साहित्यसारः/चतुर्थप्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

चतुर्थः प्रकाशः

नाटकसन्धय:


  
अङ्कस्यान्ते समुत्पत्तिरङ्कस्यार्था विशेषतः ।
अङ्कावतारः कथितः सर्वनाटककोविदैः ॥ १ ॥

विष्कम्भकस्तु संक्षेपादतीतागतवस्तुनोः ।
सूचको मध्यमकृतश्शुद्धस्सद्भिरुदाहृतः ॥ २ ॥

नीचमध्यमपात्राभ्यां कृतस्सङ्कीर्णको भवेत् ।
नैपथ्ये पात्रविहिता सूचिकार्थस्य चूलेिका ॥ ३ ॥

नाट्यस्त्रियः



उदारा चतुरा प्राज्ञा मृद्वी रूपान्विता सती ।
नायिका कथ्यते सद्भिर्नाटके नायकोचिता ॥ ४ ॥

स्वकीयाऽन्या समानेति सा पुनस्त्रिविधा भवेत् ।
स्वकीया विधिवन्नेत्रा संप्राप्तकरपीडना ।। ५ ।।

मुग्धा मध्या प्रगल्भेति साऽपि त्रेधा निगद्यते ।
मुग्धा स्वल्पक्यःक्रोधा मृद्वी संमुग्धभाषिणी ॥ ६ ॥

अज्ञातसुरतोल्लासा किञ्चिदुद्यन्मनोभना ।
न कोऽपि भेदो नाट्यादौ सर्वत्रैकविधैव सा ।। ७ ।

धीरा मध्या त्वधीरेति मध्यमा त्रिविधा भवेत् ।
धीरा मध्या सललितं पश्यति स्मेरया दृशा ॥ ८ ॥

कथाभिस्सोपहासाभिर्दुनोति दयितं क्रुधा ।
स्वयं मध्या समुद्भिद्यद्यौवनानन्दशालिनी ॥९॥

३३
चतुर्थः प्रकाशः


मोहान्तसुरतोल्लासा कोपे किञ्चिद्विकत्थना ।
मध्या धीरेतरा बद्धाक्षरा गद्गदभाषिणी ॥ १० ॥

कृतापराधं दयितं सखीनां ताडयेत्पुरः ।
धीरा मध्या त्वधीरेति प्रगल्भाऽपि त्रिधा भवेत् ॥ ११ ॥

धीरा प्रगल्भा सक्रोधा सोल्लासेनैव चक्षुषा ।
सापराधं प्रियं दृष्ट्वा सा बहिस्सादरा भवेत् ॥ १२ ॥

प्रगल्भा स्वयमुद्भिन्नमन्मथोन्मादमन्थरा ।
सुरतालापलीलायामप्यत्यर्थविचेतना ॥ १३ ॥

विलीयमानेवाभाति दयितालोकने मुदा ।
कोपे मधुरसस्यन्दिवक्रोक्त्या खेदयेत्प्रियम् ॥ १४ ॥

धीरेतरा प्रगल्भा तु कुपिता मदमन्थरम् ।
प्रियं प्रत्यप्रियं वक्ति गम्भीरमधुराक्षरम् ॥ १५ ॥

मध्याप्रगल्भाभेदानां प्रत्येकं भरतादिभिः ।
ज्येष्ठाकनिष्ठाभेदेन द्वादशैताः प्रकीर्तिताः ॥ १६ ॥

अन्याधीनतया काव्येष्वन्योढा कन्यका मता।
नान्योढा कथ्यते क्वापि रससङ्गिकवीश्वरैः ॥ १७ ॥

कुर्यादङ्गानि संबन्धं कन्यका मदनोदया।
अन्योढाचरितं क्वापि जनहासाय विन्यसेत् ॥ १८ ॥

कलासु कुशला धूर्ता सम्मानगणिका स्मृता ।
नात्र तद्विस्तरोऽस्माभिरन्यत्र कृतिरूढितः ॥ १९ ॥

अष्टविधनायिका



आसामवस्थाः शास्त्रोक्ता भवन्त्यष्टौ मनोहराः ।
उत्कण्ठिता विप्रकठधा खण्डिता प्रोक्तिप्रिया ॥ २० ॥
5

