साहित्यसारः/प्रथमप्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

श्रीः

महाकवि सर्वेश्वर विरचित:

साहित्यसारः

सुरासुरशिरःश्रेणीरत्नराजिविराजितम् ।
वन्देऽहं वासुदेवाङ्घ्रिवरपङ्केरुहद्वयम् ।। १ ।।

सदा मृदुपदन्यासास्सालङ्कारा रसावहाः ।
प्रगल्भा इव कामिन्यो जयन्त्यादिकवेर्गिरः ।। २ ।।

जयन्ति भुवने सन्तः सदा सन्तापहारिणः ।
निजवक्त्रेन्दुनिर्गच्छदच्छवाक्यामृतद्रवैः ।। ३ ।।

विनापि कारणेनोचैर्वेिसरद्वैरदारुणात् ।
दुर्जनाद्भीतिरत्यर्थं कस्य वा नोपजायते ।। ४ ।।

अशेषख्यातसाहित्यसारनिष्णातमानसः ।
सर्वेश्वर इतेि ख्यातः कविर्जयति भूतले ।। ५ ।।

मनोमन्दरमन्थानमथिताद्भरताम्बुधेः ।
यस्याजनि जनानन्दी ज्ञानामृतमहोदयः ।। ६ ।।

मन:कुवलयोल्लासकारिणी तिमिरापहा ।
यद्वक्त्रचन्द्रसंभूता भारती चन्द्रिकायते ॥ ७ ॥

निश्शेषजगदानन्दसन्दोहमुदिताशयः ।
यस्यागस्त्येश्वराधीशो वामराशिमुनिर्गुरुः ।। ८ ।।

उत्तुङ्गसत्त्वगम्भीरादुत्पन्नो यस्त्रिविक्रमात् ।
सन्मध्यविकसन्मूर्तिः सागरादिव चन्द्रमाः ।। ९ ।।

गङ्गातरङ्गनिर्धौतजटामुकुटशोभितः ।
यस्य चेतस्यसावास्ते सदारश्चन्द्रशेखरः ।। १० ।।

साहित्यसारे

लसन्मृदुपदावल्या बालव्युत्पत्तिकारणम् ।
तेन साहित्यसारोऽसौ क्रियते नाट्यलक्षणम् ॥ १ १ ।।

आहृतं भरतात्किञ्चिदुत्तरात्किञ्चिदुद्धृतम् ।
कलितं कोहलात्किञ्चित्किञ्चिद्भरतविस्तरात् ।। १२ ।।

शास्त्रमेतदनालोच्य स्वबुद्ध्या नाटकादिषु ।
पद्यं वा पदमेकं वा यः करोति समन्दधीः ।। १३ ।।

यश्शब्दशास्त्रनिशित: स्वभावविशदाशयः ।
भरतादिषु निष्णातः स हि साहित्यपण्डितः ।। १४ ।।

अशास्त्रज्ञः प्रयोक्ता च प्रेक्षावानपि कोविदैः ।
अस्य तन्त्रस्य तत्त्वज्ञैः निर्लभ इति कथ्यते ।। १५ ।

अभियोगाभिभूतात्मा रसभानविभावकः ।
पठिताशेषभरतः प्रयोक्ता भरतोदितम् ॥ १६ ॥

गुणागुणगणाशेषपरीक्षाप्रवणाशयैः ।
शास्त्रमेतदशेषेण बोद्धव्यं प्रेक्षकैरपि ।। १७ ।।

वस्तुनस्तत्त्वमास्थाय तन्मयत्वेन भावकः ।
सुप्रसन्नाशयः प्रोक्तः प्रेक्षको नाट्यकोविदैः ।। १८ ।।

नाट्यं दशविधैर्भेदै: भिन्नं संज्ञासमन्वितैः ।
ताननेकपदाकारं निरुक्त्यैव वदाम्यहम् ।। १९ ।।

नाटकं सप्रकरणं भाणेहामृगवीथय: ।
व्यायोगः समवाकारः साङ्गं प्रहसनं डिम: ।। २० ।।

अन्येषां प्रकृतित्वेन निश्शेषैर्लक्षणैस्सह ।
तत्र नाटकमाचार्यैरादावेव विचार्यते ।। २१ ।।

नटानामिदमित्याहुर्नाटकं वा विचक्षणाः ।
चत्वारो ब्रह्मणः पुत्रा नटास्तु भरतादयः ॥२२॥

