साहित्यसारः/पञ्चमप्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

       
             पञ्चमः प्रकाश:


              काकुलक्षणम्

साकाङ्क्षा च निराकाङ्क्षा चेति काकुर्द्विधा भवेत् ।
अनिर्युक्ताक्षरा वाणी साकाङ्क्षेति निगद्यते ॥ १ ॥

निर्युक्ताक्षरसंयुक्ता निराकाङ्क्षा भवेदिह ।
अल्पैरव्यक्तमुक्ता तु दुर्विज्ञेयतयापि च ॥ २ ॥

रसस्सस्मेरमस्माभिस्सम्यगेव विचार्यते ।

               रसस्वादुता

विभावैरनुभावैश्चसात्विकैर्व्यभिचारिभिः । । ३ ।।

स्वादुत्वं नीयमानोऽसौ स्थायिभावो रसो भवेत् ।
निरन्तररसव्यापी सदैव रसपोषकृत् ॥ ४ ॥

सोऽपि हेतुस्तदुत्पत्तेर्विभाव इति कथ्यते ।
विभावः कोऽपि शारीरो भावसंसूचनात्मवान् ।। ५ ।।

अनुभाव इति प्राज्ञैराज्ञातो भरतादिभिः ।
सुखदुःखादिभिर्भावैरनुकारिण्यवस्थितैः ।। ६ ।।

निरन्तरसमुद्भेदैः भावस्तद्भावभावनम् ।
यद्यप्याकुलयन्त्युच्चैरनुभावादभिन्नताम् ॥ ७ ॥

पृथगेव भवन्त्येते भावास्सर्वत्र सात्त्विकाः ।

                  सात्त्विकाः

स्तम्भप्रलयरोमाञ्चस्वेदवैकर्ण्यवेपथूः ॥ ८ ॥

४२
साहित्यसारे


अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।
स्तम्भस्तु निष्क्रियाङ्गत्वं प्रलयो नष्टसंज्ञता ।। ९ ।।

रोमाञ्चो रोमनिर्भेदस्स्वेदस्सीकरनिर्गमः ।
वैवर्ण्य वर्णनाशस्स्याद्वेपथुर्गात्रकम्पनम् ।। १० ।।

अश्रु नेत्राम्बु वैस्वर्य विस्वरत्वमुदाहृतम् ।
नाटकादिष्विमे दोषा नाट्यतत्त्वविचक्षणैः ॥ ११ ॥

सत्त्वादेव समुत्पत्तेस्सात्त्विका इति संज्ञिताः ।

         व्यभिचारिण:

सविशेषाभिमुख्येन स्थायिनोऽन्तश्चरन्ति ये ।। १२ ।

सम्यगुन्मग्ननिर्मग्नास्ते मता व्यभिचारिणः ।
निर्वेदम्लानिचिन्तेर्ष्यामदमोहमतिश्रमाः ।। १३ ।।

शङ्काधृतिस्मृतिव्याधिवितर्कोन्माददीनता: ।
आवेगालसतात्रासव्रीडामर्षोग्रतास्मयाः ॥ १४ ॥

जडता मरणं स्वप्नविषादौत्सुक्यविभ्रमाः ।
अपस्मारावहित्थान्ध्यप्रबोधप्रीतयस्तथा ।। १५ ।।

त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः ।

             निर्वेदः

सर्वलोकप्रसिद्धोऽसौ निर्वेदः स्वेदमाननम् ॥ १६ ॥
तत्त्वज्ञानवदीर्ष्यादेस्तदुत्पत्तिर्हि दृश्यते ।

             ग्लानिः
ग्लनिश्शरीरवैवश्यं कथ्यते सर्वकोविदैः ।। १७ ।।

उत्पाद्यते तत्सर्वत्र क्षुत्पिपासारतिश्चमैः ।
भवेयुस्तत्र वैवर्ण्यकम्पानुत्साहविक्रियाः ॥ १८ ॥

४३
पञ्चम: प्रकाशः


                चिन्ता

सर्वैस्सर्वत्र निर्दिष्टा चिन्ता ध्यानैकतानता ।
इष्टनाशादनिष्टस्य संपदो वा तदुद्भवः ॥ १९ ॥

