जयाख्यसंहिता/पटलः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः ११ जयाख्यसंहिता
पटलः १२
[[लेखकः :|]]
पटलः १३ →
जयाख्यसंहितायाः पटलाः

पटलः - 12
अथ मानसयागाख्यानं नाम द्वादशः पटलः। 12-1
श्रीभगवान् ---
एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा।
मानसेन तु यागेन ततो विष्णुं समर्चयते ।। 1 ।।
[मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपद्मान्तानां षण्णां कल्पनाप्रकारः] 12-2
नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम्।
कालाग्निं च तदूर्ध्वे तु अनन्तं तस्य चोपरि ।। 2 ।।
तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितां स्मरन्।
कन्दान्नाभ्यवसानाच्च चतुर्द्धा भाजितैः पदैः ।। 3 ।।
नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम्।
सहस्रदळपर्यन्तं सहस्रकिरणावृतम् ।। 4 ।।
[पद्मस्योपरिपीठकल्पनम्] 12-3
सहस्ररश्मिसङ्काशं तत्पृष्ठे चासनं न्यसेत्।
[तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनाप्रकारः] 12-4
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ।। 5 ।।
अवतार्य स्वमन्त्रेण आग्नेयादिचतुष्टये।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ।। 6 ।।
पीठपादचतुष्के तु सितास्सिह्मानना अमी।
शरीरात्पुरुषाकाराः परोत्साहसमन्विताः ।। 7 ।।
तत्पूर्वदिग्विबागादि यावदुत्तरगोचरम्।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ।। 8 ।।
पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्वलाः।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ।। 9 ।।
यातुवारुणमध्ये तु वायव्यवरुणान्तरे।
ऋग्वेदाद्यं चतुष्कं तु पीतं हयनराकृतिम् ।। 10 ।।
ईशानसोमदिग्मध्ये अन्तकाग्निदिगन्तरे।
याम्यराक्षसमध्ये तु सौम्यसामीरणान्तरे ।। 11 ।।
कृताद्यं युगसङ्घं च कृष्णं वृषनराकृतिम्।
सर्वे चतुर्भुजास्त्वेते द्वाभ्यां सन्धारयन्ति च ।। 12 ।।
पीठमञ्जलिना द्वाभ्यां प्रणमन्ति जगत्प्रभुम्।
[धर्मादिपीठस्योपरि अवयवविभागशः स्थानभेदेन सितकमलसूर्येन्द्वग्निपक्षिराजान्तासनपञ्चकस्योपर्युपरि परिकल्पनप्रकारः] 12-5
एषामुपरि विन्यस्य सितपद्मादितस्त्रयम् ।। 13 ।।
प्रागुक्तैस्स्वोदितैर्मन्त्रैरुपर्युपरि नारद।
तत्पृष्ठे पक्षिराजं च वराहं (1)तूभयं न्यसेत् ।। 14 ।।
(1. तु हयं A.)
आनाभि हृदयान्तं च पञ्चधा सुसमैः पदैः।
विकल्प्य भावयेद्व्याप्तिमस्य मन्त्रासनस्य च ।। 15 ।।
[आधारशक्तिप्रभृति पक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां तत्त्वानां क्रमाद्‌व्याप्तिः] 12-6
आधारशक्तेरारभ्यं यावन्मान्त्रं परं पदम्।
भूतान्याधाराशक्तौ तु तन्मात्राः कालपावके ।। 16 ।।
वागादिकं तथैवाक्षमनन्तं व्याप्य संस्थितम्।
श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ।। 17 ।।
अनन्तदळपह्ने तु अहङ्कारस्समाश्रितः।
द्विरष्टकं च धर्माद्यमधिष्ठाय च धीस्स्थिता ।। 18 ।।
तदूर्ध्वपद्मे प्रकृतिर्गुणसाम्याऽविभागिनी।
(2)धामत्रयाश्रितः कालो भावाख्ये पुरुषः स्थितः ।। 19 ।।
(2. सी C L.)
