जयाख्यसंहिता/पटलः २

विकिस्रोतः तः
← पटलः १ जयाख्यसंहिता
पटलः २
[[लेखकः :|]]
पटलः ३ →
जयाख्यसंहितायाः पटलाः

पटलः - 2
अथ ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः। 2-1
ऋषय ऊचु :--
अज्ञानपङ्कमग्नानां त्वं गतिर्नो महामुने।
पुरा यथोक्तं विभुना मुनेर्ब्रह्मात्मजस्य च ।। 1 ।।
तत्सर्वं विस्तरेणाद्य यथावद्वक्तुमर्हसि।
[नारदो ब्रह्मणः पुत्रो भवबन्धविमुक्तये] ।। 2 ।।
शाण्डिल्य :--
स्वमात्मानं पुरस्कृत्य सद्भक्ताय(नां?)हिताप च।
पादपद्मे हरेः स्मृत्वा स्तु(न?)त्त्वा च शिरसा सह ।। 3 ।।
प्राञ्जलिः प्रयतो भूत्वा प्रोत्फुल्लवदनेक्षणः।
प्रणयात्प्रणतो भूत्वा द्वन्द्वोपद्रवशान्तये ।। 4 ।।
उपसङ्गम्य चरणाविदं स्तोत्रमदीरये(दैरय?)त्।
[नारदकृता भगवत्स्तुतिः] 2-2
नारद :--
नमोऽस्तु परमेशाय कारणाय पराय च ।। 5 ।।
सहस्रशिरसे तुभ्यं सहस्रचरणाय च।
सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम ।। 6 ।।
सहस्रसूर्यवपुषे सहस्रेन्दुगभस्तये।
नमः परमहंसाय परात्परतराय च ।। 7 ।।
सत्त्वरूपाय शान्ताय नमो विश्वायनाय च।
भवाय भवहर्त्रे(1) च सर्गस्य प्रभवाय च ।। 8 ।।
(1. भत्रें. A)
नमः कनकगर्भाय(2) सर्वदेहभृते नमः।
त्रयीत्रयमयाद्याय नमस्ते परमात्मने ।। 9 ।।
(2. गन्धाय. S)
हृदम्बुजगुहावासपरव्योमान्तशायिने।
भक्तियोगविदभ्यासग्राह्याय खलु ते नमः ।। 10 ।।
मीनो निमीलिताक्षस्त्वं कूर्मस्त्वं च नगोद्वहः।
त्वया रूपं च कृत्वाऽग्र्यं विधृतं भूमिमम्डलम् ।। 11 ।।
भयाभये त्वयैकस्यां नरसिह्मतनौ धृते।
वामनो गोपितवपुर्विततस्त्वं त्रिविक्रमः ।। 12 ।।
रामरूपेण रम्येण तथा रामत्रयेण च।
त्वया देव जिता दैत्याश्च्छन्नरूपाश्च राक्षसाः ।। 13 ।।
कृष्णस्त्वं बालरूपी च विभुर्दामोदरो हरिः।
त्वं विश्वरूपो देवानां साङ्ख्यानां कपिलः प्रभुः ।। 14 ।।
योगिनां यो(1) गतिस्त्वं वै शेषात्मा धरणीधरः।
सङ्कर्षणो ज्ञानिनां त्वं कामिनां कुसुमायुधः ।। 15 ।।
(1. योगतत्त्वेशः A.)