तत्र स्युश्चित्तवैक्लव्यं तापनिश्वासनिर्गमाः ।

               ईर्ष्या

परोत्कर्षाक्षमासूया कल्पनीया मनीषिभिः ॥ २० ॥

गर्वदौर्जन्यमन्युभ्यस्सातु सञ्जायते नृणाम् ।
दोषोक्त्यवज्ञाभ्रुकुटीतर्जनानि भवन्ति हि ॥ २१ ॥

               मदः

हर्षोत्कर्षो मदः प्रोक्तस्सर्वेषामिह देहिनाम् ।
अभीष्टप्राप्तिसंभोगपानादिभ्यस्तदुद्भवः ॥ २२ ॥

स्खलदङ्गवचोमुद्रागतयस्संभवन्ति हि ।

                मोह:

मोहो विचित्तताज्ञेया देहवैवर्ण्यकारिणी ॥ २३ ॥

तस्यापि संभवो भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमावातघूर्णनादर्शनादयः ॥ २४ ।

                मतिः

मतिस्तत्त्वगता बुद्धिरदुष्टा शिष्टसम्मता।
सापि निष्पद्यते लोके शास्त्रादेस्तत्त्वसंपदा ॥ २५ ॥

तत्राभान्ति गुणोत्कर्षसदसच्चिन्तनादयः ।

                श्रमः
स्वेदस्सर्वाङ्गविश्रान्तः श्रम इत्यभिधीयते ॥ २६ ॥
अस्विन्न विस्युरङ्गेषु स्वेदसम्मर्दनादयः ।

               शङ्का
अनर्थादौ समुत्पन्ने शङ्का स्यात्प्रतिभादयः ॥ २७ ॥

४४
साहित्यसारे


पराविनयतस्स्वस्य दुर्नयाद्वोपजायते ।
भवेयुरस्विन्नातङ्कम्पवैवर्ण्यवेदनाः ॥ २८ ॥

              धृतिः
अशेषभोगभोक्तृत्वं धृतिरित्यभिधीयते ।
शक्तिज्ञानादिसन्तोषात्सापि संजायते परम् ॥ २९ ।।

अस्यामभिहितानन्दसंप्राप्तिरधिका भवेत् ।

                स्मृतिः
            
कथ्यतेऽपि बुधैस्सर्वैः स्मृतिस्संस्मरणादयः ।। ३० ।।

सदृशज्ञानचिन्तादिसंपद्भ्यस्सापि जायते ।
एतस्यामनुभावाः स्युर्भ्रूसमुन्नमनादयः ॥ ३१ ॥

                व्याधिः

  व्याधयस्सन्निपाताद्यास्तेषामभ्यत्र विस्तरः ।

                 वितर्क:

वितर्कस्तु विचारः स्यादतिसन्दिग्धवस्तुनि ॥ ३२ ॥

विकल्पशास्त्रप्रज्ञादेरुत्पतिस्तस्य दृश्यते ।
तत्राङ्गुलीर्विचलनभ्रूसिसेकास्तादयः॥ ३३ ।

               उन्मादः
अनिर पित्रकारित्व दस्संप्रकीर्तितः ।
ज्ञानादन्यस्य तात्पर्यस्रकादिभ्भस्सभायते ॥ ३४ ॥

तस्मिन्नस्थानरूढित्व(रुदित?) गीतहासस्मितादयः ।

        दीनता ( ग्रन्थ त:)

४५
पञ्चम: प्रकाश:

 
                 आवेगः

आवेगस्सहसा जातस्संभ्रमो हि निगद्यते ॥ ३५ ॥

राजानिलाहितस्निग्धवृष्टिवह्निभ्य एव च ।
उत्पातादथवा नाशादुत्पत्तिस्तस्य दृश्यते ॥ ३६ ॥

शास्रनागाभियोगा हेि दृश्यन्ते राजविड्वरे ।
पातादौ पांसुसंपाते दुःखसन्ततिमित्रजे ॥ ३७ ॥

वह्निजे धूमसंपातस्त्रस्ततोत्पातजे भवेत् ।
करिजे स्युर्भयस्तम्भकम्पापसरणादयः ॥ ३८ ॥