प्रथमः प्रकाशः

येषां नामभिरेवैताश्चतस्रो वृत्तयस्स्मृताः ।
सर्वविद्याविधिर्नाट्यमिति नाट्यविदो विदुः ।। २३ ॥

षट्सहस्रीकृताप्येतदेवमेवोदितं यथा ।
न सा विद्या न तच्छिल्पं न तद् ज्ञानं न सा क्रिया ॥ २४ ॥

नासौ कला न तद्गोप्यं नाटकं यन्न दृश्यते ।
नान्दीप्रस्तावनावस्तुबीजबिन्दुविभूषितम् ॥ २५ ॥

सन्धिसन्ध्यङ्गसहितं साङ्गवृत्तिसमन्वितम् ।
निश्शेषदूषणापेतमाविष्कृतविभूषणम् ॥ २६ ।।

अशेषलक्षणोल्लासि भाषासङ्केतभूषितम् ।
अङ्कावतारविष्कम्भचूलिकाभिरलङ्कृतम् ॥ २७ ॥

नायिकानायकानेकपरिवारजनावृतम् ।
पाठ्ययोगगुणाङ्कास्यप्रवेशकनिरन्तरम् ॥ २८ ॥

सकाकुरसगर्भाङ्कं चतुर्वर्गफलाश्रयम् ।
सर्वप्रीतिकरोदर्कं विज्ञेयं नाटकं बुधैः ॥ २९ ॥

नन्दी वृषो वृषाङ्कस्य जगदादौ जगत्पते: ।।
नृत्यत: कल्पनायोगाज्जगाम किल रङ्गताम् । ३० ।

तस्य तद्रङ्गसंबन्धात्पूजा या क्रियते जनैः ।
नाटके नाट्यतत्त्वज्ञैः सा नान्दीत्यभिधीयते ॥ ३१ ॥

या पूर्वरङ्गसंबन्धाद्वाविंशत्यङ्गवर्तनी ।
सभ्यान् नन्दयतीत्येवं सापि नान्दी निगद्यते ॥ ३२ ॥

कविभावकशैलूषैरशेषैर्नाटकादिषु ।
क्रियते सा यथासंख्यं वाङ्मनःकायकर्मभिः ॥ ३३ ॥

सूक्तिमुक्ताकलापेन सूत्रेणैकत्र वस्तुनः ।
क्रियते सूचना नाट्ये या सा प्रस्तावना स्मृता ॥ ३४ ॥


साहित्यसारे

आमुखस्थापनाभेदात् सा पुनर्द्विविधा भवेत् ।
सूत्रधारो नटीयुक्तो वस्तुप्रस्तावनाविधिम् ॥ ३५ ॥

कुरुते यत्र सद्वृत्तैस्तदामुखमुदाहृतम्।
पारिपार्श्वकसंयुक्तो वा विदूषकसंयुतः ॥ ३६ ॥

वस्तु विस्तारयेत्सूत्री यत्र सा स्थापना स्मृता ।
अत्रैवं विधिरादिष्टो गुरुभिस्तत्त्ववेदिभिः ॥ ३७ ॥

पूर्वरङ्गं विधायादौ साङ्गं रङ्गव्यवस्थितेः ।
कृतसादस्य सत्कारे सूत्रधारे कृताञ्जलौ ॥ ३८ ॥

तद्वन्नटः प्रविश्यान्यश्शुद्धाम्बरधरश्शुचिः ।
काव्यमास्थापयेदाशु सविशेषगुणाश्रयम् । ३९ ॥

दैविकं दैविको भूत्वा मानुषं मानुषाकृतिः ।
तयोरन्यतरो भूत्वा मिश्रीभूतमपश्रमः ॥ ४० ॥

सूचयेत्स्वगिरा साधु प्रोद्भिद्यदमृतश्रिया ।
सबीजं वस्तु वा तत्र मुखं वा पात्रमेव वा ॥ ४१ ॥

अनवद्यपदैः पद्यै: सभ्यासभ्यान् प्रसादयन् ।
ऋतुमासाद्य यं कञ्चिद्भारतीं वृत्तिमाश्रयेत् ॥ ४२ ॥

भारती तु यथायोगं स्वप्रसङ्गे विधास्यते ।
सर्वमुक्त्वाऽथ वक्तव्यमन्ते प्रस्तावनाविधेः ॥ ४३ ॥

सूत्रधारः स्वयं गच्छेदागच्छेत्पात्रमन्तिके ।
सूचितस्स्तुतया गीत्या श्रुत्वा स्मृत्वा समीक्ष्य वा ॥ ४४ ॥

