साहित्यसारः/द्वितीयप्रकाशः

विकिस्रोतः तः
               




   

११
 

द्वितीयः प्रकाशः


सार्थैरङ्गैरनेकार्थैः कथ्यन्ते वृत्तयोऽधुना ।
भारती सात्त्विकी चैव कैशिक्यारभटी तथा ॥ १ ॥
 
नाटकोत्कर्षभेदाय चतस्रो वृत्तयः कृताः ।
हृद्यसंस्कृतभूयिष्ठश्चित्राकारो नटाश्रयः ॥ २ ॥

उल्लासः कोऽपि वचसां भारतीत्युच्यते बुधैः ।
व्यापारातिशयः कोऽपि नेतुस्त्यागदयाधिकः ॥ ३ ॥
 
निश्शोक: सत्त्वसम्पन्न: सात्त्विकीति निगद्यते ।
मृदुशृङ्गारसंयुक्तो नृत्तगीतमनोहरः ॥ ४ ॥

कामभोगैकनिरतो व्यापार: कैशिकी स्मृता ।
मायेन्द्रजालसङ्ग्रामक्रोधव्यापिविचेष्टितम् ॥ ५ ॥

वृत्तिमारभटीमाहुर्नाट्यतत्त्वविचक्षणाः ।
भारत्यङ्गानि चत्वारि वीथी प्रहसनामुखे ॥ ६ ॥

प्ररोचना च तत्राद्ये स्वप्रसङ्गे भविष्यतः ।
पूर्वमेवामुखं प्रोक्तमेभ्य: प्रस्तावनाविधौ ॥ ७ ॥

प्ररोचना तदस्माभिर्लक्षणेन निगद्यते ।
नटनाटकनेतॄणां कर्तुस्सभ्यजनस्य च ॥ ८ ॥

उन्मुखीकरणं रङ्गे प्रशंसातः प्ररोचना ।
सात्त्विक्यङ्गानि चत्वारेि वक्तव्यानि सलक्षणम् ॥ ९ ॥
 
सल्लापोत्थापकौ तद्वत् सङ्घात्यपरिवर्तकौ ।
सल्लापको गभीरोऽक्तिर्नानाभावरसान्वितः ॥ १० ॥

एकमुत्थापयेद्यत्र युद्धायोत्थापकस्य हेि ।
मन्त्रार्थदैवशक्त्याद्यैः संघात्यस्संघभेदनम् ॥ ११ ॥

१२
साहित्यसारे


प्रारब्धोद्योगकार्यान्यकरणं परिवर्तकः ।
नर्मस्फुञ्जो नर्मगर्भनर्मस्फोटास्सनर्मकाः ॥ १२ ॥

कैशिक्याश्शास्त्रसंभूता सेऽयमङ्गचतुष्ठयी ।
नर्मस्फुञ्जः सुखारम्भो भयान्तो नवसङ्गमे ॥ १३ ॥

नर्मणा सुरतारम्भो नर्मगर्भ उदाहृतः ।
नर्मस्फोटो नृणामङ्गेष्वभेव्यक्ताङ्गजक्रिया ॥ १४ ॥


क्रीडाविवृद्धभणितिर्नर्म सर्वोपहासकृत् ।
तदत्राष्टादशविधं प्रोक्तं तत्तत्त्ववेदिभिः ॥ १५ ॥

वचश्शुद्धं क्रियाशुद्धं रूपशुद्धं तथैव च ।
वाचानुरागकथनं वेषव्यक्तिकरं तथा ॥ १६ ।।

 
चेष्टाव्यक्तिकरं चैव वागिच्छाप्रतिपादनम् ।
रूपेच्छाकरणं चेष्टा स्पष्टीकरणमेव च ॥ १७ ॥

वाग्भेदनं भेदरूपं क्रियाभेदनमेव च ।
वाग्भयं भयरूपी च चेष्टाभयकरं तथा ॥ १८ ॥

 
वाग्भीत्यपरसंयोगी वेषमीत्यपराअपि ।
चेष्टाभयान्यसंयोगीत्येवमष्टादशात्मकम् ॥ १९ ॥

केवलेनैव वचसा लोकहास्यकरं तु यत्।
तदेव युक्तितोऽस्माभिर्वचश्शुद्धमुदाहृतम् ॥ २० ॥

