जयाख्यसंहिता/पटलः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः २१ जयाख्यसंहिता
पटलः २२
[[लेखकः :|]]
पटलः २३ →
जयाख्यसंहितायाः पटलाः


पटलः - 22
अथ वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः। 22-1
नारद :---
[यतिप्रभृतीनां वैष्णवानां स्वरूपप्रश्नः]
श्रोतुमिच्छामि भगवन्वैष्णवानां च लक्षणम्।
सर्वेषां यतिपूर्वाणामाचारं च विशेषतः ।। 1 ।।
दानं प्रदानं द्विविधं येषामुक्तं त्वया फलम्।
तानहं तु कथं नाम वेद्मि वै लक्षणं विना ।। 2 ।।
श्रीभगवान् ---
[भागवतधर्मैकनिष्ठानां साम्येऽपि भेदे कारणम्] 22-2
भगवद्धर्मतन्त्र्राणां पञ्चकालनिषेविणाम्।
अप्रतिग्राहकाणां च कणभिक्षाभिवर्तिनाम् ।। 3 ।।
बाह्याभ्यन्तरतुल्यानां श्रद्धासंयमसेविनाम्।
नारायणैकनिष्ठानां येऽस्मिन्जाता महाकुले ।। 4 ।।
ऊनाधिकेन विप्रेन्द्र कर्मणाऽनिष्ठितेन च।
कालह्रासवशाच्चैव वैषम्यमुपयान्ति च ।। 5 ।।
[यतीनां लक्षणम्] 22-3
संस्कृताश्च निषेकाद्यैः पित्रा वा गुरुणा त्वनु।
स्वयं विवेकभावस्था ब्रह्मचारिगुणैर्युताः ।। 6 ।।
सर्वभूतस्थितं विष्णुं पश्यन्त्यमलया धिया।
सर्वे भूतास्तदन्तस्था भावयन्तीति सर्वदा ।। 7 ।।
कर्मणा मनसा वाचा यजन्त्येकमधोक्षजम्।
आद्यद्विजेन्द्रवेश्मभ्यस्तदभावान्महामते ।। 8 ।।
षट्कर्मरतविप्रेभ्यो नित्यं चायाचितेन तु।
सिद्धान्नेन च (1)वर्तन्तो मुण्डितश्मश्रुमस्तकाः ।। 9 ।।
(1. वर्तन्ते A.)
काषायवासोधर्त्तारो दण्डमात्रपिरग्रहाः।
ते विप्रा यतयः शुद्धाः सत्वस्था वैष्णवाः स्मृताः ।। 10 ।।
[एकान्तिलक्षणम्] 22-4
भ्रान्त्वा मिक्षां च षट्‌कर्मनिरतेभ्यस्तु सत्कृताम्।
अपरिग्रहवान्यो वै तया संपूजयेत्प्रभुम् ।। 11 ।।
पुमान्गोप्तारमव्यक्तमष्टाङ्गविधिना महत्।
गुणिना सह शिष्येण वसत्येको विचारधीः ।। 12 ।।
कुलक्रमेणाधिकारी स एकान्तीह वैष्णवः।
[वैखानसलक्षणम्] 22-5
यः परिग्रहवान्विप्रः पूजयेत्परमेश्वरम् ।। 13 ।।
याचितेन द्रिजेंद्राच्च प्राप्तेनायाचितेन तु।
धनेन क्षत्रियाद्वैश्यात्कुटुम्बमपि पालयन् ।। 14 ।।
विद्धि वैखानसः सोऽपि जटी छत्री सिताम्बरः।
[कर्मसात्त्वतस्य लक्षणम्] 22-6
मुख्यत्वेन क्रियार्थं यः कुटुंबस्य च पालने ।। 15 ।।
आत्मनो भरणे चापि इत्यु(उद्यु?)क्तश्चोपसर्पति।
वृत्त्यर्थमपि राजानं स विप्रः कर्मसात्त्वतः ।। 16 ।।
[शिखिनो लक्षणम्] 22-7
स्फुरत्यविरतं यस्य वैष्णवं यजनं हृदि।
प्राधान्येनाथ पित्र्यादि तदर्थं कृषिपूर्वकम् ।। 17 ।।
समाचरति वै कर्म शिखी साक्षाद्विजोत्तमः।
(1)मय्यपेक्षावशेनैव यद्यप्युत्कृष्टतां गतः ।। 18 ।।
(1.मया Y. त्रय्यं A.)