अनिरुद्धश्च सर्वेषां जीवत्वेन त्वमच्युतः।
त्वया सृष्टं जगत्सर्वं ब्रह्मत्वेन जनार्दन ।। 16 ।।
स्थितं पासि स्वयं भूत्वा विष्णुरूपेण केशव।
रुद्ररूपेण गोविन्द जगत्संहरसे क्षणात् ।। 17 ।।
यज्ञरूपेण देवानां हव्यं वह्निमुखेन च।
वहसि त्वं पितॄणां च कव्यं कृत्स्नं जगत्पतें ।। 18 ।।
आराधयामि त्वां भक्त्या भवनिर्वाणदं प्रभुम्।
सुरसौख्यकरं देवं सुराणाममृतप्रदम् ।। 19 ।।
स्थितास्त्वदुदरे लोका द्वीपाश्चोदधिभिस्सह।
देवैश्च दानवैःसार्द्धमृषिभिश्च तपोधनैः ।। 20 ।।
मनुजैर्दनुजैश्चैव सरिद्भिस्सह पर्वतैः।
तवान्तस्संस्थितं सर्वं सर्वस्यान्तर्भवान् स्थितः ।। 21 ।।
त्वमाद्यो भुवनस्यास्य त्वां स्मृत्वा सुखिता वयम्।
भवामो नित्यसंबुद्धाः संस्थिता यत्र कुत्रयित् ।। 22 ।।
प्रणवस्त्वं त्रिमात्रश्च भूर्भुवस्वस्त्वमेव च।
अहङ्कारकरस्त्वं वै त्रितयं लोकतारकम् ।। 23 ।।
[भगवद्रूपदिदृक्षया लोकसृष्टिप्रकारजिज्ञासया च नारदकृता प्रार्थना]
तदेनमादिशस्वाशु भवाद्येनोत्तराम्यहम्।
अधिष्ठाय परां बुद्धिं भूयःश्रेयोऽहमाप्नुयाम् ।। 24 ।।
मम भक्तस्य देवेश परं ज्ञानात्मकांक्षिणः।
संसारभयभीतस्य रूपं वै स्वं प्रदर्शय ।। 25 ।।
सृष्टं त्वया यथा सर्वमाब्रह्मभवनान्तिमम्।
गगनञ्चातिमायेन दुस्तरं तद्वदस्व मे ।। 26 ।।
[भगवता कृतं सकलनिष्कलात्मकस्वीयरूपद्वयप्रदर्शनम्]
शाण्डिल्य :--
इति सञ्चोदितो भक्त्या परया परमेश्वरः।
विशुद्धबुद्धिना सम्यक् नारदेन सुरर्षिणा ।। 27 ।।
तदुक्तस्य क्षणे तस्मिन्नात्मीयो गहनश्च यः।
प्रदर्शितस्स हरिणा सकलो निष्कलात्मकः ।। 28 ।।
परितोषं परं यातो मुनिर्ब्रह्मसुतस्तदा।
उवाच परया प्रीत्या भूयस्स विनयान्वितः ।। 29 ।।
त्वत्प्रसादान्मया ज्ञातं दुर्लभं यत्सुरैरपि।
इदानीं श्रोतुमिच्छामि सम्भूतिं विभवं तव ।। 30 ।।
[लोकस्य सृष्टिप्रलयकालौ] 2-3
श्रीभगवानुवाच ---
यदिदं पश्यसि ब्रह्मन्मायया निर्मितं जगत्।
कालादिवहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ।। 31 ।।
मामके प्रभवो ह्यह्नि प्रलयश्च निशागमे।
दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् ।। 32 ।।
रात्रिश्च तावती ज्ञेया एवंरूपे क्षये सति।
प्रवर्तमाने त्वहनि काले सर्गाख्यलक्षणे ।। 33 ।।
[भगवतो नाभीकमलात् चतुर्मुखसृष्टिः] 2-4
स्वकारणमनिर्जित्य कार्यार्थं मुनिपुङ्गव।
ज्ञानयोगप्रभावेन अम्मयं महिमावृतम् ।। 34 ।।
प्रेरितं नाभिरन्ध्रेण मया हार्दं कुशेशयम्।
विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् ।। 35 ।।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम्।
सहस्रवंह्निगर्भं च हेमनालं महाप्रभम् ।। 36 ।।
तन्मध्ये मानवो(सो ?) ब्रह्मा मया सृष्टश्चतुर्मुखः।
[तस्य चतुर्मुखस्य विद्याशक्तिविशेषयोगः]
जगतां प्रभवस्तस्माद्विद्यादेहस्सनातनः ।। 37 ।।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः।
अणिमाद्यष्टकोपेतस्सिसृक्षाशक्तिभिर्युतः ।। 38 ।।
[रजोगुणोद्रेकात् तत्कृता विविधसृष्टिः] 2-5
न तस्य विदितश्चाहं यदा यातस्सगर्वताम्।
अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।। 39 ।।
तदा चकार विविधां सृष्टिं स्वामा(त्मा?) नुपूर्विकाम्।
न्यग्भूतभूतपूर्वाणि स्थूलसूक्ष्माणि यानि च ।। 40 ।।
चेतनाचेतनाख्यानि व्यञ्जितानि क्रमेण तु।
देवाश्चानेकभेदेन मनुष्याः पशवस्तथा ।। 41 ।।
स्थावरान्तानि सर्वाणि सन्त्यस्मिन्यानि कानिचित्।
स्वनिकेतानि सर्वाणि दृष्ट्वा स्वस्मिन्पितामहः ।। 42 ।।
[रजःप्रकर्षादभिभूतसत्त्वतया चतुर्मुखस्य लोकधारणेऽसामर्थ्यम्]
स्वा(स्व?)लोकं रागबाहुल्यात्सम्यग्धर्तुं(1) न वेत्यसौ।
कृताकृतं(2) जगत्यस्मिन्विना सत्त्वोदयेन तु ।। 43 ।।
(1. क्कर्तुं A.)
