सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/पाष्ठौहम्

विकिस्रोतः तः
पाष्ठौहम्
पाष्ठौहम्
पाष्ठौहम्

१४
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत् ॥८६९ ॥ ऋ. ९.३३.४
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
मर्जयन्तीर्दिवः शिशुं ॥ ८७० ॥
रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणः ॥ ८७१ ॥
२० पाष्ठौहम् ।। पष्ठवाट् । गायत्री । पवमानः सोमः ।



तिस्रोवाचोऽ२उदीरताइ ।। गावोमिमन्तिधेनवः । हरिराऽ२३इती ।। कनौऽ२ । हुवाइ । होऽ३वाऽ३ ।। क्राऽ२दाऽ२३४औहोवा ।।श्रीः।। अभिब्रह्माऽ२इरनूषता ।। यह्वीर्ऋतस्यमातरः । मर्जयाऽ२३न्तीः ।। दिवौऽ२ । हुवाइ । होऽ३वाऽ३ ।। शाऽ२इशाऽ२३४औहोवा ।। श्रीः ।। रायस्समूऽ२द्राꣳश्चतुराः ।। अस्मम्यꣳसोमविश्वताः । आपवाऽ२३स्वा ।। सहौऽ२ । हुवाइ । होऽ३वा३ ।। स्राऽ२इणाऽ२३४औहोवा ।। हाओवा । ओवाऽ२३४५ दी. २०. उत्. ७. मा. १८. फै. ।।६०।।


[सम्पाद्यताम्]

टिप्पणी

तृतीयेऽहनि आर्भवपवमानस्याद्यतृचस्यानुपूर्व्वकथनं -- तिस्रो वाच उदीरत इति तृतीयस्याह्नो रूपं तेन तृतीयमहरारभन्ते। उद्वद्वा एतत् त्रिवदहर्यत् तृतीयं तदेव तदभिवदति - तांब्रा. १२.५.१

तिस्रो वाच उद् ईरत इत्य् आर्भवस्य पवमानस्य गायत्र्यो भवन्ति तृतीयस्याह्नो रूपम्। तेनैव त्रीण्य् अहानि कल्पन्ते। गावो मिमन्ति धेनवः। हरिर् एति कनिक्रदत्॥ इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। अभि ब्रह्मीर् अनूषतेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। राये समुद्रांश् चतुर इति चतुर्थस्यैवाह्नः प्रजात्यै। अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिण इति यद् वै शतवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ पाष्ठौहम्। पाष्ठौहीर् आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतद् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ पाष्ठौहीर् आङ्गिरसो ऽपश्यत् तस्मात् पाष्ठौहम् इत्य् आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च - हो ये हो वा हा हो इत्य् एवैतेनाङ्गिरसो ऽह्वयन्। हा ओ वा ओ वा इत्य् अनेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। - जै.ब्रा. ३.५१


पाष्ठौहे द्वे (महि त्रीणां इति) (ग्रामगेयः)