सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/मार्गीयवम्

विकिस्रोतः तः
मार्गीयवम्
मार्गीयवम्.

तद्वो गाय सुते सचा पुरुहूताय सत्वने।
शं यद्गवे न शाकिने॥ १६६६ ऋ. ६.४५.२२
न घा वसुर्नि यमते दानं वाजस्य गोमतः।
यत्सीमुपश्रवद्गिरः॥ १६६७
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
शचीभिरप नो वरत्॥ १६६८










६ मार्गीयवम् ।। मृगयुः । गायत्री । इन्द्रः ।।

तद्वौहोवा ।। गायाऽ२ । सुताइसाऽ२३४चा । पुरुहूता । यसात्वाऽ१नाऽ२इ ।। शंयत् । हा । औऽ३होइ । गाऽ२३४वाइ ।। नाऽ२शाऽ२३४औहोवा ।। एऽ३ । किनेऽ२३४५ ।।श्रीः।। नघौहोवा ।। वासूऽ२ः । नियामाऽ२३४ताइ । दानंवाज । स्यगोमाऽ१ताऽ२ः ।। यत्सीम् । हा । औऽ३होइ । ऊऽ२३४पा ।। श्राऽ२वाऽ२३४औहोवा । एऽ३ । गिराऽ२३४५ः ।। श्रीः ।। कुवौहोवा ।। सास्यऽ२ । प्रहिव्राऽ२३४जाम् । गोमन्तन्द । स्युहागाऽ१माऽ२त् ।। शची । हा । औऽ३होइ । भाऽ२३४इरा ।। पाऽ२नाऽ२३४औहोवा ।। एऽ३ । वराऽ२३४५त् ।।

दी १६. उत्. ६. मा. १९. को. ।।५३८।।


[सम्पाद्यताम्]

टिप्पणी

द्र. मार्गीयवम् (ग्रामगेयः)

अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥जैब्रा ३.२१२

सर्वजित्यृषभे मरुत्स्तोमे साहस्रान्त्ये तद्वो गाय सुते सचा वयमेनमिदा ह्य इति - वैतानश्रौतसूत्रम् ३९.१८