साहित्यसारः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

Sri Venkatesvara oriental series No 37
Editor:-PROF, P. V. RAMANUJASWAMI, M.A.


SAHITYASARA
By
SARVESVARA KAVI

EDITED BY
M. RAMAKRISHNA KAVI M.A.
DRAMA IN SANSKRIT
Sri Venkatesvara Oriental Institute


WiTH INTRODUCTON BY
A. SOMESWARA SARMA, P.O.L.
LECTURER IN VYAKARANA
Sri Venkatesvara Oriental College, Tirupati


PUBLISHED UNDER THE AUTHORTY or
SRI C. ANNA RAO, B.A.
EXECUTIVE OFFICER
of the Board of Trustees. T. T. Devasthanams, Tirupati



PRINTED AT
TRÜMALA-TIRUPATI DEVASTHANAMS PRESS
TIRUPATI
1952

PREFACE

 The present work of Sahityasara was taken up for editing by the Reader in Sanskrit in the Institute, Mr. M. Ramakrishnakavi, M.A. in 1945 and the press copy was ready by the end of that year. But the publication of the work had to be deferred as the press and the editor were engaged in the more important work of printing and editing the Bharatakosa, As soon as this work was published, Sahityasara was taken up. But as soon as the printing of this work had been completed Mr. M. Ramakrishnakavi had unfortunately to retire and as he did not write the introduction by that time, the work could not be published immediately. I have, therefore, requested one of the Lecturers of the Oriental College, Mr. A. Someswarašarma, Vyakarana-Sahitya Vidyapravina, to write the introduction and supply the want. I am very grateful to him for providing the edition with his introduction in Sanskrit.

 On reference to Mr. M. Ramakrishnakavi as to his opinion about the age of the author, he sent me the following note:-

"Sahityasara was composed by the end of the
eleventh century, for the date of Vamarasimuni is
determined. He constructed a temple at......... about
10 miles on the northern side of the Tungabhadra near
Kurnool. There are inscriptions one of which presents
the fact that Vamarasi managed the construction of the
temple."

 As he had given no reference to the inscriptions to trace them, I addressed the Government Epigraphist for India, Ootacamund and requested him to inform me when the said inscription or inscriptions were published and whether the place referred to lay in the Kurnool district, I am reproducing below a letter received by me from the Superintendent for Epigraphy, Mr. N. Lakshminarayanarao, M.A

"Subsequent to my writing to you last month, I have traced out a Vamarasideva. He is mentioned in a Kannada inscription at the village of Kolur in the Karajgi (Haveri) Taluk of the Dharwar district in Bombay state. Such epithets as yama-niyama-dhyana-dharana-maunanusthana etc., are applied to him in the record. His sishya Mallikarjuna-bhatta (or bhattara) is stated to have received a gift for the God Kalidevesvara at Kolur in the saka year 967. This village lies about 20 miles to the west of the Tungabhadra river, though not to the north of it. I am not sure, however, whether Vamarasideva of the Kolur inscription is the same as Vamarasi Muni mentioned in your letter. The inscription is published on pages 180ff of volume XIX Of Epigraphia Indica,

Mr. A. Someswarasarma in his Sanskrit introduction discussed the age of the author in the light of the above facts and also the value of the work. Mr. Ramakrishnakavi adds in his note that the present author seems to have written another work called Kavyasara.

I have to express my obligation to the Government Epigraphist for India for taking the trouble to supply me the information about Vamarasideva.

S. V. O. INSTITUTE
P. V. RAMANUJASWAMI,
 
TIRUPATI
Director.
 

