सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/वैरूपाणि

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वैरूपाणि.
वैरूपाणि१.
वैरूपाणि२.
वैरूपाणि३.

यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। २७८ ।। ऋग्वेदः ८.७०.५

 











( १।१ ) ॥ अष्टौ वैरूपाणि ( अञ्जो वैरूपम् ) । वैरूपो बृहतीन्द्र इन्द्रसूर्यौ वा । ।
ओम् ॥ यद्यावई । द्रताऽ३१उवाऽ२३ । शाऽ२३४ताम् । हाहाऽ३१उवाऽ२३ । ईऽ२३४डा । शतंभूमीः । उताऽ३१उवाऽ२३ । सीऽ२३४यूः । हाहाऽ३१उवाऽ२३ । ईऽ२३४डा । नत्वावज्रिन्त्सहस्रꣳसू । रियाऽ३१उवाऽ२३॥ आऽ२३४नू । हाहाऽ३१उवाऽ२३ । ईऽ२३४डा । नजातम । ष्टरोऽ३ । आउ । वाऽ२३ । दाऽ२३४सी । हाहाऽ३१उवाऽ२३॥ इट्स्थिइडाऽ२३४५ ॥*
(दी० १० । प० २२ । मा० १३ )१(फि । १)

  • इडाइत्यत्र इकारस्य मात्रा नास्ति तद्विषये प्रमाणम् ।

व्यञ्जनं यत्र मात्रा स्यात् स्थिते पर्वणि तत्परः ॥ स्वरो न पर्वमध्योऽपि तन्निदर्शनमिट् इडा॥१॥


(१।२) ॥ ह्रस्वावैरूपम्।
यद्यावइन्द्रतेशतम् । ए । शतंभूमीरुत । स्योवा ॥ नात्वावज्रिन् । सहस्रꣳसूरियाऽआनूऽ२ ॥ नाजाऽ२तमा॥ ष्टरोऽ२३ । दाऽ२साऽ२३४औहोवा ॥ दिशंविशꣳहस् । अश्वाशिशुमतीऽ३ । इट्स्थिइडाऽ२३४५॥
(दी० १० । प० १२ । मा० ७ )२( फे। २)



(१।३)
॥ पञ्चनिधन वैरूपम् ॥
यद्यावइन्द्रतेशतम् । ए। शतंभूमीरुत । स्योवा॥ ओवाऽ२ । हꣳऽ२ । हऽꣳ२ । हꣳऽ२ । ओवाऽ३ । हाउवा । नत्वावज्रिन्त्सहस्रꣳसूर्याअनु । ओवाऽ२ । हꣳऽ२ । (त्रिः)। ओवाऽ३ । हाउवा । नजातमष्टरोदसी॥ ओवाऽ२ । हꣳऽ२ । ( त्रिः)। ओवाऽ३ । हाउवा । दिशंविशꣳहस् ॥ ओवाऽ२ । हꣳऽ२ । (त्रिः)। ओवाऽ३ । हाउवा । अश्वाशिशुमती । ओवाऽ२ । हꣳऽ२ । (त्रिः) । ओवाऽ३॥ हाउ(३)वाऽ३ । इट्स्थिइडाऽ२३४५ ॥
(दी० २३ । प० ३९ । मा० १० )३( ढौ । ३)


(१।४) ॥ षष्णिधनं वैरूपम् ॥
यद्यावइन्द्रतेशतम्। ए। शतंभूमीरुत । स्योवा ॥ हाउहाउहाउवा।
नत्वावज्रिन्त्सहस्रꣳसूर्याअनु। हाउ(३)वा । नजातमष्टरोदसी । हाउ(३)वा।
दिशंविशꣳहस्॥* हाउ(३)वा ॥ अश्वाशिशुमती । हाउ(३)वा । युवतिश्चकुमारिणी। हाउ(३)वाऽ३॥ इट्स्थिइडाऽ२३४५॥
दी० १५ । प० १६ ! मा० २३ )४(पि । ४ )

  • हाउ(३)वा = हाउहाउहाउवा इत्येवंं स्तोभस्य त्रिवारपठनं सर्वत्र ज्ञातव्यम्।

(१।५) ॥ सप्तनिधनं वैरूपम् ॥
यद्यावइन्द्रतेशतम् । ए। शतंभूमीरुत । स्योवा । हाउ(३)वा । नत्वावज्रिन्त्सहस्रꣳ सूर्याअनु । हाउ(३)वा । नजातमष्टरोदसी । हाउ(३)वा । दिशंविशꣳहस्॥ हाउ(३)वा । अश्वाशिशुमती । हाउ(३)वा । सूवः । हाउ(३)वा । ज्योतिः॥ हाउहाउहाउवाऽ३ । इट्स्थिइडाऽ२३४५॥
(दी०१५। प. १८ । मा० २८)५(बै।५)


(१।६) ।।अष्टा निधनं वैरूपम् ॥
यद्यावइन्द्रतेशतम् । ए। शतंभूमीरुत । स्योवा ।। हाउ(३)वा ! नत्वावज्रिन्सहस्रꣳसूर्याअनु । हाउ(३)वा । नजातमष्टरोदसी । हाउ(३)वा । दिशंविशꣳहस् ॥ हाउ(३)वा ॥ अश्वाशिशुमती । हाउ(३)वा । युवतिश्चकुमारिणी ॥ हाउ(३)वा । सूवः । हाउ(३)वा । ज्योतिः । हाउहाउहाउवाऽ३ ॥ इट्स्थिइडाऽ२३४५ ॥
( दी० १७ । प० २० । मा० ३१ )६( ञ । ६)
 

