पृष्ठम्:साहित्यसारः.pdf/10

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

महाकवि सर्वेश्वर विरचित:

साहित्यसारः

सुरासुरशिरःश्रेणीरत्नराजिविराजितम् ।
वन्देऽहं वासुदेवाङ्घ्रिवरपङ्केरुहद्वयम् ।। १ ।।

सदा मृदुपदन्यासास्सालङ्कारा रसावहाः ।
प्रगल्भा इव कामिन्यो जयन्त्यादिकवेर्गिरः ।। २ ।।

जयन्ति भुवने सन्तः सदा सन्तापहारिणः ।
निजवक्त्रेन्दुनिर्गच्छदच्छवाक्यामृतद्रवैः ।। ३ ।।

विनापि कारणेनोचैर्वेिसरद्वैरदारुणात् ।
दुर्जनाद्भीतिरत्यर्थं कस्य वा नोपजायते ।। ४ ।।

अशेषख्यातसाहित्यसारनिष्णातमानसः ।
सर्वेश्वर इतेि ख्यातः कविर्जयति भूतले ।। ५ ।।

मनोमन्दरमन्थानमथिताद्भरताम्बुधेः ।
यस्याजनि जनानन्दी ज्ञानामृतमहोदयः ।। ६ ।।

मन:कुवलयोल्लासकारिणी तिमिरापहा ।
यद्वक्त्रचन्द्रसंभूता भारती चन्द्रिकायते ॥ ७ ॥

निश्शेषजगदानन्दसन्दोहमुदिताशयः ।
यस्यागस्त्येश्वराधीशो वामराशिमुनिर्गुरुः ।। ८ ।।

उत्तुङ्गसत्त्वगम्भीरादुत्पन्नो यस्त्रिविक्रमात् ।
सन्मध्यविकसन्मूर्तिः सागरादिव चन्द्रमाः ।। ९ ।।

गङ्गातरङ्गनिर्धौतजटामुकुटशोभितः ।
यस्य चेतस्यसावास्ते सदारश्चन्द्रशेखरः ।। १० ।।