साहित्यसारः/षष्ठप्रकाशः

विकिस्रोतः तः
               




   

             षष्ठः प्रकाश:
       ‌
                नाटकलक्षणम्


कीर्तिकामो महोत्साहो धीरोदात्तः प्रतापवान् ।
अभिगम्यगुणैर्युक्तस्त्रय्यxता महीपतिः ॥ १ ॥

कर्तव्यो नाटके नेता देवो राजर्षिरेव वा ।
प्रख्यातमेव कर्तव्यं वृत्तमप्याधिकारिकम् ।। २ ।।

अत्यर्थानुचितं यत् स्यान्नायकस्मेतरस्य वा ।
तत्परित्यज्यतां सम्यगन्यथा वा प्रकल्पयेत् ।। ३ ।।

साद्यन्तं वस्तु निश्चित्य पञ्चधा संविभज्य च ।
खण्डशस्सन्धिसंज्ञांस्तान् भागान् कुर्याद्विचक्षणः ।। ४ ।।

चतुष्षष्ट्यङ्गसंस्थानं तदंशैः कल्पयेत्पुनः ।
पताकावृत्तमन्यूनं विन्यसेत्प्रकरीमपि ॥ ५ ॥

वेिष्कम्भकं वा प्रथममङ्कं वा कार्ययोगतः ।
प्रत्यक्षनेतृचरितः सबिन्दुर्व्याप्तिभूषणः ॥ ६ ॥

अङ्को नानाप्रकारार्थस्सार्थ एव हि शोभनः ।
सविभावानुभावोऽन्यस्थायिमस्सम्यगङ्गिनः ।। ७ ।।

गृहीतवृत्तैः कर्तव्यं प्रौढत्वं व्यभिचारिभिः ।
न नयेद्वस्तुविच्छेदमत्यन्तरसपोषणात् ॥ ८ ॥

रसं च न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः ।
शृङ्गारोऽप्यथवा वीरः कर्तव्यो वाङ्गिलक्षणः ॥ ९ ॥

५६
साहित्यसारे


रसानां पुनरन्येषामङ्गत्वं पतिपाद्यताम् ।
भोजनस्नानसुरतवधसंरोधसङ्करान् ॥ १० ॥

विवाहं दूरगमनं देशराज्याद्युपप्लवान् ।
गन्धमाल्याम्बरादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ ११ ॥

द्वित्राणामेव पात्राणामेकदैवागमो भवेत् ।
सर्वेषां निर्गमे जाते संभवेन्नेतृनिर्गमः ।। १२ ।।

           प्रकरणलक्षणम्

ततः प्रकरणे वस्तु वक्तव्यं स्वमनीषया !
लोकवार्ता स्वयं हृद्यं व्यवहारक्रमोचितम् ॥ १३ ॥

सचिवद्विजवैश्यानामेक एव हि नायकः ।
धीरप्रशान्तस्सोपायो धर्मकामार्थतत्परः ॥ १४ ॥

द्विविधा नायिका तत्र कुलस्त्री गणिका तथा ।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥ १५ ।

अभ्यन्तरस्था कुलजा वेश्या बाह्यैव सर्वदा।
शुद्धं शुद्धेतरं तद्वत् संकीर्णमिति तत्रिधा ॥ १६ ॥

शुद्धं कुलस्त्रियायुक्तमितरद्गणिकाश्रितम् ।
आभ्यां सङ्कीर्णकं धूर्तविटचेटीजनाश्रितम् ।। १७ ।।

शेषं नाटकक्त्सन्धिप्रवेशकरसादिकम् ।
            
              नाटिकालक्षणम्

अत्रैव वर्तते सापि नाटिका नाटकोद्भवा ।। १८ ।।

तत्र प्रकरणाद्वस्तु नाटकाxपि किञ्चन ।
नायको ललितः ख्यातः कामभोगैकनिष्ठितः ॥ १९ ।।

५७
षष्ठः प्रकाश:


स्रीप्राया चतुरङ्का च शृङ्गारो रसलक्षणः ।
देवी तत्र कुलज्येष्ठा प्रगल्भा नृपवंशजा ॥ २० ॥

तदधीनतया कृच्छ्रादन्यस्या नेतृसङ्गमः ।
वृत्तिस्तु कैशिकी तत्र पूर्वोक्ताङ्गसमन्विता ॥ २१ ॥

सन्धिसन्ध्यङ्गरचना यथालाभं विधीयते ।

              सट्ट्कम्

प्रायेण नाटिकाप्रायं चतुर्यवनिकान्तरम् ॥ २२ ।।

विष्कम्भकादिभिस्सर्वैर्विहीनं पञ्चसूचकैः ।
सट्टकं स्त्रीजनाकीर्णमेकभाषामयं भवेत् ॥ २३ ॥

