जयाख्यसंहिता/पटलः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः १५ जयाख्यसंहिता
पटलः १६
[[लेखकः :|]]
पटलः १७ →
जयाख्यसंहितायाः पटलाः


पटलः - 16
अथ दीक्षाविधानं नाम षोडशः पटलः 16-1
नारद :---
श्रोतुमिच्छामि भगवन्दीक्षालक्षणमुत्तमम्।
(1)समयिनः पुत्रकस्य साधकाचार्ययोस्तथा ।। 1 ।।
(1. समाधिनः S. समधीनः Y.)
नैष्ठिकानां तथा स्त्रीणां शिशूनां भावितात्मनाम्।
विस्तरेण समाख्याहि यदि सानुग्रहोऽसि मे ।। 2 ।।
श्रीभगवान् ---
शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम्।
देवाग्निगुरुपूजासु अधिकारो यथा(या ?)भवेत् ।। 3 ।।
सिद्धये मुक्तये चैव तां वक्ष्यामि त्रिधा यथा।
[आढ्यानाढ्यभेदेन दीक्षाप्रकारे भेदः] 16-2
महामण्डलयागेन वित्ताढ्यानां तु कारयेत् ।। 4 ।।
वित्त(1)योगविमुक्तस्य स्वल्पवित्तस्य देहिनः।
संसाररभयभीतस्य विष्णुभक्तस्य तत्त्वतः ।। 5 ।।
(1.लोभ A. CL., S.)
अग्नौ चाज्यान्वितैर्बीजैः सतिलैः केवलैस्तथा।
द्रव्यहीनस्य वै कुर्याद्वाचैवानुग्रहं गुरुः ।। 6 ।।
[उपसन्नस्यावश्यं दीक्षायितव्यता] 16-3
यः समः सर्वभूतेषु विरागी वीतमत्सरः।
जितेन्द्रियः शुचिर्दक्षः समग्रावयवान्वितः ।। 7 ।।
कर्मणा मनसा वाचा भीतेष्वभयदः सदा।
संबुद्धिपदसंप्राप्तस्तत्रापि भगवन्मयः ।। 8 ।।
पञ्चकालरतश्चैव पञ्चरात्रार्थवित्तथा।
विष्णुतत्त्वं पिरज्ञाय एकं चानेकभेदगम्(2) ।। 9 ।।
(2. कम् CL.)
दीक्षयेन्मेदिनीं सर्वां किं पुनश्चोपसर्पितान्।
[एकस्यैवाच्युतस्यानेकरूपेण स्थितत्वनिर्देशः]
निराश्रयमसङ्कल्पं स्वरूपादच्युतं स्थिरम् ।। 10 ।।
ग्राह्यग्राहकधर्मैश्च निर्मुक्तमचलं ध्रुवम्।
एव(क?)मेव फले पञ्च(?)वक्ष्ये ते नैकधा स्थितम् ।। 11 ।।
व्याप्तव्यापकभेदेन यथावन्मुनिसत्तम।
[परसूक्ष्मस्थूलात्मना त्रिधा स्थितेषु तत्त्वेषु अच्युतस्य त्रेधा व्याप्य स्थितिः] 16-4
स्थूलं सूक्ष्मं परं चान्यद्व्याप्य तत्त्वत्रयं स्थितम् ।। 12 ।।
प्रधानपुरुषेशाख्यं तथाऽन्यच्छ्रोत्रपूर्वकम्।
व्याप्याच्युतः स्थितस्साक्षात् त्रिधा वै बुद्धिपश्चिमम् ।। 13 ।।
त्रिविधं विष्णुतत्त्वं तु एकं ज्ञात्वाऽप्यनेकधा।
एकैकेन तु भेदेन कुर्यात्सर्वेष्वनुग्रहम् ।। 14 ।।
यथानुरूपं क्रमशः समयज्ञादिषु द्विज।
[मन्त्रमूर्तेर्भगवतस्त्रेधाऽवस्थानम्]
पिण्डात्मा भगवानेक उपाङ्गाढ्यश्च स द्विधा ।। 15 ।।
त्रिविधे मन्त्रराशौ तु त्रिधा चैव व्यवस्थितः।
[स्थूलसूक्ष्मपरात्मना मन्त्रराशेस्त्रैविध्यम्] 16-5
(3)मणेराकृष्टिमन्त्रान्तो मान्त्रः प्राग्राशिरुच्यते ।। 16 ।।
(3. अत्र मणिशब्देन कौस्तुभः, आकृष्टिशब्देनाड््कुशः, भूधरशब्देन वराहो विवक्षितः।)
लक्ष्म्याद्यो भूधरान्तश्च द्वितीयः सूक्ष्मसंज्ञितः।
सप्तामूर्मू(र्णान्मू?)र्तिमन्त्रान्तस्तृतीयस्तु परः स्मृतः ।। 17 ।।
तत्त्व(1)(मन्त्र?)ग्रामं समुच्चित्य स्थितः (2)संक्षेपकर्मणि।
[स्थूलसूक्ष्मपरात्मना त्रेधाऽवस्थितस्य मन्त्रराशेः स्थूलाद्येकैकराशौ प्रत्येकं स्थूलादित्रिकरूपेणावस्थितिः] 16-6
त्रित्रिकावस्थरूपेण त्रयं कृत्वा त्रिधा स्वयम् ।। 18 ।।
(1. तत्र CL.)
(2. संक्षेपमध्यमविस्तारभेदेन त्रेधा वक्ष्यमाणे दीक्षाभेदे संक्षेपक्रमे समुच्चित्य स्थितिर्भावनीयेति यावत्।)
राशीनां भगवान्विष्णुर्लोकानुग्रहकृत्स्थितः।
अङ्कुशाद्वैनतेयान्तं स्थूलात्स्थूलमिदं त्रिकम् ।। 19 ।।
गदामन्त्राच्च शङ्खान्तं स्थूलमध्यं च नारद।
पङ्कजात्कौस्तुभान्तं च स्थूलपारं भवेत्र्रिकम् ।। 20 ।।
वराहात्सिह्ममन्त्रान्तं सूक्ष्मं स्थूलं त्रिकं स्मृतम्।
अस्त्राद्धृदयपर्यन्तं सूक्ष्ममध्यो भवेत्प्रभुः ।। 21 ।।
मायाशक्तेस्तु लक्ष्म्यन्तं भवेत्सूक्ष्मं परं तु तत्।
समूलो मूर्तिमन्त्रो यः सर्वस्सप्तदशाक्षरः ।। 22 ।।
परस्थूलमिदं विद्धि सप्तमं सर्वसिद्धिदम्।
अनिरुद्धात्तु सत्यान्तं सर्वं तत्परमध्यमम् ।। 23 ।।
परात्परं मन्त्रपदं नवमं भोगमोक्षदम्।
विद्धि सप्ताक्षरं पिण्डं मन्त्रग्रामस्य नायकम् ।। 24 ।।
उत्तरोत्तरता चैव सर्वेषां वर्तते क्रमात्।
सामर्थ्येन तु वीर्येण ज्ञानेन विविधेन च ।। 25 ।।
भवच्छेदे च दीक्षायां विविधासु च सिद्धिषु।
[मन्त्रसङ्‌घस्य तत्त्वसङ्घे संक्षेपमघ्यविस्तारात्मकदीक्षात्रैविध्यानुगुणं त्रेधाऽवस्थाननिरूपणम्] 16-7
क्रमेण गन्धतन्मात्रात्प्रभुतत्त्वावधिं द्विज ।। 26 ।।
मन्त्रसङ्घः परत्वेन किञ्चित्सङ्कोचरूपधृत्।
स्थूलसूक्ष्मादि नवधा मध्ये विस्तारकर्मणि ।। 27 ।।
भूयोऽनुक्रमयोगेन पञ्चविंशतिधा मुने।
एकः स एव मन्त्रात्मा भिन्नोऽपि बहुभेदतः ।। 28 ।।
[अधिभूताधिदैवाध्यात्मभेदेन त्रेधा विभिन्नस्य प्रत्येकं पञ्चविंशतिधाऽवस्थितिनिरूपणम्] 16-8
अध्यात्मत्वाधिदैवत्वाधिभूतत्वव्यवस्थया।
स्थितस्त्वीश्वरतत्त्वाच्च यावत्तत्त्वं धराभिधम् ।। 29 ।।
ईश्वरोऽथ प्रधानं च बुद्धिश्चाहंकृतिर्मनः।
पञ्चेन्द्रियाणि श्रोत्राद्याः पञ्च वागादयस्तथा ।। 30 ।।
पञ्च शब्दादयश्चान्ये पञ्च भूतानि खादयः।
अधिभूतगणश्चायमधिदैवगणं शृणु ।। 31 ।।
मकाराद्यानि बीजानि कावसानानि वै क्रमात्।
ईश्वरादिषु तत्त्वेषु कथितास्साधिदैवताः ।। 32 ।।
मन्त्राश्चाध्यात्मरूपा ये क्रमशः शृणु नारद।
सप्ताक्षरः परो मन्त्रो ह्यध्यात्मं चैश्वरं स्मृतम् ।। 33 ।।
सत्यादिपञ्चकं विद्धि प्रकृतेः परमव्ययम्।
मूलमूर्तिसमेतं च बुद्धेरध्यात्ममुच्यते ।। 34 ।।
लक्ष्मीमन्त्रमहङ्कारे मनसः कीर्तिसंज्ञितम्।
श्रोत्रेन्द्रिये जयाख्यं तु मायाख्यं च त्वगिन्द्रिये ।। 35 ।।
हृच्चक्षुरिन्द्रिये विद्धि जिह्वाग्रे तु शिरः स्मृतम्।
शिखा घ्राणेन्द्रिये विद्धि वाक्तत्वे कवचं स्मृतम् ।। 36 ।।
पाणितत्त्वे भवेन्नेत्रमस्त्रं पादाभिधस्य च।
पाय्वाख्यस्य च तत्त्वस्य सिह्ममन्त्रं परं स्मृतम् ।। 37 ।।
कापिलं विद्ध्युपस्थस्य शब्दे वाराह उच्यते।
स्पर्शे त्वध्यात्मरूपं च मन्त्रं कौस्तुभसंज्ञितम् ।। 38 ।।
रूपाक्यस्य तु मालाख्यं पद्मं विद्धि रसस्य च।
शङ्खमन्त्रस्तु गन्धस्य चक्रं नभसि नारद ।। 39 ।।
गदामन्त्रः स्मृतो वायोरग्नेर्गारुड उच्यते।
अप्तत्त्वस्य तु पाशाख्यो भूमेरङ्‌कुशसंज्ञितः ।। 40 ।।
वैतत्येनोदिता मन्त्राः सतत्त्वा वितते क्रमे।
दीक्षाकर्मणि संक्षिप्ते मध्यमे विततेऽथ च ।। 41 ।।
यावन्न त्रितयं ज्ञातं तावद्दीक्षा न जायते।
एवमेष जगन्नाथो मन्त्रात्मा परमेश्वरः ।। 42 ।।
पञ्चविंशतितत्त्वेषु तत्त्वबीजेषु चैव हि।
स्थितो ह्यधिष्ठातृत्वेन परत्वेन महामते ।। 43 ।।
ऊर्ध्वे सप्ताक्षरं विप्र स्थिता नारायणी स्थितिः।
या ह्येव कथिता पूर्वं त्रिधा सैव तु नान्यथा ।। 44 ।।
[तथाभूतस्य मन्त्रात्मनः परमेश्वरस्य विशेषतस्त्र्यक्षरे मन्त्रे सान्निद्यनिरूपणम्]
स्थितीस्सर्वाश्च संहृत्य विशेषेण व्यवस्थितः।
परं(र ?)सूक्ष्मयुतं(त ?)स्थूलरूपेण त्र्यक्षरे सदा ।। 45 ।।
मन्त्रे ह्यनुग्रहार्थस्तु भविता भावितात्मनाम्।
[वक्ष्यमाणदीक्षाङ्गभूततत्त्वशोधने त्र्यक्षरस्य मन्त्रस्य विनियोगभेदः] 16-9
त्रिरुच्चारेण वै कुर्याद्दीक्षां वा तेन नारद ।। 46 ।।
ईशप्रदानतन्मात्रसन्धाने शोधने सति।
द्विरुच्चारेण वा कुर्यादीशप्रकृतियोगतः ।। 47 ।।
प्रकृतिर्व्द्यक्षरो(रे?)शोध्या(1) प्रणवेनेश्वरस्तथा।
[सप्ताक्षरमन्त्रेणेश्वरतत्त्वसंशोधनप्रकारः सोपपत्तिकः] 16-10
सप्तार्णेनेश्वरं वाथ एकोच्चारेण शोधयेत् ।। 48 ।।
(1. च्चार्य Y.)