17-12-52,

श्रीः
श्रीनिवासो विजयते ।।
परिचयः

१, संपादकः

प्रख्याताः शताधिकान्ध्रगीर्वाणग्रन्थसंपादकाः परिशोधकवराश्च श्रीमान- वल्ल्युपाह रामकृष्णकवय एव अमुं साहित्यसारमपि समपादयन् । ते हि बहुग्रन्थ- द्रष्टारः लब्धप्रतिष्ठाश्चेति न तान् प्रत्यत्र प्रस्तोतव्यं बहु वर्तते । परं वार्धकेऽपि द्वादश हायनानेि श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालये संस्कृतप्रधानविमर्शकपदवीम- धिष्ठाय अस्मिन्नेव वर्षे आषाढमासे ततो विश्रान्तिमापन्नित्येव सांप्रतं वचः । कृतिमिमां कुतः – कदा-कथंच-ते संपादयामासुरित्यादिशङ्कास्तु तदेकसमाधे- या अवशिष्यन्ते ।


२. कविः

ग्रन्थस्याऽस्य प्रणेता सर्वेश्वरकविरिति 'सर्वेश्वरइति ख्यातः कविर्जयति भूतले---तेन साहित्यसारोऽसौ ' इत्यादिवचनैः विशदमेव जानीमः । कविमधिकृत्य च –“भूतले सर्वेश्वरकविर्जयति । स चन्द्रशेखरभक्तः । त्रिविक्र- मस्य सूनुः । अधीती विविधशास्त्रेषु । विशेषतो भारते नाट्यशाखे । वामराशि- मुनिरस्य गुरुः ' इत्येव प्रकृतादवगच्छामः। चतुर्थप्रकाशन्ते विद्यमानं “मलयज- मुनिपुङ्गवेन ' इत्यादिपद्यंतु कवेरस्य 'मलयजमुनिरिति, नामान्तरमप्यासीदिति विशेषान्तरं बोधयति । तदेव प्रणेतुः दक्षिणात्यतां अवसाने मौनित्वंच सूचय- तीव । अथाऽपि कदाऽयं सर्वेश्वरो जिजीवेति निश्चप्रचं प्रतिपादयितुं नोपलभ्यते सरणिः । अत्र कश्चिद्यत्नं कृतवन्तोपि वयमफलाः समभूमेति अधस्ताद्वितनिष्यते । सत्यमास्माकीनाः कवयः पण्डिताश्च प्राचीना बहवः स्वकृतिषु कालमसूचयित्वा तज्जि- ज्ञासूनाधुनेिकान् बहुवा क्लेशयन्तीति नितरां दूयते मनः ॥ ३. काल:

अत्र कांश्चन प्रकारानेव सहृदयानां पुरः प्रदर्शयितुं पारयामः । तथाहि:- ’यस्यागस्त्येश्वराधीशो वामराशिमुनिर्गुरुः, इति वचनेन वामराशिमुनेः कृतिकर्तृगुरुत्वं स्फुटमवभासते किल । वामराशिसमयस्तु निश्चितकल्पः । क्रीस्तुशकस्य १०४५ मान्ते वामराशिरयं तुङ्गभद्राया उत्तरे तटे देवायतनमेकं निरमापयत् । शासनानि च प्रमाणभूतान्युपलब्धानि । अतः सर्वेश्वरः क्रीस्तोः परमेकादशशतकान्ते बन्धममुं व्यररचत” इति श्रीरामकृष्णकवीनामभिसन्धिः ।

स्यादेतत् । उक्तसंवादि शासनमेकं सम्यक् परिशीलनेन अभिज्ञातम् । ’कोळूर' शासनमिति तस्य नाम । कर्णाटभाषामयं तत् । तच्च ’एपिग्राफिया इण्डिका' इतिग्रन्थस्य (A Journal of Epigraphy) एकोनविंशतितमे संपुटे १८० पार्श्वे प्रकाशितम् । तत्र 'वामराशिदेव' इत्ययं 'यमनियमध्यान- धारणमौनानुष्ठानपरायणे' त्यादिबिरुदविशिष्टः स्तुतो दृश्यते । परं - हन्त –भाति कश्चन विसंवादोऽपि । अस्मदपेक्षितो वामराशिमुनिः । तत्रत्यो वामराशिदेवः । उभावभिन्नौ यदि तर्हि युक्त संपद्येत । तथा निश्चेतुं न दृढमस्ति प्रमाणम्। अन्यच्च । 'कोळूर’ ग्रामः तुङ्गभद्रायाः पश्चिमतीरे नोत्तर इति बाढं ज्ञायते । किंच । शासने शिष्यो मल्लिकार्जुनभट्ट उल्लिखितः| नाऽयमंशः प्रकृतमर्थं पुष्णाति ।