(2. कृतकृत्ये A.)
[भूमेर्धारणाय भगवतो योगनिद्राश्रयणम्]
सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम्।
जलान्तर्वर्तितं भूमेः कृत्वा सन्ता(न्धा?)रणार्थतः ।। 44 ।।
योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम्।
[मधुकैटभासुरयोरुत्पत्तिः, ताभ्यां कृतः सर्वलोकविजयः] 2-6
ब्रह्मणो जायमानस्य ह्यभूतां स्वेदबिन्दुकौ ।। 45 ।।
पद्मनालं समाश्रित्य संस्थितावुदरान्तरे।
तदोत्थितौ दुराधर्षौ नाम्ना द्वौ मधुकैजभौ ।। 46 ।।
कामक्रोधात्मकौ चैब तमसाऽतीव निरभरौ।
तामसेनाभिमानेन (3)वृद्धियुक्तौ कृतौ स्थितौ ।। 47 ।।
(3. बुद्धि C. L.)
किमिदं तस्य पद्मस्य कल्पयन्तौ परस्परम्।
कौतुकाभिनिविष्टौ तु पातालतलमाश्रितौ ।। 48 ।।
भूयस्तस्माच्च पातालात्कालवैश्वानरावधि।
कृत्वाथ तैजसीं मायां यातावग्नेरधस्तु तौ ।। 49 ।।
नान्तोऽस्ति पद्मनालस्य तेजोज्वालावृतस्य च।
गर्वान्मोहं गतौ किञ्चिद्यदा भूयस्तदा द्विज ।। 50 ।।
मतिं कृत्वोर्ध्वगमने प्राप्तावूर्ध्वं मया ततः।
स पद्मोऽन्तर्हितश्चैव ततश्चोत्पन्नविस्मयौ ।। 51 ।।
स्थितौ तु तौ महाघोरौ क्व गतस्स च पङ्कजः।
प्रोत्थितौ तोयमध्याच्च पश्येतां पृथिवीमिमाम् ।। 52 ।।
चक्रतुर्मतिमूर्द्धेषु लोकेषु गमनं प्रति।
दृष्ट्वा च विभवं सर्वं बुद्धिरासीत्तयोस्तदा ।। 53 ।।
क्ष्मादौ सर्वेषु लोकेषु सम्यक्स्वीकरणं प्रति।
निर्जिताश्च ततस्सर्वे लोका लोकान्तराण्यपि ।। 54 ।।
तमसाऽतीव कष्टेन व्याप्तं सर्वं चराचरम्।
[ताभ्यां कृतेन वेदापहारेण चतुर्मुखस्य ज्ञानभ्रंशादधर्मवृद्ध्या लोकस्य दुरवस्थाप्राप्तिः] 2-7
हृतवेदः कृतो ब्रह्मा अभूदन्यस्तु तत्क्षणात् ।। 55 ।।
वेदैर्विना यतो विप्र (1)वेदं चक्षुः पुरा श्रितः।
अस्थितिं जगतः कृत्वा अधर्मस्थापनं महत् ।। 56 ।।
(1. वेदचक्षुः पुराकृतः C. L.)