मन्त्रा यतोऽखिलास्तस्मिन्पिण्‍डे तत्त्वानि चेश्वरे।
इत्येवं विष्णुतत्त्वं तु व्यापकत्वेन संस्थितम् ।। 49 ।।
ज्ञात्वा सम्यक्ततो दीक्षां मन्त्रैः कुर्याद्द्विजाखिलैः।
यतः परेण विभुना सर्वे मन्त्रा अधिष्ठिताः ।। 50 ।।
[शिष्यलक्षणपरीक्षणपूर्वकं शिष्याणां दीक्षितव्यता] 16-11
परिक्ष्य तन्नियुक्तांस्तु ब्रह्मचर्यस्थितान् शुचीन्।
दक्षान् जितेन्द्रियान्धीरान्गुरुदेवाग्नितत्परान् ।। 51 ।।
वर्णाश्रमगुणोपेतान्विनीतान् श्रद्धयाऽन्वितान्।
शिष्यांश्च भगवद्भक्तान् संसारानलखेदितान् ।। 52 ।।
दीक्षयेद्विधिना मन्त्री मन्त्रदीक्षादितः क्रमात्।
संस्थिताऽनेकभेदेन यथा तद्गदतः शृणु ।। 53 ।।
[सामान्यदीक्षायास्त्रैविध्यम्] 16-12
सर्वेषां केवलैर्मन्त्रैर्मान्त्री सामान्यलक्षणा।
तत्त्वैर्बीजैस्तथा मन्त्रैर्ध्यानेन हवनेन च ।। 54 ।।
सामान्या हि(त्रि ?)विधा चान्या सर्वेषां भावितात्मनाम्।
संक्षिप्ता मध्यमा सा च तृतीया चातिविस्तरा ।। 55 ।।
[संक्षिप्तादित्रयस्य फलभेदः] 16-13
क( अ ?)ल्पकालं च संक्षिप्ता भोगं यच्छति सङ्कटम्।
मध्यमा मध्यमं भोगं तथा कालं प्रयच्छति ।। 56 ।।
अनन्तभोगफलदा भवेद्भोगाभिलाषिणाम्।
प्रभावाद्धोमपूजाभ्यां विस्तीर्णा कालमक्षयम् ।। 57 ।।
समत्वमपवर्गे तु भवेद्दीक्षात्रयस्य च।
[विशेषदीक्षायाः पञ्चविधत्वम्] 16-14
विशेषाख्या च या दीक्षा पञ्चधा सा व्यवस्थिता ।। 58 ।।
[पञ्चविधासु विशेषदीक्षासु प्रत्येकमधिकारिभेदनिरूपणम्]
प्रथमा समयज्ञानां बलानां विष्णुचेतसाम्।
भक्तानां कन्यकानां च द्वितीया पुत्रकेषु च ।। 59 ।।
तृतीया मोक्षमार्गस्था साधकानां तु वै सदा।
चतुर्थी मुनिशार्दूल ब्रह्मसायुज्यदायिका ।। 60 ।।
देशिकानां तु कर्तव्या अङ्गनानां तु पञ्चमी।
[संक्षिप्तमध्यमविस्तृतभेदभिन्नासु सामान्यदीक्षासु क्रमात्तत्त्वसंयोजनप्रकारभेदः] 16-15
एतासां क्रमशो वक्ष्ये समत्वं तत्त्वसंग्रहम् ।। 61 ।।
येन विज्ञातमात्रेण दीक्षा सम्यक्प्रवर्तते।
संहारक्रमयोगेन मन्त्रराशित्रयं च यत् ।। 62 ।।
प्रागुक्तं योजनीयं तत्तृतीये (त्रितयं ?) बीजसंयुते(तम् ?)।
तन्मात्रके प्रधाने च ईश्वराख्ये च शुद्धये ।। 63 ।।
राशित्रयस्य यो भेदः कथितो नवधा पुरा।
अङ्कुशात्सप्तवर्णान्तं तन्मात्रेषु च पञ्चसु ।। 64 ।।
अहङ्कारे तथा बुद्धौ प्रकृतौ चेश्वरे च वै।
तया संहृतियुक्त्या वै गन्धमात्रादितः क्रमात् ।। 65 ।।
विस्तीर्णायां तृतीयायां यदध्यात्मादिनोदितम्।
क्रमः स एव बोद्धव्यः सृष्टिसंहारयोगतः ।। 66 ।।
सामान्यत्रितयस्येदं दीक्षायोगस्य लक्षणम्।
[अथ विशेषदीक्षापञ्चकभेदे प्रत्येकं मन्त्रैस्तत्त्वसंयोजनप्रकारभेदः] 16-16
पञ्चकस्याधुना विद्धि विशेषाख्यस्य नारद ।। 67 ।।
त्र्यक्षरं पदभेदेन मूर्तिमन्त्रसमन्वितम्।
संक्षिप्ते तत्त्वजाले तु योजनीयं क्रमेण तु ।। 68 ।।
तन्मात्राणां च ह्रीं स्वाहा पञ्चानां तु सकृन्न्यसेत्।
विश्वात्मने पदं यच्च द्वितीयं तदहङ्कृतौ ।। 69 ।।
नारायणाय बुद्धौ तु तृतीयं योजने(येत् ?)स्मरन्।
नमः प्रधानतत्वे तु त्र्यक्षरं चेश्वरे ततः ।। 70 ।।
विशेषपञ्चकस्यैषा प्रथमा परिकीर्तिता।
द्वितीयं शृणु विप्रेन्द्र सर्वसिद्धिप्रदा हि या ।। 71 ।।
गन्धतन्मात्रपूर्वाणि हृदयाद्यैरनुक्रमात्।
अहङ्कारं तु नेत्रेण(?) बुद्धिं जीवेन शोधयेत् ।। 72 ।।
प्रधानं मध्यमेनैव देवीनां हृदयेन तु।
ईश्वरं प्रणवेनैव कुर्यात्तत्रैव योजनम् ।। 73 ।।
पुत्रकाणां स्मृता दीक्षा विधिनाऽनेन नारद।
साधकानां तु वक्ष्यामि तत्त्वशुद्धौ क्रमेण तु ।। 74 ।।
संशोध्य गन्धतन्मात्रं वक्रमन्त्रत्रयेण तु।
रसाख्यमङ्गषट्केन रूपमात्रं च शक्तिभिः ।। 75 ।।
समस्तमूलमन्त्रेण शोधयेत्स्पर्शसंज्ञितम्।
संशोध्य शब्दतन्मात्रमनिरुद्धेन नारद ।। 76 ।।
प्रद्युम्नेन त्वहङ्कारं बुद्धिं सङ्कर्षणेन च।
प्रदानं वासुदेवेन ततः सत्येन चेश्वरम् ।। 77 ।।
शोधयेत्साधकस्यैवं तत्त्वं सद्वैष्णवस्य च।
दीक्षार्थं तत्त्वसंशुद्धौ गुरोर्मन्त्रानथो शृणु ।। 78 ।।
दशभिस्सास्त्रमन्त्रैस्तु गन्धमात्रं तु संहरेत्।
लोकेशाद्यै रसाख्यं तु रूपाख्यं कौस्तु भादिकैः ।। 79 ।।
स्पर्शसंज्ञं त्रिभिर्वक्रैर्हृदाद्यैः शब्दसंज्ञितम्।
लक्ष्म्याद्यैरप्यहङ्कारं बुद्धिं मूलेन शोधयेत् ।। 80 ।।
प्रधानमथ सत्याद्यैः पञ्चभिः परिशोध्य च।
सप्ताक्षरेण मन्त्रेण शोधयेदीश्वरं ततः ।। 81 ।।
क्रम एष हि दीक्षायामाचार्याणामुदाहृतः।
स्त्रीणां तु भोगसिद्ध्यर्थं शृणु दीक्षाक्रमं मम ।। 82 ।।
पुरुषं प्रथमे तत्त्वे योजयेद्गन्धसंज्ञिते।
रसतन्मात्रसंज्ञेऽथ सत्त्यं चैव द्वितीयके ।। 83 ।।
अच्युतं च तृतीये तु वासुदेवं चतुर्थके।
सकलेन तु रूपेण एतदादौ चतुष्टयम् ।। 84 ।।
योजनीयं च मन्त्राणां चतुस्तन्मात्रशुद्धये।
पञ्चमेचानिरुद्धं तु षष्ठे योज्यः पुनः प्रभुः ।। 85 ।।
प्रद्युम्नस्तु विशालाक्षस्ततः सङ्कर्षणः परे।
निष्कलस्सप्तमे योज्यो देव्यो योज्यास्तथाऽष्टमे ।। 86 ।।
नवमे तु महातत्त्वे ध्यायेन्नारायणं प्रभुम्।
त्र्यक्षरेण तु मन्त्रेण त्रिदैवत्यं जगद्गुरुम् ।। 87 ।।