केवलेनैव रूपेण जनताहासकारि यत् ।
तन्नर्म काव्यबन्धेषु रूपशुद्धन्निगद्यते ॥ २१ ॥

निदधाति गिरा यत्तु स्वानुरागनिवेदनम् ।
वाचानुरागकथनं तदुक्तं भरतादिभिः ॥ २२ ॥

नैपथ्यसंविधानेन प्रणयादेशभाषणम् ।
करोति यत्तदेवात्र वेषव्यक्तिकरंं स्मृतम् ॥ २३ ।।

१३
द्वितीयः प्रकाशः

     
व्यापारेणैव तद्व्यक्तमभिलाषनिवेदनम् ।
कुरुते तदिह प्राच्याश्चेष्टाव्यतिकरं विदुः ॥ २४ ॥

नेत्रवक्त्रभ्रुवां चेष्टाविशेषैर्लोकहासकृत् ।
यत्तदस्मद्विधैस्सर्वैः क्रियाशुद्धं निगद्यते ॥ २५ ॥


संभोगेच्छां गिरा यत्तु वदति प्रियसन्निधौ ।
तदत्र कथ्यते सद्भिः वागिच्छाप्रतिपादनम्।। २६ ।।


रूपेण स्पृष्टमाचष्टे संभोगेच्छां यदायताम् ।
रूपेच्छाकथनं तत्तु कथ्यते तत्त्वकोविदैः ॥ २७ ॥


संभोगेच्छामतिप्रौढां चेष्टया प्रव्रवीति यत् ।
तदिह व्याहृतं चेष्टास्पृष्टीकरणमञ्जसा ॥ २८ ॥


वचसा भेदनं भर्तुर्वाग्भेदनमुदाहृतम् ।
रूपेण भेदकरणं रूपभेदं निगद्यते ॥ २९ ॥


क्रिययोच्चाटनं भर्तुः क्रियाभेदनमुच्यते ।
वाचा भीतिकरं नर्म वाग्भयं वस्तुनो भवेत् ॥ ३० ॥

रूपेण भीतिजननं भांतिरूपमुदाहृतम् ।
चेष्टया विदथद्भीतिं चेष्टाभयकरं विदुः ॥ ३१ ॥


क्वस्संपृक्तया भीत्या रसान्तरविचारि यत् ।
वाग्भीत्यपरसंयोगि भवेत्तन्नर्म नाटके ॥ ३२ ॥


वेषावलोकनोत्पन्नभीत्या यच्च रसान्तरम् ।
याति नर्म तदेवात्र वेषभीत्यपराश्रयि ॥ ३३ ॥


व्यापारजातिभीत्यैव यद्गच्छति रसान्तरम् ।
चेष्टाभयान्यसंयोगि तदाहुर्नाट्यकोविदाः ॥ ३४ ।।


संक्षिप्तका च संफेठो वस्तुस्थापनयापने ।
इयमारभटीवृत्तेः कथ्यतेऽङ्गचतुष्टयी ॥ ३५ ॥

१४
साहित्यसारे


वस्तुभिः कल्पनायोगस्तत्र संक्षिप्तका भवेत् ।
सम्फेटस्तु समाघातः क्रोधसंरंभयोर्द्वयोः ॥ ३६ ॥


मायासंस्थापितं वस्तु वस्तुस्थापनमिष्यते ।
यापनन्त्वत्र निष्कामप्रवेशात्रासविद्रवाः ॥ ३७ ।।

 
पदे वाक्ये च वाक्यार्थे दोषाः स्युः काव्यसंश्रयाः ।
तत्र पूर्वं पदगता: कथ्यन्ते सहलक्षणैः ॥ ३८ ॥

 
सम्बन्धहीनं दुर्बोधमप्रसिद्धमनर्थकम् ।
गूढार्थं रूढिरहितमप्रतीतमवाचकम् ॥ ३९ ॥

क्लिष्टमानमपुष्टार्थमसाधु सभयच्युतम् ।
अक्षमार्थान्तरं कष्टमप्रयुक्तं ससंशयम् ।। ४० ।।

