जयाख्यसंहिता/पटलः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः ८ जयाख्यसंहिता
पटलः ९
[[लेखकः :|]]
पटलः १० →
जयाख्यसंहितायाः पटलाः

पटलः - 9
अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः। 9-1
श्रीभगवान्।
अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो होमयागयोः ।। 1 ।।
[स्नाने द्वैविध्यम्]
स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ।। 2 ।।
सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम्।
[शौचविधिः] 9-2
तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ।। 3 ।।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः।
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ।। 4 ।।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम्।
पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः ।। 5 ।।
दश वामकरे देयास्सप्त तूभयहस्तयोः।
पादाभ्यां त्रिसृभिश्शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ।। 6 ।।
नियोजयोत्ततो विप्र कट्यां वै सप्तमृत्तिकाः।
स्वदेहस्वेददोषघ्नं बाह्यकर्दमशान्तये ।। 7 ।।
भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम्।
प्रावृट्‌सूक्तात्तदेतस्मादेकमृद्व्यपनोदनम् ।। 8 ।।
शरद्ग्रीष्मवसन्तेषु नित्यं कार्या क्रियापरैः।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ।। 9 ।।
हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ।। 10 ।।
गन्धलेपमपास्यैवं मनश्शुद्ध्या विशुध्यति।
[स्नानार्थं मृत्संग्रहणम्] 9-3
एवं कृत्वा पुरा शौचं समाचम्य ततः खनेत् ।। 11 ।।
शङ्कुना ह्यस्त्रजप्तेन शुचिस्थानात्तु मृत्तिकाम्।
गृहीत्वाऽस्त्रेण सङ्गृह्यं यायाज्जलनिकेतनम् ।। 12 ।।
[स्नानविधिः]
[लौकिकस्नानम्] 9-4
तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा।
मृदः कृत्वा द्विधा स्थाप्य एक भागोपगं ततः ।। 13 ।।
निधाय गोमयं दर्भान्स्तिलास्त्रानभिमन्त्रितान्।
लौकिकं गोमयाढ्येन भागेन [स्नानमाचारेत्] ।। 14 ।।
[औदकं विधिस्नानम्] 9-5
तत(तच्च)स्नानं पुरा कृत्वा विधिस्नानं सगाचरेत्।
[विधिस्नाने क्रमः]
विधिस्नाने तु मृद्भागौ यस्तं कुर्याद्द्विधा पुनः ।। 15 ।।
पादादि क्षाल्यमेकेन पूर्ववत्क्रमयोगतः।
पाणिप्रक्षालनं कृत्वा विनिमज्य जलान्तरे ।। 16 ।।
[स्नानाङ्गमन्त्रन्यासमुद्रावन्धौ]
समुत्थाय न्यसेन्मन्त्रं षडङ्गं विग्रहे स्वके।
मन्त्रन्यासं ततः कुर्यान्मुद्राबन्धं च कारयेत् ।। 17 ।।
कीटाद्यशुचिसम्पर्काज्जलस्यावहतो द्विज।
वहतोऽप्युद्धृतस्यापि शुद्धिरेवं भवेत्पुरा ।। 18 ।।
निर्मलं वारुणं विप्र चन्द्रार्ककरतापितम्।
यद्यपि स्यात्तथा नैवं सम्यङ्मान्त्रे क्रियाक्रमे ।। 19 ।
[पवित्रधारणम्]
त्रिपञ्चसप्तकाण्डोत्थं द्रढिमग्रन्थिसंयुतम्।
पवित्रकद्वयं दार्भमस्त्रमन्त्राभिमन्त्रितमू ।। 20 ।।
हस्तद्वयेऽपि निक्षिप्य अनामाड्गुळयोरधः।
[वामपाणौ मूलादिस्थानभेदेन त्रेधा विभक्ताया मृदः क्रमेणास्त्रादित्रयेणाभिमन्त्रणम्]
सावशेषां मृदं शोषां कृत्वाऽऽदायास्त्रमुच्चरन् ।। 21 ।।
तां तथा वामपाणौ तु मूलमध्याग्रतो भजेत्।
सास्त्रेण मूलमन्त्रेण जपेदङ्गैरनुक्रमात् ।। 22 ।।
[तत्रास्त्राभिमन्त्रिताया विनियोगः]
अस्त्रजप्तां मृदं गृह्य क्षिपेद्दिक्षु विदिक्षु च।
अध ऊर्ध्वे च तन्मन्त्रं (न्त्र) मुद्राबन्धेन संयुतम् ।। 23 ।।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः।
प्रयान्ति वि(1)ह्वलीभूता यावत्तन्नोपसंभृ(2)तम् ।। 24 ।।
(1. विफली A.)
