सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/नौधसम्

विकिस्रोतः तः
नौधसम्.
नौधसम्

नोधा गौतमः। बृहतीसतोबृहत्यौ (प्रगाथः) इन्द्रः ।
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ ६८५॥ ऋ. ८.८८.१
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥ ६८६ ॥
धा. ११. उ. न. स्व. ४. ही. ॥१३॥



६. नौधसम्। नोधाः । बृहती। इन्द्रः।
ताऽ२३४म् । वोदस्ममृती । षाहाम् ॥ वसोर्मन्दा। नाऽ३ मान्धाऽ३साः। आ ऽ२३भी। वात्सन्न। स्वस । राइ। षूधेना ऽ२३४वाः।। आऽ२३इन्द्राम् ॥ गाइभिर्नवोऽ२३४वा ॥ माऽ२३४हे ॥ श्रीः ॥ आऽ२३४इ। द्रंगीर्भिर्नवा । माहाइ ॥ इन्द्रंगीर्भाइः । नाऽ३वामाऽ३हाइ । द्यूऽ२३क्षाम् । सुदानुम् । तवि । षाइ । भाइरावाऽ२३४र्ताम् ॥ गाऽ२३इरीम् ॥ नपुरुभोऽ२३४वा ॥ जाऽ२३४साम् ॥ श्रीः ॥ गाऽ२३४इ । रिन्नपुरुभो । जासाम् ॥ गिरिन्नपू । रूऽ३भोजाऽ३साम् । क्षूऽ२३मा । तंवाजम् । शति । नाम् । साहस्राऽ२३४इणाम् ॥ माऽ२३क्षू ॥ गोमन्तमोऽ२३४वा ॥ माऽ२३४हे ॥
दी. ९. उत्. ३. मा. २८. दै.॥६॥


[सम्पाद्यताम्]

टिप्पणी

प्रजापतेर्नाविकम्


इमौ वै लोकौ सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम् इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम् अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥ मेनामेनं वाव ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बृहद्रथन्तरयोर् ह वा एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां विवहावहा इति॥जैब्रा 1.145॥ पदनिधनं ह वा अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम् अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥ रथन्तरेण स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥ बृहता स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान् जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद॥जैब्रा 1.146

दस्मोपरि टिप्पणी

अन्धकोपरि टिप्पणी

नौका उपरि टिप्पणी