३४
साहित्यसारे


स्वाधीनपतिकाश्लिष्टा वाससज्जाभिसारिके ।
प्रिये चिरयति व्यक्तं कुपितोत्कण्ठिता भवेत् ॥ २१ ॥

विप्रलब्धा समदना संकेतच्छलिता वधूः ।
व्यक्तव्यलीके दयिते खण्डिता रोषरुषिता । २२ ॥

यस्या देशान्तरगतो भर्ता सा प्रोषितप्रिया ।
स्वदासकल्पदयिता स्वाधीनपतिका भवेत् ॥ २३ ॥

प्रिये निर्वासिते रोषादाश्लिष्टा तापपीडिता ।
अलङ्कृता वसेत्प्रेयान्वाससज्जा प्रियागमे ॥ २४ ॥

कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ।

                दूत्यः

दूत्यो दासी सखी कारुर्धात्रेयी प्रातिवेशिका ॥ २५ ॥

लिङ्किनी भिक्षुकी स्वा च नेतृमित्रगुणान्विताः ।
दासी स्वकीया चेटी स्यात्सखी स्वस्य समा वधूः ॥ २६

रजकी कारुरुदिता धात्रेयी मातृसन्निभा ।
प्रतिवेश्मनि तिष्ठन्ती कथ्यते प्रातिवेशिका ।। २७ ।।

लेिङ्गिनी भिक्षुकी प्रोक्ता शिल्पिनी चित्रकारिका ।
स्वं पञ्चेत्येवमेवात्र दूतीनामष्टकं भवेत् ।। २८ ।।

           सत्त्वालङ्करणानि

नारीणां सत्त्वसंभूता अलङ्करणविंशतिः ।
भावहावौ च हेला च स्त्रीणामङ्गोद्भवास्त्रयः ॥ २९ ॥


शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यमित्येते सप्त ख्याता ह्ययत्नजाः ॥ ३० ॥

३५
चतुर्थः प्रकाशः


लीला विलासो विच्छित्तिः विभ्रमः किलिकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिम्बोको ललितं नतम् ॥ ३१ ॥

एते स्वाभाविका ख्याता दश विश्वे च विंशति ।
रागाविष्टं मनो भावो हावस्तत्सूचनाविधिः ॥ ३२ ॥

स एव हेला सुव्यक्तां शृङ्गाररसपोषकः ।
यौवनोदयसंभोगैदशोभा देहगता द्युतिः ॥ ३३ ॥

मदनोद्दीपिताकारा सैव कान्तिरिति स्मृतम्।
प्रतीयमानोऽपरधा दीप्तिः स्यात्कान्तिविस्तरः ॥ ३४ ॥

अनुल्बणत्वं माधुर्यं परुषेणापि वस्तुना ।
प्रागल्भ्यं साध्वसाभावः कामसन्दीपनोचितः ।। ३५ ।।

औदार्य मुग्धाता स्थायि प्रश्रयोन्मिश्रभाषणम् ।
अतिस्थिरगुणक्लिष्टा मनोवृत्तिस्तु धैर्यतः ॥ ३६ ॥

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः ।
तत्कालजनिताल्लासो विलासोऽङ्गक्रियादिषु ॥ ३७ ॥

स्वल्पाप्याकाररचना विच्छित्तिः कान्तिपोषकृत् ।
त्वरया विभ्रमः स्थाने भूषास्थानविपर्ययः ॥ ३८ ॥

अश्रुक्रोधभयादीनां सङ्करः केिलिकिञ्चितम् ।
मेोट्टायितं प्रियालापे तद्भावपरिभावनम् ॥ ३९ ॥

सार्द्रमन्तः कुट्टमितं क्रोधः केशग्रहादिषु ।
गर्वादिष्टतमे पुंसि बिम्बोकोऽनादरक्रिया ॥ ४० ॥

सुकुमारोऽङ्गविन्यासो मसृणो ललितं भवेत् ।
विचित्ररचनाप्राय. अङ्गैरेवानतिर्भवेत् ॥ ४१ ॥

३६
साहित्यसारे

              नाटकलक्षणम्

स्वभावशुद्धो मेधावी रक्तलोको दृढव्रतः ।
शरः प्रियंवदस्त्यागी मधुरो लोकविश्रुतः ॥ ४२ ॥

