जयाख्यसंहिता/पटलः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः ३२ जयाख्यसंहिता
पटलः ३३
[[लेखकः :|]]
जयाख्यसंहितायाः पटलाः

पटलः - 33
अथ योगाख्यानं नाम त्रयस्त्रिंशः पटलः ।। 33-1
श्रीभगवान् ---
अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवः।
सुगुप्ते विजने देशे निर्द्वन्दे शुभलक्षणे ।। 1 ।।
जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतस्सदा ।। 2 ।।
भूतद्रोहपरित्यागी आस्ते यः संयतेन्द्रियः।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ।। 3 ।।
शुभदारुसमुत्थे तु चतुर्विंशाङ्गुलायते।
द्वादशाङ्गुलकोत्सेधे सुधौतेनापि वाससा ।। 4 ।।
कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ।। 5 ।।
[प्राणायामस्य त्रेविध्यम्]
रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु सः।
कनीयान्मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ।। 6 ।।
प्रत्याहारं ततः कुर्याच्चित्तसंयमनं तु सः।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ।। 7 ।।
तथापि मनसः कुर्यात्प्रत्याहारं प्रयत्नतः।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ।। 8 ।।
तिष्ठते लक्ष्यमार्गे तु अ(ना?)न्यथा तु कदाचन।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत्प्रकीर्तितम् ।। 9 ।।
धारणा तु ततो धार्या शीतदाहापनुत्तये।
पञ्चधा पूर्ववत्सा तु प्रतिमन्त्रव्यवस्थया ।। 10 ।।
जपं निमीलिताक्षेण कुर्यान्मन्त्रं तु वाचकम्।
वाच्यस्य प्रतिपत्त्यर्थं पिण्डबीजपदात्मकम् ।। 11 ।।
त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम्।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्येन मे शृणु ।। 12 ।।
प्राकृतं पौरुषं चैव ऐश्वर्यं च तृतीयकम्।
उहस्तु कीर्त्यते तर्कस्तच्च सिद्धिविचारकम् ।। 13 ।।
समाधिस्त्वात्मलाभः स्यादात्मजः परिकीर्तितः।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितम् ।। 14 ।।
सदा विभज्यते ब्रह्मन् कलांशविधिवर्जितम्।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ।। 15 ।।
प्राणायामादितो यावत्समाध्यन्तं प्रकीर्तितम्।
द्विगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ।। 16 ।।
योगासनस्थः कुर्वीत विधिमेव यथोदितम्।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ।। 17 ।।
पर्यङ्कं कमलं वाऽपि भद्रं वा स्वस्तिकं दृढम्।
एषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ।। 18 ।।
स्पष्टाङ्गसन्धिः कुर्वीत विस्तीर्णोरुः स(सु?)कन्धरः।
बाहू परिसमौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ।। 19 ।।
नाभौ जघनमध्ये वा हस्तौ कच्छपसंस्थितौ।
सव्यस्य चोपरिस्थं तु वामे सव्यमथापि वा ।। 20 ।।
