नारदपुराणम्- उत्तरार्धः/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

यम उवाच ।।
घृष्टतां समनुप्राप्तः पन्था देवस्य चक्रिणः ।।
अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित ।। ५-१ ।।

अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पते ।।
यो न पूर्यति लोकौघैः सर्वसत्वसरोरुहैः ।। ५-२ ।।

माधवावसथैनैव समस्तेन पितामह ।।
स्वकर्मस्था विकर्मस्थाः शुचयोऽशुचयोऽपि वा ।। ५-३ ।।

उपोष्य वासरं विष्णोर्लोकं यांति नृपाज्ञया ।।
सोऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः ।। ५-४ ।।

निग्राह्यो जगतांनाथ भवेन्नास्त्यत्र संशयः ।।
तेन वर्षसहस्रेण शासितं क्षितिमंडलम् ।। ५-५ ।।

अप्रमेयो जनो नीतो वैष्णवं हरिवल्लभम् ।।
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम् ।। ५-६ ।।

पीतवस्त्रसुसंवीतं स्रग्विणं चारुलोपनम् ।।
यदि स्थास्यति देवेश माधव्यां माधवप्रियः ।। ५-७ ।।

समस्तं नेष्यते लोकं विष्णोः पदमनामयम् ।।
एष दंडः पटो ह्येष तव पद्भ्यां विसर्जितः ।। ५-८ ।।

लोकपालत्वमतुलं मार्जित तेन भूभुजा ।।
रुक्मांगदेन देवेश धन्या सा स धृतो यया ।। ५-९ ।।

सर्वदुःखविनाशाय मात्रृजातो गुणाधिकः ।।
किमपत्येन जातेन मातुः क्लेशकरेण हि ।। ५-१० ।।

यो न तापयते शत्रून् ज्येष्ठे मासि यथा रविः ।।
वृथाशूला हि जननी जाता देव कुपुत्रिणी ।। ५-११ ।।

यस्य न स्फुरते कीर्तिर्घनस्थेव शतह्रदा ।।
यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा ।। ५-१२ ।।

मातुर्जठरजो रोगः स प्रसूतो धरातले ।।
धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः ।। ५-१३ ।।

मातृहा प्रोच्यते सद्भिर्वृथा तस्यैव जीवितम् ।।
एका हि वीरसूरेव विरंचे नात्र संशयः ।। ५-१४ ।।

यया रुक्मांगदो जातो मल्लिपेमर्ज्जनाय वै ।।
नेदं व्यवस्थितं देव क्षितौ केनापि भूभुजा ।। ५-१५ ।।

पुराणेऽपि जगन्नाथ न श्रुतं पटमार्जनम् ।।
सोऽहं न जांना मि कदाचिदाश दृष्ट्वा क्षिरीशं हरिसेवने स्थितम् ।।
प्रवादमानं पटहं सुघोरं प्रलोपमानं ममविश्ममार्गम् ।। ५-१६ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमविलापनं नाम पंचमोऽध्यायः ।। ५ ।।