एवं तत्त्वसमूहस्थं ज्ञात्वा मन्त्रगणं पुरा।
प्रारभेत ततो दीक्षां सुशुभे दिवसे गुरुः ।। 88 ।।
[दीक्षायां प्रशस्तास्तिथयः] 16-17
यद्यप्युक्ता मया विप्र तिथयः पूजने पुरा।
तथाऽपि द्वादशी श्रेष्ठा दीक्षायां पूजने हरेः ।। 89 ।।
सर्वं दशम्यामाहृत्य यागौपकरणं तु वै।
[स्नानादिनियमपूर्वकं यागशालाप्रवेशः] 16-18
प्राग्वत्स्नात्वा समाचम्य कृतन्यासस्स्मरेद्धरिम् ।। 90 ।।
पुष्पार्घ्यतोयहस्तश्च संविशेद्यागमन्दिरम्।
[नृसिंह्यमन्त्रादिभिरभिमन्त्रितानां सिद्धार्थकानां यागशालायां परितः प्रक्षेपः]
नृसिंह्ममन्त्रेणास्त्रेण सचक्रेणाभिमन्त्र्य च ।। 91 ।।
सिद्धार्थकान्क्षिपेत्पश्चादूर्ध्वेऽधो दिग्विदुक्षु च।
[स्वमन्त्रेण गदास्थापनम्] 16-19
प्राकाराकारदेहां च नानाज्वालासमावृताम् ।। 92 ।।
शक्तिरूपां गदां तत्र स्वमन्त्रेण तु विन्यसेत्।
[सत्याद्यभिमन्त्रितेन पञ्चगव्येन त्र्यक्षरमन्त्रेण सर्वद्रव्यप्रोक्षणम्] 16-20
पात्रे चाभिनवे कुर्यात्संमिश्रसलिलेन च ।। 93 ।।
सत्यादिपञ्चकेनाथ पञ्चगव्यं तु मन्त्रयेत्।
त्र्यक्षरेण तु मूलेन सर्वं संप्रोक्ष्य तेन वै ।। 94 ।।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि।
[कलशविधिः] 16-21
अथादाय दृढं शुभ्रमेकरूपं च निर्व्रणम् ।। 95 ।।
कलशं मृण्मयं रम्यं सौवर्णं चाथ राजतम्।
रत्नहाटकसद्गन्धफलसर्वौषधीयुतम् ।। 96 ।।
शुभपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम्।
गालितोदकसंपूर्णं वारिधारान्वितं शुभम् ।। 97 ।।
चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम्।
[यथाविधि मन्त्रस्य साङ्गस्य पूजनीयत्वविधानम्]
मन्त्रपीठोपरि ब्रह्मन्साङ्गं सपरिवारकम् ।। 98 ।।
मन्त्रं पूर्वोक्तविधिना पूजयेच्च यथाविधि।
[वर्धन्या अभिमन्त्रणम्]
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ।। 99 ।।
तत्र चक्तस्थितं चास्त्रं यजेन्नारायणात्मकम्।
[वर्धनीस्थसलिलधारया भित्तिसंसेचनपूर्वकं कलशस्य भ्रामणविधिः]
तया भित्तिगणं(1) सर्वं संसिच्याच्छिन्नधारया ।। 100 ।।
(1. अत्र भित्तिगणमिति वेदिर्लक्ष्यत इति प्रतिभाति! तथा च पाद्गे दीक्षाप्रकरणे- `अच्छिन्नधारया सिञ्चेद्वेदिकां परितोगुरु' रिति।)
प्रदक्षिणक्रमेणैवमीशकोणादितो द्विज।
पृष्ठतः कलशो भ्राम्यस्स्तुल्यकालं तु वा पृथक् ।। 101 ।।
[अथ भ्रामितस्य कलशस्य स्थापनविधिः]
शाल्यादिषु परिस्थाप्यः कलशो वर्धनीयुतः।
ईशदिक्संमुखं चाथ पुष्पाद्यैः पूजयेत्पुनः ।। 102 ।।
[स्थापितस्य कलशस्य पूजनम्]
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै।
धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च ।। 103 ।।
पूजां कृत्वाऽथ पुष्पाद्यैः
[स्थण्डिलेऽग्नौ च हरेर्यजनविधानम्] 16-22
स्थण्डिलेऽथ यजेद्धरिम्।
पूर्वोक्तेन विधानेन ततोग्नेर्मध्यतो यजेत् ।। 104 ।।
सन्तर्प्य पूर्वविधिना चरुं वै साधयेत्ततः।
[अथ चरुसाधनप्रकारः] 16-23
प्रक्षाल्य च पुराऽस्त्रेण गन्धैरालिप्य चान्तरात् ।। 105 ।।
क्षीरेण हविरापूर्य हृन्मन्त्रेण तु नारद।
लक्षयित्वा शृतं क्षीरं निक्षिपेत्तण्डुलांस्ततः ।। 106 ।।
शक्तिमन्त्रचतुष्केण चालयेत्सिह्ममूर्तिना।
सिद्धमुत्तारयेत्कुण्डान्मन्त्रेण कपिलात्मना ।। 107 ।।
प्रक्षाल्यालिप्य च ततो मन्त्रेण क्रोडमूर्तिना।
स्थगयेन्मूलमन्त्रेण
[सिद्धस्य चरोश्चतुर्धा विभज्य विनियोगविधानम्] 16-24
चतुर्धा संविभज्य तत् ।। 108 ।।
स्थण्डिलाराधितस्यादौ भागमेकं निवेद्य च।
मध्वाज्यसंप्लुतं कृत्वा द्वितीयं कलशस्थिते ।। 109 ।।
तृतीयं भागमादाय तमग्निस्थे तु होमयेत्।
परिवारे बलिं दद्यात्स्थलेशकलशावधौ(?) ।। 110 ।।
[स्थण्डिलादिस्थानत्रये देवस्य पुनः पूजनम्]
मुद्रां बध्वा ततो जप्त्वा पुष्पाद्यैः पूजयेत्पुनः।
त्रिस्थानस्थं क्रमाद्देवं शिष्यानाहूय मण्डितान् ।। 111 ।।
[शिष्याणां प्रोक्षणम्] 16-25
सुस्नातान्धौतवस्त्रांश्च पवित्रीकृतविग्रहान्।
द्वारदेशस्थितान्कृत्वा बहिर्वासान्तरे(1) द्विज ।। 112 ।।
(1. संकटे Y.)
प्रोक्षयेदर्घ्यपात्रात्तु प्रागस्त्रेण तु नारद।
[अथ सर्वाङ्गसंस्पर्शः]
सर्वाङ्गालभनं कुर्याच्छाखाजप्तैः पदैः क्रमात् ।। 113 ।।
[अभिमन्त्रितस्यार्घ्यपुष्पस्य शिरसि प्रक्षेपः]
दत्वाऽर्ध्यपुष्पं शिरसि शिरोमन्त्राभिमन्त्रितम्।
[शिष्याणां मन्त्रमयशरीरत्वापादनम्]
दहनोत्पादनं कुर्यात्पूर्ववत्क्रमयोगतः ।। 114 ।।
ततस्तेषां विधानेन कुर्यान्मन्त्रमयीं तनुम्।
[गुरुणा शिष्ये कर्तव्यो भावनाविशेषः] 16-26
यथाऽऽत्मनि पुरा देवे यथाऽग्नौ कलशे यथा ।। 115 ।।
शिष्यस्य च तथा ध्यायेत्सकलान्निष्कलात्परम्।
परं च त्र्यक्षरेणैव केवलेन तु नारद ।। 116 ।।
संस्कारस्सकलः प्रोक्तः शङ्खचक्रगदाधरः।
निष्कलः शक्तिरूपस्तु मध्यमो मन्त्रनायकः ।। 117 ।।
परःशक्त्यवसानस्तु प्रणमात्मा (वात्मा(1) ?) व्यवस्थितः।
सकलाधिष्ठिता व्यक्ता प्रकृतिः स्पष्टरूपिणी ।। 118 ।।
(1. परवात्मा Y. एतत्पाठानुगुणस्तु परमात्मेति पाठः प्रतिभाति.)
निष्कलाधिष्ठितं ज्ञेयमव्यक्तं पुरुषीश्चितिम्(?)