ततस्तौ तामसौ दुष्टौ जलमध्यं पुनर्गतौ।
[मुनिभिः कृतं चतुर्मुखस्योद्बोधनम्] 2-8
तदा सम्बोधितो ब्रह्मा देवतैर्मुनिभिस्सह ।। 57 ।।
संस्मरस्वादिदेवं त्वं समुद्भूतोऽब्जसम्भव।
स नः श्रेयःप्रदो नान्यो यदि स्यात्सत्यता श्रुतेः ।। 58 ।।
न त्वया साभिमानेन ज्ञातं परमाकारणम्।
येनाऽनर्थमिदं कष्टं जगत्यस्मिन्प्रतिष्ठितम् ।। 59 ।।
कारणं ते स भगवांस्त्वमस्माकं च कारणम्।
परमं कारणं विष्णुमजेयं स्मर पद्मज ।। 60 ।।
[मुनिभिरुद्बोधितेन चतुर्मुखेन कृता भगवत्स्तुतिः] 2-9
ततश्शान्तरजा ब्रह्मा सत्वैकगतमानसः।
अभूत्स्तुतिपरस्सवैंर्देवतैर्मुनिभिस्सह ।। 61 ।।
प्रणष्टवेदधर्मोऽहं न मेऽस्ति गतिरच्युत।
पाहि पाहीत्यभीक्ष्णं स अत्यार्तश्च यदाऽब्रवीत् ।। 62 ।।
[भगवता कृतमभयप्रदानम्] 2-10
तदा विप्रावतीर्णोऽहं ममत्वे ग्लानिमागते।
प्रणष्टेषु च वेदेषु ब्रह्मण्यब्रह्मतां गते ।। 63 ।।
दत्तं मयाऽभयं तेषां समाश्वस्तमिदं जगत्।
विद्या मायात्मकं रूपं द्विविधं च मया कृतम् ।। 64 ।।
[विद्यामयरूपं परिगृह्य भगवता विरचितं पातालाद्वेदानामुद्धरणम्] 2-11
विद्यामयेन रूपेण शब्दब्रह्ममयेन च।
पातालान्तर्गता वेदास्स्वीकृताः प्रणवेन तु ।। 65 ।।
[विद्यामयरूपस्य भगवतोऽनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम्] 2-12
संप्रविष्टस्ततश्चाहमिमां प(पा ?)द्मोद्भवीं तनुम्।
लब्धसंज्ञेन तेनाथ वेदा ह्यावर्तिताः पुनः ।। 66 ।।
तदा भुवननाथाश्च सर्वे हृष्टतमाः स्थिताः।
तमोमोहभयान्मुक्ताः स्वकं स्थानं समाश्रिताः ।। 67 ।।
[मायामयं रूपं परिगृह्य ताभ्यां सह भगवतो युद्धाचरणम्] 2-13
द्वितीयेन तु रूपेण तयोरग्रे स्थितोऽभवम्।
तौ तु दुष्टौ मदोन्मत्तौ मम युद्धाभिलाषिणौ ।। 68 ।।
ततो मायात्मकेनैव वपुषाऽनेकबाहुना।
बहून्यब्दसहस्राणि योधितौ तौ तदा मया ।। 69 ।।
[तयोरजेयत्वमालक्ष्य मन्त्रमयरूपं परिगृह्य तयोर्हननम्]
ज्ञात्वा तयोरजेयत्वमहमन्तर्हितो द्विज।
ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ।। 70 ।।
तत्ताभ्यां चैव दुर्धर्षं दुर्निरीक्ष्यं तथाऽर्कवत्।
लीलया करयुग्मेन गृहीत्वा कण्ठतो मया ।। 71 ।।
र्ऊरूभ्यां मर्दितौ चैव ययुर्निष्कण्टकास्सुराः।
[मेदिनीशब्दनिर्वचनम्] 2-14
तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा ।। 72 ।।
ततः प्रभृति कालाच्च मेदिनीति निरुच्यते।
इत्येष कथितस्सर्गो मुने ब्राह्मो मया तव ।। 73 ।।
अन्ये ह्यनेकरूपाश्च सर्गा बहुतरा गताः।
ईदृक्प्रकाशा- स्थूलाश्च येषा सङ्ख्या न विद्यते ।। 74 ।।
प्राधानिको द्विजाऽस्याद्यस्तस्याद्यो वैष्णवः परः।
किमन्यत्कथयिष्यामि ब्रूहि यवास्ति संशयः ।। 75 ।।
अद्यापि मुनिशार्दूल तदहं प्रव्रवीमि ते।
इति श्रीपाञ्चरात्रए जयाख्यसंहितायां ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_२&oldid=206669" इत्यस्माद् प्रतिप्राप्तम्