते कौस्तुभपदं ओंभगवन्पदं ततः।
ततश्चामृतमूर्ते वै समस्तपदमेव हि ।। 213 ।।
पदं मन्त्रगणं चातो (2)यकारः केवलस्ततः।
नारायणः प्रधानस्थश्शान्तिदः केवलस्ततः ।। 214 ।।
(2. वकारः A.)
नरोऽथ भुवनारूढो रारूढोऽथ गदाधरः।
ओतदेहाङ्कितप्राणश्शङ्कस्थश्चाथ शान्तिदः ।। 215 ।।
व्योमेशयुक्तो वैराजः स्रग्धरः केवलस्ततः।
ताललक्ष्मा तदन्ते तु तृप्तिं च तदधो न्यसेत् ।। 216 ।।
तस्याप्यधो वराहं तु विष्णोऽयं गोपनाङ्कितः।
नारायणोऽथ चैकाकी भूयस्स दमनोर्ध्वगः ।। 217 ।।
आदिदेवेन चाक्रान्तो मन्दरोऽथाङ्कुशस्थितः।
औकारसंयुतः स्रग्वी त्र्यश्रयुक्तोऽथ दीप्तिमान् ।। 218 ।।
केवलश्च ततः पन्थास्सन्तर्पयपदं द्विधा।
सोमोऽथ वरूणारूढो द्विधा देयश्च नारद ।। 219 ।।
व्यापी चान्द्री तथाऽऽनन्दो योज्यस्तदनु वै द्वयोः।
वराहोऽथामृतस्थस्तु तदधः पुरुषेश्वरः ।। 220 ।।
उद्दामो ह्यथ तस्याधो व्यापी चान्द्री च मूर्धनि।
एतदेव पुनर्दद्याद्भुवनार्णेन वर्जितम् ।। 221 ।।
विष्णुनालङ्कृतं किं तु सानन्दममृतं ततः।
तदधश्चामृताधारं शङ्खं तस्याप्यधो न्यसेत् ।। 222 ।।
विश्वाप्यायकरानन्दं त्रैलोक्यैश्वर्यदान्वितम्।
परमेश्वरसंयुक्तं न्यसेत्सोममथ द्विधा ।। 223 ।।
वरुणो भूधरोपेतस्त्वग्निरूपोऽथ केवलः।
दण्डधारस्ततो देयः प्रणवेनाङ्कितो मुने ।। 224 ।।
नमो नमस्ततः स्वाहा मन्त्रोऽयं त्रिदशार्चितः।
शतानि पट् च वर्णानां वर्णा द्वादश च द्विज ।। 225 ।।
अर्धाक्षराणि वै पञ्च इत्येतत्कथितं मुने।
[अस्य महामन्त्रस्य प्रशंसा] 21-31
मन्त्रोऽयं सूचितः प्राग्वै रक्षणीयः प्रयत्नतः ।। 226 ।।
छिन्नानामपि भिन्नानां मन्त्राणां चारुरूपिणाम्।
एषा(षां?) मन्त्रवरः श्रेष्ठस्सर्वेषामपि पूरयेत् ।। 227 ।।
तेजसाऽपि च वीर्येण सौम्यत्वेन सदैव वा।
समस्तदोषशमनो विघ्नविध्वंसकृन्महान् ।। 228 ।।
मन्त्रोऽयं मुनिशार्दूल गोपनीयः प्रयत्नतः।
सामान्यं साधकानां च सच्छासननिषेविणाम् ।। 229 ।।
अनेकवक्त्रनयनमनेकाङ्घ्रिकरान्वितम्।
अनेकाद्भुतदातारमनेकाभरणभूषितम् ।। 230 ।।
अनेकगन्धपुष्पाढ्यमनेकायुधधारिणम्।
अनेकदीप्तनयनमनेकफलभूषितम् ।। 231 ।।
अनेकमन्त्रकोटीभिस्संस्मरेत्सेवितं सदा।
यस्तु नैमित्तिके यागे नित्ये वानन्यमानसः ।। 232 ।।
सोऽचिरात्प्राप्नुयात् सिद्धीर्नावसीदति कर्हिचित्।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां पवित्रकविधानं नामैकविंशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_२१&oldid=206752" इत्यस्माद् प्रतिप्राप्तम्