उत्तानौ तु करौ कृत्वा कच्छपीतां (?) नियो जयेत।
ग्रीवां तु बिभृयाद्यत्नान्नातिस्तब्धां न कुंचिताम् ।। 21 ।।
किञ्चिन्निमीलयेन्नेत्रै नासाग्रमवलोकयेत्।
समुद्भवत्पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ।। 22 ।।
सगर्भं योगमातिष्ठेन्निर्गर्भं वा सुयन्त्रितः।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ।। 23 ।।
रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः।
चित्तं जयेत्सदा यत्नाद्दुर्जयं देवदानवैः ।। 24 ।।
यद्यप्यभ्यासवैराग्यैश्चित्तं संयम्यते बलात्।
तथापि यत्नादातिष्ठेत्पूर्वाधीनं तु वर्जयेत् ।। 25 ।।
द्विविधास्ते तु विज्ञेयास्सन्निकृष्टा मनोगताः।
सन्निकृष्टाः स्थानगताश्चित्तोपा(श्चैत्ता वा?)सनया कृताः ।। 26 ।।
न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते।
निमीलिताक्षस्सन्तिष्ठेत्सर्वेन्द्रियविवर्जितः ।। 27 ।।
एवं परित्यजेत्सर्वानुपाधीन्सन्निकर्षजान्।
वासनोत्थांश्च विविधान्सम्यग्लक्ष्यं समास्थितः ।। 28 ।।
प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु।
तामसं तत्तु बोद्धव्यं चित्तं सर्वत्रगं सदा ।। 29 ।।
गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत्।
सात्विकं कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ।। 30 ।।
संलीनं च ततो ज्ञेयं गुणातीतं तपोधन।
ध्यानमेवंविधं कुर्यात्सगर्भं प्राणनिग्रहे ।। 31 ।।
उच्यते च ततो भूयस्त्रिविधं योगिनां हितम्।
सकलं निष्कलं विष्णुं तृतीयं पररूपिणम् ।। 32 ।।
अन्यत्र त्रिविधं ज्ञेयं शब्दं व्योम सविग्रहम्।
विग्रहं देवरूपस्य लक्ष्यरूपं विचिन्तयेत् ।। 33 ।।
ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिमं भवेत्।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ।। 34 ।।
भावे ह्यभावमापन्ने स्वस्वभावः परः स्मृतः।
स्थूलं पूर्वं समभ्यस्येत्ततः सूक्ष्मं ततः परम् ।। 35 ।।
एवं विलीयते चित्तं लक्ष्यं चोपाधिभिस्सह।
विग्रहं देवदेवस्य ध्यायेद्धृत्पद्मगोचरे ।। 36 ।।
ततोऽन्यच्चिन्तयेल्लक्ष्यं स्तूलं सूक्ष्मं ततः परम्।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ।। 37 ।।
चन्द्रार्काग्निमयं बिम्बं रविमण्डलसन्निभम्।
शुक्लरूपधरञ्चापि गुणोत्कर्षप्रदायकम् ।। 38 ।।
ततः सूक्ष्मतरं बिन्दुं राजमुद्गसमप्रभम्।
तं विद्यात्सर्वमन्त्राणामूर्ध्वमाक्रम्य तिष्ठति ।। 39 ।।
ततस्तु राजकाबीजप्रमाणं चिन्तयेत्क्रमात्।
उत्पादकमथास्यापि यस्यान्ते नादमाश्रितः ।। 40 ।।
तं विलीय समुत्पन्नमश्ववालप्रमाणकम्।
यस्सदा गच्छति व्योम्नि मनश्चागच्छते हृदि ।। 41 ।।
ततो विचिन्तयेत्सूक्ष्मं शिरोवालप्रमाणकम्।
ब्रह्मनाडीमनेनाशु पश्यन्ति ध्यानसेचनात् ।। 42 ।।
ततोऽङ्गरोममात्रं तु बिसवालसमं ततः।
