जयाख्यसंहिता/पटलः १०

विकिस्रोतः तः
← पटलः ९ जयाख्यसंहिता
पटलः १०
[[लेखकः :|]]
पटलः ११ →
जयाख्यसंहितायाः पटलाः

पटलः - 10
अथ समाधिख्यापनं नाम दशमः पटलः। 10-1
[घ्यानार्थं निर्जनस्थानं प्रति गमनम्] 10-2
श्रीभगवान् ---
सास्त्रं दूर्वाङ्कुरं दत्वा पुष्पं पत्रं तिलांस्तु वा।
सोदकाना(1)त्मनो मूर्ध्नि शिखास्थाने च नारद ।। 1 ।।
(1. न्या C. L.)
ततश्चोदकसम्पूर्णं भाण्डमादाय पाणिना।
एकान्तनिर्जनं यायान्मनोज्ञं दोषवर्जितम् ।। 2 ।।
ह्टन्मध्यस्थं स्मरे(र)न्मन्त्रं प्रबुद्धानलविग्रहम्।
दिगन्तरमवीक्षन्वै मौनी संरोधितानिलः ।। 3 ।।
[स्थानप्राप्तिसमये कर्तव्यांशः] 10-3
प्राप्य स्थानं स्वमन्त्रं तु नासाग्रेण विरेचयेत्।
बहिरस्त्रं च विन्यस्य चरणेन हनेत्क्षितिम् ।। 4 ।।
मन्त्रपूर्वं स्मरेद्विष्णुं सकलं गरुडासनम्।
[दर्भाद्यासनविकल्पः] 10-4
एकदेशं समासाद्य बद्नीयाद्रुचिरासनम् ।। 5 ।।
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठके।
[गुरुस्मरणपूर्वकमानसक्रियानिर्वहणम्] 10-5
अभिवन्द्य हरिं भक्त्या मनसा गुरुसन्ततिम् ।। 6 ।।
गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः।
मानसीं निर्वहेत्सर्वां क्रियां विप्र यथास्थिताम् ।। 7 ।।
[आसनशुद्धिः] 10-6
मूलमन्त्राभिजप्तेन तोयेन प्रोक्ष्य चासनम्।
च्छोटिकां मन्त्रसंयुक्तां दद्यात्तच्छुद्धये पुनः ।। 8 ।।
[करशुद्धिः] 10-7
हस्तशुद्धिं ततः कुर्याद्यथा तच्छृणु नारद।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाड्गुलयस्तथा ।। 9 ।।
अस्त्रमन्त्रेण संशोध्य ध्यानोच्चारप्रयोगतः।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ।। 10 ।।
[स्थानशुद्धिः] 10-8
ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम्।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ।। 11 ।।
तेन संपूरयेत्सर्वमाब्रह्मभुवनान्तिमम्।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ।। 12 ।।
क्ष्मामण्डलमिदं सर्वं स्मरन्पव्कं च वह्निना।
मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ।। 13 ।।
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात्।
भूतशुद्धिं शृणु मुने यथावदनुपूर्वशः ।। 14 ।।
[भूतशुद्धिप्रकरणम्]
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम्।
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्झितं गुणैः ।। 15 ।।
मलिनञ्चास्वतन्त्र च रेतोरक्तोद्भवं क्षयि।
यावन्न शोधितं सम्यक् धारणाभिर्निरन्तरम् ।। 16 ।।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु।
[पृथिव्यादिभूतानां बीजानि] 10-9
शङ्करश्चाग्निरूपश्च (1)सोमःसूर्यस्तदन्तकः ।। 17 ।।
(1. सोमसूर्यावनन्तरः A.)
