सम्भाषणसन्देशलेखाः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्युक्तदिशा आदशसहस्रात् वर्षेभ्यः संस्कृतभाषा सनातनभारतीयपरम्पराम् प्रभावयन्ती वर्तते । अनया भाषया अनेकानि काव्यानि अनेके च शास्त्रग्रन्थाः विरचिताः । किन्तु गच्छता कालेन अनवधानेन, आत्मविस्मृत्या, आङ्ग्लजनानां शिक्षणस्य प्रभावेण च जनाः संस्कृते अरुचिं प्रादर्शयन् । जनसामान्यानां व्यवहारभाषा केवलं विदुषां वाक्यार्थगोष्ठ्यामेव अवशिष्टा । जनानाम् अनादरपात्रभूताम् एतां गीर्वाणभाषां पुनरुज्जीवयितुम् आरब्धा संस्कृतभारतीसंस्था त्रिंशदा वर्षेभ्यः संस्कृतस्य कार्यं कुर्वती वर्तते ।

जनेभ्यः संस्कृते विद्यमानं ज्ञानं संस्कृतस्य विचारांश्च प्रापय्य जनान् जागरयितुम् अनेकाः पत्रिकाः आरब्धाः । यथा सुधर्मा, चन्दमामा इत्यादयः । एतासु पत्रिकासु प्राधान्यं भजते १९९४ तमे सेप्टेम्बर्मासे आरब्धः सम्भाषणसन्देशः

अस्मिन् सम्भाषणसन्देशे प्रकाशिताः केचन लेखाः अधः प्रदत्ताः सन्ति ।

  1. संस्कृते भाषाशुद्धिः - भाषाशुद्धिः किन्निमित्तम् ? कथं सम्पादनीया ?
  2. किं वयं निष्कपटा: ? - जनसमूहस्य नेत्रोन्मीलिका काचित् समीक्षा ।
  3. फलप्राप्तिपर्यन्तम्... - लक्ष्यप्राप्तिपर्यन्तं क्रियावता भवितुं केचन उपायाः ।
  4. विश्वौषधसंस्थानाम् आक्रमणम् - विश्वौषधसंस्थानैः किं भारतस्य उपरि आक्रमणं क्रियते ?
  5. मरुभूमिं नन्दनवनं कर्तुम्..... - काचित् अपूर्वा साहसगाथा ।
  6. वेदेषु विज्ञानम् - वेदेषु निहिताः केचन विज्ञानसम्बन्धिनः विषयाः ।
  7. अहल्याकथा कृषिविज्ञानगर्भा - अहल्योद्धारकथायाः गूढार्थः ।
  8. तक्षशिलायाः उपनगरम् – जालियन् - प्राचीनकालीनम् अध्ययनकेन्द्रम् ।
  9. पक्षिणाम् उड्डयनक्रियाविन्यासः - उड्डयनविन्यासस्य वैज्ञानिकपरिचयः ।
  10. मङ्गोपिरप्रदेशे मकरपूजा - कराचीसमीपे मङ्गोपिरे प्रचाल्यमानायाः मकरपूजायाः विवरणम् ।
  11. गर्भस्थशिशुशास्त्रम् - प्राचीनभारतीयवैद्यशास्त्रे गर्भस्थशिशुशास्त्रम् ।
  12. ’सैनिकबकः’ नूतने क्षेत्रे… - विशिष्टस्य कस्यचन पक्षिणः परिचयः ।
  13. गजः उवाच - परिसरसंरक्षणसम्बद्धः लेखः ।
  14. प्रतिभाशालिना कथं भाव्यम् ? - व्यक्तित्वविकाससम्बद्धः लेखः ।
  15. एतादृशाः अंशाः किमर्थं न बोध्यन्ते ? - भारतदेशविषये ज्ञातव्याः अंशाः केचन ।
  16. विनाशः अरालसरोवरस्य - कजकस्थाने स्थितस्य सरोवरस्य विनाशगाथा ।
  17. अर्थशास्त्रप्रकाशनस्य शततमं वर्षम् - ग्रन्थसम्पादकस्य श्यामशास्त्रिणः विषये लेखः ।
  18. मौल्यव्यवस्था - प्राचीनमानानां विषये अपूर्वं विवरणं किञ्चित् ।
  19. माध्यमानाम् उपयोगः - संस्कृतप्रचारसम्बद्धः लेखः ।
  20. गम्यतां, जगत् आलिड्ग्यताम् - व्यक्तित्वविकाससम्बद्धः लेखः ।
  21. अवग्रहस्य उच्चारणं कथं कर्तव्यम् ? - व्याकरणसम्बद्धः लेखः ।
  22. गौः अवध्या सदा वन्द्या - गोसम्बद्धः लेखः ।
  23. शिक्षकाधीनं संस्कृतम् - संस्कृतप्रचारसम्बद्धः लेखः ।
  24. सस्येषु संवेदनशक्तिः - विज्ञानसम्बद्धः लेखः ।
  25. अद्य धारा निराधारा… निरालम्बा सरस्वती… - इतिहाससम्बद्धः लेखः - सरस्वतीमन्दिरस्य दुरवस्था ।
"https://sa.wikisource.org/w/index.php?title=सम्भाषणसन्देशलेखाः&oldid=41184" इत्यस्माद् प्रतिप्राप्तम्