गरुडश्चेश्वरेणैव प्रभुत्वेन त्वधिष्ठितः।
एकादशपदं ह्येवं मन्त्रमूर्तौ जनार्दने ।। 20 ।।
आसीनं च शरीरस्थमविभक्तं विभक्तिमत्।
[विष्णोर्ध्यानोपक्रमः] 12-7
विष्णुं विश्वात्मकं देवमीश्वराधारविग्रहम् ।। 21 ।।
स्वस्थानाच्च समायान्तं प्राक्प्रवाहेण भावयेत्।
[प्रथमं मन्त्रात्परतरस्वरूपस्य भावनम्]
मरीचिचक्रपर्यन्तं मन्त्रात्परतरस्थितिम् ।। 22 ।।
परसूक्ष्मविबागेन ततो मन्त्रात्मना स्मरेत्।
[परसूक्ष्मोभयात्मनाऽवस्थितस्य मन्त्रात्मस्वरूपस्य भावनम्]
परं ज्योतिर्मयं रूपमाह्लादानन्दलक्षणम् ।। 23 ।।
सूक्ष्मं चिच्छक्तिलक्षं तु लिङ्गमात्रं प्रकाशवत्।
[स्थूलस्वरूपस्य स्मरणम्]
ततः स्थूलवपुर्ध्येयो नानारूपविभागशः ।। 24 ।।
[परसूक्ष्मात्मनाऽवस्थितस्य मन्त्रमूर्तेविष्णोरैश्वर्यम्] 12-8
वालाग्रशतभागश्च प्रधानपुरुषेश्वरः।
गुणभोक्ता गुणाधारो गुणवान्निर्गुणस्तथा ।। 25 ।।
देहेश्वरस्सविख्यातस्सर्वदेवमयः प्रभुः।
अङ्गुष्ठमात्रः पुरुषस्सर्वदेहेषु तिष्ठिति ।। 26 ।।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः।
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ।। 27 ।।
ब्रह्माह्ययं तथा रुद्रश्चन्द्रसूयौं प्रजापतिः।
परमात्मसमुद्भूतमन्त्राज्जातास्तदात्मकाः ।। 28 ।।
[लक्ष्म्यादिभिः सहैवपूज्यत्वम्] 12-9
बुद्धिस्सन्तारिका या वै परे तद्धर्मधर्मिणी।
तत्‌ज्ञा वा (सा )प्राग्विभागेन प्रभा चन्द्रमसो यथा ।। 29 ।।
अवस्थिता चतुर्धा वै शक्तित्वेन जगद्गुरोः।
ज्ञानक्रियास्वरूपेण ईशित्वानुग्रहात्मना ।। 30 ।।
पञ्चैव बुद्धिपूर्वास्ताः प्रागुक्तासु च शक्तिषु।
विकारत्वेन वर्तन्ते आसामपि च नारद ।। 31 ।।
बुद्धिं विना चतसॄणां विकृतिश्चापि नश्वरी।
व्यवस्थिताश्चतुर्धा या लक्ष्म्याद्या देवतास्तु ताः ।। 32 ।।
ताभिस्सह सदा पूज्यस्साङ्गो हृत्पद्मकोटरे।
[परमात्मनः शक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानादिविकृत्यष्टकमूलप्रकृतित्वम्] 12-10
एतासां हि विकारश्च श्रेयोमार्गनियामकाः ।। 33 ।।
सदैव मत्प्रपन्नानां जनानां येऽनुरागिणः।
संस्थिताश्च जगत्यस्मिन् धर्मज्ञानादयस्तु ते ।। 34 ।।
एतेषां वै द्विजश्रेष्ठ विकारत्वेन संस्थितम्।
अधर्माद्यं चतुष्कं तु अश्रेयः पथयोजकम् ।। 35 ।।
गुर्वग्निमन्त्रशास्त्राणां दूषकादिषु जन्तुषु।
शेषं मायामयं सर्वं तां मायां विद्धि मामकीम् ।। 36 ।।
पृथग्रूपं तथैक्यं च आभ्यामुक्तं पुरा मया।
[हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यज्योतिषो विष्णोः प्रभावविशेषः] 12-11
एवं प्र(1)कीर्तितं (2)सङ्घं मन्त्रचक्रं परात्मकम् ।। 37 ।।
(1. प्रव CL.)
(2. सर्वं A.)