मन्त्ररूपेण देवेन सदसद्व्यक्तिरूपिणा ।। 119 ।।
परेणाधिष्ठितं सर्वं व्यक्ताव्यक्तं चिदात्मकम्।
[स्वस्य शिष्यस्य चोक्तप्रकारेणैकीभावं भावयतो गुरोरेव संसारविमोचकत्वोक्तिः] 16-27
एवं देवं स्वमात्मानं शिष्यं च पुरुषात्मकम् ।। 120 ।।
एकीभावेन यो वेत्ति न्यासकाले परस्य तु।
दीक्षाधिवासने विप्र स संसाराद्विमोचकः ।। 121 ।।
[मत्रमूर्तेर्भगवतः सन्निधौ विज्ञापनम्] 16-28
विज्ञाप्यश्चाथ भगवान्स्थलस्थो मन्त्रविग्रहः।
सबन्धान्वैषयैः पाशैः विदेहं (विवशान् ?) पशुपक्षिवत् ।। 122 ।।
त्वदनुग्रहसामर्थ्यान्मोक्षयामि जगद्गुरो।
विज्ञाप्यो भगवनेवं विनिवेद्य पशू(?)न्विभोः ।। 123 ।।
पुत्राः शिष्यास्तथा भृत्यास्तथै(वै?)व परमेश्वर।
[अहतेन वाससा शिष्यस्य नेत्रबन्धनम्]
वाससा ह्यहतेनाथ शुद्धेन सुसितेन च ।। 124 ।।
नेत्रमन्त्राभिजप्तेन नेत्रे शिष्यस्य बन्धयेत्।
[पिनद्धनेत्रस्य शिष्यस्य हस्तेन पुष्पाञ्जलिप्रक्षेपणम्]
अमन्त्रं क्षेपयेच्चातो विष्णोः पुष्पाञ्जलिं स्थले ।। 125 ।।
[पुष्पाञ्जलिपतनानुसारेण शिष्यस्य नामकरणम्] 16-29
यत्र सा पतति ब्रह्मन्बुद्धिसङ्कल्पितेऽम्वुजे।
नवधा विभजेत्प्राग्वत्तन्नामानं तमङ्कयेत् ।। 126 ।।
विष्णुशब्दान्वितेनैव पति(ति?)संज्ञायुतेन च।
[अमन्त्रकं कलशपूजनम्]
अमन्त्रमर्चयेत्पश्चात्कलशं सास्त्रवर्धनीम् ।। 127 ।।
[(1)मायासूत्रविधाननिरूपणम्] 16-30
(1. इदं सूत्रं पाद्भे `मायासूत्रेण वेष्टयेदि'ति मायासूत्रमिति परिभाष्यते। इहचानुपदमव्यक्त लिङ्गसूत्रमिति च सूच्यते।)
सुसितं सूत्रमादाय लाक्षालक्तकभावितम्।
[तत्र सूत्रमानम्]
सम्मुखं चोत्थितं शिष्यं समपादशिरोन्नतम् ।। 128 ।।
कृत्वाऽङ्गुष्ठद्वयस्याग्रात्समारभ्य द्विजोत्तम।
यावच्छिखावसानं तु सूत्रमानं समाहरेत् ।। 129 ।।
[तस्य सूत्रस्यैकगुणद्विगुणत्वाद्यन्यतमविधानम्]
कुर्यादेकगुणं तद्वै द्विगुणं त्रिगुणं तु वा।
त्रित्रिस्थगुणितं वाथ पञ्चविंशतिधा तु वा ।। 130 ।।
[तस्य सूत्रस्य संर्वविकारप्रकृतिभूताव्यक्तत्वेनभावनम्]
अव्यक्तलिङ्गसूत्रं तु प्रागविद्याकलात्मकम्।
नित्यं जडं व्यापकं च तस्मिन्विश्वं प्रतिष्ठितम् ।। 131 ।।
तत्राप्त(स्त?)मयते भूयस्तस्माद्वै संप्रवर्तते।
तत्रस्थां चिन्तयेत्सर्वामभिन्नां तत्त्ववर्धनीम् ।। 132 ।।
तत्रोद्भवास्तु ये विप्र पाशबन्धात्मका दृढाः।
रागेण रञ्जिताश्चित्रा अविद्यासंप्रदीपिताः ।। 133 ।।
विच्छिन्नाश्चैव कालेन नियता व्यापकास्तथा।
[तस्य सूत्रस्यैकद्वित्र्याद्यन्यतमप्रकारेण तत्त्वसङ्ख्याक्रमेण यथेच्छं ग्रंथनम्]
तत्त्वसङ्ख्याक्रमेणैव ग्रथयेत्तद्विजेच्छया ।। 134 ।।
एकधा वा द्विधा चैव त्रिधा वा नवधा मुने।
संक्षिप्तं विस्तरेणाथ ग्रथयेत्पञ्चपञ्चधा ।। 135 ।।
[भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थं शिष्यशरीरतया भाविते सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम्] 16-31
तत्त्वसृष्टिक्रमेणैव शिखाग्राच्चरणावधि।
भविष्यत्फलदेहेऽसौ (स्य ?) कृतकृत्यस्य कर्मणः ।। 136 ।।
कल्पयित्वा तु होतव्यो मन्त्रैर्निमूलकारणम्।
भोगमोक्षप्रसक्तस्य बाधन्ते न यथा पुनः ।। 137 ।।
कदाचिद्देहपादाद्यैः कर्माणि मुनिसत्तम।
अनिच्छमानस्य बलाज्जन्तोः संप्रेयरन्ति च ।। 138 ।।
सेश्वरे प्राकृते देहे स हि कर्मास्पदो यतः।
आश्रयस्य त्वभावेन कर्माण्युपशमन्ति च ।। 139 ।।
स्वयमेव यथावह्नेर्ज्वालाद्या इन्धनं विना।
भोगासक्तस्य वै जन्तोरन्ते मोक्षाभिकांक्षिणः ।। 140 ।।
संविधानमिदं कुर्यान्न निर्वाणाश्रितस्य च।
[सूत्रं कुंढसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्त्वानां संक्षेपविस्ताराभ्यां पूर्वोक्तैकद्वित्र्यादिग्रन्थनप्रकारविकल्पानुगुणं स्मरणप्रकारः] 16-32
साधुपर्णपुटे सूत्रं कृत्वा तं मल्लकेऽथ वा ।। 141 ।।
प्रयायात्कुण्डनिकटं सह शिष्येण वै गुरुः।
निधाय कुण्डनिकटे देहे शैष्येऽथ सौत्रके ।। 142 ।।
तत्त्वसङ्घं स्मरेद्भिन्नं स्पष्टं सृष्टिक्रमेण तु।
केवलं चेश्वरं वाथ तं प्रधानान्वितं तु वै ।। 143 ।।
ते द्वे तन्मात्रकं वर्गमेकं च बहुधात्मकम्।
ईश्वरं प्रकृतिं मेधामहङ्कारादिकं गणम् ।। 144 ।।
नवधा वा मुनिश्रेष्ठ विस्तारेणाथ चिन्तयेत्।
ईश्वराच्च प्रथिव्यन्तं यथा चानुक्रमेण वा ।। 145 ।।
ललाटादङ्घ्रिपर्यन्तं स्थानभेदेन नारद।
व्यापकत्वेन वै तत्त्वं सर्वेषां च लयं गतम् ।। 146 ।।
[तत्त्वगणस्य दीपालोकयोरिवापृथग्भावलक्षणमैक्यम्]
प्रदीपाच्च यथा गेहे बहवस्स्थानभेदकाः।
दृश्यते(न्ते ?)च तदुद्भूतआलोकोन विभाव्यते ।। 147 ।।
व्यापकत्वात्पृथग्रपमेवं तत्त्वगणं मुने।
अपृथक्च पृथग्भूतं संमिश्रं तु विभावयेत् ।। 148 ।।
यथावज्ज्ञानदृष्ट्या तु बुद्ध्या संशोध्य योजयेत्।
एवमेवापृथग्विद्धि भेदमेकस्य तं प्रति ।। 149 ।।
दिक्संस्थितस्य यच्चैक्यं मिश्रीभूतत्वमेव हि।
[तत्रैकधाग्रन्थनपक्षे]
एकोच्चारप्रयोगेण ईशं सर्वत्र भावयेत् ।। 150 ।।
[द्विधा ग्रन्थनपक्षे]
द्विरुच्चारप्रयोगेण ईश्वरं तु (1)विभावयेत्।
व्यक्तौ प्रधानतत्त्वं तु व्यापकं देहरूपधृत् ।। 151 ।।
(1. विभावयेत् (हृदन्तरे) Y. C L. S.)
[त्रिधा ग्रन्थनपक्षे]
त्रिरुच्चारेण चामूर्ध्नो हृदयान्तं स्मरेद्विभुम्।
हृदयान्नाभिपर्यन्तं प्रधानं परिभावयेत् ।। 152 ।।
आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम्।
[नवधा ग्रन्थनपक्षे]
नवधा मुनिशार्दूल एवमेव क्रमं शृणु ।। 153 ।।
आकर्णादीश्वरं मूर्ध्नि प्रधानं वक्षसोऽन्तरे।
नाभौ बुद्धिमहङ्कारं कन्दमूलाश्रितं स्मरेत् ।। 154 ।।
ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं सन्धिदेशजम्।
जङ्घाभ्यां रूपतन्मात्रं गुल्फयोरससंज्ञितम् ।। 155 ।।
पादाभ्यां गन्धसंज्ञं तु सबीजं ध्यानसंयुतम्।
स्मरेद्देहे शिशोस्सूत्रे नवग्रन्थिसमायुते ।। 156 ।।
ध्यायेद्ध्याता धरान्तं वा दीक्षाकाले ह्युपस्थिते।
[अथ तत्त्वानां होमः] 16-33
ललाटे चेश्वरं साक्षाच्चिद्रूपं सर्वतो मुखम् ।। 157 ।।
समग्रैश्वर्यसंपूर्णं स्वबीजेन महामते।
तद्वदेव हि शिष्यस्य ध्वात्वा तदनु होमयेत् ।। 158 ।।
स्वबीजेन शतं साष्टं तदर्धं त्र्यंशमेव वा।
तत्पादमथ पादार्धं ज्ञात्वाव्यक्तबलं तु वै ।। 159 ।।
हुत्वाऽथ हविषाऽऽपूर्य स्रवं तेन हुने(?)च्छिशुम्।
मूर्ध्नि पूर्णोपमं कुण्डे स्वाहान्तं तु विनिक्षिपेत् ।। 160 ।।
सूत्रग(ग्र ?)न्धावथोर्ध्वस्थे तत्तत्वं भावयेत्तथा।
एवमीश्वरसंपातं होमं कृत्वा समासतः ।। 161 ।।
प्रधानं च भुवोर्मध्ये स्वमन्त्रेण तु भावयेत्।
सिन्दूरपुञ्जसङ्काशं होमयेत्तद्वदेव हि ।। 162 ।।
सितेन्दुरश्मिवर्णाभां तालुमध्ये धियं स्मरेत्।
कुसुम्भरससङ्काशं खद्योतमिव खेचरम् ।। 163 ।।
तालुमूले त्वहङ्कारं तालुकर्णान्तरे ततः।
राजोपलद्युति मुषंषः (माकृतेः ?) कदम्बकुसुमोपम् ।। 164 ।।
मनसश्चानुसन्धानं कुर्यात्सन्तर्प्य पूर्ववत्।
कर्णाद्धृत्पद्मर्पयन्तं स्मरेत्पञ्चपदे समे ।। 165 ।।
श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान्।
स्वैः स्वैर्बीजैश्च पूर्वोक्तैर्ध्यात्वा सन्तर्प्य पूर्ववत् ।। 166 ।।
तत्स्थाना .... .... .... ....