नाटके नायकादीनां कथावस्त्वभिधीयते ।
मुख्यामुख्यप्रभेदेन तदत्र द्विविधं स्मृतम् ॥ ४५ ॥

तत्र नेतृकथामुख्यममुख्यमितरद्भवेत् ।
तदमुख्यमपि त्रेधा वस्तु सर्वत्र नाटके ॥ ४६ ॥


प्रथमः प्रकाशः

पताकाप्रकरीयुक्ताः पताकास्थानयोगतः ।
नायकस्य कथामध्ये तत्समानस्य या कथा ॥ ४७ ॥

आफलोदयमाबन्धा सा पताकेति कथ्यते ।
येन केनाप्यनल्पेन हेतुना पूर्वमुद्गकम् ॥ ४८ ॥

पश्चान्न दृश्यते यत्तु तद्वस्तु प्रकरी भवेत् ।
अतीतेऽनागते कार्ये कथ्यते यत्र वस्तुनः ॥ ४९ ॥

अन्यापदेशव्याजेन पताकास्थानक तु तत् ।
सदसन्मिश्रभेदेन सर्वमेतत्त्रिधा भवेत् ॥ ५० ॥

इतिहासादिसंभूतं सदित्यभिमतं सताम् ।
असदित्युदितं सर्वै: स्वबुद्ध्या कविकल्पितम् ॥ ५१ ॥

अन्यदन्योन्यसंभिन्नं मिश्रमित्यभिधीयते ।
द्विधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः ॥ ५२ ॥

दृश्यं श्रव्यं सूचनीयमिति संचिन्त्य योग्यताम् ।
गीतरूपगुणोपेतं दृश्यं श्रव्यमुदाहृतम् ॥ ५३ ॥

नीरसं लौकिकापेतमशास्त्रीयं च यद्भवेत् ।
तद्वस्तु सूचनीयं स्यादत्र विष्कम्भकादिभिः ॥ ५४ ॥

साहित्यसारतत्त्वज्ञस्थाने स्थाने पुनः पुनः ।
वस्तु मध्ये पृथक्कृत्वा वस्तुविस्तरहेतवे ॥ ५५ ॥

चतुष्षष्ठ्यङ्गकार्याणि षडेतानि निवेशयेत् ।
अभिप्रेतस्य रचना गोप्यस्य परिगोपनम् ॥ ५६ ॥

प्रकाशनं प्रकाश्यस्य रागसम्पादनोदयः ।
प्रयोगस्य कृतं काव्यं सच्चेतोहारितां व्रजेत् ॥ ५७ ॥

धर्मप्रभूतिकार्यस्य सन्निबन्धाख्यनाटके ।
मन्दमन्दोदितो हेतुर्बीजमित्यभिधीयते ॥ ५८ ॥


साहित्यसारे


अवान्तरान्यकार्यस्य प्रस्तुतात्स्वानुयायिनः ।
सद्यस्सम्बन्धविच्छेदे बिन्दुरुच्छेदकारणम् ॥५९॥

प्रकृतार्थप्रकृतयः पञ्चावस्थाभिरन्विताः ।
भरतादिभिरादिष्टा मुखाद्याः पञ्चसन्धयः ||६० ॥

आरब्धस्येह कार्यस्य पञ्चावस्थाः प्रकीर्तिताः ।
अरम्भयत्नप्राप्त्याशानियताप्तिफलोदयाः ॥ ६१ ॥
 
आरम्भस्तद्रता वाञ्छा सा फलोदयनिर्भरा ।
प्रयत्नस्तदलाभेन व्यापारातिशयो महान् ॥ ६२ ॥

सम्पदापत्समायोगात्प्राप्त्याशा तदसंभवात् ।
अपायाभावविभवान्नियताप्तिस्तदागमः ॥ ६३ ॥

समस्तफलनिष्पत्तिर्निरवद्यफलोदयः ।
मुखं प्रतिमुखं गर्भः साविमर्शोपसंहृतिः ॥ ६४ ॥

पूर्वमत्र विनिर्दिष्ठास्त इमे पञ्चसन्धयः ।
बीजोत्पतिर्मुखं नानाभावार्थरससंभवा । ६५ ॥

दृश्यं दृश्यसमुद्भेदस्तस्य प्रतिमुखं भवेत् ।
अस्तव्यस्तस्य सर्वत्र गर्भस्तस्य गवेषणम् ॥ ६६ ॥