              आलस्यम्

सर्वाङ्गसादिलोकानानालस्यं जिह्मता मता ।
उद्भूतिः श्रमगर्भादेस्तस्य सन्दृश्यते जनैः ॥ ३९ ॥

तस्यानुभाववैवर्ण्यस्तोकभाषणजृम्भिकाः ।

               लासः
तत्त्वज्ञैर्मनसः कम्पस्रास इत्यभिधीयते ॥ ४० ॥
गजमेघाशनिस्थूणसंघट्टादुपजायते ।
भवन्ति पवनोत्कम्पसंभ्रमाणेकादयः ॥ ४१ ॥
              
               व्रीडा
अङ्गनामहिमाहेतुर्लज्जा लेत्ति क ते ।
अगग्यागममादिभ्यस्सा परं भाषते भुवि ॥ ४२ ॥
अङ्गावरणवैवर्ण्यसाचीकृतमुखादयः ।

                 अश्चर्यः
अमर्षोऽभिहितस्स र्दोषे ॥ ४३॥

४६
साहित्यसारे


अधिक्षेपप्रमादाद्वा रोषाद्वा जायते च सः ।
अत्र स्वेदाग्निचलनताडनग्रहणादयः ॥ ४४ ।।

             उग्रता

चण्डतैवहि सर्वेषामुग्रता विदुषां मता ।
दुष्टापवाददौर्मुख्यचौर्यात्सञ्जायते परम् ॥ ४५ ॥

अत्र स्वेदशिरःकम्पतर्जनीताडनादयः ।

               स्मय:
स्मयस्सर्वजनोन्मादी गर्व एवेह कथ्यते ॥ ४६ ॥

ऐश्वर्यबललावण्यरूपेभ्यस्तत्समुद्भवः ।
अत्रावज्ञाविलासाङ्गविभाषालटहादयः ।। ४७ ।।

               जडता

प्रतिपत्तेरभावेन स्तब्धता जडता मता ।
सा समुत्पद्यते लोके दायेतालोकनादिभि ।। ४८ ।।

अस्यामपि भवेत्सद्यस्त्वनिमेषनिरीक्षणम् ।
  
               मरणम्

प्रसिद्धमपि क्क्तव्यं मरणं भूतपञ्चता ।। ४९ ।।

विरहव्याधिदुष्कर्मविधिभ्यस्तस्य संभवः ।
जनताशोकविण्मूत्रस्तम्भनिश्चेष्टतादयः ।। ५० ।।

                 स्वप्नम्

संमीलनं हेि चित्तस्य निद्रेति परिगीयते ।
दुःखातिरेकवैक्लव्यमन:स्वेदादिभिर्भवेत् ॥ ५१ ॥

४७
पञ्चम:प्रकाश:


तत्र स्युरङ्गविक्षेपश्चासायासक्रियादयः ।

                 विषादः

विषादः कथ्यतेऽस्माभिस्सत्त्वस्यैवेह संक्षयः ॥ ५२ ॥
प्रारब्धवस्तुभङ्गादेरुत्पत्तिस्तस्य दृश्यते ।
निश्वासोच्छ्वासहृत्तापसहायान्वेषणादयः ॥ ५३ ॥

              औत्सुक्यम्

कालाक्षमत्वमौत्सुक्यं कथ्यते कविपुङ्गवैः ।
हृद्यवस्तु सुहृद्योगरत्यास्थाभिस्तदुद्भवः ॥ ५४ ॥

तत्रोच्छवासत्वरात्रासहृत्तापस्वेदविभ्रमाः ।

                विभ्रमः

विभ्रमः कथ्यते श्लाघ्यैरात्मश्लाघाक्रमोदयः ॥ ।।५५॥

हृद्यकालकलाक्रान्तकलापैरुपजायते ।
तत्रानुभावा रोमाञ्चस्वेदमन्दस्मितादयः ॥ ५६ ॥

                अपस्मार:

भूतप्रेतपिशाचानामपस्मारोऽधिरोहणम् ।
मन्त्रतन्त्रक्रियालापैस्सोऽपि सम्पद्यते नृणाम् ॥ ५७ ॥

