सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/सुज्ञानम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
सुज्ञानम्
सुज्ञानम्

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥ ऋ. ९.१०६.१


७. सुज्ञानम् ।। इन्द्रः । उष्णिक् । पवमानः सोमः ।
इन्द्रमच्छा ।। सुताइमाइ । वृषणांयाऽ२ । तुहरयाः ।। श्रुष्टे जाताऽ२ ।। सइ । दाऽ२वाऽ२३४औहोवा ।। सुवर्विदएऽ३उपाऽ२३४५ ।।

दी. ४. उत्. ५. मा. ७ ने. ।।४७।।

[सम्पाद्यताम्]

टिप्पणी

इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः। श्रुष्टे जातास इन्दव स्वर्विदः॥ इत्य् ऋचा वै पूर्वम् अह स्वर्वत् क्रियते, साम्नैतत्। राथन्तरं हि पूर्वम् अहर्, बार्हतम् एतत्॥ - जै.ब्रा. ३.३०

तासु सुज्ञानं । देवान् वा असुरा व्यवह्वारम् अजिघांसन् यद् रूपं देवानाम् आसीत् तेन रूपेणानुप्रविश्य - तेषां ह देवानां ये ऽरण्ये स्वाध्यायं चेरुर्, ये ग्राम आसुस्, तेषां तान् रूपेण जिघांसांचक्रुः। अथ ये ग्राम आसुर्, ये ऽरण्ये स्वाध्यायं चेरुर्, तेषाम् उ तान् रूपेण जिघांसांचक्रुः। तान् हैव व्यवंह्वारं जिघांसां चक्रुः। तद् देवाः प्रत्यबुध्यन्त। ते ऽब्रुवन् - संवाचनं करवामहा इति। ते संवाचनम् अकुर्वत - यं पृच्छाम चरन्तं कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीत्य एव स ब्रूताद् इति। ते ह स्म यं पृच्छन्ति चरन्तं - कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीति ह स्मैवाह। सुज्ञानो ऽसीति ह स्माहुः। तद् एव सुज्ञानस्य सुज्ञानत्वम्। तत् संज्ञानं वा एतत् साम। संज्ञानम् एवास्मै तेन भवति, येन कामयते ऽनेन संजानीयेति, य एवं वेद। तेषाम् उ यो य एव पृष्टो न प्रत्यमनुत, तस्यैतद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। देवा वै स्वर्गं लोकं यन्तो ज्ञानाद् अबिभयुः। ते ऽकामयन्त ज्ञानम् आविर्भावं गच्छेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ज्ञानम् आविर्भावम् अगच्छन्। ज्ञानम् आविर्भावं गच्छति य एवं वेद। - जैब्रा ३.३१

रोहितकूलीयम्

श्रुध्यम्

सुज्ञानम्

पौष्कलम्

पदे (ग्रामगेयः)