(2. हृ C L.)
[मूलमन्त्रिताया मृदो विनियोगः]
मृद्भागो मूलमन्त्रेण मन्त्रितो यः पुरा स्थितः।
तमुच्चरंस्तमादाय तोयमध्ये विनिक्षिपेत् ।। 25 ।।
तेन तत् द्विजशार्दूल तत्क्षणादेव जायते।
गङ्गातोयेन संपूर्णं यामुनेन जलेन च ।। 26 ।।
प्रायागं चक्रतीर्थं च प्रभासं पुष्कराणि च।
भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः ।। 27 ।।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत्।
सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधिः ।। 28 ।।
[तीर्थान्तरे केवलमूलमन्त्रमात्रयोजनम्]
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत्।
केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ।। 29 ।।
तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः।
सन्निधाने हि तीर्थस्य यद्यन्यामभिधां स्मरेत् ।। 30 ।।
स्नातकस्तस्य तत्तीर्थमभिशप्य क्षणं व्रजेत्।
निर्जराम्बुतटाकादौ सामान्यस्नानकर्मणि ।। 31 ।।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तितम्।
मान्त्रे स्नानक्रमे सम्यग्विष्णुतीर्थाय कीर्तयेत् ।। 32 ।।
[अङ्गमन्त्राभिमन्त्रितस्य मृद्भागस्य विनियोगः]
ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम्।
तोयेनालोढ्य मसृणं तापयेदर्करश्मिभिः ।। 33 ।।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत्खस्थितं स्मरेत्।
दर्शयित्वा करे तस्य ताभ्यां सर्वाङ्गकं स्पृशेत् ।। 34 ।।
[तीर्थस्य परमीकरणप्रकारः]
धारणाद्वि(1)तयेनाथ तीर्थस्य सजलस्य च।
परमीकरणं कुर्याद्विधिदृष्टेन कर्मणा ।। 35 ।।
(1. ज A.)
आधारशक्तेरारभ्य सङ्कल्पविषयावधि।
वह्निना पूरयेत्सर्वं ज्वालामालाविलेन च ।। 36 ।।
निरम्मयं जगत्कृत्वा तीर्थं शान्ततनु स्मरेत्।
शान्ते संविन्मये विष्णौ भूयस्तदवतार्य च ।। 37 ।।
निशाम्बुकणसङ्काशमियत्ताकल्पितं पुरा।
स्मृत्वा शक्तिप्रभावेन ब्रह्मस्रोतो विनिर्गतम् ।। 38 ।।
धाराकल्लोलसङ्गीर्णं पतमानं तु वेगतः।
आब्रह्मभवनं सर्वं पूरयेच्छशिसन्निभम् ।। 39 ।।
विलोकनपदैश्शश्वत्सङ्घट्टं तं तु भावयेत्।
समस्ते प्राक्स्वरूपेण तन्मध्ये त्वासनं प्रभोः ।। 40 ।।
दत्वा तदुपरि ब्रह्मन् स्मरेन्नारायणं प्रभुम्।
चन्द्रकोटिसमं शुद्धसुधाधारागणावृतम् ।। 41 ।।
साहं(1)शक्तिसमूहाढ्यं प्रोद्गिरन्तं सुधारसम्।
एवं कृते सति भवेत्तीर्थं नारायणात्मकम् ।। 42 ।।
(1. भं A.)