विरुद्धार्थान्तरं भ्रष्टमपार्थं ग्राभ्यमस्तुतम् ।
पर्यायज्ञापकं दृश्यमसंभाव्यार्थसाघकम् ।। ४१ ॥

इत्येवं पदसंबन्धा दोषाः स्युः पञ्चविंशतिः ।
संबन्धे रूपमन्यस्य पदमन्यस्य यत्कृतम् ।। ४२ ||


संबन्धहीनमस्माभिस्तदेव हि निगद्यते ।
श्रवणव्यतिरेकेण यस्यार्थो न प्रतीयते ॥ ४३ओ ॥

काव्यतत्त्वविशेषज्ञैः दुर्बोधं तदुदाहृतम् ।
शब्दशास्त्रविरोधित्वान्मोहाद्वा क्वापि यत्पदम् ॥ ४४ ॥


येन केनापि कथितमप्रसिद्धमुदाहृतम् ।
यदसत्कविना काव्ये पादपूरणमिच्छता ॥ ४५ ॥


क्रियतेऽर्थेन रहितं तत्पदं स्यादनर्थकम् ।
नितरामप्रसिद्धेऽर्थे बह्वर्थं यत्पदं कृतम् ॥ ४६ ॥


तदत्र काव्यतत्त्वज्ञाः गूढार्थं कवयो विदुः ।
सम्यगाच्छादितेष्वर्थेष्वप्रसिद्ध्या निरूपितम् ॥ ४७ ॥

१५
द्वितीयः प्रकाशः

कथ्यते रूढिरहितं पदमस्मद्विधैरिह ।
शास्त्रमत्राप्रसिद्ध्यैव प्रबन्धे यन्निरूप्यते ।। ४८ ॥

तदाहुरप्रतीताख्यं पदं पदविचारकाः ।
अर्थान्तरे सुप्रसिद्धं यदन्यत्रापि साध्यते ॥ ४९ ।।

व्युत्पत्तिभ्रान्तिसंयोगात्तदवाचकमुच्यते ।
स्वबुद्ध्या कल्पितार्थं यत्तत्पदं क्लिष्टमुच्यते ॥ ५० ॥

विचारपारुष्यवशात्स्वसौभाग्यविवर्जितम् ।
यत्पदं तत्तु विद्वद्भिर्म्लानमित्यभिधीयते ॥ ५१ ॥

यत्र सन्दृश्यतेऽत्यर्थपदे तुच्छाभिधेयता ।
तदपुष्टार्थमित्याहुः सर्वे साहित्यवेदिनः ॥ ५२ ॥

शब्दशास्त्रविरुद्धं च प्रबन्धे प्रतिपाद्यते ।
शब्दतत्त्वविशेषज्ञैस्तदसाधु निगद्यते ।। ५३ ॥

यदुक्तमन्यथा काव्ये कवीनां समयोऽन्यथा ।
तदेव सम्यगस्माभिः समयच्युतमुच्यते ॥ ५४ ॥

यस्यासमर्थतात्पर्यमिष्टस्यार्थस्य सूचने ।
अक्षमार्थान्तरं तत्तु कथ्यते कविपुङ्गवैः ॥ ५५ ।।

दुरुच्चारतया काव्ये यदश्राव्याक्षरं पदम् । ।
तदत्र सुकविव्रातैः कष्टमित्यभिधीयते ॥ ५६ ॥

लेशेनापि प्रबन्धेषु सुप्रसिद्धं न यत्पदम् ।
तदप्रयुक्तमित्याहुः सर्वे साहित्यवेदिनः ॥ ५७ ॥

वक्तव्यार्थमतिक्रम्य यदन्यत्रापि वर्तते ।
तदत्र लक्षणेऽस्माभिः ससंशयमुदाहृतम् ॥ ५८ ॥


अर्थान्तरं विरुद्धं स्याद्यत्र प्रस्तुतवस्तुनः ।
विरुद्धार्थान्तरं प्रोक्तं तदत्र निपुणाशयैः ॥ ५९ ॥


