सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः २/औशनम्(इनोरा)

विकिस्रोतः तः
औशनम्

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६ ॥ ऋ. १०.३.१
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां ।
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७ ॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥१५४८ ॥


२०. औशनम् ॥ उशनाः। त्रिष्टुप् । अग्निः॥

आइनाः ॥ राजन्नरताइः। समाऽ३इद्धाः । राजानरताइः । समाऽ३इद्धाः । रौद्रोदक्षा । याऽ३सुषु । मꣲअदर्शी। चिकिद्विभातिभासा । बृहाऽ२३ता ।। असिक्नीमाइ । तीऽ३रुश । तीऽ३४३म् । आऽ३पाऽ५जाऽ६५६न् ।।श्रीः।। कार्ष्णाम् ।। येदेनीमभिवा । पसाऽभूत् । जनयन्यो । षाऽ३म्बृह। तᳲपितुर्जाम् ॥ ऊर्ध्वंभानुꣲसूर्यस्या। स्तभाऽ२३यान् ॥ दिवोवसू । भीऽ३रर । ताऽ३४३इः । वाऽ३इभाऽ५”ताऽ६५६इ ।। श्रीः भाद्राः॥ भद्रयासचमा। नआऽ३गात् । स्वसारञ्जा। रोऽ३अभि। ॥ एतिपश्चात् ॥ सुप्रकेतैर्द्युभिरग्नाइः। विताऽ२३इष्ठान् ॥ रुशद्भिर्वा । णैऽ३रभि । राऽ३४३ । माऽ३माऽ५”स्थाऽ६५६त् ।।

दी. १७. उत् . ६. मा. ३२. चा.॥४१४।।

[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४