                भाणः

धूर्तानां चरितं भाणं ख्यातवर्तनसंश्रयम् ।
तत्र पात्रं विटस्त्वेको निपुणश्शास्त्रकोविदः ॥ २४ ॥

उक्तिप्रत्युक्तिविधयः सम्यगाकाशभाषितैः ।
विधेयाः कल्पनीयानि लास्याङ्गानि दशापि च ॥ २५ ॥

श्रृङ्गारवीरौ संसूच्यौ रसौ सौभाग्यसंस्तवैः ।
मुखनिर्वहणे सन्धी तदङ्गैरपि भूषितः ॥ २६ ॥

एकाः स्थापनायुक्तो भारत्या स तु संस्कृतः ।

                 ईहामृगः

ईहामृगोऽपि विज्ञेयश्चतुरङ्कस्त्रिसन्धिकः ॥ २७ ॥

दिव्यावनियताका नायकप्रतिनायकौ ।
धीरोद्धतौ ख्याxxणै यदृच्छासङ्गतौ मिथः ॥ २८ ॥

५८
साहित्यसारे


वधूं दिव्यामनिच्छन्तीं हठादाहर्तुमिच्छतः ।
शृङ्गारलेशमधुरस्सम्यगारन्धसङ्गरः ॥ २९ ॥

छलेन येन केनापि तत्र युद्धं निवारयेत् ।
सत्कर्णोद्वत्तष्ठत्तिभ्यां कर्तव्यश्च कवीश्वरैः ॥ ३० ।।

             वीथी

वीथी सकैशिकीवृतिरेकाङ्का स्थापनावती ।
एकपाक्कृxसङ्गमुखनिर्वहणाश्रिता ॥ ३१ ॥

देवतापसविख्यातकथासंबन्धशालिनी ।
रसस्सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥ ३२ ॥

हृद्यपद्यावलिप्राया तदङ्गानि त्रयोदश ।
छलप्रपञ्चत्रिगतवाक्केलीगण्डमालिकाः ॥ ३३ ।।

उत्खात्यकाक्लगिते व्याहाराधिदले तथा ।
असत्प्रलापमृदवोस्तथापस्पन्दितं पुनः || ३४ ॥

अशोभनैश्शोभनाभैरर्थैरुक्तिश्छलं भवेत् ।
मिथ्यास्तुतिर्मिथोभाता प्रपञ्च इति कथ्यते ॥ ३५ ॥

श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं मतम् ।
वाक्केली मधुरा वाणी नर्मx गर्भितं भवेत् ॥ ३६

गण्डमप्रस्तुतं वाक्यं प्रस्तुतस्याविरोधतः।
प्रहेलिकैव गूढार्था नालिकेति निगद्यते ॥ ३७ ।।

गूढार्थपदसम्बन्धा नानाप्रxxवलिः ।
अन्तxxहिका xxxxxxxxxxxxx xxx ॥३८॥

५७
षष्ठः प्रकाशः


विहाय प्रस्तुतं कार्यं यदन्यस्साध्यते नरैः ।
अत्राक्लगितं प्राहुस्तदेव कविपुङ्गवाः ।। ३९ ।।

हासाय प्रस्तुतं वाक्यं व्याहारोऽर्थान्तराश्रितम् ।
अन्योन्यवाक्याधिकयोः स्पर्धयाधिबलं भवेत् ।। ४० ।।

असत्प्रलापः प्रायेण. संबन्धरहितं वचः ।
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवो हि तत् ॥ ४१ ॥

वचसामन्यथाव्याख्या ह्मपस्पन्दितमुच्यते ।

                व्यायोगः

विख्यातवृत्तो व्यायोगो विख्यातोद्धतनायकः ॥ ४२ ।।

हीनो गर्भावमर्शाभ्यां दीप्ता हास्यादयो रसाः ।
वृत्तिरारभटी प्रायो बहुक्रूरजनावृतः ॥ ४३ ॥

एकाहश्चरितैकाङ्क्षो ह्मस्रोकरणसङ्गरः ।

                 समवकारः

कुर्यात्समवकारोऽपि सम्यगामुखलक्षणम् ॥ ४४ ॥

ख्याता देवासुरकथा वस्तुत्वेन निरूप्यताम् ।
कैशिक्या रहितास्तत्र वृत्तयः परिकीर्तिताः ॥ ४५ ॥

सुरासुरास्तु नेतारो निर्विमर्शाश्च सन्धयः ।
अत्र द्वादश नेतॄणां फलं कुर्यात्पृथक्पृथक् ॥ ४६ ॥