वर्णपञ्चकमेतद्वै युक्तं कुर्यात्क्रमेण तु।
धरेशेन वराहेण अनलेनाथ कम्बुना ।। 18 ।।
प्रधानेन द्विजश्रेष्ठ सर्वेषां योजयेत्ततः।
त्रैलोक्यैश्वर्यदोपेतमादिदेवं च मूर्धनि ।। 19 ।।
पृथ्वीकाग्निमरुद्व्योमबीजान्येतान्यनुक्रमात्।
पृथ्व्यादिसंज्ञायुक्तानि हुंफडन्तानि नारद ।। 20 ।।
प्रागोङ्कारेण युक्तानि भूतशुद्धौ त्रिधोच्चरेत्।
भूतेश्वराणां पञ्चानां परत्वेन क्रमात्स्थिताः ।। 21 ।।
[पृथिव्यादिभूतानां देवताः] 10-10
अनिरुद्धादयः पञ्च सत्यपूर्वाः पुरोदिताः।
शक्तित्वेन च वर्तन्ते तैश्च तान्व्याहरेत्क्रमात् ।। 22 ।।
[पृथिव्यादिमहाभूतांनां स्वविग्रहे प्रवेशन-तद्व्यापन-तद्विलयनप्रकाराः] 10-11
सौषुम्नाद्दक्षिणद्वारान्निर्गमय्य हरिं बहिः।
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम् ।। 23 ।।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे।
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले ।। 24 ।।
प्रभाचक्रं तु तदधस्तत्त्वाधिष्टातृसंयुतः।
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधः क्रमात् ।। 25 ।।
[तत्रादौ पृथिवीतत्त्वनिलयनम्]
तुर्यश्रां पीतभां भूमिं चिन्तयेद्वज्रलाञ्छिताम्।
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ।। 26 ।।
पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम्।
संविशन्तीं स्मरेद्बाह्यात्पूरकेण स्वविग्रहे ।। 27 ।।
प्रोच्चारयंश्च तन्मन्त्रं विश्रान्तामथ चिन्तयेत्।
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ।। 28 ।।
कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्तौ स्वके ततः।
शनैः शनैर्लयम् यातां गन्धशक्तौ च मन्त्रराट् ।। 29 ।।
[जलतत्त्वनिलयनम्]
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिःक्षिपेत्।
तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ।। 30 ।।
समुद्रससरित्स्रोतो रसषट्‌कं च सौषधीः।
यानि यान्यम्बुभूतानि भूतानि भुवनान्तरे ।। 31 ।।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम्।
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ।। 32 ।।
संपूर्य पूरकाख्येन करणेन शनैश्शनैः।
ऊरुमूलाच्च जान्वन्तं शरीरं मण्डलं स्वकम् ।। 33 ।।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज।
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च ।। 34 ।।
अम्मयं विभवं सर्वं तन्मद्ये विलयं गतम्।
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले ।। 35 ।।
[तेजस्तत्त्वनिलयनम्]
रेचकेन विनिक्षिप्य ततो वान्हं च वैभवम्।
त्रिकोणभूवनाकारं दीप्तिमद्भिर्विभूषितम् ।। 36 ।।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः।
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ।। 37 ।।
चिन्हितं स्वस्तिकैर्दीप्तैर्व्याप्यैवं विभवं महत्।
तैजसं मुनिशार्दूल तन्मान्रं चाथ संस्मरेत् ।। 38 ।।
तन्मण्डलान्तरस्थं तु प्रोच्चरन्वै तमेव हि।
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ।। 39 ।।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽ(1)वधार्य च।
तं विप्र विभवं सर्वं तैजसं परिभावयेत् ।। 40 ।।
(1. पिधाय A.)
तन्मन्त्रविग्रहे श्रान्तं मन्त्रं तच्चानलात्मकम्।
रुपशक्तौ लयं यातं शक्तिस्संविन्मयी च सा ।। 41 ।।
[वायुतत्त्वनिलयनम्]
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम्।
रेचकेन कृतां शक्तिं वाय्वाधारे बहिः क्षिपेत् ।। 42 ।।
ततस्तु वायवीयं वै वैभवं बाह्यतः स्मरेत्।
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ।। 43 ।।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा।
स्वमन्त्रेण समाक्रान्तं धारणाख्येन तं स्मरेत् ।। 44 ।।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत्।
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैश्शनैः ।। 45 ।।
आकण्ठान्नाभिदेशान्तं तेन व्याप्तं तु भावयेत्।
प्रागुक्तकरणेनैव वायव्यं विभवं ततः ।। 46 ।।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामुने।
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ।। 47 ।।
[आकाशतत्त्वनिलयनम्]
व्याप्तां नित्यामदृश्यां च स्वशक्तिविभवान्विताम्।
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले ।। 48 ।।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्बहिः।
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम् ।। 49 ।।
अविग्रहेश्शब्दमयैः (1)पूर्णं सिद्धैरसङ्ख्यकैः।
तन्मघ्ये धारणान्मन्त्रं व्योमाख्यं संस्मरेद्द्विज ।। 50 ।।
(1. पूर्व CL.)