भ्रूपादकम्पस्वेदादौ लालाफेनोद्भ्रमादयः।

                अवहित्थम्
काले मनस्संवरणमविहत्थं विदुर्बुधाः ॥ ५८ ॥

लज्जादिविक्रियाहेतुस्तत्समुत्पत्तिकर्मणः ।
तत्र साचीनवक्तूत्वमितजापविहस्तता ॥ ५९ ॥

४८
साहित्यसारे

              चापलम्
अनवस्थाक्रमाकारमान्ध्यं चापलमेव हि ।
कथ्यते च तदुत्पत्तौ हेतुर्मर्कटचित्तता ॥ ६० ॥

स तु सर्वत्र सन्तोषः परिमाणादिसंभवः ।
तत्र जृम्भाशिरःकम्पनयनोन्मीलनादयः ॥ ६१ ॥

तत्रानुभावाः पारुष्यस्वच्छन्दावगुणादयः ।

                प्रबोधः
निद्राभावः प्रबोधः स्यादसौ विख्यात एव हेि ।। ६२ ।।

                 हर्षः
 
सर्वाङ्गीणः प्रमोदस्य व्यापारो हर्ष उच्यते ।
अभिप्रेतोत्सवादिभ्यस्तस्य जन्मोपलभ्यते ॥ ६३ ।।

तस्मिन्नेवोपजायन्ते सस्वेदा गद्गदा गिरः ।

                स्थायी

न तिरस्क्रियते योऽन्यैर्भावैर्विपरिवर्तिभिः ॥ ६४ ॥

अन्येषामात्मनांकुर्वन् स स्थायी कथ्यते बुधैः ।
भावके वर्तमानत्वादास्वाद्यत्वाच्च भूयशः ॥ ६५ ॥

रसस्स एव निर्दिष्टो रसिकैर्भरतादिभिः ।
वृतेऽनुकार्ये चेत्स्वादुः कस्येदानीं रसावहः ॥ ६६ ॥

काव्यं न तत्प्रीतिकरं वर्तमानसुखावहम् ।
स्वदते कथमस्थायि निर्वेदादिस्वादिकः ।। ६७ ।।

तद्रूपभावविभवस्तेनाष्टौ स्थायिनस्स्मृताः ।
रत्युत्साहो जुगुप्सा च शोक(क्रोध?)मोहौ भ प्र ॥ ६८॥

४९
पञ्चमः प्रकाशः


शोकश्च कश्चिदप्यन्यो नेहास्माभिस्स कथ्यते ।
एतेषां काव्यबन्धेन स्वशब्दैरनिवेदितः ॥ ६९ ॥

स बन्धः कल्पनीयो हि भाव्यभावकसंज्ञितः ।
शश्वत्सहृदयग्रन्थेः परन्निकृ(र्वृ)त्तचेतसः ॥ ७० ॥

काव्यार्थभावनास्वादो नर्तकस्यापि वर्तताम् ।
स्वादुकाव्यार्थसंभेदादात्मन्यानन्दसंभवः ॥ ७१ ॥

विकारविस्तरक्षोभविक्षोभैस्स चतुर्विधः ।
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ।। ७२ ।।

हास्याद्भुतभयोत्कर्षकरुणानन्द एव च । ।

         रति:

हृद्यदेशकलावेषकालभाषाविभूषितः ॥ ७३ ॥

 
यूनोरन्योन्यसंसक्तचेतसोस्सदृशोदयः ।
निर्भरो यः प्रमोदः स्यात् स एव हि रतिस्स्मृतः ॥ ७४ ॥

सैव लावण्यपीयूषभूषितैरङ्गचेष्टितैः ।
प्रकृष्यमाणश्श्रृङ्गारस्सरसैरिह कथ्यते ॥ ७५ ॥

भावा ह्येकोनपञ्चाशदेतस्य पिरपोषकाः ।
आलस्यमरणोग्रत्वजुगुप्सास्तु विरोधिनः ॥ ७६ ॥

        संभोगलक्षणम्

असंभवोऽभियोगश्च संभोगश्रेति स त्रिधा ।
असंभवाऽनुरागः स्याद्यूनोरासक्तचित्तयोः ॥ ७७ ॥