युवा विद्वत्प्रियो भोगी गीतादौ निपुणः प्रभुः ।
नाटके नायकः प्रोक्तो नाट्यशास्त्रविचक्षणैः ॥ ४३ ॥

धीरोपपदसंबद्वैः सभेदैर्लोकविश्रुतैः ।
नेता चतुर्धा ललितशान्तोदातोद्धतैरिह ॥ ४४ ॥

निश्चिन्तो यौवनोद्धात्मा कलाकुशलमानसः ।
समृद्धो धीरललितो विलासी वनिताप्रियः ॥ ४५ ॥

सामान्यगुणभूयिष्ठस्सविशेषपराक्रमः ।
मितभाषी निर्विकारो धीरशान्तो द्विजादिकः ।। ४६ ।।

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ।
धीरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ॥ ४७ ॥

गम्भीरो मत्सरग्रस्तो मायावी कामनिष्ठुरः ।
धीरोद्धतो हितद्वेषी वीरश्चण्डो विकत्थनः ।। ४८ ।।

रसे चतुर्विधो नेता शृङ्गारे नाटकादिषु ।
अनुकूलो दक्षिणश्च शठो धृष्ट इति क्रमात् ॥ ४९ ॥

एकामेवाश्रयेद्यस्तु सोऽनुकूल इति स्मृतः ।
ज्येष्ठायामपि गेहिन्यां सस्नेहो दक्षिणो भवेत् ॥ ५० ॥

गूढविप्रियकारी यः शठस्सः कथ्यते बुधैः ।
व्यलीकविक्रमश्लाघी घृष्टो लज्जाविनाशकः ॥ ५१ ॥

पूर्वोक्तास्ते तु चत्वारः प्रत्येकोऽर्थदशावशात् ।
काव्यनाटकभेदेषु भवन्त्येव हि षोडश ॥ ५२ ॥

३७
चतुर्थ: प्रकाशः


नैव भेदोऽनुकूलस्य स्थिरैकदयितास्थितेः ।
ज्येष्ठमध्यकनिष्ठत्वसंपादनविधिक्रमात् ॥ ५३ ।।
अष्टाधिकं पुनस्तेऽपि चत्वारिंशद्भवन्ति च ।

             पारुषा गुणाः

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ॥ ५४ ॥

ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ।
दीनेषु करुणा स्पर्धा गुणाढ्येषु पराक्रमे ।। ५५ ।।

दक्षता शास्त्रविषये शोभेतेि वेिदुषां मता ।
गतिर्गभीरा दृष्टिश्च सगर्वा सस्मितं वचः ।। ५६ ।।

विलासस्सत्त्वसंपन्नः पुरुषस्य निगद्यते ।
मनोविकारो माधुर्यं संक्षोभे सुमहत्यपि ।। ५७ ।।

विकारहेतावुत्पन्ने गाम्भीर्यं निर्विकारता ।
व्यवसायादचलनं विन्नैरत्यर्थमांकुकात् ॥ ५८ ॥

नेतुरुत्तमभावस्य स्थैर्यमाहुर्मनीषिणः ।
अधिक्षेपादिदोषणां कृतानामहितैर्जनैः ॥ ५९ ॥

सद्यस्स्वप्राणनाशेऽपि तेजस्वदसहिष्णुता ।
शृङ्गाराकारचेष्टावन्मृदुत्वं ललेितं विदुः ।। ६० ॥

औदार्यं प्राणदानादिः परस्योज्जीवनेच्छया ।

             तत्सहायाः
  
तत्सहायः पीठमर्दस्तया विटविदूषकौ ॥ ६१ ॥

किञ्चिदूनगुणस्तस्मात् पताकानायको महान् । ।
सर्वविद्यासु निपुणः पीठमर्दोऽनिषीयते ॥ ६२ ॥

३८
साहित्यसारे


एकविद्याविशेषज्ञो विटस्सललिताकृतिः ।
हाससंपादनपटुर्विरूपो हि विदूषकः ।। ६३ ।।

लुब्धो धीरोद्धतस्तब्धो नीतिशून्योऽतिगर्वितः ।
परनिन्दानिरतधीः पापकृत्प्रतिनायकः ।। ६४ ।।

            नायकादिलक्षणम्

मन्त्री स्वं वा सखा तस्य स्वयं वा वित्तिचिन्तने ।
सचिवायत्तसंसिद्धिर्ललितो नायको भवेत् ।। ६५ ।।