धारयन्तं स्वमात्मानं स्वसामर्थ्येन सर्वदा।
शब्दमत्रामरूपं तु व्यापकं विभवेष्वपि ।। 51 ।।
धिया च संपरिच्छन्नं कृत्वा विन्यस्य विग्रहे।
प्रागुक्तकरणेनैव तेन व्याप्तं तु भावयेत् ।। 52 ।।
आकर्णाद्ब्रह्मरन्ध्रान्तं व्योमाख्यं विभवेन च।
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ।। 53 ।।
ध्यायेत्परिणतं पश्चात्स्वमन्त्रे तु तथा मुने।
व्योमाख्यं धारणामन्त्रं शब्दशक्तौ लयं गतम् ।। 54 ।।
[शब्दशक्तेः क्रमात् गन्धादिशक्तिनिलयनास्पदभूताया निष्कलेऽनुप्रवेशभावनम्] 10-12
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत्।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ।। 55 ।।
आश्रयेन्निष्कळं मन्त्रं व्योमातीतं निरञ्जनम्।
शक्तयो याश्च सत्याद्यास्तासामपि परश्च यः ।। 56 ।।
पट्‌कं (ष्ठं ) तं निष्कळं विद्धि व्याप्तिः प्रागुदिताऽस्य च।
समन्त्रं विभवं भौतमेवमस्तं नयेत्क्रमात् ।। 57 ।।
[जीवस्य पदात्पदान्तरप्रापणक्रमेण देहात् स्थूलात् प्रभाचक्रविशेषप्रापणेन कैवल्यस्थितिप्रापणम्] 10-13
चैतन्यं जीवभूतं यत्प्रस्फुरत्तारकोपमम्।
भावनीयं तु विश्रान्तं निस्सृतं भूतपञ्जरात् ।। 58 ।।
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे।
अनेन क्रमयोगेन जीवमात्मानमात्मना ।। 59 ।।
इक्षते(क्षेत) तद्धृदाकाशे अचलं सूर्यवर्चसम्।
स्फुरद्‌द्युतिसमाकीर्णमीश्वरं व्यापकं परम् ।। 60 ।।
ततो मन्त्रशरीरस्थं समाधिं चाभ्यसेत्परम्।
परं मन्त्रशरीरं यद्व्यक्तमक्षरसन्ततौ ।। 61 ।।
सूर्यादिव्योमपर्यन्तमतीतं शक्तिकारणैः।
हेयं चेत्थमिदं बुध्वा यदा तत्स्थानबृंहितः ।। 62 ।।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात्।
षट्‌पदी()ह्यात्मतत्त्वं च ज्ञानरज्वाऽवलंब्य च ।। 63 ।।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत्।
भारूपान्नाडिमार्गेण मन्त्रवह्नेश्शिखा हि सा ।। 64 ।।
पद्मसूत्रप्रतीकाशा सुषुम्ना चोर्ध्वगामिनी।
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन नारद ।। 65 ।।
शनैश्शनैस्स्वमात्मानं रेच्य विज्ञानवायुना।
मान्त्रं कारणषट्कं च एवमव्यापकं नय्सेत् ।। 66 ।।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात्प्रभुविग्रहात्।
उदितं (तो ) द्विजशार्दूल तेजःपुञ्जो ह्यनूपमः ।। 67 ।।
तत्प्र भाचक्रनाभिस्थं स्वानन्दानन्दनन्दितम्।
एवं पदात्पदस्थस्य आत्मतत्त्वस्य नारद ।। 68 ।।
तत्त्व(स्य )निर्मुक्तदेहस्य केवलस्य चिदात्मनः।
य उदेति महानन्दः सा शक्तिर्वैष्णवी परा ।। 69 ।।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात्।
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ।। 70 ।।
तच्च(तं च) सङ्कल्पनिर्मुक्तमवाच्यं विद्धि नारद।
[त्यक्ततया भावितस्यास्य भौतिकदेहस्य प्रज्वालन--भस्मीकरणभावनम्] 10-14
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ।। 71 ।।
तत्र स्थितो दहेत्पिण्डं शक्तितन्मात्रव्रजितम्।
षाट्कोशिकमसारं च निर्दग्ध(1)तृणरूपिणम् ।। 72 ।।
(1. निर्दण्ड S.)