केचिदेवमाशेरते। सर्वेश्वरः क्रीस्तोः परं चतुर्दशशतके जिजीव । कन्याकुमार्यग्रसमीपे (Near Cape Comorin) तस्य निवास आसीत् । 'काव्यसार' इति ग्रन्थान्तरमप्यनेन विरचितम्" इति । प्रायेण मलबारीयोप- ज्ञोऽयं कल्पः । अत्राऽपि परिपोषकाणि प्रमणानि नैवोपलभ्यन्ते ।

सत्येवं “भरतर्कोहव्यतिरिक्तालङ्कारिकान्तराननुकीर्तनम्, त्रिंशदलङ्कारपरि- मभनम्, लक्षणादरः, विभ्रमाख्यव्यभिचारिणो विलक्षणस्वरूपप्रदर्शनमित्यादि- अन्यस्यांशैः केवलैरयमतीव प्राचीनो भामहदण्डिनोरनन्तरवर्तीत्यप्यनुमातुं शक्यत’ इति मामकीनः कल्पोऽपि प्रमाणान्तरनिरालम्बां न्यस्यते कुतूहलाय । अपरोऽप्ये- तादृश आप्रच्छतु । सर्वत्राऽपि संभावनैव । दार्ढ्यंतु न कस्याऽपि पक्षाघातुं

शक्येत । भवतु । निश्चयपर्यन्तं संशय एव हि शरणम् ॥

3

४, ग्रन्थः

एतत्प्रबन्धविषयकचरितांशज्ञानार्थ ’क्याटलागस् क्याटलगोरम्’ (संस्कृतग्रन्थतत्कर्तृपट्टिका) इति बृहत्कोशो मया व्यलोकेि । तत्र 'साहित्यसार ' नाम्ना त्रयः प्रबन्धा निर्दिष्टाः । तेषु विश्वेश्वरनिर्मितः काव्यरूप एकः । मानसिंहविरचित आलङ्कारिको द्वितीयः । कर्तृनिर्देशरहित आलङ्कारिक एष तृतीयः । अयं सर्वेश्वरीयः साहित्यसारः, अच्युतरायकर्तृकत्वेन लोके प्रचलन् अपरः साहित्यसारश्च कुतस्तत्र कोशे स्थानं नाऽलभतेति स एव कोशघटकः प्रष्टव्यः । ’त्रिवेण्ड्’ नगरस्थराजकीयग्रन्थालयेऽस्य तालपत्रप्रतिकृतिश्चकास्तीति तदीय ’विपुलग्रन्थसूचिकायाः’ प्रतीयते । परं साऽपि चरितविषये भग्नहस्तं प्रादर्शयत् । अत एव चरितांशपरिशोधने सर्वथा सहायशून्याः संपन्ना इत्यावेदितं प्राक् ।

साहित्यसारोऽयं केवलं नाट्यलक्षणात्मकः । लक्ष्यसंगतिरत्र नैवास्ति । संग्रहप्रयोजनकः । ’लसन्मृदुपदावल्या बालव्युत्पत्तिकारणम् । ... ... क्रियते नाट्यलक्षणम् ।’ इत्यनेनेदमेव निवेदितं कविना । अस्मिंश्च षट् प्रकाशा विलसन्ति । तेषु प्रतिपाद्यं यथाक्रममेवं वर्तते :-

प्रथमप्रकाशेः- – नाटकप्रकरणादिविभागः । नाटकलक्षणम् । नान्दी- प्रस्ताक्नादिलक्षणम् । सन्धिसन्ध्यङ्गलक्षणादिकंच ।