हृत्पुण्डरीकमद्यस्थं चैतन्यज्योतिरव्ययम्।
कदम्बगोळकाकारं विश्वरूपं मणिप्रभम् ।। 38 ।।
रत्नदीपसमाकारमच्छिन्नप्रसरं महत्।
श्रोत्रपूर्वैः खरन्ध्रैश्च रश्मयस्तस्य निर्गताः ।। 39 ।।
छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्ध्विज।
याति भासां गणो बाह्ये शरीरादेवमेव हि ।। 40 ।।
मन्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्बहिः।
[स्थैर्यादीनां पृथिव्यादिगुणआनामपि परमात्मैकाश्रयत्वम्] 12-12
अप्रत्यक्षस्सदाऽक्षाणां मन्त्रात्माऽयमपि द्विज ।। 41 ।।
तथाऽप्यनेन न्यायेन प्रत्यक्षमुपल(3)क्ष्यते।
बहिस्थितं यद्भूतानां क्ष्मादीनां गुणपञ्चकम् ।। 42 ।।
(3. म्य CL.)
तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षगम्।
तस्य भौमो गुणस्थैर्यं तद्गुणएन हि सा स्थिरा ।। 43 ।।
परस्परानुभावेन संवृत्तौ तदुपारुहेत्।
आह्लादो यस्तदीयोऽपि सतोये चोपलभ्यते ।। 44 ।।
तोये गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने।
स्मृतमात्रेण मन्त्रेण आह्लादो मानसो महान् ।। 45 ।।
रूपात्मना परिणतस्सचाग्नौ पारमेश्वरः।
यो रूपाख्यो गुणश्चाग्नेस्समन्त्रात्मनि तिष्ठति ।। 46 ।।
तेजो विना यतो ध्यानं कुत्रचिन्नोपलभ्यते।
स्पर्शधर्मो हि यो वायोस्स तदीयो महामते ।। 47 ।।
यो वायव्यो गुणस्सूक्ष्मस्स च (4)मन्त्रतनौ स्थितः।
स चान्तःकरणे चैव संहृते स्यात्तदुत्थितः ।। 48 ।।
(4. मान्त्रे CL.)
यदाकाशस्य शून्यत्वमस्ति तस्मात्तदुद्भवः।
स मन्त्रात्मनि संविष्टो गुणो ह्यस्मिन्महामते ।। 49 ।।
अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ।। 50 ।।
[मुद्रामन्त्रपूर्वकमावाहनम्] 12-13
सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते।
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः ।। 51 ।।
पूरकेण द्विजश्रेष्ठ मनसा समुदीरयेत्।
समाहूय ततः पश्चान्मूर्तिमन्त्रेण चेतसा ।। 52 ।।
ध्यानोक्तां कल्पयेन्मूर्त्तिं तस्य हृत्पद्ममद्यगाम्।
परेणाधिष्ठितं ध्यायेन्मूलमन्त्रं ज्वलत्प्रभम् ।। 53 ।।
[आवाहितस्य तस्य संमुखीकरणम्] 12-14
सम्मुखीकारणं कुर्यान्मन्त्रमूर्त्तोर्द्विजात्मनः।
आत्ममन्त्रादितो भूयो मन्त्रैस्सर्वैश्च पूर्ववत् ।। 54 ।।
करन्यासं विना देहे न्यासं तस्य च संस्मरेत्।
पुष्ममर्घ्यं तथा धूपं दीपं माल्यं विलेपनम् ।। 55 ।।
चेतसा सादरेणैव पाद्यपूर्वं च भक्तितः।
प्रणाममथ चाष्टाङ्गं जयशब्दांश्च मानसान् ।। 56 ।।
कुत्वा भगवते ब्रह्ममुद्रां वै संप्रदर्शयेत्।
स्वागतं तव देवेश सन्निधिं भज मेऽच्युत ।। 57 ।।
गृहाण मानसीं पूजां यथार्थपरिभाविताम्।
ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं (1)प्रभुम् ।। 58 ।।
(1. वि A.)