(१।७) ॥ द्वादश निधनं वैरूपम् ॥
यद्यावइन्द्रतेशतम् । ए। शतंभूमीरुत । स्योवा ।। ओहहाउहाउ । ओहहाउवा । नत्वावज्रिन्त्सहस्रꣳसूर्याअनु । ओहाओहा । ओहाओहा । ओहाओहाऽ३ । हाउवा । नजातमष्टरोदसी । ओहहाउहाउ । ओहहाउवा । दिशंविशꣳहस् । ओहाओहा । ओहाओहा । ओहाओहाऽ३ । हाउवा।। अश्वाशिशुमती । ओहहाउहाउ । ओहहाउवा । सूवाः। ओहाओहा । ओहाओहा । ओहाओहाऽ३ । हाउवा । ज्योतिः । ओहहाउहाउ । ओहहाउवा । ईडा । ओहाओहा । ओहाओहा । ओहाओहाऽ३ ! हाउवा । इट्स्थिइडा । ओहहाउहाउ । ओहहाउवाऽ३॥ हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५।।
(दी० ६८ ॥ प० ४२ । मा० ३८ ) (ठ्रै । ७ )

(१।८) ॥ पुष्यम् वैरूपम् ॥
यद्यावइन्द्रतेशतम् । ए। शतंभूमीरुत । स्योवा॥ हाओवा । (द्विः)। हुवे । हाओवा । हुवे । हाओऽ२३४वा । नत्वावज्रिन्त्सहस्रꣳसूर्याअनु । हाओवा । [ त्रिः] । हुवे । हाओवा । [ द्वे द्विः ] । हुवे । हाओऽ२३४वा । नजातमष्टरोदसी । हाओवा ( चतुः) । हुवे । हाओवा । [ द्वे चतुः ] ॥ नाजातमष्टरोदसाइ । ऐहोइ । आऽ२३४इही । (त्रीणिएवंचतुः ॥ हाओवा । (पञ्चकृत्वः) । हुवे । हाओवा । [ द्वे पञ्चकृत्वः] हैहैहैहोवाऽ३ । हाउवाऽ३॥ ऊऽ२३४५ ॥
(दी० ११५ । प० ६३ । मा० ४४ )८(बीं । ८ )
 
 
 
 

[सम्पाद्यताम्]

टिप्पणी

पञ्चनिधनं वैरूपम्

महावैष्टम्भम् (ऊहगानम्)

वैरूपाणां साम्नां एकं विनियोगं दशरात्रे वैरूपसंज्ञके तृतीये अहनि अस्ति। अस्य अह्नः लक्षणं अथवा लक्ष्यं - अभ्राणि संप्लवन्त इति भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् (आर्षेयकल्पः उपोद्घातः पृ. ७०)। । शतपथब्राह्मणे १.५.२.१८ कथनमस्ति - ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् । अयं संकेतमस्ति यत् अभ्राणां संप्लावनात् पूर्वं ये कृत्याः अपेक्षिताः सन्ति, यथा पुरोवातस्य वहनं, तेषां सम्पादनं प्रथमे एवं द्वितीये अहनि कृतमस्ति। अभ्राणां संप्लावनान्तरं वृष्ट्यै विद्युत् एवं स्तनयित्नोः अपेक्षा भवति। तेषां संपादनं तृतीयाह्नस्य उपरि ये अहानि सन्ति, तेषु भविष्यति। अष्टौ वैरूपेषु सामेषु द्वितीयतः सप्तम् साम्नां पर्यन्तं अश्वा शिशुमती शब्दयोः समावेशं अस्ति। यः साम्नां मूलं अस्ति, तत्र एतयोः शब्दयोः अस्तित्वं नास्ति। वाजसनेयि संहिता २१.३३ मध्ये सौत्रामणीयागस्य संदर्भे अश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इति उल्लेखमस्ति। सरस्वती धेनुः अस्ति, न अश्वा। अश्वा कः अस्ति, अयं स्पष्टं नास्ति । अश्वा शिशुमती अस्ति। शिशोः पालनस्य आवश्यकता अस्ति। किमयं चन्द्रमसः रूपमस्ति, विचारणीयः। पुराणेषु कथनाः सन्ति यत् अस्याः पृथिव्याः अर्धं शशमस्ति, अर्धं पिप्पलम्। पिप्पलः क्रियायां निहितः अस्ति, शशः क्रियातः मुक्तः अस्ति।

पुराणेषु तृतीयातिथेः माहात्म्ये सौभाग्याष्टकद्रव्याणां संपादनस्य निर्देशमस्ति। पुराणेषु तृतीया तिथिः एवं सोमयागे पृष्ठ्यषडहस्य तृतीयमहनिमध्ये कः साम्यमस्ति। पृष्ठ्यषडहे तृतीये अहनि अभ्राणां संप्लावनं भवति, पुराणेषु तृतीयातिथौ तेषां द्रावणं। पुराणेषु अभ्रोपरि संदर्भाः द्रष्टव्याः सन्ति।