१६
साहित्यसारे

वाञ्छितार्थपरिभ्रष्टं पदं भ्रष्टमिहोच्यते ।
अव्यर्थमर्थहीनं च तद्द्विधा परिकीर्त्यते ॥ ६० ॥

तदपार्थमिति ज्ञेयं यदप्रस्तुतदीपकम् ।
सद्यस्सभ्येतरार्थस्य स्मारकं ग्राम्यमुच्यते ॥ ६१ ॥


अस्तुतं तद्बुधैरुतं यदमङ्गलवाचकम् ।
प्रसिद्धस्याभिधानस्य पर्यायैः स्वेच्छयाकृतम् ॥ ६२ ॥


एकार्थैर्वाथ भिन्नार्थैः पर्यायज्ञापकं भवेत् ।
यस्य व्युत्पत्तिलेशोऽपि चिन्त्यमानो न दृश्यते ॥ ६३ ॥

तदत्र पदतत्त्वज्ञैर्दृश्यमित्यभिधीयते ।
असंभवो यदर्थस्य संचयः कलही मिथः ॥ ६४ ॥

तदुच्यतेऽत्र विद्वद्भिस्संभाव्यार्थसाधकम् ।
एवमेते मया प्रोक्ता दोषाः पदसमाश्रयाः ॥ ६५ ॥

वाक्याश्रया निगद्यन्ते सुव्यक्तं लक्षणैस्सह।
शब्दच्युतं क्रमापेतमश्राव्यं पुनरुक्तिमत् ॥ ६६ ॥

छन्दोभङ्गाकुलं ग्राम्यं व्याकीर्णं भग्नरीतिकम् ।
यतिभङ्गाश्रयं न्यूनमधिकं वाक्यगर्भितम् || ६७ ॥

विरुद्धसन्धिनिस्सन्धिकृच्छ्रार्थकमवाचकम्।
इति वाक्यगता दोषाः षोडशेति निरूपिताः ॥ ६८ ॥

यत्सङ्गत्या स्फुटं याति सुशब्दोऽप्यपशब्दताम् ।
तद्वाक्यमत्र साहित्ये शब्दच्युतमिति स्मृतम् ॥ ६९ ॥

पदार्थक्रमनिर्मुक्तं क्रमापेतमिति स्मृतम् ।
बन्धकार्कश्यवद्वाक्यमश्राव्यं कवयो विदुः ॥ ७० ||

शब्दार्थयोः परावृत्त्या युक्तयोः पुनरुक्तिमत् ।
छन्दसा विकलं काव्यं छन्दोभङ्गाकुलं भवेत् ॥ ७१ ॥

१७
द्वितीयः प्रकाशः

 
उक्तिश्चातुर्यरहिता ग्राम्यमित्यभिधीयते ।
असङ्गताभिः संयोगि व्याकीर्णं स्याद्विभक्तिभिः ॥ ७२

प्रारब्धरीतिविच्छेदो यत्र तद्भग्नरीतिकम् ।
यतिभङ्गेन संयुक्तं यतिभङ्गाश्रयं विदुः ॥ ७३ ॥

यस्यापरिसमाप्तिस्स्यान्न्यूनमिति कथ्यते।
अपर्याप्ततया ह्मर्थो यत्रैकः पर्यवस्यति ॥ ७४ ॥

पदानामिह तद्वाक्यमधिकं कथ्यते बुधै:।
अत्यर्थसङ्गतार्थत्वाद्वाक्यं वाक्यान्तरास्थितम् ॥ ७५ ॥

दु:खेन ज्ञापनीयार्थं वाक्यं गर्भितमुच्यते ।
विरुद्धसन्धिर्ग्राम्यादिः प्रस्तुतार्थस्य घातकः ॥ ७६ ।।

कृच्छ्रार्थकमिह ख्यातमौदार्यस्य विपर्ययः ।
नार्थं विवक्षितं वक्ति यत्तदाहुरवाचकम् ॥ ७७ ॥

एते वाक्यगता दोषा वाक्यार्थस्य वदाम्यहम् ।
औचित्यभङ्गस्सन्देहो रीतिभङ्गः क्रमच्युतिः ॥ ७८ ॥