[अथ विस्तरेण मानसयागारम्भः] 12-15
विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत्।
सङ्कल्पजनितैर्द्रव्यैः पवित्रैरक्षयैः शुभैः ।। 59 ।।
सर्वकामप्रदं देवं मन्त्रमूर्त्तिधरं यजेत्।
अभ्यङ्गोद्वर्तने पूर्वं स्नानं चाथ विलेपनम् ।। 60 ।।
वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेद्य च।
हारकेयूरकटकैर्मकुटैर्भूषितं स्मरेत् ।। 61 ।।
चित्रेण कटिसूत्रेण हेमरत्नमयेन च।
माणिक्यरचितैश्शुद्धैर्मुक्ताहारैश्च भूषयेत् ।। 62 ।।
संपूर्णेन्दुसमानं च हेमदण्डसमन्वितम्।
छत्रं निवेदयेद्विष्णोर्मायूरं व्यजनं शुभम् ।। 63 ।।
कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु।
धूपं भगवते दत्वा दीपमालां घृतेन च ।। 64 ।।
मधुसर्पिःप्लुतं चाथ मधुपर्कं निवेद्य च।
पशुं च विविधं मूर्तं पावनं शकुनिं तथा ।। 65 ।।
औषधीश्शालिदूर्वां च सत्फलाढ्यं वनस्पतिम्।
मूर्तं निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् ।। 66 ।।
नैवेद्यं विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः।
हृद्यानि फलमूलानि षड्‌ऋतुप्रभवानि च ।। 67 ।।
षड्रसानि च चित्राणि पानान्यथ निवेद्य च।
सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाद्द्विज ।। 68 ।।
प्राग्दिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत्।
तन्त्रीवाद्यान्यनेकानि नृत्तगेयान्वितानि च ।। 69 ।।
भेरीपटहयोषादिस्तुतिपाठान्वितानि च।
चिन्तयेद्देवदेवस्य लोकत्रयगतानि च ।। 70 ।।
किङ्किणीजालयुक्तेन चामरेणोपवीज्य च।
वितानकं पताकाश्च ध्वजानि विविधानि च ।। 71 ।।
विनिवेद्य विभोर्भक्त्या प्रसन्नेनान्तरात्मना।
गजाश्वधेनुयानानि सुवस्त्रालङ्कृतानि च ।। 72 ।।
निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः।
आत्मानं ससुतान्दारांस्तस्मै च नमसा युतान् ।। 73 ।।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः।
कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ।। 74 ।।
बध्वा संचिन्तयेद्विष्णोस्सर्वकामप्रपूरणीम्।
हृद्द्योमपुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम् ।। 75 ।।
समस्तमन्त्रदेहं तु सकळं निष्कलात्मकम्।
[लक्ष्म्याद्यङ्गपूजनम् तत्रलययागादिभेदः] 12-16
शक्तयश्चाङ्गषट्‌कं च लांछनं कमलादिकम् ।। 76 ।।
भूषणं कौस्तुभाद्यं च वदनानां तथा त्रयम्।
सत्याद्या मूर्तयश्चैव देहे देवस्य भाविताः ।। 77 ।।
व्यापय्य च तथात्वेन स्वे स्वे स्थाने तथात्मकाः।
तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु ।। 78 ।।
परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः।
लययागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः ।। 79 ।।
[भोगयागार्थं हृत्पद्मे सर्वमन्त्राणां विन्यासक्रमः] 12-17
तस्माद्धृत्कर्णिकाधारे मूर्तौ वा यत्र कुत्र चित्।
मूलमन्त्रशरीरस्थं परिवारं यजेत्सदा ।। 80 ।।
याग एष लयाख्यस्तु संक्षिप्तस्सर्वसिद्धिदः।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ।। 81 ।।
साकाराः केवलास्सर्वे यत्र भोगाभिधस्स तु।
केवलेन च यागेन पृथग्भूतेन नारद ।। 82 ।।
पूजनं कमलादीनामधिकाराभिधस्स तु।
सांप्रतं सर्वमन्त्राणां भोगयागार्थमेव च ।। 83 ।।
हृत्पद्मे तु विभागेन विन्यासमवधारय।
