सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/विधर्म

विकिस्रोतः तः
विधर्मसामनी.
विधर्मसामनी .

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। ४३० ।। ऋ. ९.१०९.१०

 

 (४३०।१) विधर्म सामनी द्वे । द्वयोः प्रजापतिः पंक्तिस्सोमः ॥
ओहोऽ६वा । ओहोऽ३वा । ओहोऽ२वाऽ२३४ औहोऽ६वा । पवस्वसोम ॥ महेदक्षाय ॥ अश्वोननिक्तः॥ वाऽ२जीधनाऽ२याऽ२३४ । ओहोऽ६वा ॥ ओहोऽ३वा । ओहोऽ२वाऽ२३४ओहोऽ६वा ॥ एऽ३ । विधर्माऽ२३४५ ॥
(दी० १५ । प० १२ । मा० ३ )२१ (फि । ७५४ )

(४३०।२) ॥ धनसाम ॥
पवस्वसोमा॥ महेदऽ३क्षायाऽ२॥ अश्वोननिक्तोऽ२३ ॥ वाजाऽ३४। औहोवा । धनाऽ३याऽ२३४५॥
(दी० ६ । प० ६ । मा० नारित )२२ (क् । ७५५)


[सम्पाद्यताम्]

टिप्पणी

विधर्म (ऊहगानम्)

धर्मधाम (ग्रामगेयः)

धर्म (ऊहगानम्)