सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/तृतीयं वैदन्वतम्

विकिस्रोतः तः
तृतीयं वैदन्वतम्.
तृतीयं वैदन्वतम्

१७
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥ १०९३ ॥ ऋ. ९.१८.१
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥ १०९४ ॥
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥ १०९५ ॥


९. तृतीयं वैदन्वतम् ।। विदन्वान्भार्गवः । गायत्री । पवमानस्सोमः ।।

पाऽ५रि । स्वानोऽ३इगाऽ३इरिष्ठाः ।। पवित्रेसो । मोअ्क्षरात् ।पवित्रे । सोमोऽ२३ । क्षारात् ।। श्रीः ।। तूऽ५वम् । विप्राऽ३स्तूऽ३वंकवाइः ।। मधुप्रजा । तमन्धसाः । मधुप्रजा । तमाऽ२३ । धासाः ।। श्रीः ।। तूऽ५३ । विश्वेऽ३साऽ३जोषसाः । देवासᳲपाइ । तिमाशता । देवासᳲपी । तिमाऽ२३ । शाता । ओइ । मदौ । वाऽ३४३ओऽ३४वा ।। षुवा ।। सर्वधाः । असाइ । माऽ२इदाऽ२३४औहोवा ।। एऽ३ । षुसर्वधाअसीऽ२३४५ ।।

दी. १७. उत् ९. मा. १८.झै. ।।१०९।।

टिप्पणी

वैदन्वतानि (ग्रामगेयः)

अथ त्रीणि वैदन्वतानि। शर्यातो वै मानवः प्राच्यां स्थल्याम् अयजत। तं हर्षयो याजयांचक्रुः। तद् उभये देवमनुष्यास् सोमं समपिबन्। तद् उभयैर् देवमनुष्यैर् उत्तमं सोमस् संपीतः। तस्मिंश् च्यवनो भार्गवो ऽश्विभ्यां ग्रहम् अगृह्णात्। तम् इन्द्रश् चमसम् अवागृह्णात् - को ऽयम् अज्ञातश् चमसः प्रचरतीति। तस्य विदन्वान् भार्गवः प्रत्यहन्, कस् तं चमसं मीमांसितुम् अर्हति यं वयं प्रयच्छेमेति॥जैब्रा. ३.१५९

ते देवा अक्रुध्यन्न्, अक्रुध्यन्न् ऋषयः। ते नवनवतयो मरुत ऋष्टिहस्ता अतिष्ठन्न् - इदानीम् इदं पर्याकरिष्यामो ऽथेदं सर्वं मर्दिष्यत इति। अथ ह ऋषयो मदम् आसुरम् उदाह्वयन्। स उत्तृन्दन्न् एवान्तरिक्षं शीर्ष्णाभ्यधात्। सा महती समद् आसीत्। सो ऽग्निर् इन्द्रम् अब्रवीद् व्येतु ते क्रोध श्रेयांसो वा एते ऽस्मत्। यदि वा एतान् क्रोधयिष्यति नेह किं चन परिशेक्ष्यते। एतेभ्यो वै वयं जातास्म इति। तस्याग्निर् एव क्रोधं व्यनयत्। स इन्द्रो वीतक्रोधस् सह देवैः प्राद्रवत्। तेषाम् अपेन्द्रो ऽपदेवो यज्ञो ऽभवत्। ते ऽकामयन्त - सेन्द्रो नस् सदेवो यज्ञ स्याद् इति। स एतानि विदन्वान् भार्गवस् सामान्य् अपश्यत्। तैर् अस्तुत। तैर् इन्द्रम् आह्वयत्। तैर् अस्य क्रोधं व्यनयत्। ततो वै तेषाम् इन्द्रो यज्ञम् उपावर्तत। तत एभ्यो ऽनपक्रम्याभवत्। तत एषां सेन्द्रस् सदेवो यज्ञो ऽभवत्। तानि वा एतानि सेन्द्राणि सदेवानि सामानि। सेन्द्रो हास्य सदेवो यज्ञो भवत्य्, अभ्य् अस्येन्द्रो यज्ञम् आवर्तते, नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। पशवो ह खलु वै विदन्वन्त, एता ऋचो विदन्वतीः। तास्व् एतम् ऋषभं वैदन्वतम् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। यद् उ विदन्वान् भार्गवो ऽपश्यत् तस्माद् वैदन्वतानीत्य् आख्यायन्ते॥जैब्रा ३.१६०