वीङ्कानि (ग्रामगेयः)
वीङ्कं भवति
च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत् सोऽजीर्यत् तमेतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानमकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं काममेवैतेनावरुन्धे। चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय - तांब्रा. १४.६.१०