[इच्छाग्निमन्त्रः] 10-15
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना।
अशेषभुवनाधारं चतुर्गतिसमन्वितम् ।। 73 ।।
लोकेशोपरिसंस्थं च व्योम्नि तस्योपरि न्यसेत्।
प्रणवादिनमोऽन्तं च इच्छाग्नेर्वाचकः स्वयम् ।। 74 ।।
[भस्मीभूतत्वभावनम्] 10-16
तेनाङ्घिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत्।
[शान्ताग्निमन्त्रः] 10-17
भस्मराशिसमप्रख्यं शान्ताग्निं तदनु द्विज ।। 75 ।।
[भस्मीभूततया भावितस्य ध्यानसमुद्भूतसलिलेनाप्लावनभावना] 10-18
साह्लादेन च सूक्ष्मेण व्यापिनोङ्कारपूर्विणा।
नमोऽन्तेन तु तद्भस्मपातं ध्यात्वाऽन्वितस्ततः ।। 76 ।।
[भस्मावशेषतया भावितस्य समाप्लावनभावना] 10-19
ध्यानजेनोदकेनाथ भूतिं संप्लाव्य दिग्गताम्।
विनिपातात्स्वमन्त्रेण सिक्तेन क्षीररूपिणा ।। 77 ।।
[अथापूर्वतेजोयशरीरसृष्टिभावनाक्रमः] 10-20
वगहममृतारूढं त्रैलोक्यैश्वर्यदान्वितम्।
दीपकं द्वितयेनैतत्संपुटीकृत्य पूर्ववत् ।। 78 ।।
तेन क्षीरार्णवाकाराद्ध्यायेद्विश्वं चराचरम्।
पात्यमानं तदूर्ध्वे तु धारासङ्घो द्विजामृतः ।। 79 ।।
तुर्यस्थानाद्विनिष्क्रान्तो भावनीयो मुहुर्मुहुः।
तत्राधारमयीं शक्तिं मद्ये विन्यस्य वैष्णवीम् ।। 80 ।।
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत्।
षडध्वतत्त्वभूतं च सितं तेजोमयं शुभम् ।। 81 ।।
मण्डलत्रितयाकीर्णं स्पुरत्किरणभास्वरम्।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ।। 82 ।।
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम्।
तन्मन्त्रशक्तिभिर्भूयो मूर्च्छितं भावयेद्द्विज ।। 83 ।।
व्योमादिपञ्चभूतीयं मन्त्रमीश्वरपञ्चकम्।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ।। 84 ।।
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्जरात्।
सहस्रसूर्यसङ्काशं शतचन्द्रगभस्तिमत् ।। 85 ।।
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम्।
जनित्वैवं सपिण्डं तु परमं भोगमोक्षयोः ।। 86 ।।
साधनं मुनिशार्दूल सहजं सर्वदेहिनाम्।
तमासाद्य क्रमेणैवं सिसृक्षालक्षणेन च ।। 87 ।।
स्वपादान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम्।
[जीवस्य सृष्टे शरीरे प्रवेशनक्रमः] 10-21
स्वानन्दं (1)च महानन्दात्स्वन(2)न्ताच्चाश्रयेत्ततः ।। 88 ।।
(1. चिन्म A.)
(2. त्स्वानन्दा A.)
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत्।
सूर्यकोटिकराभासं प्रस्पुरन्तं स्वभाससा ।। 89 ।।
कदम्बगोळकाकारं निशाम्बुकणनिर्मलम्।
एवमात्मानमानीय स्वस्थानात्स्वात्मना द्विज ।। 90 ।।
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत्।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् () ।। 91 ।।
स्ववाचकं भावयन्वै ध्वनिना निष्कळेन तु।
[आत्ममन्त्रः] 10-22
अशेषभुवनाधारं विश्वाप्यायकरेण तु ।। 92 ।।
अङ्कयेदमृताख्यं च तदन्ते चात्मने नमः।
स तारकस्त्वयं मन्त्रो विज्ञेयो ह्यात्मवाचकः ।। 93 ।।
ततस्तु निष्कळो मन्त्रो यावद्भानुं च विग्रहः।
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम् ।। 94 ।।
[स्वदेहस्य मन्त्रमयतापादनम्] 10-23
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम्।
ततस्स्वतन्त्रं तं बिम्बमाकृष्य हृदि विन्यसेत् ।। 95 ।।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा।
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम् ।। 96 ।।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्र

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_१०&oldid=206739" इत्यस्माद् प्रतिप्राप्तम्