छलादवमृशेद्यत्र व्यसनाद्वा विलोभनात् ।
गर्भः स्वर्गीतबीजार्थस्सोवमर्शस्सतां मतः ॥ ६७ ॥

मुखादयस्त्वनेकार्था बीजेनेतस्ततः कृता: ।
एकत्वं यत्र नीयन्ते तत्तु निर्वहणं भवेत् ॥ ६८ ॥

मुखस्य द्वादशाङ्गानि कथ्यन्ते तानि नामतः ।
सोपक्षेपः परेिकर: परिन्यासविलोभने ॥ ६९ ।

युक्तिप्राप्तिसमाधानविधानपरिभावनाः ।
उद्भेदो भेदकरणे लक्षणं त्वभिधीयते ॥ ७० ॥

प्रथमः प्रकाशः


बीजन्यासविधिस्तज्ज्ञैरुपक्षेप इति स्मृतः ।
शब्दार्थभेदसंयोगवशात्सोऽपि द्विधा भवेत् ॥ ७१ ॥

तद्व्याप्तिगुणबाहुल्यं सर्वे परिकरं विदुः ।
तस्य निष्पत्तिसौन्दर्यं परिन्यासो विधीयते || ७२ ॥

विलोभनं गुणाख्यानं युक्तिरर्थावधारणम् ।
प्राप्तिस्सुखागमोल्लासः समाधानं प्रियोदयः ॥ ७३ ॥

विधानं सुखदु:खाप्तिर्विस्मय: परिभावना ।
उद्भेदो गूढनिर्भेदो भेदो लोभकरं वचः ॥ ७४ ॥

करणं प्रकृतारम्भो मुखाङ्गानि गतान्यथ ।
वक्ष्ये प्रतिमुखाङ्गानि प्रसिद्धानि त्रयोदश ॥ ७५ ॥

उपासनमुपन्यासविलोभौ शमनर्मणी ।
विरोधवर्णसंहारौ सव्रजः परिसर्पकः ॥ ७६ ॥

नर्मद्युतिपरायणे विधूतं पुष्पमेव च ।
उपासनमुपास्यानां विषयेषूपसेवनम् ॥ ७७ ॥

उपन्यास इति प्रोक्तः सोपाया वाक्यसङ्गतिः ।
रत्युत्कर्षो विलासः स्यादाङ्गिको वाथ मानसः ॥ ७८ ॥

शमः प्रियजनोद्भूतमनोदुःखपरिक्षयः ।
उपवासाय रचिता नर्मवाणी निगद्यते ॥ ७९ ॥

निरोधो हि निरोधः स्यादिष्ठक्रोधसमुद्भवः ।
सर्ववर्णोपगमनं वर्णसंहार इष्यते ॥ ८० ॥

अर्थनिष्ठुरवाक्यं तु प्रत्यक्षं वज्रमुच्यते ।
परिसर्पो भवेद्भूयो भूयो बीजानुसर्पणम् ॥ ८१ ॥

प्रीतिनर्मद्युतिः प्रोक्ता सरसा नर्मसंभवा । ।
बुद्धिः परायणं वस्तुन्याबद्धा परमार्थतः ॥ ८२ ॥


साहित्यसारे

विधूतमरतिः प्रोक्ता पुष्पं स्याद्वागुदारता ।
अङ्गानि द्वादशोच्यन्ते गर्भसन्धेरतः परम् ॥ ८३ ॥

अद्भुताहरणं मार्गरूपोदाहरणक्रमाः ।
उद्वेगसंग्रहाक्षेपसंभ्रमास्सानुमास्तथा ॥ ८४ ॥

तोटकातिबले चैव लक्षणं‌ संप्रणीयते ।
अद्भुताहरणं सद्भिः कथ्यते छद्मचेष्टितः ॥ ८५ ॥

तत्त्वसंकीर्तनोल्लासो मार्ग इत्यभिधीयते ।
वितर्कसंयतं वाक्यं रूपके रूपमुच्यते ॥ ८६ ॥

यदर्थोत्कर्षवद्वाक्यं तदुदाहरणं स्मृतम् ।
मनसा चिन्त्यमानस्य प्राप्तिरेव क्रमा मत. ।। ८७ ॥

अरिभिः क्रियमाणा या भीतिस्सोद्वेग इष्यते ।
सङ्ग्रहः कथ्यते सद्भिः सामदानोचितं वचः ।। ८८ ।।

