नारदपुराणम्- उत्तरार्धः/अध्यायः ६

Wikisource इत्यस्मात्
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

ब्रह्मोवाच ।।
किमाश्चर्यं त्वया दृष्टं कथं वा खिद्यते भवान् ।।
सद्गुणेषु च संतापः स तापो मरणांतिकः ।। ६-१ ।।

यस्योच्चारणमात्रेण प्राप्यते परमं पदम् ।।
तमुपोष्य कथं सौरे न गच्छति नरस्त्विति ।। ६-२ ।।

एको हि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।। ६-३ ।।

कुरुक्षेत्रेण किं तस्य किं काश्या विरजेन वा ।।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।। ६-४ ।।

ब्राह्मणः श्वपचीं गच्छन् विशेषेण रजस्वलाम् ।।
अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत् ।। ६-५ ।।

अभक्ष्यागम्ययोर्जातं विहाय पापसंचयम् ।।
स याति विष्णुसायुज्यं विमुक्तो भवबंधनैः ।। ६-६ ।।

यन्नामोच्चारणान्मोक्षः कथं न तदुपोषणे ।।
यस्मिन्संगीयते सोऽपि चिंत्यते पुरुषोत्तमः ।। ६-७ ।।

लीलया चोच्चरेद्देवं श्रृणुयाच्च जनार्दनम् ।।
गंगांभः पूतपुण्यत्वे स नरः समतां व्रजेत् ।। ६-८ ।।

अस्माकं जगतांनाथो जन्मदः पुरुषोत्तमः ।।
कथं शासति दुर्मेधास्तस्य वासरसेविनम् ।। ६-९ ।।

यस्त्वं न चूर्णितस्तैस्तु यस्त्वं बद्धो न तैर्दृढम् ।।
तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे ।। ६-१० ।।

यो नियोगी न जानाति नृपभक्तान्वरान् क्षितौ ।।
कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः ।। ६-११ ।।

राजेष्टा न नियोक्तव्याः सापराधा नियोगिना ।।
स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम् ।। ६-१२ ।।

एवं हि पापकर्तारः प्रणता ये जनार्दने ।।
कथं संयमिता तेषां बाल्याद्भास्करनंदन ।। ६-१३ ।।

शैवैर्भास्करभक्तैर्वा मद्भक्तैर्वा दिवाकरे ।।
करोमि तव साहाय्यं हरिभक्तैर्न भास्करे ।। ६-१४ ।।

सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः ।। ६-१५ ।।

मधुसूदनभक्तानां निग्रहो नोपपद्यते ।।
व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः ।। ६-१६ ।।

तैः कृते अवमाने तु तव नाहं सहायवान् ।।
कृते सहाये तव सूर्यसूनो भवेदनीतिर्मम देहघातिनी ।
विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः ।। ६-१७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे ब्रह्मवाक्यं नाम षष्ठोऽध्यायः ।। ६ ।।