स्पन्द (पद्मा) स्थानाच्च नाभ्यन्तं प्राग्वत्पञ्चपदान्तरे।
वागादीन्वै स्थितान् पञ्च बीजैः स्वैः पूर्ववत्स्मरेत् ।। 167 ।।
अनुक्रमेण चैकैकमुच्चार्य जुहुयान्न्यसेत्।
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ।। 168 ।।
शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः।
स्वैःस्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिःप्रभाणि तु ।। 169 ।।
ऊरुमूले तथा मध्ये बुद्धिदेशे(?)ततस्त्वधः।
दण्डे मर्मावसाने तु(?)सर्वस्मिंश्चरणे क्रमात् ।। 170 ।।
खवाय्वग्न्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम्।
नि(नी?)रूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम् ।। 171 ।।
वायव्यं नीलपीतञ्च तैजसं मधुपिङ्गलम्।
मुक्ताफलनिभं चाप्यं रत्नपीतं तु पार्थिवम् ।। 172 ।।
सध्यानद्रष्टा चोङ्कारं बीजं तदनु वै नमः।
तत्रैव काले होमार्थं बीजं प्रणवपूर्वकम् ।। 173 ।।
तत्तत्सज्ञं ततः स्वाहा संपाते त्वीदृशो विधिः।
[संपातहोमः ?] 16-34
तुर्यातीतपदावस्थो गुरुः कुर्यादनुग्रहम् ।। 174 ।।
एकोच्चारेण शिष्यस्य क्रियामप्यपरित्यजन्।
द्विरुच्चारेण तुर्यस्थः सुषुप्तावस्थगस्त्रिभिः ।। 175 ।।
नवभिस्स्वप्नभूमिष्ठो जाग्रत्स्थानोऽखिलैर्जुहेत्।
एकधा वा द्विधा त्रेधा पञ्चधा पञ्चपञ्चधा ।। 176 ।।
हुत्वा संपातहोमार्थं सर्वद्वन्द्वोपशान्तये।
कुर्यात्पूर्णाहुतिं चैव होमान्ते बीजसन्ततम् ।। 177 ।।
समूलमन्त्रं संस्मृत्य वौषडन्तं महामुने।
यः पुमान् जीवसंज्ञस्तु तस्यैता भोगभूमयः ।। 178 ।।
ऊर्ध्वाधोभ्यामविश्रान्तस्तावत्कुर्याद्गमागमम्।
यावन्न गुरुणा सम्यङ्‌मन्त्रमूर्त्तौ नियोजितः ।। 179 ।।
तत्स्थितो भगवच्छक्तिकिरणैस्चामलीकृतः।
निर्मलो मलसोपानपदवीं न व्रजेत्पुनः ।। 180 ।।
एवं संपातहोमं तु संपाद्य च पुरा मुने।
विधाय तत्त्वसूत्रं तु पात्रेणैवापरेण तु ।। 181 ।।
संवेष्ट्य सितसूत्रेण गत्वाऽथ विनिवेद्य च।
[रजोघटिकाकर्तर्याद्युपकरणद्रव्याणामासादनादिसंस्कारः] 16-35
कुम्भाग्रे वायुकोणे वा रजांसि घटिकां तथा ।। 182 ।।
कर्त्तरीं शालिपूर्णां तु सूत्रं किरणसंज्ञितम्।
सौवर्णीं राजतीं चैव शलाकां ताम्रजामथ ।। 183 ।।
धूपदीपादिकं सर्वं मूलमन्त्रेण नारद।
संपूज्याथ परामृश्य निरीक्ष्याच्छाद्य वाससा ।। 184 ।।
[बलिहरणम्] 16-36
ततश्शिष्यसमायुक्तो द्वाराद्बाह्यं व्रजेद्गुरुः।
भूतानि दूरतोऽस्त्रेण प्रेर्य चैव बलिं क्षिपेत् ।। 185 ।।
तोयतण्डुलसिद्धार्थदधिजालसमन्वितम्।
[परिखालेखनम्] 16-37
शङ्कुनाऽस्त्राभिजप्तेन परितः परिखां लिखेत् ।। 186 ।।
समाचम्योपविश्याथ प्राङ्‌मुखो वाप्युदङ्मुखः।
[पञ्चगव्यप्रदानम्] 16-38
अनुक्रमेण शिष्याणां वर्णतो व्यवहारतः ।। 187 ।।
पञ्चगव्यमथो दद्याद्दुर्भुक्तानां विशुद्धये।
[चरुशेषभक्षणम्] 16-39
आचम्य चरुशेषं तु अश्नीयाच्छिष्यसंयुतः ।। 188 ।।
[अथ दन्तकाष्ठचर्वणतत्प्रक्षेपणविधानम्] 16-40
भुत्त्काऽस्त्रेणाभिमन्त्र्याथ दन्तकाष्ठं तु भक्षयेत्।
[अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः] 16-41
नवाष्टसप्तषट्पञ्चाङ्गुलैर्ब्राह्मणपूर्वकम् ।। 189 ।।
दद्यात्स्त्रीबालपर्यन्तं गुरोर्वै द्वादशाङ्गुलम्।
एकापायेन चैतस्मात् समयज्ञावसानतः ।। 190 ।।
भक्षयित्वा विनिक्षिप्य तौ(सं?)क्षाल्य प्रयतस्ततः।
स्पष्टं कृत्वा (1)खवक्त्रं तु अग्रपातं विलोक्य च ।। 191 ।।
(1. घवस्रं A.)
[शुभाशुभपरिज्ञानम्] 16-42
उदक्पश्चिमऐशानप्राङ्‌मुखं पतितं तु वा।
शुभं शेषासु विप्रेन्द्र दिक्षु चाशुभमादिशेत् ।। 192 ।।
सदोषाश्चाशुभे पाते निर्दोषाश्च शुभे स्मृताः।
[अशुभशान्त्यर्थो होमः] 16-43
तत्राशुभोपशान्त्यर्थं प्रभाते जुहुयाद्गुरुः ।। 193 ।।
शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज।
मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानथ ।। 194 ।।
अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन तु।
दोषं जहि जहीत्येव पदं नामावसानगम् ।। 195 ।।
[अथ शयनविधिः] 16-44
आचम्य पाणिपादं तु प्रक्षाल्य शिशुना सह।
सर्वं प्रदक्षणीकृत्य त्रिस्थानस्थक्रमेण तु ।। 196 ।।
प्राग्दक्षिणशिरो वाऽथ शयनं कल्पयेद्गुरु।
दर्भांस्तत्रास्त्रमन्त्रेण क्षिपेत्सिद्धार्थकांस्तथा ।। 197 ।।
भगवन्तं स्मरंस्तत्र नारायणमजं विभुम्।
उपोष्य रजनीमेकां नियमस्थां तु कारयेत् ।। 198 ।।
शतमावर्तयेन्मन्त्रमर्धं पादं तु शक्तितः।
[स्वप्नाधिपतिमन्त्रः] 16-45
ओंकारः प्राक्ततः प्राणो लोकेशोपरि संस्थितः ।। 199 ।।
तदूर्ध्वे व्यापकं चान्द्रं ह्रीङ्कारस्तदनन्तरम्।
स्वप्नाधिपतये दद्यात्पदं चाथ षडक्षरम् ।। 200 ।।
रजनीश्वराय शब्दं वै विष्णवे त्र्यक्षरं ततः।
स्वाहा समन्वितो विंशत्यक्षरः स्वप्नमन्त्रराट् ।। 201 ।।
[अर्धरात्रे शयनादुत्थाय गुरुणा विधेयो विशेषः] 16-46
ततोऽर्धरात्रसमये उत्थाय शयनाद्गुरुः।
प्रक्षालिताङ्घ्रिपाणिश्च आचम्य न्यासमाचरेत् ।। 202 ।।
स्थलस्थं धूपयित्वाऽग्निमुत्थाप्यैकीकृतं स्मरेत्।
कुम्भस्थे मन्त्रमूर्तौ तु प्राग्वत्कुर्याच्च मण्डलम् ।। 203 ।।
शोभयेच्च तथा विप्र (1)दद्यादस्त्राभिमन्त्रितम्।
शराष्टकं बहिर्दिक्षु सफलं पुष्पमण्डितम् ।। 204 ।।
(1. विद्या Y.)
शराश्रितं त्रिधा छिन्नं सूत्रं वै पञ्चरङ्गकम्।
वस्त्रैः कृत्वा परिच्छन्नं यथान्यो नावलोकयेत् ।। 205 ।।
कृतो वा क्रियमाणो वा यस्मान्नापूजितो मुने।
दर्शनीयो रजःपातः कस्यचित्सिद्धिमिच्छता ।। 206 ।।
[प्रभाते शिष्याणामुद्बोधनम्]
प्रभाते बोधयेच्छिष्यान् स्वप्नं पृच्छेच्छुभाशुभम्।
[शुभाशुभस्वप्नभेदनिरूपणम्] 16-47
गुरुदेवद्विजाःकन्या गोगजाश्चाश्वकेसरी ।। 207 ।।
दर्पणं शङ्खभेर्यौ च तन्त्रीवाद्यं च रोद(शोभ ?)नम्।
ताम्बूलभक्षणं चैव तथा दध्यभिवन्दनम् ।। 208 ।।
सिद्धान्नमाममांसं च मद्यस्त्रीमदिरासवम्।
छत्रं यानं सितं वस्त्रं तथाऽन्यत् श्वेतचन्दनम् ।। 209 ।।
माल्यं मुक्ताफलैर्हारो भूयःपूर्णोदितश्शशी।
प्रचण्डकिरणः खस्थो निम्नगाऽथ महोदधिः ।। 210 ।।
प्रफुल्लपादपश्शाली कुङ्कुमं रोचना मधु।
लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् ।। 211 ।।
तपस्यन्वै तथाऽऽचार्यो गायन्ती च वराड्गना।
मनःप्रीतिकराश्चान्ये लोके शंसापदङ्गताः ।। 212 ।।
सर्वे स्वप्नाश्शुभा विद्धि सिद्धिमोक्षफलप्रदाः।
अतोऽन्ये विपरीताश्च मनसः खेददाश्च ये ।। 213 ।।
गर्हिता लोकविद्विष्टास्स्वप्नास्ते ह्यशुभावहाः।
[अशुभस्वप्नदोषपरिहाराय होमविधानम्] 16-48
पृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ।। 214 ।।
केवलेनाथवाऽऽज्येन सिंहमन्त्रेण शान्तये।
[न्यूनातिरिक्तप्रायश्चित्तार्थं होमस्य विधानम्] 16-49
सशिष्योऽथ गुरुस्स्नात्वा पूर्ववत्संप्रविश्य च ।। 215 ।।
ऊनातिरिक्तशान्त्यर्थं सर्वमन्त्रैश्च होमयेत्।
[पूर्वोक्तप्रकारेण मण्डलपूजनादि] 16-50
मण्डलं पूजयेत्पश्चात् पूर्वोक्तविधिना मुने ।। 216 ।।
सर्वं होमावसानं तु कृत्वा शिष्यान् प्रवेशयेत्।
[आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम्] 16-51
क्रमात् पुष्पाञ्जलिं कृत्वा बद्धनेत्रांश्च पूर्ववत् ।। 217 ।।
क्षेपयेच्च हिरण्याढ्यं मणिमुक्ताफलान्वितम्।
[उद्घाटितनेत्रैः शिष्यैः गुरुनमस्कारादेः कर्तव्यता] 16-52
उद्धाट्य नयने पश्चादखिलं संप्रदर्शयेत् ।। 218 ।।
गुरोर्वै पादपतनं कृत्वाऽष्टाङ्गेन भक्तितः।
प्रदक्षिणद्वयं कुर्यान्मण्डले नतमस्तकः ।। 219 ।।
व्रजेदग्नेस्समीपं तु उपविश्य ततो गुरुः।
[अथ गुरुणा कर्तव्यहोमविशेषविधानम् तत्र मन्त्रतृप्तिहोमः] 16-53
विन्यस्य वह्नेर्गेहे तु मन्त्रमण्डलमुत्तमम् ।। 220 ।।
स्वाहान्तान् होमयेद्भूयो मन्त्रान्विधिपुरस्सरान्।
देवीरङ्गानि सत्यास्त्रं ? तिलैराज्येन शक्तितः ।। 221 ।।
मन्त्राणां तर्पणं कृत्वा सर्वेषां मुनिसत्तम।
[मन्त्राधिकारहोमः] 16-54
दीक्षारम्भनिमित्तार्थं दशभागव्यवस्थया ।। 222 ।।
मन्त्रपूजाधिकारार्थं होमं कुर्यात्ततोऽपरम्।
प्रतिमन्त्रस्य जुहुयात् पञ्चपञ्चाहुतिक्रमात् ।। 223 ।।
अधिकारो भवत्येवं जपेऽग्नौ च श्रुतेऽर्चने।
[अथ मलशोधनहोमः] 16-55
दीक्षायां (1)मलशुद्ध्यर्थं मूलमन्त्रस्य वै शतम् ।। 224 ।।
(1. मध्य A.)