पूर्वभागे विभोर्लक्ष्मीं केसरस्थां च विन्यसेत् ।। 84 ।।
कीर्तिं दक्षिणतस्तस्य पृष्टतस्तु जयां हरेः।
तस्यैव चोत्तरे भागे मायां केसरगां न्यसेत् ।। 85 ।।
विदुक्ष्वङ्गानि विन्यस्य केसरेषूपरि द्विज।
पूर्वयाम्यान्तरे विष्णोर्हृन्मन्त्रं विनिवेश्य च ।। 86 ।।
शिरःपूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे।
पश्चिमोत्तरदिङ्भध्ये कवचं विन्यसेद्विभोः ।। 87 ।।
अग्रतः केसरोद्देशे नेत्रं दिक्ष्वस्त्रमेव च।
दक्षिणे मन्त्रनाथस्य पद्मपात्रे नृकेसरी ।। 88 ।।
कपिलः पश्चिमेन्यस्यो वराहश्चोत्तरे दळे।
कौस्तुभं वनमालां च विभोः पूर्वदळान्तरे ।। 89 ।।
नृसिह्मक्रोडमन्त्राभ्यां समीपे तद्दलद्वये।
पद्मशङ्खौ तु विन्यस्य गदाचक्रे तथैव च ।। 90 ।।
समीपे रत्नमालां च गणुडं नातिदूरतः।
पाशं च तत्समीपेत् गदाया निकटोङ्कुशसम् ।। 91 ।।
अनिरुद्धाद्युपाङ्गानि पत्राग्रेषु तु विन्यसेत्।
सौम्माप्यदक्षिणे पूर्वे कर्णिकासंस्थितस्य च ।। 92 ।।
तदीशपत्रादारभ्य दलाग्रेषु चतुर्ष्वपि।
सत्यमन्त्रं तु विन्यस्य यावद्वायुदळावधि ।। 93 ।।
ब्रह्मरन्ध्राद्विनिष्क्रान्ते मूलमन्त्रस्य नारद।
प्रभानाळे निराधारे प्रचरद्रश्मिपल्लवे ।। 94 ।।
आनन्दकेसराकीर्णे महानन्दाख्यकर्णिके।
न्यसेत्सप्ताक्षरं मन्त्रं निष्कळं तु च केवलम् ।। 95 ।।
यद्वै तद्भावभावित्वमेतावत्तस्य पूजनम्।
सङ्कल्पजनितैर्भोगैर्विकल्पपदवर्तिभिः ।। 96 ।।
कथं स्यात्पूजनं तस्य यतस्तेभ्यः स्थितः परे।
न्यस्यैवं मन्त्रसङ्घं तु पूर्ववत्पूजयेत्क्रमात् ।। 97 ।।
ध्यात्वैकैकं स्वमन्त्रेण तद्ध्यानमवधारय।
भोगस्थाने च मन्त्राणां यत्सदा संप्रयोजयेत् ।। 98 ।।
यत्पूर्वं कथितं रूपं मन्त्राणां निष्कळं मया।
सकळेन बहिस्थेन छुरितं भावयेत्तत्तः ।। 99 ।।
निर्मलं स्फटिकं यद्वदुपरागेण केनचित्।
स्फटिकं चोपरागस्य नान्तरं संविशेद्यथा ।। 100 ।।
उपरागस्त्वनिच्छातस्संविशेत्स्फटिकान्तरम्।
एवं हि सकळं रूपं निष्कळेन (1)सह स्मरेत् ।। 101 ।।
(1. बहिः Y)
भोगस्थानगतस्यैव विद्धि तच्चोभयात्मकम्।
अधिकारपदस्थस्य मन्त्रस्य मुनिसत्तम ।। 102 ।।
सकळं योजयेद्ध्यानं तस्य हृप्तद्ममद्यगम्।
निराधारस्थितं ध्यायेत्तद्रूपं निष्कळं तु तत् ।। 103 ।।
भिन्नात्मभ्यां ततस्ताभ्यामेकत्वेन स्थितिं पुरा।
इति चेतसि वै कृत्वा ततस्संपूजयेद्द्विज ।। 104 ।।
पादपश्च यथा भौमैर्गुणैर्दूरतरे स्थितः।
पादपीयैर्गुणैस्तद्वद्दुरे तिष्ठति मेदिनी ।। 105 ।।
सकलाकलमन्त्राभ्यामविनाभाव ईदृशः।
केवलात्सकलाद्ध्यानात्पदसिद्धिर्न जायते ।। 106 ।।
स्वभावनिष्कळान्मन्त्रात्तद्वद्दूरे च सिद्धयः।
अत एव क्रमाद्ध्यातैः पूजितैस्तोषितैस्ततः ।। 107 ।।
[विशेषपूजनम्] 12-18
विशेषपूजनं विप्र कल्पयेदच्युतस्य तु।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ।। 108 ।।
मूलमन्त्रं समुच्चार्य प्रयत्नात्पूरकादिभिः।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ।। 109 ।।
स्फुरद्रस्मिचयाकीर्णमग्न्यर्केन्दुशतप्रभम्।
ध्यात्वा नारायणं देवमञ्चलौ सन्निरोधयेत् ।। 110 ।।
तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन्वै मन्त्रविग्रहे।
अर्घ्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ।। 111 ।।
मुद्रां सन्दर्श्य मूलाख्यां मानसं जपमारभेत्।