तथापि चातुराश्रम्यं सर्वेषां विहितं सदा।
[वैखनसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः] 22-8
भगवत्पूजनार्थं तु त्रणायां यः प्रयच्छति ।। 19 ।।
मठं सायतनं कृत्वा वृत्तिपूर्वमकण्टकम्।
दासीकर्मकरोपेतं शुद्धवेदवरान्वितम् ।। 20 ।।
ते यान्ति भगवत्स्थानं भक्तानां सदनं महत्।
[गृहस्थेभ्यो वैष्णवेब्यो ग्रामादिदाने फलम्] 22-9
भगवद्यजनार्थं वा सात्त्विकेन तु चेतसा ।। 21 ।।
मठायतनभिन्नं च ग्रामभूद्रविणं महत्।
गृहाश्रमरतानां च वैष्णवानां निवेदयेत् ।। 22 ।।
न्यायोपायविधिप्राप्तं यस्स मोक्षमवाप्नुयात्।
[ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः] 22-10
अलाभाच्चैव भिक्षाणामसामर्थ्यात्तथाऽऽत्मनः ।। 23 ।।
स्वकर्मणि ह्यलोपार्थं पुत्रादेर्भरणाय च।
अत्यापद्यपि जातायां कुटुम्बी वैष्णवो द्विजः ।। 24 ।।
ब्राह्मणादेव गृह्णीयाद्वृत्तिं देवमठाश्रिताम्।
केवलां ग्रामपूर्वां वा याचितायाचितात्तथा ।। 25 ।।
आप्रभातान्निशान्तेन कर्मणा वैष्णवेन च।
क्रियमाणेन तदुत तदर्थमघमेति वै ।। 26 ।।
इत्येतद्यतिपूर्वामां वैप्णवानां च लक्षणम्।
कथितं मुनिशार्दूल आप्तादीनामथो शृणु ।। 27 ।।
[आप्तलक्षणम्] 22-11
ये यजन्ति क्रमाद्देवं पञ्चकाल्येन कर्मणा।
द्विजातीनां चतुर्णां तु अधिकारं ददत्यपि ।। 28 ।।
शुद्धे तु भगवन्मार्गे सत्त्वस्थास्सात्त्वताश्च ते।
असंकीर्णा द्विजश्रेष्ठ ब्रह्मरुद्रेन्द्रपूर्वकैः ।। 29 ।।
विशेषदेवतायागैरमुख्यैर्नातिनिर्मलैः।
वासुदेवं विना [चातुरात्म्यं त] त्प्रभवादिना ।। 30 ।।
संन्यासकर्म (कर्मसंन्यास ?) योगेन फलसंपद्विनैव हि।
वेदान्तविधि(न्तार्थवि ?)शेषज्ञाश्चतुर्णामुपरि स्थिताः ।। 31 ।।
[अञ्जलिकारिलक्षणम्] 22-12 ?