अष्टाधिकं घृतेनैव तिलेनापि यथेच्छया।
देवीनां पञ्चविंशेन त्वङ्गानां दशकेन तु ।। 225 ।।
सिंहादिष्वष्टकेनैव सप्तकेन ततो मुने।
विहितं कौस्तुभादीनां षड्भिस्सत्यादिषूदितम् ।। 226 ।।
सप्ताक्षरस्य मन्त्रस्य विहितं पञ्चकेन वै।
पूर्णाहुतिं घृतेनैव मूलमन्त्रेण पातयेत् ।। 227 ।।
तदा दीक्षा भवेच्छश्वन्मान्त्री सामान्यलक्षणा।
विना स्वरूपज्ञानेन यया सन्तारयेद्गुरुः ।। 228 ।।
मन्त्रैस्तु संपुटीकुर्यात् किन्तु संज्ञा(ज्ञां?)शिशोर्द्विज।
इत्येतन्मन्त्रदीक्षायां केवलायां समासतः ।। 229 ।।
[अथ दीक्षायां ज्ञातव्यविशेषविधानम्]
हवने लक्षणं प्रोक्तं सतत्त्वायामतश्शृणु।
दीक्षाकाले तु गुरुणा ज्ञातव्या तत्त्वपद्धतिः ।। 230 ।।
ज्ञेयानुष्ठानभावेन यथा तु सुकरो भवेत्।
मन्त्रशूद्धिप्रभावाच्च शुद्धो भवति वै गुरुः ।। 231 ।।
गुरुशुद्धिप्रभावाच्च मन्त्रग्रामो भवेत्स्थिरः।
प्रागुक्तेन विधानेन हवनादपि सन्धनात् ।। 232 ।।
दीक्षाकर्मणि विस्तीर्णे मध्यमे वाऽवाधारय।
[नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता] 16-56
गन्धतन्मात्रपूर्वैस्तु तन्मात्रैः शोधितैः क्रमात् ।। 233 ।।
भवन्त्यमी विशुद्धास्तु पृथिव्याद्याः खपञ्चमाः।
तेषामन्तर्गतौ ज्ञेयौ द्वौ वर्गाविन्द्रियात्मकौ ।। 234 ।।
कर्मेन्द्रियात्मकं पूर्वं ततो बुद्धीन्द्रियात्मकः।
एवं तन्मात्रशुद्ध्या वै विंशत्तत्वं विशोधितम् ।। 235 ।।
अहङ्कारेण शुद्धेन मनश्शुद्धिरिहोच्यते।
बुद्ध्या तु शुद्धया शुद्धाः प्रत्ययाः सविपर्ययाः ।। 236 ।।
प्रधानेन तु शुद्धेन व्यक्ताव्यक्तं तु शोधितम्।
ईश्वरेण तु शुद्धेन शुद्धश्चित्पुरुषो भवेत् ।। 237 ।।
अशोध्यं परमं तत्त्वं यत्र केवलतां व्रजेत्।
तत्रैव तु लयं कुर्यात्परब्रह्मस्वभावके ।। 238 ।।
ज्ञानदीक्षाक्रमेणैव तत्त्वशुद्धेरनन्तरम्।
एवं वेदविदां श्रेष्ठः पुरा ज्ञात्वा समासतः ।। 239 ।।
[मुमुक्षुशिष्याणां तत्त्वशोधने विशेषविधानम्]
मुमुक्षूणां च शिष्याणामध्वानं शोधयेत्क्रमात्।
यादृक्तद्विस्तरेणैव श्रुणुष्वावहितो मम ।। 240 ।।
[बह्वौ भाविते मन्त्रमयमूर्त्तिस्वरूपे शिष्यतत्त्वानामुपसंहरणप्रकारः] 16-57
वह्नौ तु व्योमवद्ध्यात्वा न्यस्तो मन्त्रगणो हि यः।
सर्वव्यापकरूपेण तन्मध्ये तत्त्वपद्धतिम् ।। 241 ।।
समग्रां योजयेद्ध्यात्वा तत्त्वात्तत्वं क्रमेण तु।
[निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः] 16-58
बद्धपद्मासनं शिष्यं कृत्वा चात्मसमीपगम् ।। 242 ।।
निरीक्ष्य पूर्ववत्प्रोक्ष्य मन्त्रहस्तेन संस्पृशेत्।
[अथ ततस्तत्वानां सृष्टिभावनम्] 16-59
ईश्वराद्धूमिपर्यन्तां पुरा पूर्वां तु वै त्रिधा ।। 243 ।।
सृष्टिं कुर्यात्स्वरूपस्थां तमेवमुपसंहरेत्।
ततः शिष्यतनौ सम्यक्सृष्टिं स्पष्टां स्मरेत्क्रमात् ।। 244 ।।
येन शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम्।
संबोधमावहत्याशु दीक्षाकाले ह्युपस्थिते ।। 245 ।।
[अथानुज्ञाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम्] 16-60
ततः कुंभस्थितं मन्त्रं गत्वा संप्रार्थ्य चेतसा।
लब्धानुज्ञस्समादाय पाशसूत्रं पुटस्थितम् ।। 246 ।।
यायात्कुण्डसमीपं तु तमुद्घाट्य निधाय वै।
[मूलमन्त्रेण होमः] 16-61
सहस्रेण शतेनाथ आहुतीनां तु तर्पयेत् ।। 247 ।।
मूलेन मगवन्तं तु परमं सृष्टिकारणम्।
पूर्णा दीक्षावसाने तु दातव्या मुनिसत्तम ।। 248 ।।
एकानेकप्रयोगाणां न तु कर्मणि कर्मणि।
[ताडनलक्षणं शिष्यशरीरशुद्धीकरणम्] 16-62
एकचित्तस्थितिं कृत्वा शिष्यरूपं समाधिना ।। 249 ।।
सांप्रतं मूलमन्त्रेण मन्त्रजापोत्थितेन तु।
प्रजप्य मूलमन्त्रेण पुष्पं तु बहशस्ततः ।। 250 ।।
हुं फट्कारान्तयुक्तेन हृदयं तस्य ताडयेत्।
संबोधमावहेच्छीघ्रं पिण्डमद्यगतस्य च ।। 251 ।।
[तत्त्वानां शोधनप्रकारः] 16-63
(1)क्ष्मातत्त्वे जननं पूर्वं चैतन्यस्य प्रकाशता।
सद्व्याप्तिभावना तस्मिन् स्वस्मिन्स्वस्मिन्स्थितस्य च ।। 252 ।।
(1. क्ष्मादितत्त्वानां प्रत्येकं क्रमाज्जनन-- (सूक्ष्मदेहतापादन) चैतन्यप्रकाशनव्याप्तिभावन--ऐश्वर्यं-भोग-तत्तृप्तितत्सभाप्ति-वियोजनसम्पादनपूर्वकं पूर्णया त-तन्मन्त्रेण कुण्डस्थे मन्त्रमूर्तावुपसंहारः कार्यं इति प्रकरणाशयः। अयमेव विषयः सात्त्वतसंहितायामेकोनविंशे परिच्छेदे `पूरकेण समाकृष्य शिष्यं ज्ञत्कमलाद्धृदि' इत्यादिना ग्रन्धसन्दर्भेण निरूपितः।)
मन्त्रसंबोधसामर्थ्यात्तत्रैश्वर्यपदं पुनः।
तद्भोगमपि चैश्वर्यात्तत्तृप्तिमथ भावयेत् ।। 253 ।।
जन्तोर्भोगसमाप्तिं तु भोगान्ते तु वियोजनम्।
अथोद्धारस्तु कर्तव्यस्तत्त्वात्तत्त्वे ह्यनुक्रमात् ।। 254 ।।
एवं तु विविधं कर्म तत्त्वे तत्त्वे विचिन्तयेत्।
प्रतितत्त्वं शतं हुत्त्वा आहुतीनां तु नारद ।। 255 ।।
मन्त्रयुक्तेन बीजेन सर्वतत्त्वानि होमयेत्।
अध्यात्ममन्त्रमुच्चार्य अस्येति द्व्यक्षरं परम् ।। 256 ।।
तदन्ते शिष्यसंज्ञां तु तत्त्वबीजमथोच्चरेत्।
बीजान्ते तत्त्वसंज्ञा च शोधयेति पदं ततः ।। 257 ।।
स्वाहां तदनु वै कुर्याश्र्छमं नयपदं ततः।
नमस्कारसमायुक्तो मन्त्रोऽयं होमकर्मणि ।। 258 ।।
चिन्तयेत्तत्वरत्नं तु शिष्यान् (शैष्यं ?) संस्मृत्य पार्थिवम्।
चैतन्यकरणेनापि निक्षिप्तं च स्रुचोऽग्रतः ।। 259 ।।
विभवव्यूहसूक्ष्मात्मा तदेव परिभावयेत्।
विकर्त्त्य पार्थिवग्रन्थिं सूत्रात्कुर्यात्स्रुचोऽग्रगम् ।। 260 ।।
नियोज्य पूर्णया चाग्नावङ्कुशेन तु नारद।
एवं संहारयोगेन परस्मिन्मन्त्रकारणे ।। 261 ।।
ज्वलद्रूपेऽग्निकुण्डस्थे क्ष्माख्यतत्वं (1)शमं नयेत्।
क्रमेणानेन विप्रेन्द्र अप्तत्त्वेऽपि प्रयुज्यते ।। 262 ।।
(1. विनिक्षिपेत् A.)