उभयायत्तसिद्धिः स्याद्धीरशान्तो महामतिः ।
मन्त्रिष्वारोपितभरः प्रत्यक्षं मनसा स्वयम् ।। ६६ ।।

स्वतन्त्रः कुरुते कार्यं धीरोदात्तस्तु नायकः ।
नेता धीरोद्धतश्शश्वत् स्वाधीनाशेषकार्यकः ।। ६७ ।

धर्मेषु देवभूदेवगुरुवर्णिपुरोहिताः ।
दण्डनीतिविधौ तस्य नेतुरेकमहत्तरः ॥ ६८ ।।

सुहृत्कुमारको दण्डकोशस्सामन्तसैनिकाः ।
अन्तःपुरे वर्षवरकिराता भूकवामनाः ।। ६९ ।।

म्लेच्छाभीरकिराताद्याः विस्रम्भस्यैकमूमयः ।
एवं विधो भवेन्नेता नायकस्सुपरिच्छदः ।। ७० ।।
   
            पाठ्यभाषा

राजविप्रविटामात्यसुभटाधीतयोषिताम् ।
नटनर्तकधूर्तानां संस्कृतं पाठ्यमुच्यते ।। ७१ ।।

देवदानवगन्धर्वसिद्धनागेशरक्षसाम् ।
काञ्चुकीयप्रतीहारिलिङ्गिनीवणिजामपि ।। ७२ ।।

३९
चतुर्थ: प्रकाशः

विद्याधरवर्षवरमहादेवीविलासिनाम् ।
योगिनां योगिनीनां च संस्कृतं संप्रयोजयेत् ॥ ७३ ॥

छद्मलिङ्गप्रविष्टानां निगूढानां तपस्विनाम् ।
शाक्यचक्रचराणां च संस्कृतं न प्रयोजयेत् ॥ ७४ ॥

अधमानां कुविद्यानामज्ञानामल्पचेतसाम् ।
क्षुत्पीडाविकलानां च संस्कृतं न प्रयोजयेत् ॥ ७५ ॥

स्त्रीणां तु प्राकृतं प्रायः शूरसेन्यधमेषु च ।
पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ ७६ ॥

शकारभाषा चण्डानां प्रकृत्या जडतेजसाम् ।
यद्देश्यं नीचपात्रं च तद्देश्यं तस्य भाषितम् ॥ ७७ ॥

आभीरभाषा वक्तव्या सर्वेषां घोषवर्तिनाम् ।
कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥ ७८ ॥

शृङ्गाररसमूर्छायां गीते च ऋतुवर्णने ।
सर्वासामपि नारीणां संस्कृतं संप्रयोजयेत् ॥ ७९ ॥

भगवन्तः परैर्वाच्या विद्वद्देवर्षिलिङ्गिनः ।
विप्रामात्याग्रजाचार्यनटसूत्रभृतो मिथः ॥ ८० ॥

विदूषकेण सर्वत्र नायिका परिचारिका ।
राजमाता च धात्री च भवतीति निगद्यते। ८१ ।।

राज्ञा वयस्य इत्येव नामपूर्वं विदूषकः।
विदूषकेण राजा च निर्णामं तद्वदेव हि ॥ ८२ ॥

भावोऽनुगेन सूत्री च मारिषेत्येव सोऽपि च ।
आमन्त्रणीया ह्यन्योन्यमेवमन्येऽपि युक्तितः ॥ ८३ ॥

अङ्कान्तसंस्थितैः पात्रैरुत्त्तराङ्कार्थसूचनम्।
कर्तव्यमिति तत्पूर्वैः सविमर्शं निगद्यते ॥ ८४ ॥

४०
साहित्यसारे

<poem> अङ्कद्वयान्तरालस्यो नीचपात्रप्रयोजितः। प्रकृत्युत्पन्नभाषावानिति ज्ञेयः प्रवेशकः ॥ ८५॥

मलयजमुनिपुङ्गवेन तुङ्ग- स्फुरितयशोबिसरेण नाटकादेः। रचितमिदमुद्वीक्ष्य लक्ष्यरम्य स्थितमधुराननतां व्रजन्तु सन्तः॥८६॥

इति साहित्यसारे चतुर्थः प्रकाशः।