ध्यायेन्नियममास्थाय ब्रह्मनाडीप्रकाशकम् ।। 43 ।।
तदा सा दृश्यते नाडी सादृश्यरहिता परा।
तया यायात्परं स्थानं ब्रह्मरन्ध्रपथेन तु ।। 44 ।।
एवं तु निष्कलं ध्यायेत्सोऽपि लीनः परे पदे।
परं त्वभ्यसमानस्य उन्मनस्त्वं प्रजायते ।। 45 ।।
ततस्तु व्यज्यते सत्ता स्वकीया ब्रह्मरूपिणी।
शब्दरूपं (1)तु वा ध्यायेदेवं सकलनिष्कलम् ।। 46 ।।
(1. नवा C L नवां S)
नारायणात्मकं मन्त्रं प्रणवादिनमोन्तकम्।
ध्यायेच्छब्दमयो ह्येष सकलः परमेश्वरः ।। 47 ।।
निष्कलं वर्णमेकं तु क्षौं ह्रीं(?)वाऽपि चिन्तयेत्।
ततोऽपि निष्कलं बिन्दुं तन्मूर्धस्थं त्रिदैवतम् ।। 48 ।।
सा शक्तिस्तत उत्पन्ना प्रमाणार्धप्रमाणका।
सा शक्तिर्लीयते नादे नादो याति लयं परे ।। 49 ।।
एवं हि ध्यानयोगेन परं पश्यन्ति शाश्वतम्।
अथ वाऽऽलोकशब्दौ हि प्रथयित्वा विचिन्तयेत् ।। 50 ।।
स्वयं विलीनो यत्रैव तत्रैव परमं पदम्।
अथवा व्योमरूपं तु ध्येयं तत्त्वं सनातनम् ।। 51 ।।
बाह्यान्तस्थं शिखातीतं त्रिव्योमं चिन्तयेत्सदा।
मुख्येऽन्तस्थं परं ध्यात्वा न भूयो भवभाक्मवेत् ।। 52 ।।
एवं ध्यात्वा भवेन्मुक्तिर्भुक्तिस्तु सकले स्थिता।
सकलो देवदेवस्य विग्रहो विष्णुरूपिणः ।। 53 ।।
शङ्खपद्मधरो देवो गदापद्मविमूषितः।
चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्रः सुलोचनः ।। 54 ।।
लक्ष्मीवक्षाः खगारूढः सर्वरत्नोपशोभितः।
कृष्णस्सुरोत्तमो विष्णुर्जिष्णुस्सर्वत्रगो हरिः ।। 55 ।।
हलहेतिर्हयग्रीवो (1)हरिरूपधरः प्रभुः।
नृहरी क्रोडरुपी च शक्त्यङ्गश्च महेश्वरः ।। 56 ।।
(1. हर V CL बल A)
एवमास्थाय(2) नियमं पिण्डवत्त्वं परित्यजेत्।
परिज्ञाय पुरा पिण्डं(ण्ड?)पाक(त ?)लक्षणमुत्तमम् ।। 57 ।।
(2. ध्याय A)
निरुद्धं सन्धिमार्गं तु कृत्वा देहसमीरणम्।
मुक्त्वा सद्ब्रह्मरन्ध्रेणोत्क्रान्तिकरणेन तु ।। 58 ।।
ध्यात्वा परित्यजेद्देहं नित्याभ्यासरतो यदि।
स ब्रह्मपरमभ्येति वासुदेवाख्यमव्ययम् ।। 59 ।।
नारद :---
[देहपातकालाभिज्ञानलिङ्गानुकीर्तनम्] 33-2 ?
भगवन् श्रोतुमिच्छामि एतत्संक्षेपतस्त्वहम्।
लक्षणं देहपातस्य वायोर्गतिनिरोधनम् ।। 60 ।।
श्रीभगवान् ---
युक्ताहारविहारस्य क्रियासक्तस्य नारद।
युक्तस्वप्नावबोधस्य समधातोः सदैव हि ।। 61 ।।
निर्वर्तते सदाशब्दो हृद्गतो दुन्दुभिस्स्वनः।
(3)सृजच्छीतातपे काले न जानात्युष्णशीतलौ ।। 62 ।।
(3. स्पर्शोऽग्निनाऽतपे A)
ध्यात्वा ज्योतिर्भ्रुवोर्मध्ये द्वादशान्तेऽथ नारद।
प्रत्य (स्त)मेति वै (4)शब्दो न चोदेत्यथवा मुने ।। 63 ।।
(4. शीघ्रं A)
न जानाति समाधिस्थो ह्रादमाब्जं यदान्तरे।
परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ।। 64 ।।
न वेत्ति पार्थिवं गन्धं स बाह्याभ्यन्तरे यदा।
पिण्डपातस्तदा विप्र बोद्धव्यो न चिरेण तु ।। 65 ।।