तद्द्वत्तदुपसंहृत्य पूर्णां पाशेन तस्य वै।
तेजसो गरुडेनैव गदयाप्यथ मारुते ।। 263 ।।
ततस्त्वाकाशसन्धाने पूर्णां चक्रेन निक्षिपेत्।
गन्धतन्मात्रशुध्द्यर्थं शङ्खमन्त्रेण नारद ।। 264 ।।
पूर्णां वै पद्ममन्त्रेण रसतन्मात्रशुद्धये।
रूपतन्मात्रशुद्ध्यर्थं मालामन्त्रेण निक्षिपेत् ।। 265 ।।
स्पर्शसंज्ञस्य विप्रेन्द्र कौस्तुभाख्येन योजयेत्।
शब्दतन्मात्रतत्त्वस्य वाराहेण समाचरेत् ।। 266 ।।
उपस्थतो वाङिनिष्ठानां पञ्चानां परियोजयेत्।
कापिलेनाथ सिह्मेन अस्त्रनेत्रेण वर्मणा ।। 267 ।।
कार्यं सदैव विप्रेन्द्र इन्द्रियाणामतः श्रुणु।
शिखया शिरसा चैव हृन्मन्त्रेणाथ मायया ।। 268 ।।
जयामन्त्रेण श्रोत्राख्य इन्द्रियान्तं लयक्रमात्।
आरभ्य घ्राणसंज्ञां च सततं पूर्णकर्मणि ।। 269 ।।
मनसः कीर्तिमन्त्रेण लक्ष्माख्येन त्वहङ्कृतेः।
समग्रमूलमन्त्रेण बुद्धेः पूर्णाहुतिं क्षिपेत् ।। 270 ।।
सत्यादिपञ्चकेनैव प्रकृतिं प्रलयन्नयेत्।
पुरुषञ्चेश्वरस्थाने शमन्नयति सर्वदा ।। 271 ।।
गुरुः सप्ताक्षरेणैव पूर्णाहुत्या प्रसन्नधीः।
ईश्वरात्तु परं तत्त्वं तत्त्वग्रामे न विद्यते ।। 272 ।।
पुमानीश्वरतत्वात्तु अधो यातः पदात्पदम्।
येनेश्वरस्वरूपस्सन्ननिशं प्रतिभाति वै ।। 273 ।।
तस्माद्दीक्षाक्रमेणैव तत्रोद्धृत्य पुनः क्षिपेत्।
लयस्तत्रैव कर्तव्यो भोगार्थंच शिशोस्तदा ।। 274 ।।
[गुरुणा कर्तव्यो भावनाविशेषः]
ईश्वराधारसंज्ञस्तु स्वात्मवान्दीक्षितः शुचिः।
ध्यायेन्निरक्षराकारं विश्वो विश्वात्मकस्त्वथ(1) ।। 275 ।।
(1. स्तथा Y.)
अनाधिनिधनं देवमच्युताच्युतविग्रहम्।
[भोगार्थपूर्णाहुतिप्रकारनिरूपणम्] 16-64
ध्यात्वा नारायणं पश्चात्मूलमन्त्रं विलोमतः ।। 276 ।।
परमामृतसंक्षुब्धरूपमोघं तु चामृतम्।
मुञ्चमानमनौपम्यमप्रतर्क्यमतीन्द्रियम् ।। 277 ।।
शशिसूर्यप्रतीकाशां विसर्गेण तु बन्धभृत्।
पूर्णाहुतिः प्रदातव्या वौषडन्तेन नारद ।। 278 ।।
एवं पूर्णाहुतिं दत्वा सम्भोगार्थमचन्तरम्।
[मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम्] 16-65
मोक्षार्थं पातयेदन्यां पूर्णां संपूर्णलक्षणाम् ।। 279 ।।
संशुद्धसर्वतत्त्वं तु ईश्वरादुर्ध्ववर्तिनम्।
अक्षरेण तु मन्त्रेण त्रिदैवत्यमिवाच्युतम् ।। 280 ।।
ध्यात्वा तु सकलं शिष्यमात्मानं निष्ळलं तथा।
पूर्णार्थमुद्यतं चाज्यं ध्यायेत्सकलनिष्कलम् ।। 281 ।।
शिष्यदेहं तथा कर्मभिन्नं भावनया पुरा।
ततः स्रुचोऽग्नो(ग्रे?) सन्धाय द्वे एकीकरणेन तु ।। 282 ।।
निष्कलेन स्वरूपेण शिष्याज्ये तु यथा पुरा।
कृत्वाऽऽचार्यस्वभावस्थं स्वचैतन्यं शनैः शनैः ।। 283 ।।
यावत्सुनिर्भरानन्दस्वानन्दपदमेति वै।
ततः स्वानन्दविश्रान्ते महानन्दातुलास्पदे ।। 284 ।।
षडूर्मिषङ्गुणातीतं मन्त्रमुद्राक्रमोज्झितम्।
स्वशक्तिवैभवं दिव्यं प्रतिभाव्याच्युतं गुरोः (रुः ?) ।। 285 ।।
ततो विज्ञानशब्दात्मपर्यन्तं रूपमुज्वलम्।
अनुच्चार्य (ध्याय ?) समुच्चार्य मन्त्रं सप्ताक्षरं द्विज ।। 286 ।।
पूर्णाहुतिं तदन्तेन वौषडन्तेन होमयेत्।
[ब्रह्मसमापत्तिहोमप्रकारः] 16-66
ततो ब्रह्मसमापत्तिंस्थित्यर्थं होमयेद्गुरुः ।। 287 ।।
प्रणवादिनमोन्तैस्तु दशभिस्तु महापदैः।
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।। 288 ।।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम्।
भवेद्दशदशाहुत्या तद्वत्पूर्णाहुतिं पुनः ।। 289 ।।
शिष्यं चैव तथात्मानं परं ध्यात्वा परं पुनः।
वौषडन्तं महापूर्णां तृतीयां पूर्ववत्क्षिपेत् ।। 290 ।।
क्षीरं क्षीरं यथा विप्र नीरमेकत्र चिन्तयेत्।
शिष्यं चैव तथाऽऽत्मानं विष्णुं सर्वगतं विभुम् ।। 291 ।।
निस्तरङ्गे मुनिश्रेष्ठ एकत्र समतां गतम्।
तदा स्यान्मुक्तिदा दीक्षा वैष्णवी मोक्षदाऽर्थदा ।। 292 ।।
तत्त्वसंहारयोगेन अपुनर्भवता मुने।
[सृष्टिक्रमेण संपादितानां तत्वानां शिष्यदेहे योजनम्] 16-67
अलुप्तानन्दविज्ञानब्रह्मशैलाग्रगो गुरुः ।। 293 ।।
पातयेत्सृष्टिमार्गेण दिव्यमन्त्रमयं पुरम्।
शिष्यः समाप्तहोमोऽयं कृतो विष्णुमयः पुरा ।। 294 ।।
विज्ञानवायुनाऽऽकृष्य निस्सृतं भावयेच्छनैः।
वासुदेवोदधेर्मध्यादायान्तं च पदात्पदम् ।। 295 ।।
(1)प्रवाहमौदकं यद्वत्सृष्टिमार्गे नियोज्य च।
.... मन्त्रे परे सूक्ष्मे तथा परे ।। 296 ।।
(1. प्रभाव Y.)
शुद्धे त्वंशपदे चाद्ये तत्त्वानामुदयास्पदे।
तत्वात्तत्वं समायाति (दाय ?) तदा चात्मनि योजयेत् ।। 297 ।।
संशुध्य शिष्यचैतन्यं भागार्थं ब्रह्मणो हरेत्।
अनुग्रहार्थं (2)भक्तानां शिष्यदेहे नियोजयेत् ।। 298 ।।
(2. तत्वानां A.)
एवं समाप्य वै दीक्षां विष्णोस्सायुज्यदायिकाम्।
[वह्निमध्यस्थस्य मन्त्रमूर्तेर्भगवतोऽर्चनम्] 16-68
भगवन्तं ततो विष्णुं व्यापकं वह्निमध्यगम् ।। 299 ।।
मन्त्ररूपं परं ध्यातं साकारं संस्मरेत्पुनः।
पूजयित्वाऽर्घ्यपुष्पाद्यैः समयान् श्रावयेद्गुरुः ।। 300 ।।
[अथ समयोपदोशः] 16-69
स्वमन्त्रो नोपदेष्टव्यो न वक्तव्यश्च संसदि।
गोपनीयं स्वशास्त्रं च रक्षणीयं शरीरवत् ।। 301 ।।
यथा यथा यत्र तत्र न गृह्णीयाच्च केवलम्।
अभक्त्या तु गुरोर्नाम गृह्णीयात्प्रयतात्मनः (ना ?) ।। 302 ।।
प्रणवग्रथितो (तं?) नाम विष्णुशब्दमनन्तरम्।
पादशब्दसमेतं तु नतमूर्धा कृताञ्जलिः ।। 303 ।।
न तमाज्ञापयेन्मोहात्तच्छायां तु न लङ्घयेत्।
आसनं शयनं यानं तदीयं तु न चाक्रमेत् ।। 304 ।।
गुर्वग्निमन्त्रशास्त्राणां भक्तिरव्यभिचारिणी।
प्रभाते मन्त्रजापस्तु पूजनं सततं विभोः ।। 305 ।।
प्रक्षीणदिनवेलायां जपेन्मन्त्रं स्वशक्तितः।
द्वादश्यां सितकृष्णायां परिपीडं समाचरेत् ।। 306 ।।
नक्तमास्ते त्वसामर्थ्याद्दानपूजापुरस्सरम्।
वैष्णवानां पराभक्तिराचार्याणां विशेषतः ।। 307 ।।
पूजनं च यथाशक्ति तानापन्नांश्च पालयेत्।
मुद्राक्षसूत्रे संरक्ष्ये स्वमन्त्रं न प्रकाशयेत् ।। 308 ।।
दराच्च पादपतनं गुरोः पादाभिवन्दनम्।
नोच्चासने हरेरग्रे उपवेश्यं कदाचन ।। 309 ।।
न शङ्खपद्मचक्राङ्के आसनेऽपि च नारद।
नानिवेद्य हरेः किञ्चिद्भोक्तव्यं वा गुरोस्तथा ।। 310 ।।
मन्त्रोपभुक्तिमर्घ्यं च तथा यन्मन्त्रसंस्कृतम्।
प्राप्तमायतनाद्विष्णोः प्रयतः शिरसोद्वहेत् ।। 311 ।।
उदके निक्षिपेत्पश्चाद्भूमौ वै निपतेद्यदि।
विशेषपूजनं कुर्यात्पक्षे मासेऽथ वत्सरे ।। 312 ।।
द्वादश्यां वैष्णवैस्सार्द्धं तत्रैव शुभजागरम्।
कार्यायतनयात्रा वै तत्र दानं च शक्तितः ।। 313 ।।
पठनं श्रवणं कुर्याच्छास्त्राध्ययनमाचरेत्।
अतन्द्रितश्च सततं विना वै द्वादशीद्वयम् ।। 314 ।।
प्रतिपत्पौर्णमास्यौ च साष्टमीं च चतुर्दशीम्।
ग्रहोपरागसंक्रान्तिं विना चाथा(ना?)गते गृहम् ।। 315 ।।
गुरौ गुरुभ्रातरि वा यतिसङ्घे तु वैष्णवै।
रथ्याचत्वरमार्गेषु सन्निधावप्यदीक्षिते ।। 316 ।।