निमज्जनं ततः कुर्यादुन्मज्जनसमन्वितम्।
गन्धैस्सामलकैर्हृद्यैः पवित्रैर्विविधैः शुभैः ।। 43 ।।
चक्रवर्त्युपचारेण मन्त्री स्नायादतन्द्रितः।
[अथ स्नानोत्तराङ्गविधिः]
ततश्चान्तर्जलस्थश्च स्मरेन्मन्त्रं स्वशक्तितः ।। 44 ।।
भास्वद्भास्वररूपोऽसौ उदेति हृदयान्तरे।
हृदयादग्रतश्चान्ते द्वादशान्तेन दूरतः ।। 45 ।।
परमं पुरुषं दृष्ट्वा प्रत्यक्षस्थं तु नारद।
समुत्थाय जलात्पश्येद्गगनस्थं तमेव हि ।। 46 ।।
ततोऽप्सु तारमासाद्य उपविश्य यथासुखम्।
न्यसेदङ्कुशमुद्राग्रे हृन्मन्त्रं सितविग्रहम् ।। 47 ।।
स्वेनानिलेन संयुक्तं रेचयेत्तीर्थमध्यतः।
पूरकेण समाकृष्य मुद्रायुक्तेन तत्पुनः ।। 48 ।।
एवञ्चोपगतं तीर्थं पुरा कृत्वा तु नारद।
प्रणेवेनोपचाराक्यहृदयेनाचमेत्ततः ।। 49 ।।
सुप्रसन्नेन तोयेन जान्वन्तस्थेन पाणिना।
एकेन पाद्यमन्त्रेण सोपचारहृदा द्विज ।। 50 ।।
ध्वात्वा तत्र स्थितं देवं साङ्गं सपरिवारकम्।
जप्यमानश्च मन्त्रोऽयमुपस्थानं तु कारयेत् ।। 51 ।।
प्रणवेन ततस्सर्वान्पितृदेवांश्च तर्पयेत्।
तिलमिश्रेण विधिवत्सन्त्यजेत्स्नानकर्पटम् ।। 52 ।।
सुधौतं परिधायाथ वस्त्रयुग्ममखेददम्।
अथवा तदधश्शाटीं योगपट्टकसंयुताम् ।। 53 ।।
नैकवस्त्रेण वै यस्माद्भवितव्यं कदाचन।
स्थानेऽस्त्रशोधितेऽन्यस्मिन्ननन्तासनसंस्थितम् ।। 54 ।।
आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च।
मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ।। 55 ।।
तर्पयेदुदकेनैव विष्वक्सेनावसानकम्।
स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ।। 56 ।।
देवताश्च मुनीन्नागान् ग्रहभूतवियच्चरान्।
सन्तर्प्य स्थावरान्तांश्च स्ववंशं तर्पयेत्क्रमात् ।। 57 ।।
व्रजन्तं सासनं देवं जलमध्यात्ततस्स्मरेत्।
तीर्थशुद्धौ पुरा मन्त्रो न्यस्तोऽसावपि दिक्षु वै ।। 58 ।।
प्रेरयन्पूर्ववद्देवान्प्रा(1)णाग्रेणानिलं द्विज।
तमेकीकृत्य वै तेन त्यक्त्वा तोयं तु शुक्लवत् ।। 59 ।।
(1. न्घ्ना C. L.)
आपूर्य हृदि विन्यस्येत् सोपसंहारमुद्रया।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ।। 60 ।।
[मन्त्रस्नानम्] 9-6
तोयाभावे च यत्कुर्याद्दुर्गे काले च शीतले।
गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम् ।। 61 ।।
प्राप्तां वा वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा।
प्रक्षाल्य पदावाचम्य प्रोद्धृतेन तु वारिणा ।। 62 ।।
(2)स्नानं दश दिशः प्राग्वत्संशोध्योपविशेत्ततः।
अस्त्रं हस्ततले योज्यं क्रमान्न्यासं ततस्तनौ ।। 63 ।
(2. स्था A.)
मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्रगणेन तु।
केवलादुदकस्नानात्संस्कारपरिवर्जितात् ।। 64 ।।
प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च।
ज्ञेयं शतगुणं तस्मान्मन्त्रग्रामस्य नार ।। 65 ।।
[घ्यानस्नानम्] 9-7
ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ।। 66 ।।
तत्पादोदकजां धारां पतमानां स्वमूर्धनि।
चिन्तयेद्ब्रह्मरनध्रेण प्रविशन्तीं स्वकां तनुम् ।। 67 ।।
तया संक्षालयेत्सर्वमन्तर्देहगतं मलम्।
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ।। 68 ।।
इदं स्नानं परं मान्त्रात्स्नानाच्छतगुणं स्मृतम्।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ।। 69 ।।
स्नानपूर्वाः क्रियास्सर्वा यतस्सम्यक्फलप्रदाः।
तस्मात्स्नानं पुरा कुर्याद्य इच्छेच्छ्रेय आत्मनः ।। 70 ।।
स्नानेन निर्मलो जन्तुः कृतमात्रेण जायते।
द्विजेन्द्र निर्विवेकात्मा किं पुनर्यः क्रियापरः ।। 71 ।।
इति श्री पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_९&oldid=206738" इत्यस्माद् पुनः प्राप्तिः