(1)मोक्षार्थमपि विप्रेन्द्र स्थितास्तेऽञ्जलिकारिणः।
प्रतिभात्यधिकं येषां यत्स्यात्संस्थापने हरेः ।। 32 ।।
(1. अञ्जलिकारिलक्षणपरस्य `मोक्षार्थमपी' त्यस्य `आरम्भिणस्ते' बोद्धव्या वैष्णवा ब्राह्मणादय इत्यस्यानन्तरं पाठो युक्तः। अत्र त्वसङ्गतः।)
धनं समार्ज्य यत्नेन प्रतिष्ठामाचरन्ति ये।
वैष्णवीं भक्तियुत्केन चेतसा कीर्तयन्ति च ।। 33 ।।
भगवद्भाविनो विप्रा इत्याप्तास्समुदाहृनाः।
[अनाप्तलक्षणम्] 22-13
वर्णधर्ममनुज्झित्य ह्याप्तादिष्टेन कर्मणा ।। 34 ।।
यजन्ति श्रद्धया देवमनाप्तास्ते प्रकीर्तिताः।
[आरम्भिलक्षणम्] 22-14
विनातेनार्थसिध्यर्थं विश्वात्मानं यजन्ति ये ।। 35 ।।
आरम्भिणस्ते बोद्धव्या वैष्णवा व्राहाणादयः।
[संप्रवर्तिलक्षणम्] 22-15
श्रद्धया ये प्रवर्तन्ते स्वयं संपूजने हरेः ।। 36 ।।
अमार्गेण तु विप्रेन्द्र विद्धि तान्संप्रवर्तिनः।
लिङ्गैरेतैस्तु बोद्धव्यास्सदैवाप्तादयो मुने ।। 37 ।।
अथातो योगिपूर्वाणां वैष्णवानां समासतः।
विप्रादिमौद्गलान्तानां लक्षणं चावधारय ।। 38 ।।
[योगिनां लक्षणम्] 22-16
शय्यासनपथिस्थश्च हृद्गतं संस्मरेत्प्रभुम्।
निष्कलादिप्रभेदेन अथवायतने हरेः ।। 39 ।।
निमीलिताक्षोपविष्टस्समाधिं चाभ्यसेत्सदा।
नमो नारायणायेति वासुदेवेति वा वदेत् ।। 40 ।।
कर्मणा मनसा वाचा नानिष्टं कस्यचित्स्मरेत्।
लिंङ्गैरेतैस्तु बोद्धव्या भगवद्योग सेविनः ।। 41 ।।
[जपनिष्ठानां लक्षणम्] 22-17
यो नु शुद्धश्शान्तमना दण्डी काषायवस्त्रभृत्।
भगवद्भाविजन्तूनां साभिलाषं निरीक्षते ।। 42 ।।
पौत्रदीप(1)कपद्माक्षस्फाटिकेनामलेन वा।
गणित्रेण करस्थेन भजमानो जपेद्धरिम् ।। 43 ।।
(1. जीवक A.)
मनसा मुनिशार्दुल विष्णोरर्चापरः स्थितः।
जपेदुपांशुना मन्त्रमादराद्वा स्तुतिं पठेत् ।। 44 ।।
जपनिष्ठं तु तं विद्धि वैष्णवे शासने स्थितम्।
[तापासलक्षणम्] 22-18
यत्किञ्चिद्व्रतमातिष्ठेत्तत्तद्भगवदाश्रितम् ।। 45 ।।
चान्द्रायणपराकादीनेकादश्यादिकं चरेत्।
सदैवायतने विष्णोस्तदभावे गृहस्थितः ।। 46 ।।
उत्तिष्ठन्संस्मरेद्विष्णुमुपविष्टस्तथैव च।
मासोपवासी भिक्षाशी विष्ण्वायतनलोलुपः ।। 47 ।।
व्रतान्ते पत्रपुष्पाद्यैः पूजयेद्भगवन्मयान्।
औदकीमाचरेच्छुद्धिमेकद्वित्रिजलाप्लवः ।। 48 ।।
क्षाळनं वसनाभ्यां वा ताभ्यां वा परिवर्तनम्।
समीपवर्तिनां(नो ?)नित्यमुद्धोधयति यत्नतः ।। 49 ।।
नक्तोपवासपूजायामेकादश्यां प्रयत्नतः।
यस्त्वेवमादि सततमाचरेत्प्रयतात्मवान् ।। 50 ।।
वैष्णवस्तापसः प्रोक्तः पयोमूलफलाशनः।
[शास्त्रज्ञलक्षणम्] 22-19
पुराणं धर्मशास्त्राणि इतिहासांश्च वैष्णवान् ।। 51 ।।
वेत्ति वेदान्तसिद्धान्तान् शृणुयाद्व्याकरोत्यपि।
प्रणष्टपाठवाक्यानां कृत्वा वस्तुविचारणम् ।। 52 ।।
तज्ज्ञैस्सह प्रयत्नाद्वै ह्यागमं संस्करोति यः।
अतन्द्रितः सदा विद्धि तं शास्त्रज्ञं हि वैष्णवम् ।। 53 ।।
[शास्त्रधारकलक्षणम्] 22-20
श्रद्धया यः समुच्चित्प यत्र कुत्रचिदागमम्।
ब्रह्म ध्यायंस्तथा पश्चात्सन्धारयति यत्नतः ।। 54 ।।
पूजयत्यर्ध्यपुष्पाद्यैश्शास्त्रापीठं क्रमेण तु।
ददाति वैष्णवानां च गोपयत्यकृतात्मनाम् ।। 55 ।।
अन्यदर्शनभत्कानां विद्धि तं शास्त्रधारकम्।
इत्येतत्कथितं विप्र वैष्णवानां च लक्षणम् ।। 56 ।।
[उक्तलक्षणलक्षितानां वैष्णवानां यागपूजार्हत्वविधानम्] 22-21
यजस्व पूजयस्वैतान् भक्त्या भावेन नारद।