तथाप्यवैष्णवे मूर्खे पूजया च विना मुने।
शास्त्रव्याक्या न कर्तव्या न श्रोतव्या शुभेप्सुना ।। 317 ।।
तदारम्भे गुरोः पूजा मध्ये चैव विशेषतः।
अन्ते विशेषयागं च क्रीडनं च महोत्सवम् ।। 318 ।।
फलमूलं तथा पुष्पं गन्धोऽप्यन्नं नवं च यत्।
तत्तदादौ गुरौ मन्त्रे विनिवेद्योपयोजयेत् ।। 319 ।।
सामान्यसिद्धौ रक्षार्थं पेरषां न कदाचन।
प्रयुञ्जीत स्वमन्त्रं च आपत्स्वपि च नाचरेत् ।। 320 ।।
गारुडं भूतकर्माऽपि लोकस्यार्थेन नारद।
कृपया परया कुर्यादनाथेष्वथ संसदि ।। 321 ।।
सूर्यसोमान्तरस्थं च गवाश्वत्थाग्निमध्यगम्।
भावयेद्भगवद्विष्णुं गुरुविप्रशरीरगम् ।। 322 ।।
ज्ञेयो माता पिता विष्णुर्ज्ञेयो विष्णुः प्रियोऽतिथिः।
ज्ञेयो विष्ण्वाश्रयी विष्णुरात्मा ज्ञेयोथ विष्णुवत् ।। 323 ।।
यत्र तत्र परीवादो मात्सर्याच्छ्रूयते गुरोः।
तत्र तत्र न वस्तव्यं प्रयायात्संस्मरेद्धरिम् ।। 324 ।।
यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद।
तैर्नैव सह वस्तव्यं न वक्तव्यं कदाचन ।। 325 ।।
कर्मणा मनसा वाचा न हिंस्यात्परदारकान्।
प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ।। 326 ।।
प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत्।
स्वप्ने वाऽक्षसमक्षं वा आश्चर्यमतिहर्षदम् ।। 327 ।।
अकस्मादपि जायेत नाख्यातव्यं गुरोर्विना।
इत्येतत्समयौघं तु विद्धि साधारणं द्विज ।। 328 ।।
ब्राह्मणादौ च वर्णानां समयीपुत्रकात्मनाम्।
साधकानां गुरूणांच येभ्यो मध्यात्सुखप्रदान् ।। 329 ।।
अविरुद्धांस्तथाऽक्लिष्टांस्त्रीबालानां च नारद।
स्त्रीणां विशेषतो दद्यात्पतिभक्तिसमन्वितान् ।। 330 ।।
पतिशून्या च या नारी तस्या आयतने हरेः।
लेपनं शोधनं दद्यात्संयमं च मिताशिताम् ।। 331 ।।
पालनात्समयानां च सिद्धिरुत्पद्यतेऽचिरात्।
मन्त्रः साम्मुख्यमभ्योति समयज्ञस्य सर्वदा ।। 332 ।।
सिद्धयः समयज्ञस्य सिद्धाः स्युर्मोक्षपश्चिमाः।
इत्यग्नावग्रतो विप्र दत्वा समयसंचयम् ।। 333 ।।
[विष्णुहस्तप्रदानपूर्वकं शिष्यस्य मन्त्रहृद्यागाद्युपदेशः] 16-70
भूतिना तिलकं कृत्वा मण्डलाग्रं व्रजेद्गुरुः।
संपूज्य तत्र मन्त्रेशं विधिवत्पूर्ववन्मुने ।। 334 ।।
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे।
आलम्भे(भेत्?)मुद्रया सर्वं मूर्ध्नः पादतलान्ततः ।। 335 ।।
शिष्यमुच्चारयेन्मन्त्रं न्यासहृद्यागपूर्वकम्।
[कुम्भस्थदेवस्यार्चनम्] 16-71
मन्त्रेण विविधैर्भोगैर्यथा चावसरोदितैः ।। 336 ।।
कुम्भस्थमर्चयेद्भक्त्या देववन्मन्त्रभक्तितः।
[अथ गुरोः पूजनम्] 16-72
गुरुमष्टाङ्गपातेन पूजयेत्तदनन्तरम् ।। 337 ।।
शिरः पादतले कृत्वा आनन्दाश्रुयुतो वदेत्।
सपुत्रदारः सधनः प्रभो दासोऽस्म्यहं तव ।। 338 ।।
भावोपेतं द्विज गुरोरात्मानं तु निवेदयेत्।
ग्रामं वा रत्ननिचयं सुवर्णं वा कृताकृतम् ।। 339 ।।
हस्त्यश्वरथपादातदासीदासगणैस्सह।
यद्यद्यथोचितं वस्तु येन वा तुष्यते गुरुः ।। 340 ।।
समग्रेणापि दत्तेन भवेन्नानृणता गुरोः।
भक्त्या विशुद्धया युक्तः पूजितस्य फलाम्बुना ।। 341 ।।
अशाठ्येन तु विप्रेन्द्र भवत्यनृणवान्गुरोः।
[दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणम्] 16-73
आचार्यो दीक्षये(र्यस्तोषये?)त्पश्चाद्वैष्णवान्पाञ्चरात्रिकान् ।। 342 ।।
यथाथक्ति ह्यशाठ्येन भोजनेन धनेन च।
[रात्र्यतिवाहने विशेषनियमः] 16-74
गीतकैर्मङ्गळैर्वाद्यैः स्तौत्रैः शास्त्रकथान्वितैः ।। 343 ।।
क्षपयित्वा ततो रात्रिं त्रिरात्रं सप्त पञ्च वा।
[त्रिस्थानस्थस्य भगवतो विसर्जनं विश्वक्सेनपूजनं च] 16-75
पूजया जपहोमेन दीक्षितः श्रद्धयाऽन्वितः ।। 344 ।।
प्रागुक्तेनैव विधिना त्रिस्थानस्थं हरिं क्रमात्।
विसृज्य पूजयेत्पश्चाद्विश्वक्सेनं तु पूर्ववत् ।। 345 ।।
[अवभृथ सोमपानप्रकारनिरूपणम्] 16-76
कलशद्वितयं कुर्यात्प्रागुक्तविधिना शुभम्।
मध्वाज्यक्षीरसंपूर्णं यागमेकेन सेचयेत् ।। 346 ।।
द्वितीयं मूलमन्त्रेण चन्द्रमध्यगतेन च।
अभिमन्त्र्य च संस्थाप्य सोमपानार्थमादितः ।। 347 ।।
मण्डलं प्लावितं येन कलशेन द्विजोत्तम।
यानारूढो गृहीत्वा तं वामहस्ततले गुरुः ।। 348 ।।
पृष्ठेऽस्य दक्षिणं दद्यादस्त्रराजं जपेन्मुने।
शिष्यैः परिवृतो यायान्मङ्गलादिपुरस्सरैः ।। 349 ।।
पटहैः शङ्खशब्दैश्च पूजां(1) निक्षिप्य चोदके।
प्राक्षाल्य पाणिपादं तु आचम्य न्यासमाचरेत् ।। 350 ।।
(1. विश्वक्सेनपूंजाद्रव्यम्)
तमानीय च संपूर्णमम्भसा यत्र नारद।
प्रक्षिप्तयागसंलग्नपुष्पार्घ्यादिकलम्भनम् ।। 351 ।।
फलशाखान्तरस्थं च पुष्पस्रक्कण्ढधारिणम्।
छादितं सितवस्त्रेण सर्वमन्त्राभिमन्त्रितम् ।। 352 ।।
प्रविश्य यागभवनं मध्ये ह्युपविशेद्गुरुः।
पीठन्यासप्रयोगेण प्रागुत्तरमुखस्ततः ।। 353 ।।
क्रमेण दीक्षितानां च धारया सेचयेच्छिरः।
चक्रास्त्रसिंह्मैरच्छिद्रैः सिद्धये सिद्धिमिच्छताम् ।। 354 ।।
दीक्षावसाने सर्वत्र विधिनाऽनेन यत्नतः।
शिष्याणां कृपयाऽऽचार्यो दद्यादवभृथं शुभम् ।। 355 ।।
यथाऽभिषेके तु मुने आचार्यस्साधकात्मनाम्।
स्नानार्थं कलशं तद्वत्कुर्यादवभृथे सदा ।। 356 ।।
कलशेन शुभेनैव सर्वतीर्थमयेन तु।
स्नातः संपूजयेद्भूयो गुरुं च सपरिच्छदम् ।। 357 ।।
प्रसन्नः पूजितो दद्यात्सोमपानं ततः क्रमात्।
पात्रेष्वस्त्राभिजप्तेषु चन्द्रबिंबयुतेषु च ।। 358 ।।
एकैकं तु ततःपात्रं मुद्रया चामृतेन तु।
संपूर्यामृतमन्त्रेण सुधासन्दोहरूपिणा ।। 359 ।।
[अथ गुरुयागः] 16-77
ततोऽपरिस्मिन्नहनि महता विभवेन तु।
गुरुयागं मुने कुर्याच्छिष्यः सत्यपराक्रमः ।। 360 ।।
रजोभिर्मण्डलं कृत्वा चतुरश्रायतं शुभैः।
तूलपूर्णं ततो दद्यादासनं फलकोपरि ।। 361 ।।
तदाधारक्रमेणऐव पुष्पाद्यैः पूजयेच्छिशुः।
अभ्यज्योद्वर्त्त्य संस्थाप्य आलभ्याच्छाद्य शोभनैः ।। 362 ।।
वस्त्रैःकटककेयूरैः पश्वादुपविशेति च।
विज्ञाप्यो ह्यद्य भगवान्गुरुमूर्तिर्जनार्दनः ।। 363 ।।
उपविष्टं तु पुष्पाद्यैर्मन्त्रेणानेन पूजयेत्।
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये ।। 364 ।।
दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः।
नैवेद्यमग्रतः कृत्वा पवित्रं विविधं बहु ।। 365 ।।
वीजयन्नग्रतस्तिष्ठेत्किंकुर्वाणपरायणः।
भुक्तं तृप्तमथाचान्तं प्रार्च्य संवाहयेत्ततः ।। 366 ।।
शयनस्थं गुरुं विप्र स्वयं भुञ्जीत वै ततः।
तदनुज्ञां गृहीत्वा तु शिरसा शान्तमानसः ।। 367 ।।
[गुरुशिष्ययोर्दीक्षाविधानफलम्] 16-78
एवं विधिविधानेन दीक्षां यः कुरुते गुरुः।
यस्य हि क्रियते विप्र समोक्षमधिगच्छति ।। 368 ।।
कुरु गुप्तमिदं सर्वमभक्तानां च सर्वदा।
दर्शयस्व च भक्तानामास्तिकानां विशेषतः ।। 369 ।।
इति श्रीपञ्चरात्रे जयाख्यसंहितायां दीक्षाविधानं नाम षोडशः पटलः।
* * * * *