गर्भबीजसमुद्भेदः सद्भिराक्षेप इष्यते ।
प्रियशङ्कासमुद्भूतिः संभ्रमः परिकीर्त्यते ॥ ८९ ॥

अभ्यूहश्चेष्टिताकारैरनुमानमुदाहृतम् ।
संरब्धवचनं प्राज्ञैर्नाट्ये तोटकमुच्यते ॥ ९० ॥

अतिसन्धानमाचार्या नामकेऽतिबलं विदुः ।
अवमर्शस्य यान्यङ्गान्याहुस्तानि वदाम्यहम् ॥ ९१ ॥

अपवादोऽथ संफेटो विद्रवद्रवशक्तयः ।
द्युतिप्रसङ्गछलनव्यवसायाः प्ररोचना ॥ ९२ ।।

विरोधनं विच्छलनमादानं तु त्रयोदश ।
दोषप्रख्यापवादः स्यान्निर्दोषस्येतरस्य वा ॥ ९३ ॥

रोषेण परुषाकारं संफेटः कटुभाषणम् ।
वधबन्धादिदुःखानि नाटकादिषु विद्रवः ॥ ९४ ॥

प्रथमः प्रकाशः


द्रवोऽवमर्शसंभूता गुरुवर्गतिरस्कृतिः ।
क्षमा तिरस्कृतो रोषः शक्तिरित्यभिधीयते ॥ ९५ ।।

शत्रुभिः क्रियमाणे द्वे तर्जनोद्वेजने द्युतिः।
अन्येषां पितरः प्रीत्या प्रसङ्गो गुरुकीर्तनम् ॥ ९६ ॥

छलनं प्राहुरन्ये तु क्रियमाणावधीरणम्।
व्यवसायः स्वशक्तयुक्तिः पुरतः कस्यचित्कृता ।। ९७ ।।

प्ररोचना स्यात्फणितिरभूतस्यापि भूतवत् ।
संरब्धवचनोल्लासो विरोधनमिति स्मृतम् ॥ ९८ ।।

सद्भिर्विच्छलनं प्रोक्तं नृणामात्मविकत्थना ।
शक्त्या शक्तिमतः प्रोक्त आदानं कार्यसंग्रहः ॥ ९९ ॥

ततो निर्वहणस्यास्य कथ्यतेऽङ्गानि विस्तरात् ।
सन्धिप्रसादग्रथननिरोधानन्दनिर्णयाः ॥ १०० ॥

पूर्वभावोपसंहारपरिभाषणसंश्रयाः ।
कार्यदृष्ट्यद्भुतप्राप्तिकृतयस्सप्रशस्तयः ॥ १०१॥

बीजप्रापणमेवात्र सन्धिरित्यभिधीयते ।
प्रत्युत्कर्षः प्रसादो वा विषयेषूपसेवनम् ॥ १०२ ॥

ग्रथनं कथ्यतेऽस्माभिः कार्यस्यान्वेषणक्रमः।
अस्तव्यस्तस्य कार्यस्य निरोधोऽन्वेषणं भवेत् ॥ १०३॥

वाञ्छिताशेषसंसिद्धिरानन्दो विदुषां मतः ।
उद्भूतववस्तुकथनं निर्णयः परिकीर्तितः ॥ १०४॥

अभिप्रेतार्थसंसिद्धिः पूर्वभावो विधीयते ।
सम्यक् समाप्तिः काव्यानामुपसंहार उच्यते ॥ १०५॥

परस्परकृता सूक्तिः परिभाषणमुच्यते ।
अद्भुतावाप्तिरधिका संश्रयः कथ्यते बुधैः ॥१०६ ॥


१०
साहित्यसारं

            
एकत्वं कार्यदृष्टिस्तु समस्तस्यापि वस्तुनः।
उपपन्नेतरप्राप्तिरद्भुतप्राप्तिरुच्यते ॥१०७॥

कृतिर्लब्धार्थसंरक्षा प्रशस्तिश्शुभशंसनम्।


सन्ध्यङ्गषष्टिरियमिष्टजनाभिपुष्टा
विस्पष्टवाक्यमधिता च चतुष्टयेन ।

विद्वन्मनोनिकररञ्जनतत्परेण
सर्वेश्वरेण रचिता कविपुङ्गवेन।




ति श्रीमन्मलयजमहापण्डितसर्वेश्वराचार्यविरचिते

साहित्यसारे प्रथमः प्रकाशः