सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/कावम्

विकिस्रोतः तः
कावम्
कावम्

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७०० ॥ ऋ. ९.७५.१
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥ ७०१ ॥
अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।
अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ ७०२ ॥



१३. कावम् ॥ कुत्सः। जगती । पवमानः सोमः।।
अभ्योवा ॥ प्रियाणिपवताइ । चनोहाइताऽ२ः । नामानियह्वोअधियाइ । षुवर्घाताऽ२इ । आसूर्यस्यबृहतो। बृहन्नाधीऽ२३ ॥ राथा३म्वाइष्वा ॥ चमरूहाऽ२३त् । वाइचाऽ३क्षाऽ५”णाऽ६५६: ॥ श्रीः ॥ ऋतोवा ॥ स्यजिह्वापवताइ । मधुप्रायाऽ२म् । वक्तापतिर्धियोअस्याः । अदाभायाऽ२ः । दधातिपुत्रᳲपित्रोः । अपीचायाऽ२३म् । नामाऽ३तार्ती ॥ यमघाइरोऽ२३ । चानाऽ३न्दाऽ५इ”वा६५६ः ॥ श्रीः ॥ अवोवा । द्युतानःकलशꣳ । अचिक्रादाऽ२त् । नृभिर्येमाणᳲकोशआ । हिरण्यायाऽ२इ । अभीऋतस्यदोहनाः । अनूषाताऽ२३॥ आधीऽ३त्राइपा ॥ ष्ठउषासोऽ२३ । वाइराऽ३ जाऽ५"साऽ६५६इ ॥ दी. २०. उत् . १६. मा. २९. पो. ॥१३॥

[सम्पाद्यताम्]

टिप्पणी

कावम् (ग्रामगेयः)


अथैता भवन्ति अभि प्रियाणि पवते चनोहितः इति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एताभिर् एवर्ग्भिः प्राणान् अदधात्। अभि प्रियाणि पवते चनोहितः इति। प्रजायै वै प्रियंश्ना अभि इत्य् एव प्राणेनाभ्यपवत। नामानि यह्वो अधि येषु वर्धते इति। महा वै प्रजानामानि। आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः इति। प्राणो वै विष्वङ्। सो ऽयं विष्व् अञ्चति। ता एता आयुष्या ऋचः। सर्वम् आयुर् एत्य् एताभिर् ऋग्भिस् तुष्टुवानःः॥

तासु कावम्। कविर् वै भार्गवो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतत् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। यद् उ कविर् भार्गवो ऽपश्यत् तस्मात् कावम् इत्य् आख्यायते॥

तत् स्वारं भवति। स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयत ऋक्साम पवमानान्ते भवति। नर्चा सामानि रेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवन्ति तद् एतस्यैव समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात् पवमानान्ते। तस्माद् उभयतः प्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥ - जैब्रा १.१६६

अथ यद् वो ऽवोचं स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेतेत्य्, औशनकावे एव वस् तद् अवोचम् इति। एष ह वै स्वर्गस्य लोकस्य पन्था अञ्जसायनो यद् औशनकावे। औशनं पुरस्ताद् भवति कावम् उपरिष्टात्। ताव् एतत् पितापुत्राव् एव नावम् अजतः। - जैब्रा २.४२१

पृष्ठ्यषडहस्य प्रथमे अहनि आर्भवपवमाने अस्य साम्नः विनियोगः अस्ति (आर्षेयकल्पः उपोद्घातः पृ. ६६)

आर्षेयकल्पे (अध्यायः ६, पृ. २९५) अप्तोर्यामस्य तृतीयसवने सूर्यवतीषु कावम् साम्नः गानस्य निर्देशमस्ति, किन्तु गार्गेयपुरण्, कर्नूलमध्ये यस्य ज्योतिअप्तोर्यामसोमयागस्य अनुष्ठानमभवत्, तस्मिन् तस्य स्थाने अस्य साम्नः गानमभवत्।