समुद्दिश्य निमित्तं यच्छ्राद्धं यजति वैष्णवे ।। 57 ।।
यत्यादिपञ्चकेवाऽथ ह्यनाप्ते ब्राह्मणे द्विज।
तस्मिन्नञ्जलिकारे वाऽऽरम्भिणेऽथ प्रवर्तिने ।। 58 ।।
तदक्षयं पितॄणां तु विशेषान्मन्त्रसंस्कृतम्।
षडेतेऽर्हाश्च विप्रेन्द्र पितृकर्मणि सर्वदा ।। 59 ।।
जपहोमव्रतादीनामासत्काः षडिमे त्वपि।
दानकर्मणि दिव्ये च प्रायः क्षत्रादयः स्मृताः ।। 60 ।।
भवन्ति यादृशाश्चैव तापसा जपिनस्तु वा।
दैवे पित्र्ये द्विजश्रेष्ठ योगी चार्हति सर्वदा ।। 61 ।।
यद्वयः पूर्णमासीत्तु किं तु योगपरो यदि।
तस्य ब्रह्ममयो देहो विशेषाद्वैष्णवस्य च ।। 62 ।।
तस्मात्स(1) पूजनीयो हि यथाशक्ति च सर्वदा।
दुर्लभा भगवद्यागा भाविनो भुवि मानवाः ।। 63 ।।
(1. त्संपू A.)
तद्दर्शनात्तदालापात्सुलभं शाश्वतं पदम्।
[पञ्चकालभेदः] 22-22 ?
नारद :---
एको हि श्रूयते देव कालो लोके न चापरः ।। 64 ।।
पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः।
श्रीगवान् ---
[पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च] 22-23
एकस्यैव हि कालस्य वासरीयस्य नारद ।। 65 ।।
आप्रभातान्निशान्तं वै पञ्जधा परिकल्पना।
पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ।। 66 ।।
नारद :---
एककालस्थितानां च कर्मणां लक्षणं वद।
परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् ।। 67 ।।
श्रीभगवान् ---
ब्राह्मान्मुदूर्तादारभ्य प्रागंशं विप्र वासरे।
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ।। 68 ।।
अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम्।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ।। 69 ।।
भगवद्यागनिष्पत्तिकारणं प्रहरं परम्।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ।। 70 ।।
ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम्।
(1)सार्धं तु? प्रहरं विप्र इज्याकालस्तु स स्मृतः ।। 71 ।।
(1. साघकः A.)
श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता।
(2)अध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम ।। 72 ।।
(2. स्वाध्याय A.)
दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत्।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ।। 73 ।।
पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः।
नारद :---
श्रुतो मयाऽखिलः पूर्वं भगवद्याग उत्तमः ।। 74 ।।
तस्याड्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः।
श्रीभगवान् ---
अन्तःकरणयागादि यावदात्मनिवेदनम् ।। 75 ।।
तदाद्यमङ्गं यागस्य नाम्नाऽभिमनं महत्।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ।। 76 ।।
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद।
मध्वाज्याक्तेन दग्ना वै पूजा च पशुनाऽपि वा ।। 77 ।।
तत्तृतीयं हि यागाङ्गं तुर्यमन्तेन पूजनम्।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।। 78 ।।
संप्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम्।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ।। 79 ।।
प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम्।
इत्येतत्कथितं सम्यक् यत्त्वया परिचोदितम् ।। 80 ।।
प्रददात्यचिराद्यद्वै तन्निष्ठानां परं पदम्।
इति श्रीपाञ्चरात्रे जयाख्यंसहितायां वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः।
* * * * *