उपक्रमोपसंहारविषमं दुष्टभूषणम् ।
दुष्प्रतीतिकरं चेति सप्त वाक्यार्थसंश्रयाः ॥ ७९ ॥

औचित्यभङ्गो विज्ञेयः स्वात्मप्रख्यापनादिकः ।
सन्देहः पदजातस्य सन्दिग्धार्थत्वमुच्यते ॥ ८० ॥

प्रारब्धस्यान्यथाभावो रीतिभङ्ग उदाहृतः ।
अपक्रमाभिधेयत्वं क्रमच्युतिरिति स्मृतम् ॥ ८१ ॥

उपक्रमोपसंहारविषमं वाच्यवक्रता ।
भिन्नलिङ्गोपमादीनि दुष्टभूषणमुच्यते ॥ ८२ ॥

सभ्येतरस्य स्पष्टोक्तिर्ग्राम्यमित्यभिधीयते ।
श्लेषः प्रसादस्समतां माधुर्यं सुकुमारता ॥ ८३ ॥

१८
साहित्यसरे


अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ।
एते दश गुणाः प्रोक्ताः काव्यबन्धे कवीश्वरैः ।। ८४ ।।

सुश्लिष्टपदसन्धानं श्लिष्टमित्यभिधीयते ।
यस्यार्थस्स प्रसादः स्यादनुक्तोऽपि प्रतीयते ॥ ८५ ॥

शब्दार्थौ समताऽन्योन्यं सालङ्कारौ सुसंस्कृतौ ।
अप्युक्तं बहुशश्चेतःप्रीतिकृन्मधुरं मतम् ॥ ८६ ।।


पदैर्मृदुभिराकीर्णं सुकुमारमिहोदितम्।
अर्थव्यक्तिः पदोद्देशात् समस्तार्थावबोधिनी ।। ८७ ॥


तदुदारत्वमासाद्य यन्मनो नापसर्पति ।
ओजस्समासबहुलस्सन्दर्भस्सुमनोहरः ॥ ८८ ॥

सुखोच्चारणता कान्तिस्सन्धिसन्तानसंपदा ।
समाधिरन्यथाशब्दकल्पनीयार्थसञ्चयः ॥ ८९ ॥

अतःपरमलङ्कारा वक्ष्यन्ते सह लक्षणैः।
तत्र शब्दार्थसंबन्धानुभयोल्लासितानपि । ९० ॥

सम्यगेकत्र संक्षिप्य लिखामि मधुराक्षरम् ।
अपन्हुतिस्समासोक्तिरुपमा दीपकं क्रमः ॥ ९१ ॥

विशेषो रूपकं जातिरुत्प्रेक्षा व्याजवर्णनम् ।
अप्रस्तुतस्तुतिस्साम्यमेकावलिविभावने ।। ९२ ॥

आक्षेपव्यतिरेकौ च श्लेषोऽर्थान्तरमेव च।
पर्यायोक्तं विरोधश्च सङ्कीर्णं रसवत्तथा ॥ ९३ ॥

अतिशयोक्तिरत्युक्तिर्वक्रोक्तिर्ध्वनिरेव च ।
अन्योन्यमनुमानं च सचित्रं यमकं तथा ॥ ९४ ॥

एते त्रिंशदलङ्कारा निर्दिष्टा रसकोविदैः ।
व्यावर्णनीयं प्रच्छाद्य यत्रान्यत्किञ्चिदुच्यते ॥ ९५ ॥


१९
द्वितीयः प्रकाशः



असमं वा समं वाऽथ सा विज्ञेया ह्यपन्हुतिः ।
बहुधा सा भवेद्व्याप्ता स्वरूपविजयादिषु ॥ ९६ ॥

वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
उक्तिस्संक्षिप्तरूपत्वात्सा समसोक्तिरिप्यते । ९७ ।

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ ९८ ॥

यथाकथञ्चित्सादृश्यं यत्नोद्भूतं प्रतीयते ।
उपमा नाम सा यस्याः प्रपञ्चस्सुमहान् भवेत् ॥ ९९ ॥