द्वितीयप्रकाशेः- भारत्यादिवृत्तयः । तदङ्गानि । पददोषः पञ्च विंशतिः । वाक्यदोषाः षोडश । वाक्यार्थदोषाः सप्त । काव्यगुणा दश । अलंकाराः त्रिंशच्च ।

तृतीयप्रकाशेः– लक्षणानि षट्त्रिंशत् । पात्रसंबोधनादिनियमाश्च ।

चतुर्थप्रकाशेः– नायकनायिकादूत्यादिभेदाः । तल्लक्षणानिच ।

पञ्चमप्रकाशेः- रसभावादिलक्षणानि ।

षष्ठप्रकाशेः-- नाटकप्रकरणादिदशरूपकलक्षणनेि । इति । प्रतिपादितं विषयजातं कृत्स्नमपि न स्वोपज्ञमिति 'आहृतं भरतो-त्किञ्चित् उत्तरात्किञ्चिदुद्धृतम् । कलितं कोहलात्किञ्चित् किञ्चिद्भरतविस्तरात्’ इत्यनेन कविरेव आविरकार्षीत् । तथा ’अस्य साहित्यसारस्य संख्या सर्वेश- कल्पिता । भवेदष्टाधिकैवाऽत्र षट्शती सुमनोहरा’ इत्यनेन ग्रन्थस्थश्लोकसंख्यापि कविनैव निवेदिता यथायथं विद्यते ।

गीर्वाणवाङ्मये हि सागरतुल्यं नाट्यलक्षणं भारतं नाट्यशास्त्रम् । तदनुसृत्यैव द्वित्राणि संग्रहप्रयोजनानि नाट्यलक्षणानि परस्तादुदितानि । तत्र दशरूपकमतीव प्रसिद्धम् । एवं सति अतिसंग्रहाभिलाषिणां लक्षणैकप्रवणानामयं साहित्यसारः दशरूपकतोऽपि विशिष्य उपयुज्यत इति सुदृढं संभावयामि । पठितारश्च अमुमंशं स्वयमेव ग्रहीष्यन्तीति नाऽत्नातीव प्रयत्यते ।

५. उपसंहारः
ईदृशमल्पमूल्यमधिगुणं ग्रन्थरत्नं अमरवाणीसेवकानां मुदे श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयाधिकृताः प्राकाशयन् । अतस्तान् प्रति सहृदयलोकः सदा कृतज्ञो भवेत्।

मुद्रणं सर्व संपादकानां आध्यक्ष्य एव निर्व्यूढम् । यावत्परिचयरचनाया: समय आगतस्तावदेव संपादकाः श्रीरामकृष्णकवयः पदवीतो विश्रान्ताः । अतस्तद्रचनावकाशं श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयकुलपतयः श्रीमन्तः परवस्तु वेङ्कटरामानुजस्वामिपादाः वात्सल्येन मे अदासिषुः । यथाशक्ति तदिदं कृत्यं निरवहम्। कृतज्ञश्च भवामि सततं कुलपतीन् प्रति। अत्र परिचयलेखने भासमानं भ्रमप्रमादादिकं सहृदयवतंसाः कृपया क्षमन्तामिति, निर्दोषं निर्गुणं वाऽपि नास्ति लोके हि किञ्चनेति च विज्ञापयामि ।

विबुधविधेयः, 'व्याकरणसाहित्यविद्याप्रवीणः, भाषाप्रवीणश्च' अप्पल्ल- सोमेश्वरशर्मा, P.O.L. व्याकरणोपाध्याय:

श्रीवेङ्कटेश्वरप्राच्यविद्यालयः नन्दनमार्गशीर्षकृष्णदशमी तिरुपति। क्री.श., ११-१२=१९५२.


"https://sa.wikisource.org/w/index.php?title=साहित्यसारः&oldid=168341" इत्यस्माद् प्रतिप्राप्तम्