सङ्गमाभावसुभगः पराधीनतया मिथः ।

५०
साहित्यसारे

      
              दशावस्याः

भवन्त्यत्र दशावस्या निर्दिष्टास्ता़xकोविदैः ॥७८॥

संस्मृत्युद्वेगाभिव्यप.....पोम्मादत्संग्वराः ।
चिन्तागुणकथानाव्यमरणानि यथाक्रमम् ॥ ७९ ।।

               तल्लक्षणानि

जगतस्तन्मयत्वेन दर्शनं तु स्मृतिर्मता ।
हृद्यवस्तुषु विद्वेषो xद्वेगः कथ्यते बुधैः ॥ ८० ॥

अभिलाषः स्पृहा प्रोक्ता काग्ये सर्वाङ्गसुन्दरे ।
असंबद्धकथालापः प्रलाप इति कथ्यते ॥ ८१ ॥

उन्मादश्चेतसो भ्रान्तिरनवस्थानिबन्धना ।
संज्वरस्तु समस्ताङ्गव्यापी तापोदयो महान् ॥ ८२ ॥

चिन्ता सदैव तल्लग्ना बुद्धिरन्यानपेक्षिणी।
तदलाभे तत्प्रशंसा गुणास्थानं निगद्यते ॥ ८३ ॥

चिन्तास्तिमितकायत्वं जडता विदुषां मता ।
सुप्रसिद्धं तु मरणं सर्वेषां कीर्तिशेषिता ॥ ८४ ॥

              मानप्रवासो
   
वियोगो विप्रलम्भः स्यादतिविस्रयोर्द्वयोः ।
मानप्रवासमेदेन स पुनर्द्विविधो भवेत् ॥ ८५ ॥

स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वा कल्पिते बुध्या दृष्टे वा तस्समुद्भवः ॥ ८६ ॥

श्रुतिस्सखीमुखात्तत्र कर्तव्या नाटकादिषु ।
अनुमाच्छलनिद्रान्ध्यगोत्रस्खलनलक्षणा ॥८७॥

५१
पञ्चमः प्रकाशः



सर्वत्र दर्शनोत्पन्नस्साक्षादिन्द्रियगोचरः ।
तत्र मात्रे सुमहति षडुपायविधिस्स्मृतः ॥ ८८ ॥

सामभेदौ प्रदानं च नत्युपेक्षारसान्तरम् ।
तत्र प्रियवचस्साम भेदस्तत्सख्युपार्जनम् ॥ ८९ ॥

दानं भूषणदानादि पादयोः पतनं मतिः ।
उपेक्षा समये निन्दा तदीयजनसंसदि ॥ ९० ॥

रभसत्रासहर्षादेः कोपस्पर्शो रसान्तरम् ।
अन्यः प्रणयमानः स्यादव्यापारसमुद्भवः ॥९१॥

प्रवासो भिन्नदेशत्वं कार्यसम्भ्रमशा़पजः ।
अनुभावा भवन्त्यत्र द्वयोरपि विशेषतः | ९२ ।।

निश्वासनिर्गमत्रासकार्श्यकम्दालकादयः ।
सोऽपि भावी भवं जात इति त्रेधैव निश्चितः ॥ ९३ ॥

             अनुकूलः
 
अनुकूलो निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि सस्म्भोगो मुदान्वितः ॥ ९४ ॥

              चेष्टाः

चेष्टास्तत्र प्रवर्तन्ते लीला द्वादश योषिताम् ।
विभावितः प्रतापाद्यैर्दीनाद्यैरनुभाषितः ।। ९५ ॥

अनुभावितः कार्श्याद्यैरुत्साहो वीरतां व्रजेत् ।
विभाविताविष्टगन्धवमनश्लेष्मकीटकैः॥ ९६ ॥

रुधिरान्त्रवसामसिरत्वयैभनुणात्थितः ।
वरप्रवृत्तिविद्वेषरिवैरिxतत्तैमषः ॥ ९७ ॥

५२
साहित्यसारे


भ्रुकुटीरचनाकम्पस्वेदाद्यैरनुभावितः ।
भावितो मदगर्वाद्यैः क्रोधो रौद्रो भवेत्स्वयम् ॥ ९८ ॥

विकृतात्कृत्रिमाद् द्वेषैरात्मनो वा परस्य वा ।
विभावितो भवेद्धासो हास्यस्मितविशेषतः ।। ९९ ।।