धर्मवस्तुविपर्यासनियमातिशयाश्रयाः ।
मोहोत्प्रेक्षाविनिमया दृश्यास्सत्कविऋर्मसु ॥ १०० ॥

मुख्यार्थवस्तुना युक्तैर्यद्वाक्यैस्सह संगतिम् ।
सन्दधड़ोधयत्यर्थास्तत्पदं दीपकं स्मृतम् ॥ १०१ ॥

पदान्तर्गतवाक्यैर्वा वाक्यार्थैरन्वितं यदि ।
पदमेकं क्रियावाचि तत्क्रियादीपकं भवेत् ॥ १०२ ॥

यद्भूरिवाक्यसंबद्धक्रियाणामेकमेव चेत् ।
उच्यते कारकपदं तत्स्यात्कारकदीपकम् ॥ १०३ ॥

यत्र दीपकसूत्रेण वाक्यपुष्पाणि सत्कविः ।
ग्रथ्नात्यपूर्वविच्छित्त्या तन्मलादीपकं विदुः ॥ १०४ ॥

उपमानोपमेयानां यस्संबन्धः क्रमोदितः ।।
कथ्यते स इहास्माभिः संख्यानं वा क्रमोऽपि वा ॥ १०५ ॥

अभिन्नस्योपमानेन प्रस्तुतस्य गुणद्युतिः ।
विशेषं वक्तुमुदिता विशेष इति कथ्यते ॥ १०६ ॥

सादृश्यशब्दहीना चेदुपमा रूपकं भवेत् ।
एतद्विकल्पनीयं स्यात्कविभिः काव्यकोविदैः ॥ १०७ ॥


२०
साहित्यसारे



सविशेषणमेकाङ्गमयुक्तं व्यतिरेकवत् ।
समस्तमसमस्तं च समस्तव्यस्तमित्यपि ॥ १०८ ॥

यस्य यस्यामवस्थायां यादृशं वस्तुनो वपुः ।
तथैतद्वर्णयन्त्युक्तिरग्राम्या जातिरुच्यते ॥ १०९ ॥

जातिक्रियागुणद्रव्यैरेषा सुबहुधा मता।
वस्तुनोऽन्यप्रकारेण स्थितस्यापरथैव यत् ॥ ११० ॥

उत्प्रेक्षणं हि सोत्प्रेक्षा प्रायस्सादृश्यगर्भिता ।
अपकर्षमुपन्यस्य निन्दाभासः प्रदृश्यते ॥ १११ ॥

अत्युत्तमां स्तुतिं कर्तुं यत्र तद्व्याजवर्णनम् ।
प्रस्तुतं परिहृत्योच्चैरुपमानन्निगद्यते ॥ ११२ ॥

अप्रस्तुतस्तुतिस्सेयमस्माभिरभिधीयते ।
तयोर्यत्र गुणाधिक्याद्वर्तते वर्णनीयता ॥ ११३ ॥

तत्साम्यमुच्यतेऽन्यत्र ख्यातेयं तुल्ययोगिता ।
यस्मिन् पूर्वस्य पूर्वस्य भवेदुत्तरमुत्तरम् ॥ ११४ ॥

विशेषणं पदार्थस्य वस्तु सैकावली मता ।
कार्यस्य निजमुत्सृज्य कारणं कारणान्तरम् ॥ ११५ ॥

यत्र स्वाभाविकं भावि विभाव्यं सा विभावना ।
वर्णनीयसमुत्कर्षसिद्धये प्रो विधीयते ॥ ११६ ॥

आक्षेप उपमानस्य तमाक्षेपं प्रचक्षते  !
एकोभयगुणश्लेषहेतुभिस्सोऽपि भेदभाक् ॥ ११७ ॥

सम्यक् सादृश्यकथनं भिन्नयोर्वस्तुनोर्द्वयोः ।
श्लेष इत्युच्यतेऽस्माभिः स चानेकविधो भवेत् ॥ ११८ ॥

कश्चित्प्रतिपदं भिन्नः कश्चित् भिन्नः कचित्पदैः ।
कश्चिदर्थैकसंयोगी कश्चिच्छब्दैकभेदकः ॥ ११९ ॥