पार्थिव्या संस्थितश्चैव धारणायां समाहितः।
न वेत्ति शब्दं प्रागुक्तं पञ्चाहात्पञ्चमे क्षणे ।। 66 ।।
स्थितस्समाधौ वाऽप्येतौ शीतोष्णौ नानुविन्दति।
पतेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे ।। 67 ।।
रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि।
न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ।। 68 ।।
पिण्डपातो ह्यवश्यं स्यात्तृतीयेऽह्नि तथा क्षणे।
समाधौ यदि वायव्ये योगी नारद वर्तते ।। 69 ।।
न वेत्ति परमाह्लादं तृषितः परिक्रम्पते।
दिनद्वयेन पिण्डस्य पातः स्याद्द्वितये क्षणे ।। 70 ।।
स्थितो (1)गगनभावे तु प्रागुक्तविधिना यदि।
न वेत्ति विविधं गन्धमन्तर्बाह्ये शुभाशुभम् ।। 71 ।।
(1. भगन A)
तत्रैवास्य दिने पातः क्षणे प्रथमलक्षणे।
ध्यात्वैवं मुनिशार्दूल योगी ध्यानैकमानसः ।। 72 ।।
स्वयमुत्क्रमते पिण्डाद्यायाद्ब्रह्मनिकेतनम्।
प्रविशेत्पिण्डमन्यं वा प्राग्वत्सन्धानयोजितः ।। 73 ।।
कालो यद्देहपातस्य लक्षणेन समासतः।
कथितः सारभूतस्य वायोस्संरोध उच्यते ।। 74 ।।
सगर्भं हृदयावासादुद्धृत्य कतलावधि।
अप्रमेयविहीनं तु विकरालं नियोजयेत् ।। 75 ।।
प्रधानं कण्ठकूपे तु न याति हृदयं पुनः।
स्मरेद्विजन्मपुटके(?)प्रधानं व्यापकोज्झितम् ।। 76 ।।
पन्धानं न(2)न्द.............येत्प्रन थमवर्जितम्।
रोधमार्गद्वयस्यैवं दद्यात्सव्येतरस्य तु ।। 77 ।।
(2. दन्तकोटिस्थं A)
नेत्रनासाननाख्यस्य ततश्चव्यक्तभास्वरम्।
मन्त्रान्ते केवलं वाऽथ वषड्‌ ध्यायेत्खरन्ध्रगम् ।। 78 ।।
प्राक्रमेत्परमात्मानं त्यक्त्वा पिण्डमिमं मुने।
परिपव्कसमानं च आश्रयेच्छाश्वतं पदम् ।। 79 ।।
इत्येतत्कथितं सर्वं पंचरात्रार्थमुत्तमम्।
सर्वस्वमिव विप्रेन्द्र रक्षणीयं प्रयत्नतः ।। 80 ।।
[संहिताया महिमानुवर्णनम्] 33-3 ?
सर्वोत्तमा संहितैषा सर्वविज्ञानदीपिका।
नाख्येया दुष्टबुद्धीनां नराणां कलुषात्मनाम् ।। 81 ।।
मत्सराणामभक्तानां शठानां छद्मचारिणाम्।
गर्वान्मे शास्त्रसद्वस्तुनिन्दकानां विशेषतः ।। 82 ।।
मद्भक्तदूषकाणां च शुष्कतर्करतात्मनाम्।
शास्त्रापकर्तॄणामन्यदर्शने भावितात्मनाम् ।। 83 ।।
देयं विविक्तबुद्धीनां स्वधर्मनिरतात्मनाम्।
संसारभयभीतानां मद्भक्तिनिरतात्मनाम् ।। 84 ।।
मच्छासनप्रपन्नानां ये पश्यन्ति सदा मुने।
मद्भाविनो मत्समयाद्दृष्ट्या चातिविशुद्धया ।। 85 ।।
तेषां वाच्यमिदं शास्त्रं दीक्षां कृत्वा यथाविधि।
प्रदर्श्य मन्त्रसंघं वा पूजितं मण्डलं पुरा ।। 86 ।।
शास्त्रार्थमनुवक्तव्यं शास्त्रमादौ प्रपूज्य च।
येनाशु विविधा सिद्धिर्द्वयोर्भवति शाश्वती ।। 87 ।।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां योगाख्यानं नाम त्रयस्त्रिंशः पटलः।
समाप्तेयं जयाख्यसंहिता।
* * * * *