संख्याहीनं यथाशक्ति घण्ठाख्यकरणेन च ।। 112 ।।
भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण च।
मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकुत्सकृत् ।। 113 ।।
स्त्रोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक्प्रसादयेत्।
एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ।। 114 ।।
[अथ मानस होमप्रकारः] 12-19
होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम्।
नाभिचक्रान्तरस्थं तु ध्यायेद्वन्हिग्र(गृ )हं मुने ।। 115 ।।
त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ।। 116 ।।
सुशुद्धं संस्कृतं दीप्तं सदैवोर्द्वशिखं द्विज।
वासुदेवात्मकं यस्मात्स वसत्यन्तरात्मसु ।। 117 ।।
प्रोच्चरेन्मूलमन्त्रं तु यावच्छद्बस्य गोचरम्।
तत्रस्थमाहरेद्दिव्यमाह्लादाज्यामृतं परम् ।। 118 ।।
ब्रह्मसर्पिःसमुद्राद्यन्निस्तरड्गाप्तरिस्रुतम्।
गृहीत्वाऽमृतमार्गेण ब्रह्मरन्ध्रेण संविशेत् ।। 119 ।।
हृदयान्मध्यमार्गेण चिन्मयेन सदीप्तिना।
प्रोल्लसन्तं स्मरेन्मन्त्रं ब्रह्मशक्त्युपबृंहितम् ।। 120 ।।
स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत्स्थितः।
स्वभावदीप्तब्रह्माग्नौ परितश्चोदरोज्वलम् ।। 121 ।।
स्मृत्वा मन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात्।
चिन्तयेदमृतंत्वाज्यं पुरा यच्चाहृतं द्विज ।। 122 ।।
चिदग्निमेव सन्तर्प्य नाभौ मन्त्रस्वरूपिणम्।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ।। 123 ।।
प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम्।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ।। 124 ।।
विष्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च।
सर्वं तु सन्यसेत्पश्चात्तस्मिन्मन्त्रकृतं च यत् ।। 125 ।।
तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम्।
तन्मध्ये निष्कळं मन्त्रं संस्मरेत्किरणाकुलम् ।। 126 ।।
यागोत्थां फलसंपत्तिं लक्ष्मीरुपां विचिन्त्य च।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ।। 127 ।।
भूयश्च निष्कळं मन्त्रं तस्यामुपरि भावयेत्।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ।। 128 ।।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम्।
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ।। 129 ।।
अयं यो मानसो यागो जराव्याधिभयापहः।
पापोघसर्गशमनो भवाभावकरो द्विज ।। 130 ।।
सतताभ्यासयोगेन देहपातात्प्रमोचयेत्।
यस्त्वेवं परया भक्त्या सकृदाचरते नरः ।। 131 ।।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने।
याजकानां च सर्वेषां प्रधानत्वेन वर्त्तते ।। 132 ।।
तारयेत्स्वपितॄन्यातानेष्यांश्चैव तु सांप्रतात्।
किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः ।। 133 ।।
मन्त्राराधनमार्गस्थश्रद्धाभक्तिसमन्वितः।
न तस्य पुनरावृत्तिस्स याति परमं पदम् ।। 134 ।।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम्।
इदं रहस्यं परमं मयोक्तं तेऽद्य नारद ।। 135 ।।
नाशिष्याणां च वक्तव्यं नाभक्तानां कदाचन।
अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ।। 136 ।।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मानसयागो नाम द्वादशः पटलः।
* * * * *