२१
द्वितीयःप्रकाशः


 
पूर्वोक्तसाध्यवाक्यार्थं यस्साधयितुमुच्यते ।
हेतुगर्भोऽन्यवाक्यार्थः स एवार्थान्तरं भवेत् ॥ १२० ॥

प्रकारेणापरेणैव यद्वाक्यार्थमति(क्रिया)प्रियम् ।
शब्दार्थवृत्तिशून्येन पर्यायोक्तं तदुच्यते ॥ १२१ ॥

प्रस्तुतार्थस्य पुष्ट्यर्थं यत्काव्येषु प्रदृश्यते ।
विरोधाभासवचनं सा विरोध इतेि स्मृतः ॥ १२२ ॥

संसर्गोऽलङ्कृतीनां यः समकक्ष्यतया कृतः ।
अङ्गाङ्गित्वेन बद्धानां सङ्कीर्णं तन्निगद्यते ॥ १२३ ॥

रसाभासादिनिर्माणकारणं यद्विभूषणम् ।
तदत्र रसवद्वाचां रसबन्धविधानतः ॥ १२४ ॥

सन्देहैर्नातिरिक्तं यल्लोकातीतं निगद्यते ।
कविभिर्बुद्धिनैशित्यात्स एवातिशयो मतः ॥ १२५ ॥

असंभाव्यार्थकथनमत्युक्तिरिति कथ्यते ।
वक्रोक्तिरुक्तवाक्यार्थस्वीकारोऽन्यादृशस्स्मृतः ॥ १२६ ॥

वस्त्वन्तरप्रसङ्गेन ध्वनिः स्याद्भाषवर्णनम् ।
भूष्यभूषणरूपत्वं मिथस्स्याद्यत्र वस्तुनोः ॥ १२७ ॥

सादृश्यमन्तरेणापि तदन्योन्यमिति स्मृतम् ।
यादृशेनापि लिङ्गेन परोक्षं यदि गम्यते ॥ १२८ ॥


क्स्तु पुष्टार्थरसवदनुमानं तदुच्यते ।
शब्दाभासस्तु यमकं पदादिष्वपि कल्पितम् ॥ १२९ ।।

नैवान्तस्तद्विकल्पानां तदृश्यं कविकर्मणि।
विचित्रशब्दसन्दर्भश्चित्रमित्यभिधीयते ॥ १३० ॥

सोऽपि सन्दृश्यते मार्गश्चक्रबन्धादिषु स्मृतः ।
अनौचित्यात्तदस्माभि: काव्यसारे निरूप्यते ॥ १३१ ॥

२२
साहित्यसारे

सर्वसाहित्यविद्यासु परं प्रावीण्यमिच्छता ।
कविना काव्यसारो हेि श्रोतव्यः प्रौढचेतसा ॥ १३२ ॥

तत्र प्रश्नोत्तरं त्रेधा कथ्यते कविपुङ्गवैः ।
अन्तर्लापिक्रमः कोऽपि बहिर्लापिक्रमोऽपरः ॥ १३३ ||

उभयात्मा भवेत्कोऽपि त्रिभङ्गी नाम शोभनः ।
यत्रोत्तरपदं वृत्ते: सोऽन्तर्लापी निगद्यते ॥ १३४ ॥

बहिरेवोत्तरं यत्र बहिर्लापी स उच्यते ।
एकमेवोत्तरपदं बाह्यं यत्र त्रिधाकृतम् || १३५ ॥

सुश्लिष्टं पतितश्लोके त्रिभङ्गी सा निगद्यते ।
अन्तर्लापिप्रभेदस्स्यात् कोऽपि गुप्तोत्तराभिधः ॥ १३६ ॥

साक्षरच्युतकः कोऽपि दुर्भेद्यः कुशलैरपि ।
बहिर्लापिप्रभेदोऽपि लेशेनेह प्रदृश्यते ॥ १३७ ॥

एकालापं द्विरभ्यास: साक्षरच्युतकं तथा ।
गतप्रत्यागतं मिश्रमिति पञ्चविधस्स्मृतः || १३८ ॥