स्मितमुत्फुल्लनयनं सस्मितं सद्विजप्रभम् ।
स्वनयुक्तं विहसितमुपन्यासस्तु कम्पकृत् ॥ १०० ॥

अपहासस्सनीराक्षो ह्यतिहासोऽङ्गपातकः ।
श्रेष्ठमध्यकनिष्ठानां द्वौद्वौ स्यातां यथाक्रमम् ॥ १०१ ॥

निद्रालस्यश्रमम्लानिमूर्छाद्या व्यभिचारिणः ।
अतिलोकपदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः ॥ १०२ ॥

अस्यानुभावा नेत्राम्बुवेपथुस्वेदगद्गदाः ।
हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ १०३ ।।

विकृतत्वमसत्त्वादेर्भयभावो भयानकः ।
प्रभूतस्वेदवैवर्ण्यशोषवेपथुलक्षणः ॥ १०४ ॥

त्राससंभ्रमसंमोहदैन्यानि व्यभिचारिणः ।
इष्टनाशादनिष्टादेश्शोकात्मा करुणो रसः ॥ १०५ ।।

निश्वासोच्छ्वासदेहार्तिस्तम्भप्रलपितादयः ।
तत्रापस्मारदैन्यान्ध्यसभ्रमा व्यभिचारिणः ॥ १०६ ॥

             रसस्य वर्णाः

श्यामो वर्णस्तु शृङ्गारे विष्णुस्तत्राधिदैवतम्।
गौरो वीरस्तु विज्ञेयो महेन्द्रस्तस्य देवता ॥ १०७ ॥

५३
पञ्चमः प्रकाशः


नीलवर्णो हि बीभत्सो महाकालोऽधिदैवतम् ।
रौद्रः कपोतवर्णस्स्यात् रुद्रस्तस्याधिदैवतम् ॥ १०८ ॥

सितो हास्यः स्मृतस्सद्भिरीशः प्रथम(मथ)दैवतम् ।
पीतवर्णोऽद्भुतः प्रोक्तस्तस्याधीशः पितामहः ॥ १०९ ।

भयानकः कृष्णरूपस्स हि कालाधिदैवतः ।
हरिद्वर्णस्तु करुणः यमस्तस्याधिदैवतम् ॥ ११० ।।

अनेनैव क्रमेणासौ ज्ञातव्यो रसविस्तरः ।

          
               रसस्य वृत्ति:

शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः ॥ १११ ।

रसे रौद्रे सबीभत्सो वृतिस्सर्वत्र भारती ।
यत्र बीजस्य संहारो यत्रार्थः पर्यवस्यति ॥ ११२ ॥

सर्वेषां यत्र निष्कामस्सोऽङ्क इत्यवगम्यताम् ।

                 धर्मादयः

धर्मः स्वधर्मानुष्ठानं धर्माणां या विधेयता ॥ ११३ ॥

प्रजानां पालनेनैव षड्भागग्रहणं धनम् ।
समानकुलधर्माढ्यगृहिण्यां गृहमेधिनः ।। ११४ ॥

कृतकृत्यस्य संभोगः काम इत्यभिधीयते ।
निश्शेषस्सारसंसारविचारचतुरात्मनः ॥ ११५ ।।

मोक्षः स्याद् ज्ञानसंपत्त्या परमानन्दसंगतिः ।
संमिश्राः केवला वा स्युरेतत्सर्वत्र नाटके ॥ ११६ ।।

समाप्तौ सर्वसन्तोषो ह्युदर्कः प्रीतिरुच्यते ।

५४
साहित्यसारे



             नाटकेऽङ्कसंख्या

उक्तलक्षणनिष्पत्तिप्रसंक्त्या सम्यगर्चितम् ॥ ११७

पञ्चाङ्कनाटकं हीने दशाङ्कं प्राहुरुत्तमम् ।
सवेश्वरो रसविशेषविचारमेव-

    मापादयन्नमृतसोदरवाक्प्रवाहः ।
आनन्दहेतुरधुना भवि(भुवि)कस्य न स्यात्

     साहित्यसारसरसीरुहराजहंसः ॥

 इति साहित्यसारे पञ्चमः प्रकाशः