वीरप्रायस्सत्रय्यङ्गस्त्रिशृङ्गारस्त्रिविxषः ।
कपटत्रितयोपेतश्चित्रेोक्त्या परिपूरितः ।। ४७ ॥

विसन्धिरङ्कः प्रथमः कायों द्वादशनाडिकः ॥
नाडिकानां x यः पश्चात् प्रत्येकं xxxxxx ॥ ४८॥

६०
साहित्यसारे

नाडिकाघटिकायुग्ममितिं सर्वजनश्रुतिः ।
वस्तुस्वभावा दैवारिकृताः स्युः कपटास्त्रयः ॥ ४९ ॥

देशोपरोधसंग्रामवहिभ्यो विद्रवास्त्रय: ।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥ ५० ॥

वीथ्यङ्गानि यथाकार्म सोपहासानि कल्पयेत् ।

         उत्सृष्टिकाङ्कम्

उत्सृष्टिकेति विख्यातं वस्तु बुद्धया प्रपञ्चयेत् ।। ५१

करुणाख्यो रसः स्थायी नेतारः पूर्वकल्पिताः ।
सन्धिसन्ध्यङ्गवृत्त्यङ्गैः भाणवत्परिकल्पयेत् ॥ ५२ ||

स्त्रीणामालापसल्लापविलापादिभिराकुल: ।
वाचा विधेयस्संग्रामो वचसैव जयाजयौ ॥ ५३ ॥

            प्रहसनम्

ततः प्रहसनं प्रायः कल्पयेद्बुद्धिवैभवैः ।
शुद्धं सविकृतं तद्वत् सङ्कीर्णमिति तत्तूिधा ॥ ५४ ।।

द्विजपापण्डिदुर्वर्णिचेटचेटीविटावृतम् ।
वेषभाषाविभूषाद्यैः शुद्धं हासकृतं भवेत् ॥ ५५ ॥

कामुकैरतिवाचाटैश्वण्डदुष्पण्डितादिभिः ।
जरत्कञ्चुकिनिर्गन्धतापसैर्विकृतं स्मृतम् ॥ ५६ ॥

धूर्तकापालिकमात्यचोरसंवाहकादिभिः ।
वीथ्यङ्कैरन्तराकीर्णं सङ्कीर्णमिति कथ्यते ।। ५७ ॥

षष्ठः प्रकाशः


रसस्तु भूयसा कार्यो हास्यो नानाविधाश्रयः ।
मुखनिर्वहणे सन्धी वृत्तिरेकैव भारती ॥ ५८ ॥

एकोऽङ्कः कल्पनीयः स्यात् नानाहासमनोहरः ।

             डिमः

डिमो विशेषविग्न्यातवस्तुविस्तारशोभितः ।। ५९ ।।

वृत्तयः कैशिकीहोना रसः शृङ्गारवर्जिताः ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ।। ६० ।।

भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
मायेन्द्रजालसङ्ग्रामनिर्घानोत्पातविभ्रमान् ।। ६१ ।।

चन्द्रसूर्योपरागांश्च सम्यगेव विनिर्दिशेत् ।
रौद्रो रसश्च कर्तव्यश्चत्वारोऽङ्कास्सविस्तराः ॥ ६२ ।।

दीर्घवृत्तिविचित्रार्थो निर्विमशों डिमो भवेत् ।
सन्धिसन्ध्यङ्गवृत्त्यङ्गवृत्तिनायकवस्तुभिः ।। ६३ ।।

भिद्यमानाङ्कसङ्केतभेदाः स्युर्नाटके दश ।

सदृढरचितबन्धस्साधु सर्वेश्वरेण
प्रथितभरतशास्रप्राप्तभूषाविशेषः ।

मृदुतरपदशय्याशोभितश्शश्वदुच्चैः
सरसमनसेि भूयादेष साहित्यसारः ।। ६४ ।।

इति श्रीमन्मलयजमहापण्डितसर्वेश्चराचार्यविरचिते

   साहित्यसारे षष्ठः प्रकाशः

साहित्यसारे


अस्य साहित्यसारस्य सङ्ख्या सर्वेशकल्पिता ।
भवेदष्टाधिकैवात्र षट्शती सुमनोहरा ॥
सर्वेशकविः कर्ता साहित्यसाररचनायाः ।
श्रीवामराशिदेवो यस्य गुरुर्मुनिवराधीशः ॥ (आदर्शान्तरे)

यदबोधादिदं भाति यद्बोधाद्विनिवर्तते ।
नमस्तस्मै परानन्दवपुषे परमात्मने ।।

            श्रीरस्तु







Printed at the Tirumalai-Tirupati Devasthanam Press,
Tirupati Published by the Director Sri Venkateswara Oriental Institute