प्रश्नगर्भतयैवोच्चैः यत्र स्यादुत्तरं पदम् ।
तदेव कथ्यतेऽस्माभिर्गुप्तोत्तरमिति स्फुटम् ॥ १३९ ॥

काप्यक्षराणां लोपेन यत्रार्थ: प्रतिपाद्यते ।
उत्तरोक्तप्रकारेण साक्षरच्युतकं हि तत् ॥ १४० ॥

एकमेव पदं द्व्यर्थं यत्र स्यादुतरं द्विधा।
प्रश्नद्वयमपि श्लोके तदेकालापमुच्यते ॥१४१॥

एकमेवोत्तरं यत्र लिङ्गेन वचनेन वा ।
प्रयाति भेदद्वितयं चिराभ्यासस्स उच्यते ॥ १४२ ॥

यत्र तल्लिपिलोपेन समीचीनोऽर्थविस्तर: !
न कत्पन्मघार्धत्वे तत्स्मादक्षरत्मेपकम् ॥१४३॥

२३
द्वितीयः प्रकाशः


प्रतिलोमानुलोमेन यत्र स्यादुत्तरं द्विधा ।
गतप्रत्यागतमिति तदेव कवयो विदुः ॥ १४४ ॥

संस्कृतप्राकृतोल्लासि मिश्रमित्यभिधीयते ।
वलयारान्तरालेषु रथाङ्गस्य तथोदरे ।। १४५ ॥

नियमेनाक्षरन्यासश्चक्रबन्धो निगद्यते ।
तस्य भेदो महानेव नास्माभिरिह कथ्यते ।। १४६ ।।

प्रसिद्धत्वात्परं वाच्यमष्टारं षडरं तथा ।
चतुर्णामेव सुव्यक्तमराणामन्तरार्पितैः ॥ १४७ ॥

यत्रान्योन्यप्रबन्धानां गतप्रत्यागताक्षरैः ।
आरम्भश्च समाप्तिश्च पदानां नाभिमण्डले ॥ १४८ ॥

अराणां व्यक्तमन्येषामग्रेष्वेकैकमक्षरम् ।
अराणामन्तरालेषु बहिर्वलयवर्तिषु ॥ १४९ ।।

एकैकाक्षरसंयुक्तं छन्दसा त्रिष्टुभा कृतम् ।
तदष्टारमिति ज्ञेयं विद्वद्भिश्चक्रबन्धनम् ॥ १५० ॥

वलयत्रितयच्छिद्रेष्वेकद्वित्र्यक्षरान्वितम् ।
एकं नाभ्यक्षरं यत्र कविकाव्याभिधाङ्कितम् ॥ १५१ ।।

चतुर्थपादसंसक्तैराद्यन्तैरक्षरैः श्रितम् ।
अरषट्कस्य रेखासु पदत्रितयमुच्यते ।। १५२ ।।

षडराग्रान्तरालेषु द्वाभ्यां प्रत्येकभागतः ।
अक्षराभ्यामतिस्पष्टकल्पिताभ्यां प्रपूरितः ।। १५३ ।।

तदक्षरं तृतीयान्ते पादाद्यन्तातिशायिभिः ।
पादश्चतुर्थो दृश्येत बहिर्वलयमण्डले ॥ १५४ ।।

तदत्र षडरन्नाम कथ्यते चक्रबन्धनम् ।
एकमेवाक्षरं यत्र कर्णिकामध्यसंस्थितम् ॥ १५५ ।।

२४
साहित्यसारे

वृत्तार्धत्वं प्रयात्यर्धं दलस्वान्याक्षराणि च ।
अन्योन्यसंकरात् लोकः पदवन्धस्स उच्यते ॥ १५६ ॥
एवमेवावगन्तव्यो विद्वद्भिश्चित्रविस्तरः ।

सत्काव्यलक्षणमशेषगुणाभिरामं
  निश्शेषदूषणविशेषविचारयुक्तम् ।
एतद्व्यधायि बुधमण्डलमण्डनेन
  सर्वेश्वरेण कविना मुनिपुङ्गवेन ॥


 इति साहित्यसारे द्वितीयः प्रकाशः